तक्षाधिकरणम्
यथा च तक्षोभयथा।२.३.४०
पू.- शास्त्रर्थत्वादिभि: हेतुभि: शारीरस्य कर्तृत्वं यदि साध्यते, तर्हि एभिरेव हेतुभि: तत्कर्तृत्वं स्वाभाविकं भवितुम् अर्हति, न तु उपाधिनिमित्तम्।
वे.- आत्मन: कर्तृत्वं न स्वाभाविकम्। तत: मोक्षसम्भवात् ।यत्र स्वाभाविकत्वाभाव: तत: मोक्षम्भवाभाव:। यथा अग्ने: औष्ण्यम्
आत्मन: स्वाभाविकं कर्तृत्वं न सम्भवति, अनिर्मोक्षप्रसङ्गात्।यदि कर्तृत्वं स्वाभाविकं तर्हि न तस्मान्मोक्ष: सम्भवति, अग्नेरिव औष्ण्यात्।यावत् कर्तृत्वान्मुक्ति: नास्ति, तावत् पुरुषार्थसिद्धि: नास्ति।यतो हि कर्तृत्वं दु:खरूपम्।
पू.- कर्तृत्वशक्तौ स्थितायाम् अपि कर्तृत्वकार्यपरिहारात् मोक्ष: सेत्स्यति।
वे.- कथं कर्तृत्वकार्यपरिहार: साधनीय:?
पू.- निमित्तपरिहारात्।यथाग्नि: दहनशक्तिसम्पन्न:।तथापि काष्ठपरिहार: क्रियते चेत् तस्या: शक्ते: कार्यं न भवति।तथात्र द्रष्टव्यम्।
वे.- तन्न शक्यम्।
पू.- कुतो न शक्यम्?
वे.- निमित्तानि अपि शक्तिलक्षणेन सम्बन्धेन सम्बद्धानि।अत: तेषामत्यन्तपरिहारो न शक्य:।
पू.- ननु मोक्षसाधनानि श्रुतौ उपदिष्टानि अत: कर्तृत्वशक्तौ आत्मन: सत्याम् अपि मोक्ष: सम्भवति।
वे.-नैवम्।साधनजन्यो मोक्ष: अनित्य:।तथा च श्रुतौ यत्साधनं प्रतिपादितं, तत्तु नित्यशुद्धबुद्धमुक्तस्यात्मन: प्रतिपादनरूपम्।आत्मन: स्वाभाविकं कर्तृत्वम् अभ्युपगतं चेत् तादृशं प्रतिपादनं न सङ्गच्छते।तस्माद् आत्मन: कर्तृत्वम् उपाधिधर्माध्यासेन एव मन्तव्यं, न स्वाभाविकम्।
श्रुतिप्रमाणमपि अत्र विद्यते।
पू.- किं श्रुतिप्रमाणम्?
वे.- ध्यायतीव लेलायतीव (बृ.४.३.७) आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण:।(कठो.३.४)
एतादृशेषु विषयेषु उपाधिसम्पृक्तस्य एव आत्मन:भोक्तृत्वादि दर्शितम्।उपाधिरहितत्वे सति तस्य एव आत्मन: अकर्तृत्वाभोक्तृत्वादि दर्शितम्।‘यत्र त्वस्य सर्वमात्मैवाभूत्, तत्केन कं पश्येत्?(बृ.२.४.१४) एवम् आत्मा भोक्ता चाभोक्ता च, यथा तक्षा।अत: तस्य कर्तृत्वं न स्वाभाविकम्, अपि तु उपाधिनिमित्तम्।
पू.- यथा च तक्षोभयथा इत्यत्र उभयथा इति पदस्य को वार्थ:?
वे.-तक्षा कर्मकाले वास्यादिकरणसहित: सन् दु:खम् अनुभवति।स एव गृहं प्राप्त: सन् विसृष्टकरण: निर्व्यापार: सन् सुखी भवति।एवम् एव अविद्यासम्पृक्त आत्मा स्वप्ने जागरिते च कर्ता सन् दु:खी भवति।स एव श्रमापनयनाय स्वं ब्रह्म प्रविश्य विमुक्तकार्यकरणसङ्घात: अकर्ता सुखी भवति सम्प्रसादावस्थायाम्।
पू.- दृष्टान्त-दार्ष्टान्तिकयो: वैषम्यं दृश्यते।तक्षा गृहं प्राप्य अपि करणमुक्त:न भवति।
वे.- तक्षा विशिष्टेषु व्यापारेषु प्रतिनियतानि वास्यादीनि करणानि आदाय एव कर्ता भवति। स्वशरीरेण तु अकर्ता एव स:।
पू.- ननु शास्त्रार्थवत्त्वादिभि: हेतुभि: आत्मन: कर्तृत्वं स्वाभविकमिति सिद्ध्यति।
वे.- विधिशास्त्रम् आत्मन: कर्तृत्वं न प्रतिपादयति।यथाप्राप्तं कर्तृत्वम् उपादाय कर्तव्यविशेषम् उपदिशति।स्वभाविकम् आत्मन: कर्तृत्वं नास्ति, ब्रह्मात्मोपदेशात्।अत: अविद्याकृतं कर्तृत्वम् आदाय विधिशास्त्रं प्रवर्तते।
ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् द्वितीयाध्याये तृतीय: पाद: