जन्माद्यस्य यतः इति सूत्रं रामानुजमतेन विवृणुत।

विकिपुस्तकानि तः
Jump to navigation Jump to search

जन्माद्यस्य यतः इति सूत्रं रामानुजमतेन विवृणुत।

रामानुजमतेन ईश्वरस्य लक्षणं किम्?
जन्माद्यस्य यतः ।ब्र.सूत्रं १.१.२
इति रामानुजमतेन ईश्वरलक्षणम्।
अस्य सूत्रस्य आधारभूता श्रुतिः इयम् –
यतो ह वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति,यत्प्रयन्ति, अभिसंविशन्ति, तद् विजिज्ञासस्व तद् ब्रह्म इति। तैत्तिरीय.२.२.१
जन्माद्यस्य यतः इत्यस्मिन् सूत्रे जन्मादि अस्य यतः इति त्रीणि पदानि सन्ति।
जन्म आदि यस्य तद् जन्मादि।जन्म, स्थितिः तथा लयः इति एतेषां ग्राहकम् इदं पदम्।बहुव्रीहिः एषः।
जन्म आदि ययोः ते स्थितिलयौ एव अत्र ग्राह्यौ।यतो हि जन्म जन्मादि न भवति इति सम्भवनीयम् आक्षेपं निराकृतवान् रामानुजः।अयं बहुव्रीहिः तद्गुणसंविज्ञानबहुव्रीहिः अस्ति।अतः जन्मपदस्य अर्थः अपि तेन बोध्यते, न केवलं स्थितिलययोः।
वस्तुतः बहुव्रीहिः अन्यपदार्थबोधकः अस्ति।दृष्टसागरं जनम् आनय इत्यत्र दृष्टसागरसमासेन जनः बोध्यते, न सागरः।
परं क्वचित् अन्यपदार्थेन सह बहुव्रीहिः समासघटकपदस्य अर्थम् अपि बोधयति।यथा ‘भीष्मप्रमुखाः कौरवाः उपस्थिताः’ इत्यत्र भीष्मः प्रमुखः येषु ते कौरवाः समासेन बोध्यन्ते, भीष्मः अपि बोध्यते।एतादृशः बहुव्रीहिः तद्गुणसंविज्ञानबहुव्रीहिः इति उच्यते।

अस्य इति पुरोवर्तिनः जगतः निर्देशः।

यतः इति कारणस्य निर्देशः।
यस्मात् कारणात् जगतः जन्म भवति, स्थितिः भवति, यत्र च जगतः लयः भवति, तद् ब्रह्म इति सूत्रार्थः।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे रामानुजमतम्