तत्त्वगणना

विकिपुस्तकानि तः

साङ्ख्यशास्त्रे यानि मूलभूतानि तत्त्वानि गणितानि तानि अस्यां कारिकायाम् उक्तानि।
मूलप्रकृतिरविकृतिः, महदाद्याः प्रकृतिविकृतयः सप्त।
षोडशकस्तु विकारो, न प्रकृतिर्न विकृतिः पुरुषः॥सां.का.३

तत्त्वानि मूलप्रकृतिः महदादयः महद् अहङ्कारः+पञ्चतन्मात्राणि षोडशकः ११ इन्द्रियाणि +पञ्च भूतानि पुरुषः
स्वरूपम् अविकृतिः प्रकृतिविकृतयः विकारः न प्रकृतिः, न विकृतिः
सङ्ख्या ०१ १६ ०१

एतानि आहत्य २५ तत्त्वानि भवन्ति।
आयुर्वेदे मूलभूतपदार्थानां गणना विभिन्नस्थलेषु विभिन्नरीत्या कृता दृश्यते। चरकसंहितायां शारीरस्थाने प्रथमे अध्याये साङ्ख्यमतानुसारं तत्त्वगणना कृता।परं तत्र २४ एव तत्त्वानि गणितानि –
पुनश्च धातुभेदेन चतुर्विंशतिकः स्मृतः।
मनो दशेन्द्रियाण्यर्थाः प्रकृतिश्चाष्टधातुकी॥च.शा.१.१७॥
षड्धातुरूपम् एव पुरुषं पुनः साङ्ख्यदर्शनभेदात् चतुर्विंशतिकभेदेन आह-पुनश्चेत्यादि। चतुर्विंशतिकम् एव विभजते- मन इत्यादि। यद्यपि पञ्चविंशतितत्त्वमयः अयं पुरुषः साङ्ख्यैः उच्यते, यदाह-“मूलप्रकृतिरविकृतिर्महदाद्याःप्रकृतिविकृतयः सप्त।षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः” (सां.का.३) इति, तथा अपि इह प्रकृति-व्यतिरिक्तं च उदासीनं पुरुषम् अव्यक्तत्व-साधर्म्याद् अव्यक्तायां प्रकृतौ एव प्रक्षिप्य अव्यक्तशब्देन एव गृह्णाति; तेन ‘चतुर्विंशतिकः पुरुषः’ इति अविरुद्धम्। उदासीनस्य हि सूक्ष्मस्य भेदप्रतिपादनम् इह अनतिप्रयोजनम् इति न कृतम्। दश इन्द्रियाणि इति पञ्च कर्मेन्द्रियाणि, पञ्च बुद्धि-इन्द्रियाणि च। अष्टधातुकी इति खादि-पञ्चक-बुद्धि-अव्यक्त-अहङ्काररूपा; वक्ष्यति हि “खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टमः” इति ॥१७॥
एषा गणना अधः कोष्ठके स्थापिता -

तत्त्वानि मनः इन्द्रियाणि ५ज्ञानेन्द्रियाणि + ५कर्मेन्द्रियाणि अर्थाः शब्दस्पर्शरूपरसगन्धाः ५ अष्टधातुकी प्रकृतिः ५ महाभूतानि + बुद्धिः+अव्यक्तम्+अहङ्कारः
स्वरूपम् विकृतिः विकृतयः विकारा: अव्यक्तं- प्रकृतिःबुद्धिः, अहङ्कारः ५ भूतानि- प्रकृतिविकृतयः
सङ्ख्या ०१ १० ०५ ०८

सुश्रुताचार्येण तत्त्वगणनायां साङ्ख्यमतं यथातथम् अङ्गीकृतम्-
अष्टौ प्रकृतयः प्रोक्ता विकाराः षोडशैव तु |
क्षेत्रज्ञश्च समासेन स्वतन्त्रपरतन्त्रयोः॥सु.शा.१.२२॥
एतानि तत्त्वानि कोष्ठके स्थापितानि गणितानि च -

प्रकृतयः (क्षेत्रम्) विकाराः (क्षेत्रम्) क्षेत्रज्ञः आहत्य तत्त्वसङ्ख्या
अव्यक्तं महान् अहङ्कारः पञ्चतन्मात्राणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राण-वाग्घस्तोपस्थपायुपाद-मनांसीत्येवमेकादशेन्द्रियाणि, आकाशपवनदहनतोयभूमय इति पञ्चभूतानि क्षेत्रज्ञः पुरुषः
१६ २५

अधुना उभयमतयोः तुलनां कुर्मः।

तत्त्वम् साङ्ख्यमते सुश्रुतमते च आयुर्वेदे
मूलप्रकृतिः ०१ ...
पुरुषः ०१ ...
अव्यक्तम् (मूलप्रकृतिः+पुरुषः) ... ०१
महत् ०१ ०१
अहङ्कारः ०१ ०१
तन्मात्राणि ०५ ०५
ज्ञानेन्द्रियाणि ०५ ०५
कर्मेन्द्रियाणि ०५ ०५
मन: ०१ ०१
भूतानि ०५ ०५
आहत्य २५ २४

एवमत्र निष्कर्षः यत् साङ्ख्यैः स्वीकृतानि सर्वाणि तत्त्वानि चरकाचार्येण अपि अभ्युपगतानि, सुश्रुताचार्येण अपि सम्मतानि।साङ्ख्यैः पञ्चविंशतिः तत्त्वानि अङ्गीकृतानि।तथापि तेषु प्रकृतिपुरुषयोः गणना एकस्मिन् एव अव्यक्तनाम्नि तत्त्वे चरकाचार्येण कृता।अतः चरकोक्तगणनायां सङ्ख्याभेदः (२४) तावद् दृश्यते।आशये भेदः नास्ति।

साङ्ख्यायुर्वेदयोः

"https://sa.wikibooks.org/w/index.php?title=तत्त्वगणना&oldid=7248" इत्यस्माद् प्रतिप्राप्तम्