त्रयीं तिस्रो...

विकिपुस्तकानि तः

मूलम्
त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान्।
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति।।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः।
समस्त-व्यस्तं त्वां शरणद गृणात्योमिति पदम्।। २७।।

पदच्छेदः-
त्रयीं तिस्रः वृत्तीः त्रिभुवनम् अथ उ त्रीन् अपि सुरान्।अकाराद्यैः वर्णैः त्रिभिः अभिदधत् तीर्णविकृति।।
तुरीयं ते धाम ध्वनिभिः अवरुन्धानम् अणुभिः।समस्त-व्यस्तं त्वां शरणद गृणाति ओम् इति पदम्।।

अन्वयः-
हे शरणद, त्रयीं, तिस्रः वृत्तीः, त्रिभुवनम्, अथ उ त्रीन् अपि सुरान् अकाराद्यैः त्रिभिः वर्णैः अभिदधत् तीर्णविकृति ते तुरीयं धाम अणुभिः ध्वनिभिः ओम् इति पदम् समस्त-व्यस्तं (च) अवरुन्धानम् त्वां गृणाति ।। २७।।

सरलार्थः-
हे शरणद, ओम् इति एतत् पदं व्यष्टिरूपेण व्याप्तं समष्टिरूपेण च व्याप्तं त्वां स्तौति।ओङ्कारे अकारः उकारः मकारः सन्ति।एतैः त्रिभिः एतत् पदं ऋग-यजु:-सामसंज्ञकान् त्रीन् वेदान् प्रतिपादयति, जाग्रत्स्वप्नसुषुप्तसंज्ञकाः तिस्रः वृत्तीः प्रतिपादयति, स्वर्गमृत्युपातालसंज्ञकान् त्रीन् लोकान् प्रतिपादयति, ब्रह्मदेव-विष्णु-महेशसंज्ञकान् त्रीन् सुरान् प्रतिपादयति।किञ्च सूक्ष्मध्वनिभिः तव यत् चतुर्थं विकृतिरहितं पदं तदपि प्रतिपादयति॥२७


शिवस्तोत्राणि      शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=त्रयीं_तिस्रो...&oldid=6182" इत्यस्माद् प्रतिप्राप्तम्