तन्निर्धारणाधिकरण...

विकिपुस्तकानि तः

तन्निर्धारणाधिकरणमारचयत।३.३.४२
सङ्गति:-
भोजनमनित्यमत: प्राणाग्निहोत्रमपि अनित्यमिति पूर्वाधिकरणे संस्थापितम्। नित्याङ्गेषु तर्हि उपासनाङ्गमपि नित्यं भवतु इति प्रत्युदाहरणसङ्गत्या तृतीयाध्याये तृतीयपादे इदमधिकरणम् आरब्धम्।अत्र एतत् सूत्रं विद्यते-
तन्निर्धारणानियमस्तद्दृष्टे: पृथग् हि अप्रतिबन्ध: फलम्।३.३.४२
विषय:-
ओमित्येतदक्षरमुद्गीथमुपासीत।(छा.१.१.१)
विशय:-
एतानि कर्माङ्गव्यपाश्रयाणि विज्ञानानि किं नित्यानि अथवा अनित्यानि?
पूर्वपक्ष:-
नित्यानि, पर्णमयीत्वादिवत् प्रयोगवचनात्।उद्गीथादिद्वारेण कर्मसु सम्बद्धानि।तस्य फलश्रवणमर्थवादमात्रम्।न तत् फलप्रधानम्।अत: ‘यस्य पर्णमयी जुहू: भवति न स पापं श्लोकं श्रुणोति’ इति अप्रकरणपठितानामपि जुह्वादिद्वारा क्रतुप्रवेश: तथैव उद्गीथाद्युपासनानाम् अपि।
उत्तरपक्ष:-
कर्माङ्गाश्रितानां निर्धारणानाम्(उपासनानाम्) अनियम:।तस्य अनियमस्य ‘तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद’(छा.१.१.१०) इति श्रुतौ दर्शनं भवति अत:।वेत्तापि कर्म करोति, अवेत्तापि अत: अनियम:।
एतासामुपासनानां पृथग् ‘अप्रतिबन्ध:’ इति फलं श्रुतम्- ‘यदेव विद्यया करोति, श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’। अत्र तरप्-प्रत्ययेन पृथक् फलं गम्यते।उपासनाभावे कर्म वीर्यवद् भवति, न तु वीर्यवत्तरम्।यदि उपासना नित्या मता तर्हि तस्या: अभावे कर्म अपि वीर्यवत् कथं स्यात्?
एतत् फलवचनं नार्थवाद:।तथा सति गुणवाद: आपतति।फलोपदेशे तु मुख्यवादोपपत्ति:। प्रयाजा: वा जुहू: वा क्रत्वर्थम्।अत: तद्द्वारा पर्णमयीत्वं क्रतुसम्बद्धं भवति।गोदोहनादीनां स्वतन्त्रफलत्वात् अनित्यत्वं तथैव उद्गीथाद्युपासनानाम्।
निर्णय:-
क्रतुषु उद्गीथाद्युपासना अनित्या।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=तन्निर्धारणाधिकरण...&oldid=5718" इत्यस्माद् प्रतिप्राप्तम्