तत्तु समन्वयात्

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्र. तत्तु समन्वयात् इति सूत्रं न्यायरक्षामणिमनुसृत्य व्याख्यात।
उ.- तत् इति ब्रह्म। तु पूर्वपक्षनिरासाय।पूर्वपक्ष: च वक्ष्यते।समन्वयात् इति सम्यग् अन्वयात्।सम्यग् इति उपक्रमाद्यवगतेन तात्पर्येण।ब्रह्मण: शास्त्रनिरूपितत्वं पूर्वसूत्रे (शास्त्रयोनित्वात्।)उक्तम्।तदत्र आक्षिप्य समाधीयते।
तद् ब्रह्म शास्त्रयोनि अस्ति इति सम्यग् अन्वयात् सिद्ध्यति इति सूत्रस्याशय:।
आक्षेप:- वेदा: प्रवृत्तिं वा निवृत्तिं वा बोधयन्ति।वेदान्ता: अपि तथैव भवितुम् अर्हन्ति, वेदत्वात्।
ब्रह्म तु सिद्धं वस्तु।तस्य बोधनेन न कापि प्रवृत्ति: उपदिश्यते, न कापि निवृत्ति:।प्रवृत्तिनिवृत्त्यभावात्, फलाभाव:।अत: वेदान्ता: ब्रह्मप्रतिपादनपरा: इति न मन्तव्यम्।
मोक्षार्थम् उपासना आवश्यकी , सा वेदान्तेन बोध्यते इति मन्तव्यम्।अत: वेदान्ता: उपासनाप्रतिपादनपरा:।
कर्मसु कर्ता अपेक्षित:।तस्य प्रतिपादनं वेदान्तेन क्रियते इति मन्तव्यम्। तेन वेदान्ता: कर्मविधिपरा: भवन्ति।समाधानम्- प्रवृत्त्युपदेशरहितं सिद्धवस्तुबोधनं निष्फलम् इति पूर्वपक्षस्य मतम् अंशत: सत्यम्।अप्राप्तस्याश्वस्य बोधनमात्रेण तस्य प्राप्ति: न सम्भवति अत: तत्र वस्तुप्रतिपादनमात्रं निष्फलं स्यादपि।परं प्राप्तस्यैव भ्रमेण अप्राप्तत्वेन आभासमानस्य प्रतिपादनं प्रवृत्तिरहितं चेदपि सफलम्।यथा कण्ठचामीकर:। (उदाहरणमेतत् स्पष्टं करणीयम्)
यथा कण्ठचामीकर: प्राप्त: अपि अप्राप्तत्वेन भात: तथा सिद्धान्ते ब्रह्मात्मैक्यं प्राप्तमपि अप्राप्तत्वेन भाति अत: तत्र प्रवृत्तिरहितमपि प्रतिपादनं सफलम्।
आक्षेप:- विषम: दृष्टान्त:।वस्तुत: कण्ठचामीकरप्राप्ति: इति फलं नास्ति एव। कण्ठचामीकरप्राप्तिज्ञानजन्यं सुखं फलम्। एतच्च सुखं प्रागप्राप्तमासीत्।तत्प्राप्तम्। अथवा प्राप्तचामीकराप्राप्तिभ्रमजन्यदु:खस्य निवृत्ति: फलम्। एतच्च दु:खं प्राग् अनिवृत्तम् आसीत्। तदधुना ज्ञानेन निवृत्तम्।
समा.- दृष्टान्ते प्राप्तं वस्तु चामीकर:।तच्च स्वयं पुरुषार्थरूपं नास्ति।अत: तत्प्राप्तिज्ञानजन्यं सुखं फलमिति उच्यते।सिद्धान्ते ब्रह्मात्मैक्यज्ञानं प्राप्तवस्तु।तत्तु स्वयं पुरुषार्थरूपम्।अत: अन्यस्य पुरुषार्थस्य फलत्वेन आकाङ्क्षा अत्र नास्ति।
प्राप्तस्यापि अप्राप्तत्वेन भासमानस्य प्रतिपादनं प्रवृत्तिरहितमपि पुरुषार्थोपयोगि इति एतावन्मात्रं साम्यं दृष्टान्तदार्ष्टान्तिकयो: अभिप्रेतम्। चामीकर: स्वयं पुरुषार्थरूप:नास्ति।तथापि तस्य बोधनं सफलम्।ब्रह्मात्मैक्यं तु स्वयं पुरुषार्थरूपम्।तस्य बोधनं तु नितरां सफलमिति कैमुतिकन्यायेन दृष्टान्त: समुचित: एव न विषम:।

अस्य सूत्रस्य द्वितीयं वर्णकम् इत्थम्-
आक्षेप: वेदान्ता: सिद्धवस्तुप्रतिपादनपरा: इत्यङ्गीक्रियते चेत् १ व्युत्पत्तिग्रहविरोध: २ फलातिप्रसङ्ग: इति दोषौ उद्भवत:। १ व्युत्पत्तिग्रहविरोध:- शब्दानां प्राथमिकव्युत्पत्तिग्रह: कार्यपरेष्वेव शब्देषु भवति इति मीमांसका: मन्यन्ते।तथापि ‘वेदान्ता: सिद्धवस्तु बोधयन्तीति वचनं व्युत्पत्तिग्रहविरुद्धम्।
२ फलातिप्रसङ्ग:- ब्रह्मात्मैक्यबोधनेन वेदान्ता: सफला:, न प्रवृत्तिबोधनम् आवश्यकम् इति अङ्गीकृते फलातिप्रसङ्ग: भवति।बहुत्र ‘वेदान्ताश्रवणं कृतं, मोक्ष: न प्राप्त:’ इति अनुभवी दृश्यते।ब्रह्मात्मैक्यश्रवणे कृतेऽपि तत्फलं न प्राप्तम् इति फलातिप्रसङ्ग:। एतद् दोषद्वयं परिहर्तुं वेदान्तानामुपासनाविधिपरत्वम् अनुमन्तव्यम्।तासाम् उपासनानां विषय: ब्रह्म अनुमन्तव्यम्।तासाम् उपासनानां फलं मोक्ष: इति अनुमन्तव्यम्।एतस्मिन् अङ्गीकृते कदाचित् –
१ कर्मदेवतया उपासकस्य ऐक्यं न भवति तथा ब्रह्मात्मैक्यमपि न सम्भवेत्।
२ उपासनातारतम्यात् मोक्षरूपे फले तारतम्यस स्यात् तेन निरतिशयपुरुषार्थरूपो मोक्षोऽपि न सिद्ध्येत्।स्यात्तदुभयमपि।तथापि तावता व्युत्पत्तिग्रहविरोधफलातिप्रसङ्गरूपौ दोषौ न अङ्गीकार्यौ।
समा.- कार्यपरवाक्येष्वेव व्युत्पत्तिग्रह: भवतीति सामान्यनियम:।तथापि कार्यमन्तर्भाव्य इतरान्वितस्यार्थमात्रे तत्तदर्थमात्रे वा पदानां शक्तिग्रह: सम्भवति। यथा ‘पुत्रस्ते जात:’ इति वाक्यस्य सिद्धार्थपरस्यापि बोधनक्षमत्वम्।वेदान्तानां तु उपक्रमादिभि: लिङ्गै: ब्रह्मात्मैक्यपरत्वम् अवगम्यते।अत: तत्र कार्यपरत्वं न कल्पनीयम्।
यदि वेदान्तानां ब्रह्मात्मैक्यज्ञानबोधनमात्रेण साफल्यं तर्हि तदुपदेशमात्रेण मोक्ष: कुतो न भवतीति प्रश्नस्य उत्तरम् –
असम्भावना-विपरीतभावनारूप-प्रतिबन्धसत्त्वात्।
यद्यपि श्रवणेन ज्ञानं प्राप्तं तथापि प्रतिबन्धे सति तदविद्यां निवर्तयितुं समर्थं न भवति।
आक्षेप:-ज्ञाने सञ्जाते ज्ञानस्य प्रागभाव: निवर्तते एव। तथा अविद्या अपि कुतो न निवर्तते?
समा.- ज्ञानं प्रागभावनिवृत्तिस्वरूपमेव।अत: ज्ञानोदये सति ज्ञानस्य प्रागभाव: नश्यति एव। न तथा ज्ञानम् अविद्यानिवृत्तिस्वरूपम्।ज्ञानम् अविद्यानिवृत्ते: साधनम्।अत: सति प्रतिबन्धे ज्ञानेन अविद्यानिवृत्ते: असम्भव: शक्य:।
आक्षेप:-तम:प्रकाशयो: अत्यन्तं विरोध:।अत: प्रकाशोदये सति तम: विनश्यति।तथैव ज्ञानाविद्ययो: अत्यन्तं विरोध:।ज्ञानोदये सति अविद्या नानुवर्तेत।
समा.-विशेषदर्शनं तथा भ्रम: इति एतयो: अत्यन्तं विरोध:।तथापि विशेषदर्शनाद् उत्तरमपि उपाधिना प्रतिबन्धात् प्रतिबिम्बभ्रमो न निवर्तते।तद्वदेवात्र उपपत्ति: मन्तव्या।
आक्षेप:- प्रतिबन्धकमपि अविद्याकार्यमेव।ज्ञानोदये सति तस्यापि बाध: भवितुमर्हति।
समा.- १ श्रवणानन्तरं श्रुतब्रह्मणामपि संसारानुवृत्ति: दृश्यते।
२ श्रवणानन्तरं मनननिदिध्यासनयो: विधानं श्रूयते।
अत: ज्ञानोदयेऽपि अविद्यानिवृत्तिप्रतिबन्धकस्य कल्पना क्रियते।अन्यथा मनन-निदिध्यासनयो: वैय्यर्थ्यं स्यात्।
ज्ञानोदये सत्यपि अविद्या कथमनुवर्तते? इत्यस्य प्रश्नस्यापरमुत्तरमेवम्-
सत्तावधारणरूपमेव ज्ञानमविद्यानिवर्तकं न ज्ञानमात्रम्।अन्यथा संशयोऽपि अविद्यानिवर्तक: स्यात्।
आक्षेप: - ब्रह्मात्मैक्यज्ञानं -
१ न्यायोपबृंहितवेदान्तश्रवणेन जायते,
२एकाकारं च भवति।
तत् सत्तानवधारणं कथमिव स्यात्?
समा.-अनादिभेदवासनादोषात् तादृशं ज्ञानमपि सत्तानवधारणरूपं सम्भवति।
सूत्रे तत् इति ब्रह्म पक्ष:।शास्त्रयोनिकत्वं (वेदान्तप्रतिपाद्यत्वं)साध्यम्।इदं साध्यं पूर्वसूत्रस्य द्वितीयवर्णकाद् अध्याहार्यम्।समन्वयात् इति हेतु:।उपक्रमाद्यवगत-वेदान्ततात्पर्यगोचरत्वात् इति तस्यार्थ:।

न्यायरक्षामणिप्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=तत्तु_समन्वयात्&oldid=5747" इत्यस्माद् पुनः प्राप्तिः