जन्माद्यस्य यत: इत्यत्र जगत्स्रष्टृत्वम् ?

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्र.- जन्माद्यस्य यत: इति सूत्रस्य व्याख्याने न्यायरक्षामणिकारेण जगत्स्रष्टृत्वं कथं प्रतिपादितम्?

उ.-
सन्दर्भ:-
पूर्वपक्षेण हिरण्यगर्भस्य मायाशबलितस्य वा सृष्टिकर्तृत्वम् उक्तम्।निर्विशेषस्य ब्रह्मण: जगत्कर्तृत्वम् आक्षिप्तम्।तत: सिद्धान्तमतानुसारं ब्रह्मण: जगत्स्रष्टृत्वादि ग्रन्थकारेण पुन: स्थापितं, तदेवम्-
१ परमेश्वर: प्रथमं वियदादीनि भूतानि सृष्ट्वा, त्रिवृत्करणानन्तरं, तैरण्डं निर्माय तन्मध्ये हिरण्यगर्भं निर्ममे इति श्रुतिस्मृतिपुराणानाम् ऐकमत्यम्।
२ बृहदारण्यके हिरण्यगर्भस्य देवमनुष्यादिस्रष्टृत्वमुक्तं तदनुमतमेव।तावता अतीतानागतानां सर्वेषां भूतानां स्रष्टा हिरण्यगर्भ: इति न सिद्ध्यति।परमेश्वरस्य तु तादृशं स्रष्टृत्वं सिद्ध्यति।किञ्च स: हिरण्यगर्भस्यापि स्रष्टा।यथा घटादिषु कुलालस्रष्टृत्वमस्ति चेदपि ईश्वरस्य स्रष्टृत्वं न विरुद्ध्यते।तद्वत् देवमनुष्यादिषु हिरण्यगर्भस्य स्रष्टृत्वमस्ति चेदपि ईश्वरस्य तेषु स्रष्टृत्वं न विरुद्ध्यते।
३ तेषां तेषां देहेन्द्रियादीनां स: स: जीव: उपादानम्।तत्र ईश्वरस्य उपादानत्वं न सम्भवति इत्याक्षेपोऽपि न युक्त:।सर्वत: प्रसृतस्य ब्रह्मण: स्वप्रतिबिम्बरूपै: जीवै: अवच्छेद: भवति।अत: देहादिष्वध्यस्तेषु ब्रह्मण: जीवरूपेण उपादानत्वम् अस्ति एव।एतदर्थं श्रुतय: एता: प्रमाणम्- अ ) य आत्मनि तिष्ठन्...
आ )यथा सुदीप्तात्पावकाद्विस्फुलिङ्गा: सहस्रश: प्रभवन्ते सुदीप्ता:।
तथाक्षराद्विविधा: सोम्य भावा: प्रजायन्ते तत्र चैवापियन्ति॥मुण्डको.२.१.१
४ सत्यज्ञानादिस्वरूपलक्षणे सति यतो ह वेति तटस्थलक्षणम् अनावश्यकम् इति पूर्वपक्षस्य आक्षेप: अपि न युक्त:।यद् रजतं भाति, सा शुक्ति: इति अध्यारोपापवादन्यायेन तटस्थलक्षणं सार्थम्।
ब्रह्मण: स्वरूपविशेषज्ञानाय स्वरूपलक्षणस्य सार्थक्यम्।
५ जन्माद्यस्येति लक्षणं सत्यं वा मिथ्या वेति विकल्प: पूर्वपक्षेण उत्थापित:। तत्रोत्तरमुच्यते।एतल्लक्षणं मिथ्या एव।तस्य सत्यत्वे प्रपञ्चसत्यत्वेन अद्वैतहानि: स्यात्।
मिथ्याभूतेन जगता सत्यस्य ब्रह्मण: लक्षणं न सम्भवति इति आक्षेपवचनं नोचितम्।मिथ्यारजतं शुक्ते: उपलक्षणं भवतीति दर्शितम्।

न्यायरक्षामणिप्रश्नोत्तरसङ्ग्रह: