तत् साधुकृतसन्धानं..... अनागसि ॥१.११॥

विकिपुस्तकानि तः

तत्साधुकृतसन्धानं प्रतिसंहर सायकम् ।आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥१.११॥

पदच्छेदः-
तत् साधुकृतसन्धानं प्रतिसंहर सायकम् । आर्तत्राणाय वः शस्त्रं न प्रहर्तुम् अनागसि ॥१.११॥

अन्वयः-
अतः (हे राजन्) साधुकृतसन्धानं सायकं प्रतिसंहर।(यतो हि) वः शस्त्रम् आर्तत्राणाय अस्ति, न अनागसि प्रहर्तुम्।१.११

सन्दर्भः-
मृगं हन्तुम् उद्यतं दुष्यन्तम् आश्रमस्थः तपस्वी वारयति अनेन वचनेन।

सरलार्थः-
अतः हे राजन् सम्यक् संहितं बाणं प्रतिनिवर्तय यतो हि युष्माकं शस्त्रम् व्यथितानां रक्षणार्थम् अस्ति, निरपराधे प्रहर्तुं नास्ति।

वृत्तम् –
अनुष्टुप्

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि    अभिज्ञानशाकुन्तले अनुष्टुभ्वृत्तनिबद्धानि पद्यानि
न खलु..... शराः ते ॥१.१०॥       जन्म यस्य..... आप्नुहि ॥१.१२॥