ज्ञानस्य ज्ञातृज्ञेयनिरूप्यत्वं स्वभाव: न

विकिपुस्तकानि तः

प्र.- ज्ञानस्य ज्ञातृज्ञेयनिरूप्यत्वं स्वभाव: इत्यस्य प्रतिवचनम् अद्वैतसिद्धिकारेण कथं कृतम् ?
उ.
१ यथा व्यवहारे जाते: व्यक्तिनिरूप्यत्वम् अस्ति।तथापि क्वचित् (प्रलये)तद् नास्ति अपि। तथा ज्ञानस्य व्यवहारे ज्ञातृज्ञेयनिरूप्यत्वे अपि मोक्षदशायां तद् नास्तीति मन्तव्यम्।
२ पूर्वपक्ष: ज्ञानस्य ज्ञेयापेक्षत्वं मन्यते।ज्ञानं ज्ञेयमपेक्षते इत्यस्य द्वौ अर्थौ सम्भवत:।ज्ञानं ज्ञेयजन्यम् अस्ति अथवा ज्ञानं ज्ञेयव्याप्यम् अस्ति।
३ ज्ञानं ज्ञेयजन्यं नास्ति। अस्ति चेद् ईश्वरज्ञाने व्यभिचार:।
४ ज्ञानं ज्ञेयव्याप्यं नास्ति।यत्र ज्ञानं तत्र ज्ञेयम् इति व्याप्ति: दूरत: अपास्ता, यतो हि ज्ञानमात्मनि, ज्ञेयं च बहि:।
५ ज्ञानं ज्ञेयव्याप्यं नास्ति।‘यदा ज्ञानं तदा ज्ञेयम्’ इति कालिकव्याप्ति: ईश्वरज्ञाने व्यभिचरति।
६ यदा ऐन्द्रियकं ज्ञानं तदा अर्थ: इति ज्ञेयव्याप्यत्वं स्वीकृतं चेदपि मोक्षदशायाम् ऐन्द्रियकं ज्ञानं नास्ति एव।मोक्षदशायां ज्ञानं ज्ञेयापेक्षं नास्ति इति अस्माकं सिद्धान्तेन सह एषा व्याप्ति: न विरुद्ध्यते।
७ यदि ज्ञेयं विना ज्ञानं सम्भवति तर्हि शुक्तिरजतस्थले अनिर्वचनीयरजतस्य उत्पत्ति: अद्वैतिभि: किमर्थम् अङ्गीक्रियते? तत्रापि रजतं विना रजतज्ञानं मन्तव्यम् इति पूर्वपक्ष:

अत्र अद्वैतसिद्धिकारस्य उत्तरमेवम्-
अहं रजतज्ञानवान् इति अनुव्यवसाय: दृश्यते।एतद् रजतज्ञानप्रकारकज्ञानम्।तस्य व्यवस्था रजतं विना न भवति अत: तत्र अनिर्वचनीयं रजतं स्वीकृतम्।
अत: ज्ञेयनिरूप्यत्वं ज्ञानस्य स्वाभाव: नास्तीति सिद्धम्।

लघूत्तरप्रश्ना: