जगज्जेत्रैकमन्त्रेण... सर्वसिद्धयः

विकिपुस्तकानि तः

मूलम्
जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् । यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥१३॥

पदच्छेदः
जगत्-जेत्रा एकमन्त्रेण रामनाम्ना अभिरक्षितम् । यः कण्ठे धारयेत् तस्य करस्थाः सर्वसिद्धयः ॥१३॥

अन्वयः
यः जगत्-जेत्रा रामनाम्ना एकमन्त्रेण अभिरक्षितम् (एतत् स्तोत्रं) कण्ठे धारयेत्, तस्य सर्वसिद्धयः करस्थाः (भवन्ति)॥१३॥

सरलार्थः
रामनाम इति एषः एकः मन्त्रः जगत् जयति।तेन मन्त्रेण एतत् रामरक्षास्तोत्रं रक्षितम् अस्ति।यः जनः एतत् स्तोत्रं कण्ठे धारयति, तस्य सर्वाः सिद्धयः हस्तगताः भवन्ति॥१३॥

सन्धिविग्रहः

सन्धिः विग्रहः सूत्रम्
जगज्जेत्रा जगत्-जेत्रा झलां जशोऽन्ते।८.२.३९
स्तोःश्चुना श्चुः।८.४.४०
जेत्रैकमन्त्रेण जेत्रा-एकमन्त्रेण वृद्धिरेचि।६.१.८७
रामनाम्नाभिरक्षितम् रामनाम्ना-अभिरक्षितम् अकः सवर्णे दीर्घः।६.१.९९

समासविग्रहः १३
जगज्जेत्रा
जगतः जेता जगज्जेता, तेन।... षष्ठी।२.२.८

एकमन्त्रेण
एकः मन्त्रः एकमन्त्रः, तेन।... विशेषणं विशेषेण बहुलम्।२.१.५७
रामनाम्ना
रामस्य नाम रामनाम, तेन।... षष्ठी।२.२.८


करस्थाः
करे तिष्ठन्ति इति करस्थाः।... उपपदमतिङ्।२.२.१९

'सर्वसिद्धयः
सर्वाः सिद्धयः सर्वसिद्धयः।.. विशेषणं विशेषेण बहुलम्।२.१.५७

रामरक्षास्तोत्रम् - सान्वयं सार्थम्