जिह्वां ...भग्नेशकार्मुकः

विकिपुस्तकानि तः

मूलम्
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः । स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥६॥

पदच्छेदः
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः । स्कन्धौ दिव्य-आयुधः पातु भुजौ भग्न-ईश-कार्मुकः ॥६॥

अन्वयः
विद्यानिधिः जिह्वां पातु। भरतवन्दितः कण्ठं (पातु)।दिव्य-आयुधः स्कन्धौ पातु। भग्न-ईश-कार्मुकः भुजौ (पातु) ॥६॥

सरलार्थः
विद्यायाः निधिः रामः मम जिह्वां रक्षतु।भरतेन पूजितः रामः मम कण्ठं रक्षतु।यस्य समीपे दिव्यानि आयुधानि सन्ति, सः रामः मम स्कन्धयोः रक्षणं करोतु।येन शिवधनुः भग्नं. सः रामः मम भुजयोः रक्षां करोतु॥६

सन्धिविग्रहः

सन्धिः विग्रहः सूत्रम्
भग्नेश भग्न-ईश आद्गुणः।६.१.८६

समासविग्रहः ६
विद्यानिधिः
विद्यानां निधिः।... षष्ठी २.२.८

भरतवन्दितः
भरतेन वन्दितः।... कर्तृकरणे कृता बहुलम्।२.१.३२

दिव्यायुधः
दिव्यानि आयुधानि यस्य, सः।... अनेकमन्यपदार्थे ।२.२.२४

भग्नेशकार्मुकः
ईशस्य कार्मुकम् ईशकार्मुकम्।... षष्ठी २.२.८ भग्नम् ईशकार्मुकं येन, सः।...अनेकमन्यपदार्थे ।२.२.२४

रामरक्षास्तोत्रम् - सान्वयं सार्थम्