तन्मात्राणि महाभूतानि च

विकिपुस्तकानि तः
Jump to navigation Jump to search

तन्मात्रपदस्य अर्थः – [सम्पाद्यताम्]

१ प्रथमोऽर्थः[सम्पाद्यताम्]

तद् एव तन्मात्रम्।एवार्थे मात्रच्-प्रत्ययः।
वत्वन्तात् स्वार्थे द्वयसज्मात्रचौ बहुलम्।– वार्तिकम्
‘केवलं तद्’ ‘ततोऽधिकं किमपि (शान्तत्वं, घोरत्वं मूढत्वं) तत्र नास्ति’ इत्यर्थः।

२ द्वितीयोऽर्थः[सम्पाद्यताम्]

सा मात्रा यस्मिन् तत्तन्मात्रम्। - सु.शा.१.४ डह्लणः
मात्रेति परिमाणम्।शब्दः एव परिमाणं यस्य तत् शब्दतन्मात्रम् इत्यादि।शब्दाद् अधिकः कोऽपि विशेषः (शान्तत्वं, घोरत्वं, मूढत्वम्)तत्र न प्रतीयते इत्यर्थः।

कार्यकारणपरम्परा[सम्पाद्यताम्]

साङ्ख्यमते तामसाद् अहङ्कारात् पञ्च तन्मात्राणि जायन्ते।तन्मात्रेभ्यः पञ्च भूतानि जायन्ते।

कारणम् कार्यम्
तामसः अहङ्कारः पञ्च तन्मात्राणि पञ्च भूतानि
कारणम् कार्यम्

साङ्ख्यमतानुसारम् अस्याः कार्यकारणपरम्परायाः विस्तरः एवम् –

कारणम् कार्यम्
भूतादिः (तामसः) अहङ्कारः (+राजसाहङ्कारस्य साहाय्यम्) ५ तन्मात्राणि

शब्दः
स्पर्शः
रूपम्
रसः
गन्धः

५ भूतानि

आकाशः
वायुः
तेजः
आपः
पृथिवी

कारणम् कार्यम्

आयुर्वेदे तन्मात्राणाम् उत्पत्तिः[सम्पाद्यताम्]

आयुर्वेदे तन्मात्राणाम् उत्पत्तिः एवमुक्ता -
… भूतादेरपि तैजससहायात्तल्लक्षणान्येव पञ्चतन्मात्राण्युत्पद्यन्ते- शब्दतन्मात्रं, स्पर्शतन्मात्रं, रूपतन्मात्रं, रसतन्मात्रं, गन्धतन्मात्रमिति…।सु.शा.१.४

तन्मात्राणि अविशेषाणि [सम्पाद्यताम्]

तन्मात्राणि अविशेषाणि - साङ्ख्यमते[सम्पाद्यताम्]

एतानि तन्मात्राणि अविशेषाणि इत्युक्ते विशेषरहितानि सन्ति इति साङ्ख्याः।
तन्मात्राण्यविशेषाः तेभ्यो भूतानि पञ्च पञ्चभ्यः।एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च॥सां.का.३८
शान्तत्वं, घोरत्वं तथा मूढत्वम् इति त्रयः विशेषाः मताः।सत्त्वप्राबल्यात् शान्तत्वं, रजःप्राबल्यात् घोरत्वं तथा तमःप्राबल्यात् मूढत्वम् आविर्भवति।एते विशेषाः तन्मात्रेषु विद्यमानाः अपि अस्मादृशैः सामान्यजनैः न प्रतीयन्ते।एते विशेषाः योगिनामेव गम्याः।अस्माभिः तन्मात्रेषु शान्तादयः विशेषाः न प्रतीयन्ते अतः ‘न सन्ति’ इति उपचारात् उच्यते।

तन्मात्राणि अविशेषाणि - आयुर्वेदमते[सम्पाद्यताम्]

आयुर्वेदे अपि तन्मात्रविषये ईदृशमेव विवरणं कृतम् –
...तत्रानुद्भूतस्वभावानि बाह्येन्द्रियाग्राह्याणि शब्दादीन्येव तन्मात्राणि, तानि च योगिभिरेव ग्राह्याणि। ... तेषामित्यादि तेषां तन्मात्राणाम्।...विशेषा इति अनुभवयोग्यैः सुखदुःखमोहरूपैः धर्मैः विशिष्यन्त इति विशेषाः शब्दादयः; तन्मात्राणि त्वविशेषाणि, यतस्तान्यनुभवयोग्यैः सुखदुःख-आदिभिः विशेष्टुं न शक्यन्ते, सूक्ष्मत्वात्। - सु.शा.१.४ डह्लणः
तन्मात्राणि अविशेषाणि सन्ति, विशेषाः तन्मात्रेषु सूक्ष्माः सन्ति, ते योगिभिरेव ज्ञायन्ते, ते एव विशेषाः भूतेषु स्पष्टाः, सर्वजनग्राह्याः भवन्ति इति एतत् सर्वं साङ्ख्यमतम् आयुर्वेदे अपि अभ्युपगतम्।के ते विशेषाः इति विशेषगणना तावद् साङ्ख्ये तथा आयुर्वेदे भिन्नरीत्या कृता।
। विशेषाः ।

सत्त्वप्राबल्यात् रजःप्राबल्यात् तमःप्राबल्यात्
साङ्ख्यमते शान्तत्वम् घोरत्वम् मूढत्वम्
आयुर्वेदमते सुखम् दुःखम् मोहः

तन्मात्रेभ्यः भूतानि[सम्पाद्यताम्]

तन्मात्रेभ्यः भूतानि - साङ्ख्यमते[सम्पाद्यताम्]

साङ्ख्यमते एकस्माद् एकस्मात् तन्मात्राद् एकमेकं भूतं जायते।भूतेषु एते शान्तादयः विशेषाः स्पष्टाः भवन्ति।ते अस्माभिः अपि ज्ञातुं शक्यन्ते।

तन्मात्रेभ्यः भूतानि- आयुर्वेदमते[सम्पाद्यताम्]

तामसाद् अहङ्कारात् तन्मात्राणि, तथा तन्मात्रेभ्यः पञ्च भूतानि इति एषा कार्यकारणपरम्परा आयुर्वेदे अपि अभ्युपगता।तन्मात्रेभ्यः भूतोत्पत्तिप्रक्रिया कथं भवति इति अस्मिन् विषये साङ्ख्यायुर्वेदयोः किञ्चिन्मतान्तरं दृश्यते।तदेवम् -
… भूतादेरपि तैजससहायात्तल्लक्षणान्येव पञ्चतन्मात्राण्युत्पद्यन्ते- शब्दतन्मात्रं, स्पर्शतन्मात्रं, रूपतन्मात्रं, रसतन्मात्रं, गन्धतन्मात्रमिति; तेषां विशेषाः -शब्दस्पर्शरूपरसगन्धाः; तेभ्यो भूतानि- व्योमानिलानलजलोर्व्यः; …॥ - सु.शा.१.४
… भूतादेरिति तामसादहङ्काराद्राजससहायात् सत्त्वमात्रयाऽनुविद्धात्।तल्लक्षणान्येव मोहादि-लक्षणानि एव।तत्रानुद्भूतस्वभावानि बाह्येन्द्रियाग्राह्याणि शब्दादीन्येव तन्मात्राणि, तानि च योगिभिरेव ग्राह्याणि। सा मात्रा यस्मिन् तत्तन्मात्रम्। तेषामित्यादि तेषां तन्मात्राणाम्| विशेषा इति अनुभवयोग्यैः सुखदुःख- मोहरूपैर्धर्मैर्विशिष्यन्त इति विशेषाः शब्दादयः; तन्मात्राणि त्वविशेषाणि, यतस्तान्यनुभवयोग्यैः सुखदुःखादिभिर्विशेष्टुं न शक्यन्ते, सूक्ष्मत्वात्। तेभ्यः पञ्चभ्यः शब्द-तन्मात्रादिभ्य एकोत्तरपरिवृद्ध्या व्योमादय उत्पद्यन्ते। तद्यथा- शब्दतन्मात्राच्छब्दगुणं व्योम, शब्दतन्मात्रसहितात् स्पर्शतन्मात्रात् शब्दस्पर्शगुणो वायुः, शब्दस्पर्शतन्मात्रसहिताद्रूपतन्मात्रात् शब्दस्पर्शरूपगुणं तेजः, शब्दस्पर्शरूपतन्मात्रसहिताद्रसतन्मात्राच्छब्दस्पर्शरूपरसगुणा आपः, शब्दस्पर्शरूपरसतन्मात्रसहिताद् गन्धतन्मात्राच्छब्दस्पर्शरूपरसगन्धगुणा पृथिवी। पतञ्जलि-मतानुसारिणश्च शब्दादिभ्य एव व्योमादीनाम् उत्पत्तिमिच्छन्ति। …॥ सु.शा.१.४ डह्लणः

अस्याः टीकायाः आशयः अधः कोष्ठके स्पष्टः भविष्यति -

भूतम् कारणम् - साङ्ख्यमतेन कारणम्-आयुर्वेदमतेन
आकाशः शब्दतन्मात्रम् शब्दतन्मात्रम्
वायुः स्पर्शतन्मात्रम् शब्दतन्मात्रसहितं स्पर्शतन्मात्रम्
तेजः रूपतन्मात्रम् शब्दस्पर्शतन्मात्रसहितं रूपतन्मात्रम्
आपः रसतन्मात्रम् शब्दस्पर्शरूपतन्मात्रसहितं रसतन्मात्रम्
पृथिवी गन्धतन्मात्रम् शब्दस्पर्शरूपरसतन्मात्रसहितं गन्धतन्मात्रम्

तन्मात्रेभ्यः भूतानि – साङ्ख्यायुर्वेदमतयोः भेदः[सम्पाद्यताम्]

साङ्ख्यमते तथा आयुर्वेदमते एवम् भेदः कथं जातः? तस्य प्रश्नस्य उत्तरम् एवमस्ति-
आयुर्वेदे भूतगुणाः द्विविधाःस्वीक्रियन्ते - नैसर्गिकाः गुणाः, भूतान्तरप्रवेशकृताः गुणाः च। ते एवम् –
महाभूतानि खं वायुरग्निरापः क्षितिस्तथा । शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ।।च.शा.१.२७
सम्प्रति उद्देशक्रम-अनुरोधाद् अर्थे अभिधातव्ये अर्थानां प्रकृति-ग्रहण-गृहीत-पञ्चभूत-गुणतया पराधीनत्वाद् अष्टधातुप्रकृति-गृहीतानि भूतानि एव तावद् आह महाभूतानि इत्यादि। शब्दादयः यथासंख्यं ख-आदीनां नैसर्गिकाः गुणा ज्ञेयाः।यः तु गुण-उत्कर्षः अभिधातव्यः, स हि अनुप्रविष्ट-भूतसम्बन्धाद् एव।तेन पृथिव्यां चतुर्भूतप्रवेशात् पञ्चगुणत्वम् एवं जलादौ अपि चतुर्गुणत्वादि ज्ञेयम्।- चक्रपाणिः
तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे । च.शा.१.२८
नैसर्गिकं गुणम् अभिधाय भूतान्तरप्रवेशकृतं गुणम् आह तेषाम् इत्यादि।- चक्रपाणिः
अस्याः टीकायाः आशयः एवम् -

भूतम् नैसर्गिकगुणः भूतान्तरप्रवेशकृतः गुणः
आकाशः शब्दः न कोऽपि
वायुः स्पर्शः शब्दः
अग्निः रूपम् शब्दः स्पर्शः च
आपः रसः शब्दः स्पर्शः रूपं च
पृथिवी गन्धः शब्दः स्पर्शः रूपं रसः च

भूतोत्पत्तिप्रक्रियाविषये साङ्ख्यायुर्वेदयोः मतभेदः किमर्थं विद्यते इति अस्य प्रश्नस्य उत्तरम् इदानीं स्पष्टं भवति।
वायौ स्पर्शगुणः तावत् साङ्ख्र्यैः अङ्गीक्रियते, नान्यः कश्चन गुणः।अतः वायूत्पत्तिः शब्दतन्मात्रात् जाता इति एतावती प्रक्रिया पर्याप्ता साङ्ख्यशास्त्रे।
आयुर्वेदीयाः वायौ स्पर्शगुणम् अङ्गीकुर्वन्ति, तथा शब्दगुणमपि अङ्गीकुर्वन्ति।अतः तैः वायूत्पत्तौ स्पर्शतन्मात्रस्य कारणत्वम् अङ्गीकरणीयं, तथा शब्दतन्मात्रस्य सहकारिकारणत्वम् अपि अनिवार्यतया अङ्गीकरणीयम्।एवं ‘भूतान्तरप्रवेशकृताः गुणाः’ इति व्यवस्था साङ्ख्यशास्त्रे नास्ति, अतः एकस्मात् तन्मात्रात् एकं भूतम् इति प्रक्रिया तत्र उचिता, पर्याप्ता च।
भूतान्तरप्रवेशकृताः गुणाः इति व्यवस्था आयुर्वेदीयैः सम्मता।अतः अन्यस्य भूतस्य अपि तन्मात्रं सहकारिकारणत्वेन तैः अङ्गीकृतम्।

साङ्ख्यायुर्वेदयोः