तत् त्वम् असि इति वचनं माध्वमतेन .....

विकिपुस्तकानि तः

तत् त्वम् असि इति वचनं माध्वमतेन व्याख्यात।

तत् त्वम् असि इति महावाक्यम्।अस्य अर्थः विभिन्नेषु वेदान्तसम्प्रदायेषु विभिन्नरीत्या क्रियते।माध्ववेदान्ते जीवेश्वरयोः भेदः अभ्युपगतः।अतः अस्य श्रुतिवचनस्य व्याख्यानं माध्वसम्प्रदाये भेदपरम् एव क्रियते।
तत्-पदेन ईश्वरः गृह्यते।त्वम्पदेन जीवः गृह्यते।असिपदेन ऐक्यं गृह्यते।वस्तुतः एतत् न शक्यम्।अल्पज्ञः जीवः, सर्वज्ञः ईश्वरः।परतन्त्रः जीवः, स्वतन्त्रः ईश्वरः।अपूर्णः जीवः, परिपूर्णः ईश्वरः।एवम् उभयोः ऐक्यं न सम्भवति।
अतः मुख्यार्थबाधे तत्पदस्य तत्सदृशार्थे लक्षणा कार्या।यथा ‘आदित्यो यूपः’ इति श्रुतिवचने यूपादित्ययोः अभेदः ख्यापितः।स च न सम्भवति।एवं मुख्यार्थबाधे आदित्यसदृशः यूपः’ इति अर्थः लक्ष्यार्थः क्रियते।तथैव अत्र ‘तत् त्वम् असि’ इत्यस्य ‘तत्सदृशः त्वम् असि’ इति अर्थः भवति।अत्र सादृश्यं नाम ज्ञातृत्वम् तथा एकस्मिन् स्थाने निवेशः।मुक्तिदशायाम् अपि जीवः ईश्वरेण सह एकतां न याति।सः तस्य सेवकः एव ।

तत् त्वम् असि इति वाक्यस्य अपरः अपि अर्थः क्रियते माध्वमते।
स आत्मातत्त्वमसि श्वेतकेतो।
इति मूलं श्रुतिवचनम्।तस्य-
स आत्मा अतत् त्वम् असि, श्वेतकेतो इति पदच्छेदः अङ्गीक्रियते।तेन स्वातन्त्र्य-पूर्णत्वादिगुणोपेतः तत्पदार्थः।त्वं तत् न असि इति भेदपरः एव अर्थः निष्पद्यते।


सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे माध्वमतम्