सामग्री पर जाएँ

जन्माद्यस्य यत: इति ब्रह्मलक्षणम्?

विकिपुस्तकानि तः

प्र.- जन्माद्यस्य यत: इति अस्य ब्रह्मलक्षणत्वेनाङ्गीकारे का: आपत्तय: सन्ति?
उ.-अस्य सूत्रस्य न्यायरक्षामणिकारेण कृते व्याख्याने पूर्वपक्षत्वेन अयं विषय: उपस्थापित:।पूर्वपक्ष: जगत्स्रष्टृत्वं हिरण्यगर्भस्य मन्यते।तथा तेन समर्थ्यते च।सिद्धान्तेऽभिप्रेतं जगत्कारणत्वं ब्रह्मण:।तदाक्षेप्तुं स: एवं प्रयतते-
१ जन्माद्यस्य यत: इति मायाशबलितस्य ब्रह्मण: लक्षणम् अथवा निर्विशेषस्य कूटस्थस्य लक्षणम्? कूटस्थस्य भवितुं नार्हति, मायाशाबल्यं विना सृष्टे: असम्भवात्।यदि इदं लक्षणं मायाशबलितस्य ब्रह्मण: तर्हि तादृशं ब्रह्म जिज्ञास्यत्वेन इह नैव अभिप्रेतम्।आद्यसूत्रे जिज्ञासायां प्रतिज्ञातं ब्रह्म शुद्धमेव।
२ अस्मन्मते सत्यज्ञानादि एव शुद्धब्रह्मण: स्वरूपलक्षणम्।जन्माद्यस्येति मायाशबलितस्य लक्षणं तथापि शुद्धस्य तत् तटस्थलक्षणं भविष्यति इति वचनं नोचितम्।स्वरूपलक्षणे विद्यमाने तटस्थलक्षणं व्यर्थम्।
३शाखाचन्द्रन्यायेन सार्थत्वम् चन्द्रदिदृक्षो: चक्षुर्विक्षेपक्लेशपरिहाराय शाखा आदौ दर्श्यते।तद्वत् ब्रह्मदिदृक्षो: अग्निसूर्यादिषु देवेषु बुद्धिविक्षेप: न स्यादिति ब्रह्मण: कारणत्वप्रतिपादकं तटस्थलक्षणम् उच्यते इति वचनं न योग्यम्।अग्निसूर्यादिषु अपि ब्रह्मप्रतिपत्ति: सिद्धान्तमते अभिप्रेता।किमिति सा परिहरणीया तटस्थलक्षणेन?
५ स्वरूपलक्षणे आत्मा इति पदमस्ति।तच्च प्रत्यगात्मनि प्रसिद्धम्।तेनैव पराग्रूपाभ्य: अग्न्यादिदेवताभ्य: व्यावृत्ति: सम्भवति। किं पुन: तटस्थलक्षणेन?
६ ब्रह्मण: जगत्कारणत्वं सत्यं वा मिथ्या वा? सत्यं चेत् तेन अद्वितीयं ब्रह्म न लक्ष्यते, विरोधात्।यदि मिथ्या तर्हि मिथ्यापदार्थेन सत्यपदार्थ: न लक्ष्यते, विरोधात्।
अत: यतो ह वेति ब्रह्मण: लक्षणं न सम्भवति इति सिद्धम्।

न्यायरक्षामणिप्रश्नोत्तरसङ्ग्रह: