जन्माद्यस्य यत: हिरण्यगर्भपरं?…

विकिपुस्तकानि तः

प्र.-जन्माद्यस्य यत: इति अस्य सूत्रस्य हिरण्यगर्भपरं व्याख्यानं कुरुत।

उ.- न्यायरक्षामणिकारेण पूर्वपक्षे एतादृशं व्याख्यानं कृतम्। तदेवम्-
विषय: -
यतो ह वेमानि... इति अस्य अधिकरणस्य विषयवाक्यम्।
संशय: -
लक्षणमिदं ब्रह्मण: अस्ति न वा?
हिरण्यगर्भपक्ष:-
नास्ति।एतद् लक्षणं हिरण्यगर्भस्य अस्ति।
१ प्रश्नोपनिषदि षोडशकलं पुरुषमधिकृत्य स्थानमुक्तम्- ‘इहैवान्त:शरीरे सोम्य स पुरुष:…’
एतद्वर्णनं जीवस्यैव सम्भवति।यद्यपि अस्मदादे: तन्न सम्भवति, तथापि हिरण्यगर्भस्य सम्भवति।
२अस्यैव स्रष्टृत्वमग्रे विवृतम्-
स पुरुष: यस्मिन् एता: षोडशकला: प्रभवन्ति इति। स ईक्षाञ्चक्रे कस्मिन् नु अहमुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत। प्राणात् श्रद्धां खं वायुर्ज्योतिराप: पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्रा: कर्म लोका लोकेषु च नाम च ।(प्रश्नो.६.२-४)
३ भूतसृष्ट्यर्थं चिकीर्षा आवश्यकी।सा हिरण्यगर्भस्य अस्ति यतो हि सर्गादौ सूक्ष्मम् अन्त:करणं तस्य विद्यते।
४ भूतसृष्ट्यर्थं कृतिमत्ता आवश्यकी।तदर्थं देहेन्द्रियाणि आवश्यकानि।भूतसृष्टे: प्राक् सा नास्तीति सत्यं तथापि अयं दोष: ब्रह्मकर्तृत्वपक्षेऽपि अस्ति।तत्र यथा मायामाश्रित्य कृतिनिर्वाह: क्रियते तथा अत्रापि कार्य:।
५ बृहदारण्यके ‘आत्मैवेदमग्र आसीत् पुरुषविध:’ इति हिरण्यगर्भं प्रस्तुत्य तत: मनुष्यादिसृष्टि: अग्न्यादिसृष्टि: चोक्ता-
ततो मनुष्या अजायन्त(बृ.१.४.३)यदिदं किञ्च मिथुनं आपिपीलिकान्य: तत्सर्वमसृजत्।
६ आत्मैवेदमग्र आसीत् इति उपक्रम: अस्ति चेदपि अत्र परब्रह्मण: प्रस्ताव: नास्ति यतो हि १ पाप्मसंसर्गश्रवणम् २ भय-अरतिश्रवणम्। एतै: लिङ्गै: तस्य संसारित्वमनुमीयते।तच्च परब्रह्मण: न सम्भवति।
६ बृहदारण्यके हिरण्यगर्भस्य भूतस्रष्टृत्वं नोक्तं तथापि नेदं बाधकम्।प्रकृतसूत्रे अपि (यो ह वेमानि भूतानि जायन्ते...)भूतानां स्रष्टृत्वं नोक्तं, जीवानामेव स्रष्टृत्वमुक्तम्। येन जातानि जीवन्ति इति लिङ्गात्।
७ हिरण्यगर्भस्य जीवनहेतुत्वमस्ति।
८ हिरण्यगर्भस्य भूतलयाधारत्वमस्ति।
एकार्णवे च त्रैलोक्ये ब्रह्मा नारायणात्मक:। भोगिशय्यागत: शेते त्रैलोक्यग्रासबृंहित:॥
९ भूतस्रष्टृत्वमिह उपादानत्वेन विवक्षितमस्ति चेदपि हिरण्यगर्भे तदुपपद्यते।तत्तज्जीवाभिन्नतया देहादीन् अध्यस्तान् प्रति हिरण्यगर्भ: उपादानभूत: एव।अत: यतो ह वा... इति वचनं हिरण्यगर्भपरं न तु परब्रह्मपरम् इति सिद्धम्।

न्यायरक्षामणिप्रश्नोत्तरसङ्ग्रह: