तृतीयं मिथ्यात्वम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्र.-स्पष्टीकुरुत तृतीयं मिथ्यात्वम्- ज्ञाननिवर्त्यत्वं मिथ्यात्वम्।
उ.-
अज्ञानस्य स्वकार्येण वर्तमानेन प्रविलीनेन वा सह ज्ञानेन निवृत्तिर्बाध: इति विवरणकारस्य वचनम् अनुसृत्य कृतमिदं मिथ्यात्वलक्षणम्। आक्षेप: -
१ उत्तरज्ञानेन पूर्वज्ञानं निवर्तते।अत: पूर्वज्ञाने अतिव्याप्ति: ।
समा.-
उत्तरज्ञानेन पूर्वज्ञानं निवर्तते इति सत्यं तथापि तत्तु विशेषगुणत्वेन रूपेण, न तु ज्ञानत्वेन रूपेण।प्रकृते ज्ञानत्वेन रूपेण ज्ञाननिवर्त्यत्वम् अभिप्रेतम्।अत: न पूर्वज्ञाने नातिव्याप्ति:।
आक्षेप:-
मुद्गरपातेन घट: निवर्तते।तदा घटे ज्ञाननिवर्त्यत्वाभाव:।तथा सति मिथ्यात्वलक्षणं न भवतीति अव्याप्ति:।
समा.-
निवृत्तिरत्र सकारणा अभिप्रेता, न तु कार्यमात्रस्य।मुद्गरपातादिना घटादे: कार्यमात्रस्य निवृत्ति:, न कारणस्य। अत: न अव्याप्ति:।
आक्षेप:-
शुक्तिरजतं भवन्मते मिथ्यात्वस्य उदाहरणम्।तत्र रजतं साक्षात्कारेण निवर्तते, न तु परोक्षज्ञानमात्रेण।अत: साध्यविकलतादोष:। समा.
ज्ञानप्रयुक्त-अवस्थितिसामान्यविरहप्रतियोगित्वम् अभिप्रेतम्।सत्कार्यस्य अस्मन्मते स्वीकार:।अत: कार्यस्य कार्यात्मना अवस्थिति: सम्भवति, कारणात्मनापि अवस्थिति: सम्भवति।मुद्गरादिना घटभङ्गे स्वरूपेण घटविरहेऽपि कारणात्मना घटस्यावस्थितिरस्त्येव।अत: अवस्थितिसामान्य-विरहेति पदं दत्तम्। ब्रह्मज्ञानेन तु घटस्य सकारणो विरह: भवति।उत्तरज्ञानेन नष्टं पूर्वज्ञानं स्वरूपेण नश्यति।स्वकारणात्मना तस्यावस्थिति: अस्त्येव।अत: अनेन परिष्कारेण तत्रापि न सिद्धसाधनम्।
शशशृङ्गे अवस्थितिसामान्यविरह: अस्ति, यतो हि शशशृङ्गं न कारणात्मना विद्यते, न वा कार्यात्मना।तथापि स: विरह: ज्ञानप्रयुक्त: नास्ति।अत: तत्रापि अतिव्याप्ति: नास्ति।
आक्षेप:-
शुक्तिरजतस्यापि अवस्थिति: नास्ति अत: तत्र लक्षणं न घटते इति साध्यवैकल्यम्।
समा.-
न।शुक्तिरजतस्य अवस्थिति: अस्ति,अन्यथा तस्य प्रतीतिरेव नाभविष्यत्। अवस्थितिश्च ज्ञानं विना न निवर्तते इति न साध्यविकलता।
आक्षेप:-
भवन्मते अविद्या एका एव।यदि शुक्तिज्ञानेन सा निवृत्ता तर्हि पुन: भ्रम: न स्यात्।किञ्च मोक्षोऽपि तावता एव सिद्ध्येत्, अविद्यान्तरस्याभावात्।अनेन साध्यवैकल्यदोष: भवति।
समा.-
मूलाविद्या त्वेकैव।शुक्त्यज्ञानादिकं त्ववस्थाविद्या:। एता अगणिता: सन्ति। अत: शुक्तिज्ञानेन शुक्त्यज्ञानं निवृत्तं चेदप्यन्यत्रावस्थाविद्यावशात् भ्रम: सम्भवति। मूलाविद्याविद्यावशात् प्रपञ्चभ्रमश्च सम्भवति।
आक्षेप:-
ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वम् इत्येष परिष्कार: साधु: अथवा न?
समा.-
साधु:।
आक्षेप:-
तर्हि उत्तरकालोत्पन्नयेच्छया निवृत्ते पूर्वज्ञाने मिथ्यात्वलक्षणस्य अतिव्याप्ति:।
समा.-
नातिव्याप्ति:।उत्तरोत्पन्नेच्छादय: उदीच्यत्वरूपेण (उत्तरकालिकत्वरूपेण) पूर्वज्ञाननिवर्तका: जायन्ते, न तु ज्ञानत्वव्याप्यधर्मेण।तेषां निवर्तकत्वं ज्ञानव्याप्यत्वधर्मावच्छिन्नं नास्ति, उदीच्यत्वावच्छिन्नमस्ति। आक्षेप:-
संस्कार: स्मृत्या निवर्तते।स्मृतिश्च ज्ञानत्वव्याप्या।अत: संस्कारे मिथ्यात्वलक्षणम् अतिव्याप्तम्।
समा.-
संस्कार: स्मृत्या निवर्तते इत्यत्र प्रमाणं नास्ति।किञ्च संस्कार: स्मृत्या दृढ: भवतीत्यनुभव:।वस्तुत: साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं मिथ्यात्वम् इति अर्थो विवक्षित:।तादृशं ज्ञाननिवर्त्यत्वं स्मृतौ नास्ति।
आक्षेप:-
संशय: निश्चयज्ञाननिवर्त्य:।अत: तत्र मिथ्यात्वलक्षणस्य अतिव्याप्ति:।
समा.-
न। निश्चयज्ञानं ज्ञानत्वव्याप्यम्।तेन संशयो निवर्तते।परं परोक्षज्ञानेन अपि संशयो निवर्तते।साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं तत्र नास्ति।अतो न तत्रातिव्याप्ति:।

वर्ग: अद्वैतसिद्धिप्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=तृतीयं_मिथ्यात्वम्&oldid=5206" इत्यस्माद् प्रतिप्राप्तम्