तत्तु समन्वयात् इति सूत्रस्य विवरणं मध्वाचार्यमतेन .....

विकिपुस्तकानि तः

तत्तु समन्वयात् इति सूत्रस्य विवरणं मध्वाचार्यमतेन कुरुत।
ब्रह्मसूत्रस्य प्रथमाध्याये, प्रथमपादे चतुर्थं सूत्रम् – ‘तत्तु समन्वयात्’ इति।
तत् तु समन्वयात् इति त्रीणि पदानि सूत्रे सन्ति।तत् इति ब्रह्मणः शास्त्रयोनित्वम्।एतत् शास्त्रयोनित्वं पूर्वतनसूत्रे उक्तम्।तस्य एव परामर्शः अस्मिन् सूत्रे तदिति सर्वनाम्ना क्रियते।
तत् शास्त्रयोनित्वं ब्रह्मणः कथं सम्भवति इति अस्मिन् सूत्रे उपपादितम् ‘समन्वयात्’ इति।
समन्वयो नाम उपक्रमादिलिङ्गम्।
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये
अनेन लिङ्गेन श्रुतेः तात्पर्यं ज्ञायते।तत् तात्पर्यं ब्रह्मणि एव विद्यते।अतः ब्रह्मणः शास्त्रयोनित्वं समन्वयात् सम्भवति एव इति सूत्रार्थः।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे माध्वमतम्