तरुणौ ...चीरकृष्णाजिनाम्बरौ

विकिपुस्तकानि तः

मूलम्
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥
फ़लमूलाशिनौ दान्तौ तापसौ ब्रम्हचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् । रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥१९॥

पदच्छेदः
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥
फ़लमूल-अशिनौ दान्तौ तापसौ ब्रम्हचारिणौ । पुत्रौ दशरथस्य एतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥व शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् । रक्षःकुल-निहन्तारौ त्रायेतां नः रघु-उत्तमौ ॥१९॥

अन्वयः
तरुणौ, रूपसंपन्नौ, सुकुमारौ, महाबलौ,पुण्डरीकविशालाक्षौ, चीरकृष्णाजिनाम्बरौ, फ़लमूल-अशिनौ, दान्तौ, तापसौ, ब्रम्हचारिणौ, सर्वसत्त्वानां शरण्यौ, सर्वधनुष्मतां श्रेष्ठौ,रक्षःकुल-निहन्तारौ, रघु-उत्तमौ, दशरथस्य एतौ पुत्रौ, भ्रातरौ रामलक्ष्मणौ नः त्रायेताम् ॥१७,१८,१९॥

सरलार्थः
दशरथस्य पुत्रौ रामलक्ष्मणौ भ्रातरौ तरुणौ स्तः।रूपवन्तौ स्तः।कोमलौ स्तः, महाबलिनौ स्तः।तयोः अक्षीणि कमलसदृशानि विशालानि सन्ति। ताभ्यां वल्कलं तथा कृष्णाजिनं धृतम्। तौ फलानि, मूलानि खादतः। तौ दमनयुक्तौ स्तः।तौ तपस्विनौ ब्रह्मचारिणौ स्तः।सर्वप्राणिनां तौ आश्रयभूतौ स्तः।तौ सर्वेषु धनुर्धारिषु श्रेष्ठौ स्तः।ताभ्यां रक्षःकुलस्य संहारः कृतः।रघुकुले तौ उत्तमौ स्तः।एतादृशौ रामलक्ष्मणौ अस्माकं रक्षणं कुर्याताम्॥१७,१८,१९

सन्धिविग्रहः १७,१८,१९

सन्धिः विग्रहः सूत्रम्
विशालाक्षौ विशाल-अक्षौ अकः सवर्णे दीर्घः।६.१.९९
कृष्णाजिनाम्बरौ कृष्ण-अजिन अकः सवर्णे दीर्घः।६.१.९९
अजिनाम्बरौ अजिन-अम्बरौ अकः सवर्णे दीर्घः।६.१.९९
मूलाशिनौ मूल-अशिनौ अकः सवर्णे दीर्घः।६.१.९९
दशरथस्यैतौ दशरथस्य एतौ वृद्धिरेचि।६.१.८७
नो रघूत्तमौ नः रघूत्तमौ ससजुषो रुः।८.२.६६

हशि च।६.१.११२

रघूत्तमौ रघु-उत्तमौ अकः सवर्णे दीर्घः।६.१.९९

समासविग्रहः १७,१८,१९
रूपसंपन्नौ
रूपेण सम्पन्नौ रूपसम्पन्नौ।... तृतीया तत्कृतार्थेन गुणवचनेन।२.१.३०

महाबलौ
महत् बलं ययोः तौ महाबलौ।... अनेकमन्यपदार्थे।२.२.२४

पुण्डरीकविशालाक्षौ
पुण्डरीकम् इव विशाले पुण्डरीकविशाले।... उपमानानि समान्यवचनैः।२.१.५५
पुण्डरीकविशाले अक्षीणि ययोः तौ पुण्डरीकविशलाक्षौ।... अनेकमन्यपदार्थे।२.२.२४

चीरकृष्णाजिनाम्बरौ
कृष्णम् अजिनं कृष्णाजिनम्।... विशेषणं विशेषेण बहुलम्।२.१.५७
चीरं च कृष्णाजिनं च चीजकृष्णाजिने।... चार्थे द्वन्द्वः ।२.२.२९
चीरकृष्णाजिने अम्बरे ययोः तौ चीरकृष्णाजिनाम्बरौ।... अनेकमन्यपदार्थे।२.२.२४


फ़लमूलाशिनौ
फलानि च मूलानि च फलमूलानि।... चार्थे द्वन्द्वः ।२.२.२९
फलमूलानि अश्नीतः फलमूलाशिनौ।...उपपदमतिङ् ।२.२.१९
ब्रम्हचारिणौ
ब्रह्म चरतः ब्रह्मचारिणौ।...उपपदमतिङ् ।२.२.१९


रामलक्ष्मणौ
रामः च लक्ष्मणः च रामलक्ष्मणौ।... चार्थे द्वन्द्वः ।२.२.२९


सर्वसत्त्वानाम्
सर्वाणि सत्त्वानि सर्वसत्त्वानि, तेषाम्।... विशेषणं विशेषेण बहुलम्।२.१.५७


सर्वधनुष्मताम्
सर्वे धनुष्मन्तः सर्वधनुष्मन्तः, तेषाम्।... विशेषणं विशेषेण बहुलम्।२.१.५७

रक्षःकुलनिहन्तारौ
रक्षसां कुलं रक्षःकुलम्।... षष्ठी।२.२.८
रक्षःकुलस्य निहन्तारौ रक्षःकुलनिहन्तारौ।... षष्ठी।२.२.८


रघूत्तमौ
रघुषु उत्तमौ रघूत्तमौ।... सप्तमी शौण्डैः।२.१.४०

रामरक्षास्तोत्रम् - सान्वयं सार्थम्