तदनन्यत्वाधिकरणविरोध:?

विकिपुस्तकानि तः

प्र.- स्पष्टीकुरुत- न च ‘तदनन्यत्वम् आरम्भणशब्दादिभ्य:’ इत्यधिकरणविरोध:
उ. सन्दर्भ:-
अयं पट: एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगि, अंशित्वात्, इतरांशिवत्।
सिद्धान्तिना प्रतिपादिते अस्मिन् अनुमाने चर्चायां कार्यकारणयो: भेद: अङ्गीकार्य: वा न वेति प्रश्न: उत्थित:।तत्र सिद्धान्तिना कथितं यत् कार्यकारणयो: सर्वथा अभेद: स्वीक्रियते चेत् कार्यकारणभाव: एव व्याहन्येत।अत: तयो: भेद: कथञ्चिदङ्गीकार्य:।
अत्र तटस्थेन या आशङ्का प्रदर्शिता सा प्रकृतवचने अनूदिता।
स्पष्टीकरणम्-
सिद्धान्ती यदि कार्यकारणयो: अभेदम् अङ्गीकरोति, तर्हि ‘न च तदनन्यत्वम् आरम्भणशब्दादिभ्य:’ इति अस्मिन् अधिकरणे भाष्येण सह विरोध: स्यात् इति आशङ्काया: आशय:।
‘न च’ इति सिद्धान्तिना कृतम् आशङ्कानिवारणसूचकम्।सिद्धान्ती वदति, ‘अस्य अधिकरणस्य तात्पर्यं कार्यकारणयो: अभेदकथने नास्ति।कारणव्यतिरिक्तं कार्यं नास्ति इत्येव तस्य अधिकरणस्य प्रतिपाद्यम्।

कार्यमाकाशादि बहुप्रपञ्चं जगत्।कारणं परं ब्रह्म।तस्मात् कारणात् परमार्थतोऽनन्यत्वं व्यतिरेकेण अभाव: कार्यस्य अवगम्यते।कुत:? आरम्भणशब्दादिभ्य:।- शां.भाष्यम्

एवमस्मिन् भाष्ये उपादानव्यतिरेकेण उपादेयं (कार्यं) नास्तीत्येव प्रतिपादितम्।अत: कार्यकारणयो: भेद: अङ्गीकृत: चेदपि नानेन भाष्येण सह कश्चन विरोध: आपद्यते।

लघूत्तरप्रश्ना: