च.सू.५.९५-१०२

विकिपुस्तकानि तः
Jump to navigation Jump to search

काम्यं यशस्यमायुष्यमलक्ष्मीघ्नं प्रहर्षणम्।श्रीमत् पारिषदं शस्तं निर्मलाम्बरधारणम्॥९५
वृष्यं सौगन्ध्यमायुष्यं काम्यं पुष्टिबलप्रदम्।सौमनस्यमलक्ष्मीघ्नं गन्धमाल्यनिषेवणम्॥९६
धन्यं मङ्गल्यमायुष्यं श्रीमद्व्यसनसूदनम्।हर्षणं काम्यमोजस्यं रत्नाभरणधारणम्॥९७
मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम्।पादयोर्मलमार्गाणां शौचाधानमभीक्ष्णशः॥९८
पौष्टिकं वृष्यमायुष्यं शुचि रूपविराजनम्।केशश्मश्रुनखादीनां कल्पनं सम्प्रसाधनम्॥९९
चक्षुष्यं स्पर्शनहितं पादयोर्व्यसनापहम्।बल्यं पराक्रमसुखं वृष्यं पादत्रधारणम्॥१००
ईतेः प्रशमनं बल्यं गुप्त्यावरणशङ्करम्।घर्मानिलरजोम्बुघ्नं छत्रधारणमुच्यते॥१०१
स्खलतः सम्प्रतिष्ठानं शत्रूणां च निषूदनम्।अवष्टम्भनमायुष्यं भयघ्नं दण्डधारणम्॥१०२

पदच्छेदः - काम्यं यशस्यम् आयुष्यम् अलक्ष्मीघ्नं प्रहर्षणम्।श्रीमत् पारिषदं शस्तं निर्मल-अम्बरधारणम्॥९५
वृष्यं सौगन्ध्यम् आयुष्यं काम्यं पुष्टिबलप्रदम्।सौमनस्यम् अलक्ष्मीघ्नं गन्धमाल्यनिषेवणम्॥९६
धन्यं मङ्गल्यम् आयुष्यं श्रीमद् व्यसनसूदनम्।हर्षणं काम्यम् ओजस्यं रत्न-आभरणधारणम्॥९७
मेध्यं पवित्रम् आयुष्यम् अलक्ष्मीकलिनाशनम्।पादयोः मलमार्गाणां शौचाधानम् अभीक्ष्णशः॥९८
पौष्टिकं वृष्यम् आयुष्यं शुचि रूपविराजनम्।केश-श्मश्रु-नख-आदीनां कल्पनं सम्प्रसाधनम्॥९९
चक्षुष्यं स्पर्शनहितं पादयोः व्यसनापहम्।बल्यं पराक्रमसुखं वृष्यं पादत्रधारणम्॥१००
ईतेः प्रशमनं बल्यं गुप्ति-आवरणशङ्करम्।घर्म-अनिल-रजः-अम्बुघ्नं छत्रधारणम् उच्यते॥१०१
स्खलतः सम्प्रतिष्ठानं शत्रूणां च निषूदनम्।अवष्टम्भनम् आयुष्यं भयघ्नं दण्डधारणम्॥१०२

अन्वयः -
निर्मल-अम्बरधारणं काम्यं, यशस्यम्, आयुष्यम्, अलक्ष्मीघ्नं, प्रहर्षणं, श्रीमत्, पारिषदं, शस्तम् अस्ति ॥९५
गन्धमाल्यनिषेवणं वृष्यं, सौगन्ध्यम्, आयुष्यं, काम्यं, पुष्टिबलप्रदं, सौमनस्यम्, अलक्ष्मीघ्नम् अस्ति।९६
रत्न-आभरणधारणं धन्यं, मङ्गल्यम्, आयुष्यं, श्रीमद् व्यसनसूदनं, हर्षणं, काम्यम्, ओजस्यम् अस्ति।९७
पादयोः मलमार्गाणां अभीक्ष्णशः शौचाधानं मेध्यं, पवित्रम्, आयुष्यम्, अलक्ष्मी-कलिनाशनम् अस्ति ॥९८
केश-श्मश्रु-नख आदीनां कल्पनं सम्प्रसाधनं पौष्टिकं, वृष्यम्, आयुष्यं, शुचि, रूपविराजनम् अस्ति।९९
पादत्रधारणम् चक्षुष्यं, स्पर्शनहितं, पादयोः व्यसनापहं, बल्यं, पराक्रमसुखं, वृष्यम् अस्ति। ॥१००
छत्रधारणम् ईतेः प्रशमनं, बल्यं, गुप्ति-आवरणशङ्करं, घर्म-अनिल-रजःअम्बुघ्नम् उच्यते॥१०१
दण्डधारणं स्खलतः सम्प्रतिष्ठानं, शत्रूणां च निषूदनम्, अवष्टम्भनम्, आयुष्यं, भयघ्नम् अस्ति।१०२

सरलार्थः -
निर्मलवस्त्रस्य धारणं काम्यं, यशस्यम्, आयुष्यम्, अलक्ष्मीघ्नं, प्रहर्षणं, श्रीमत्, पारिषदं, शस्तं च अस्ति।गन्धमाल्यनिषेवणं वृष्यं, सौगन्ध्यम्, आयुष्यं, काम्यं, पुष्टिप्रदं. बलप्रदं, सौमनस्यम्, अलक्ष्मीघ्नम् अस्ति।रत्न-आभरणधारणं धन्यं, मङ्गल्यम्, आयुष्यं, श्रीयुक्तं, व्यसन-नाशकं,हर्षणं, काम्यम्, ओजस्यम् अस्ति।पादयोः मलमार्गाणां च अभीक्ष्णशः शौचाधानं मेध्यं, पवित्रम्, आयुष्यम्, अलक्ष्मीनाशनं, कलिनाशनम् अस्ति।केश-श्मश्रु-नख आदीनां कल्पनं सम्प्रसाधनं पौष्टिकं, वृष्यम्, आयुष्यं, शुचि, रूपविराजनम् अस्ति।पादत्रस्य धारणम् चक्षुष्यं, स्पर्शनाय हितं, पादयोः व्यसनापहं, बल्यं, पराक्रमसुखं, वृष्यम् अस्ति।छत्रधारणम् ईतेः प्रशमनं, बल्यं, गुप्ति-आवरणशङ्करं, घर्मनाशकम् वातरोधकं, रजोरोधकं जलरोधकं च अस्ति। दण्डधारणं स्खलतः सम्प्रतिष्ठानं, शत्रूणां नाशकं, अवष्टम्भनम्, आयुष्यं, भयघ्नम् अस्ति।१०२

आयुर्वेददीपिका
श्रीमत् इति शोभायुक्तम्। परिषदि शस्तं पारिषदम्। शस्तं मङ्गल्यम्। व्यसनं सर्पपिशाचादि-अभिघातः। रत्नवत् आभरणानि, रत्नं तु विशुद्धमाणिक्यहीरकमुक्ताफलसुवर्णादि। शौचाधानं पानीयेन मृदा च। अभीक्ष्णशः पुनः पुनः। शुचि शुचिताकारकम्। कल्पनं छेदनं, सम्प्रसाधनं मण्डनम्; एतत् च यथायोग्यतया योजनीयं; केशानां प्रसाधनं सम्यक् बन्धन-आदि; श्मश्रूणां कल्पनम् एव, नखस्य तु कल्पनम् अलक्तक-आदिदानेन प्रसाधनं च। आदिग्रहणेन नासा-लोम-कल्पनादि गृह्यते। पादयोः इति स्पर्शनहितम् इति अनेन व्यसनापहम् इति अनेन च सम्बध्यते। पादत्रं पादध्री, पादुके इति यावत्। अत्र च वृष्यत्व-चक्षुष्यत्वे प्रभावात्; यदि वा पादसम्बद्धनेत्रपोषिकानाडी-प्रत्यवायहरणात् चक्षुष्यम्। ईती रोग-आदिदुर्दैवम्। गुप्तिः पिशाचादिभ्यो रक्षा, शङ्करं कल्याणकरम्। अवष्टम्भनं बलप्रदम्। भयघ्नं सर्प-आदिभ्यः॥९५-१०२

अरुन्धती पद्धतिः

कर्म फलम्
निर्मल-अम्बरधारणम् काम्यं यशस्यम् आयुष्यम् अलक्ष्मीघ्नं प्रहर्षणम्।श्रीमत् पारिषदं शस्तम्
गन्धमाल्यनिषेवणम् वृष्यं सौगन्ध्यम् आयुष्यं काम्यं पुष्टिबलप्रदम्।सौमनस्यम् अलक्ष्मीघ्नम्
रत्न-आभरणधारणम् धन्यं मङ्गल्यम् आयुष्यं श्रीमद् व्यसनसूदनम् हर्षणं काम्यम् ओजस्यम्
पादयोः मलमार्गाणां अभीक्ष्णशः शौचाधानम् मेध्यं पवित्रम् आयुष्यम् अलक्ष्मीकलिनाशनम्
केशानां सम्प्रसाधनम् पौष्टिकं वृष्यम् आयुष्यं शुचि रूपविराजनम्।
श्मश्रूणां कल्पनम् पौष्टिकं वृष्यम् आयुष्यं शुचि रूपविराजनम्।
नखानाम् कल्पनं सम्प्रसाधनं च पौष्टिकं वृष्यम् आयुष्यं शुचि रूपविराजनम्।
नासालोम्नां,शरीरलोम्नां च कल्पनम् पौष्टिकं वृष्यम् आयुष्यं शुचि रूपविराजनम्।
पादत्रधारणम् चक्षुष्यं स्पर्शनहितं पादयोः व्यसनापहम्।बल्यं पराक्रमसुखं वृष्यम्
छत्रधारणम् ईतेः प्रशमनं बल्यं गुप्ति-आवरणशङ्करम्।घर्म-अनिल-रजः-अम्बुघ्नम्
दण्डधारणम् स्खलतः सम्प्रतिष्ठानं शत्रूणां च निषूदनम्।अवष्टम्भनम् आयुष्यं भयघ्नम्

केशश्मश्रुनखादीनां कल्पने शुचि इति गुणः ग्रन्थकारेण उक्तः।शुचि इति पवित्रम्।केशादीनां कल्पनं स्वयं पवित्रम् अस्ति इति मुनेः अभिप्रायः अस्ति अथवा केशादीनां कल्पनं पावित्र्यजनकम् अस्ति इति मुनेः अभिप्रायः अस्ति?
पावित्र्यजनकम् अस्ति इति मुनेः अभिप्रायः अस्ति।
परं शुचिशब्दस्य सः अर्थः नास्ति।
सत्यम्। शुचिशब्दस्य मुख्यार्थः अत्र बाधितः।अतः एव चक्रपाणिना लक्ष्यार्थः आश्रितः-
शुचि शुचिताकरम्।-चक्रपाणिः
‘चक्षुष्यं स्पर्शनहितं पादयोः व्यसनापहम्’ इति सूत्रम्।तत्र ‘पादयोः’ इति पदस्य ‘व्यसनापहम्’ इति पदेन अन्वयः कार्यः, ‘स्पर्शनहितम्’ इति पदेन सह अपि अन्वयः कार्यः इति चक्रपाणिः सूचयति।यथा देहलीस्थितः दीपः उभयप्रकोष्ठयोः स्वप्रकाशं वितरति, तथा द्वयोः पदयोः मध्ये विद्यमानं ‘पादयोः’ इति पदं पूर्वोत्तरपदयोः अर्थयोः स्वार्थरूपं प्रकाशम् वितरति।
कुतोऽयं प्रयासः?पादयोः व्यसनापहम् इति एकः अन्वयः पर्याप्तः।स्पर्शनहितपदेन सह पादपदस्य अन्वयः मास्तु।
नैवम्।स्पर्शनं सर्वशरीरवृत्ति।परं पादत्रधारणं पादवृत्तिस्पर्शनेन्द्रियस्य एव पीडां हन्ति, न सर्वशरीरबृत्तेः स्पर्शनेन्द्रियस्य।अतः पादत्रधारणं ‘पादयोः स्पर्शनेन्द्रियस्य व्यसनापहम्’ इति अवश्यं वक्तव्यम्।
पादत्रधारणं चक्षुष्यं वृष्यं चोक्तम्।उभयमपि एतद् प्रभावात् भवति इति ज्ञेयम्। पादत्रधारणेन चक्षुर्भ्यां हितं भवति इत्यस्य अपरापि उपपत्तिः चक्रपाणिना कथिता।पादाभ्यां चक्षुःपर्यन्तं द्वे नाड्यौ गच्छतः।एते नाड्यौ नेत्रपोषके स्तः।तयोः बाह्याघातेभ्यः रक्षां कुरुते पादत्रम्।एवं नेत्रपोषकनाडीरक्षणद्वारा पादत्रं चक्षुष्यं भवति।

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च
"https://sa.wikibooks.org/w/index.php?title=च.सू.५.९५-१०२&oldid=6896" इत्यस्माद् प्रतिप्राप्तम्