ज्योतिरधिकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

ज्योतिर्दर्शनात्। १.३.४०

पू.- एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसमपद्य स्वेन रूपेणाभिनिष्पद्यते-(छा. ८.१२.३) अत्र ज्योति:शब्देन तमोऽपहं प्रसिद्धं तेजोऽभिधीयते,
१ प्रसिद्धे:।
२ मुमुक्षोरादित्यप्राप्तिश्चाभिहिता- ‘अथ यत्र एतदस्माच्छरीरादुत्क्रामत्यथ एतैरेव रश्मिभिरूर्ध्वमाक्रमते।– छा. ८.६.५
अत: प्रसिद्धं तेज एवात्र ज्योति:शब्दम्।
वे.- न।परमेव ब्रह्म अत्र ज्योति:शब्दम्, दर्शनात्।अस्मिन् प्रकरणे आरम्भे आत्मा एवान्वेष्टव्यत्वेन विजिज्ञासितव्यत्वेन च प्रतिज्ञात:-
‘य आत्मा अपहतपाप्मा...’(छा.८.७.१)
‘एवं त्वेव ते भूयोऽनुव्याख्यास्यामि’(छा.८.९.३) इत्यनुसन्धानं कृतम्।
‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत:’ (छा.८.१२.१) इति अशरीरतायै ज्योति:समपत्तेरभिधानं कृतम्।ब्रह्मभावाच्चान्यत्र अशरीरत्वं नोपपद्यते।परं ज्योति: स उत्तम: पुरुष: (छा.८.१२.३) इति विशेषणमपि कृतम्।अत:अत्र परं ब्रह्मैव ज्योति:शब्दम्। मुमुक्षोरादित्यप्राप्ति: योक्ता, न स आत्यन्तिको मोक्ष:।मोक्षे गत्युत्क्रान्ती न सम्भवत:।अत्र तु गत्युत्क्रान्ती उक्ते।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् प्रथमाध्याये तृतीय: पाद:

"https://sa.wikibooks.org/w/index.php?title=ज्योतिरधिकरणम्&oldid=5518" इत्यस्माद् प्रतिप्राप्तम्