तन्निष्ठस्य मोक्षोपदेशात्

विकिपुस्तकानि तः

प्र.- तन्निष्ठस्य मोक्षोपदेशात् इति सूत्रे न्यायरक्षामणिरीत्या पदार्थं व्याख्यात।
उ.- सन्दर्भ:- ब्रह्मसूत्रस्य प्रथमाध्याये प्रथमे पादे सप्तमं (१.१.७)सूत्रमिदम्।
व्याख्यानम्-
तन्निष्ठशब्दस्यार्थ: प्रथमम् उच्यते। तत् इति सदात्मत्वम्।तत्त्वमसि इत्यत्र सदात्मत्वम् अभिहितम्।तन्निष्ठ: नाम सदात्मत्वसाक्षात्कारवान्। अथ मोक्षोपदेशशब्दस्यार्थ: कथ्यते।‘आचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये’।(छा.६.१४.१२) ।अयं मोक्षोपदेश:।
सूत्रार्थ:-
य: सदात्मत्वसाक्षात्कारवान् भवति, स: मुक्त: भवति इति उपदेश: अस्ति अत: सच्छब्देन प्रधानग्रहणं न युक्तम्।
पूर्वपक्ष:-
सूत्रे तत् इति पदमस्ति।तस्य पदस्य सदात्मत्वम् इति अर्थ: कथं कृत:?
वेदान्तपक्ष:-
पूर्वसूत्रे (गौणश्चेन्नात्मशब्दात्) ‘आत्मा’ इति पदं विद्यते।तेन जीव: गृह्यते।तं जीवं प्रति सच्छब्दवाच्यस्य स्वरूपत्वं सूत्रस्थेन तत् इति पदेन परामृश्यते।
आक्षेप:- किमस्मिन् अर्थकरणे प्रमाणम्?
वे.-महावाक्यार्थ: जीवब्रह्मैक्यम्।तस्य साक्षात्कारादेव मोक्ष: इति अस्मन्मते अङ्गीक्रियते।अत: तेन सुसङ्गतोऽयमर्थ:।

न्यायरक्षामणिप्रश्नोत्तरसङ्ग्रह: