त्रिगुणाः

विकिपुस्तकानि तः
Jump to navigation Jump to search

साङ्ख्यमते सत्त्वं, रजः, तमः इति प्रकृतिगुणाः।सत्त्वरजस्तमोमयी एषा प्रकृतिः पुरुषेण संयुक्ता भवति।ततः सा महदादिप्रपञ्चं सूते।अतः महदादेः सकलस्य प्रपञ्चस्य उपादानकारणं त्रिगुणात्मिका प्रकृतिः।अतः स्वाभाविकमेतद् यत् सर्वः महदादिप्रपञ्चः अपि त्रिगुणात्मकः एव जायते।तदेव उक्तम् अस्यां कारिकायाम्
त्रिगुणं....व्यक्तं तथा प्रधानम्...॥ सां.का.११
व्यक्तमिति महदादिप्रपञ्चः।प्रधानमिति प्रकृतिः।सर्वं जगत् त्रिगुणात्मकम् इति सिद्धान्तः अन्यत्रापि उक्तः -
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः।सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥भ.गीता१८- ४०॥

त्रिगुणानां स्वरूपम् (असाधारणम्) [सम्पाद्यताम्]

त्रयाणामपि गुणानां केचन साधारणाः धर्माः सन्ति, केचन असाधारणाः धर्माः।तेषु प्रथमम् असाधारणान् धर्मान् पश्यामः।प्रत्येकं गुणस्य एते स्वतन्त्राः धर्माः।
प्रीत्यप्रीतिविषादात्मकाः प्रवृत्तिप्रकाशनियमार्थाः। सां.का.१२
सत्त्वं लघु प्रकाशकमिष्टम् उपष्टम्भकं चलं च रजः।गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः॥ सा.का.१३
गुणत्रयस्य अत्र ये धर्माः उक्ताः, तेषां सङ्ग्रहः एवं भवेत्

सत्त्वगुणः रजोगुणः तमोगुणः
प्रीतिः, लघुत्वम्, प्रकाशकत्वम्, इष्टत्वम् अप्रीतिः,चलत्वम्,उत्साहः विषादः,गुरुत्वम्. आवरणम्

गुणत्रयस्य धर्माः यथा साङख्यकारिकायां प्रतिपादिताः, तथा अन्यत्रापि उक्ताः।तेषु असाधारणधर्माणां सङ्कलनम् अत्र दीयते –
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ भ.गीता१४- १४॥
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते।तथा प्रलीनस्तमसि मूढयोनिषु जायते॥भ.गीता१४-१५॥
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्।रजसस्तु फलं दुःखमज्ञानं तमसः फलम्॥ भ.गी१४-१६
सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च।प्रमादमोहौ तमसो भवतोऽज्ञानमेव च॥ भ.गी १४- १७॥
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः।जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः॥ भ.गी.१४-१८
ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः।मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः॥ सां.का.५४
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः।प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः॥ भ.गी.१७-४
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः।यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु॥ भ.गी. १७- ७
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः।रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः॥ भ,गी,१७-८
कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः।आहारा राजसस्येष्टा दुःखशोकामयप्रदाः॥भ.गीता१७-९
यातयामं गतरसं पूति पर्युषितं च यत्।उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥भ.गी१७- १०
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते।यष्टव्यमेवेति मनः समाधाय स सात्त्विकः॥ भ.गी१७-११
अभिसंधाय तु फलं दम्भार्थमपि चैव यत्।इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्॥भ.गी१७-१२
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्।श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ भ.गीता १७- १३॥
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः।अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते॥भगी १७- १७
सत्कारमानपूजार्थं तपो दम्भेन चैव यत्।क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्॥भ.गीता१७- १८
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः।परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्॥ भ.गीता१७- १९
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्॥ भगी.१७-२०
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः।दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्॥ भ.गी१७- २१
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते।असत्कृतमवज्ञातं तत्तामसमुदाहृतम्॥ भ.गी१७- २२
सर्वभूतेषु येनैकं भावमव्ययमीक्षते।अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्॥भ.गी१८- २०
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान्।वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्॥भगी१८- २१
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम्।अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम्॥ भ.गीता १८- २२
नियतं सङ्गरहितमरागद्वेषतः कृतम्।अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते॥भ.गीता १८- २३
यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः।क्रियते बहुलायासं तद्राजसमुदाहृतम्॥भ.गीता १८- २४
अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम्।मोहादारभ्यते कर्म यत्तत्तामसमुच्यते॥भ.गीता१८- २५
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः।सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते॥भगी१८-२६
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः।हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः॥वभगी१८-२७
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः।विषादी दीर्घसूत्री च कर्ता तामस उच्यते॥भगी१८- २८
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु।प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ॥ भ.गीता १८- २९॥
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये।बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी॥भगी १८-३०
यया धर्ममधर्मं च कार्यं चाकार्यमेव च।अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी॥भ.गी१८- ३१
अधर्मं धर्ममिति या मन्यते तमसावृता।सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी॥भ.गी१८-३२
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः।योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी॥भगी १८-३३
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन।प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी॥भगी१८-३४
यया स्वप्नं भयं शोकं विषादं मदमेव च।न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी॥भगी१८-३५
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ।अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति॥भगी१८-३६
यत्तदग्रे विषमिव परिणामेऽमृतोपमम्।तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥भ.गी१८- ३७
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम्।परिणामे विषमिव तत्सुखं राजसं स्मृतम्॥भ.गी १८- ३८
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः।निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्॥भ.गी १८- ३९
एतेषां त्रिगुणधर्माणां कोष्ठके स्थापना क्रियते

सत्त्वम् रजः तमः
देहपातकाले वृद्धं चेत् उत्तमलोकावाप्तिः कर्मसङ्गिषु जन्म मूढयोनिषु जन्म
कर्मफलम् सुखम् दुःखम् अज्ञानम्
कार्यम् ज्ञानम् लोभः प्रमादः, मोहः, अज्ञानम्
गतिः ऊर्ध्वम् मध्ये अधः
पूज्यविषयः देवाः यक्षरक्षांसि प्रेताः भूतगणाः
प्रियः आहारः आयुःसत्त्वबलारोग्यसुखप्रीति-विवर्धनः,रस्यः,स्निग्धः,स्थिरः हृद्यः कटुः,अम्लः,लवणः, तीक्ष्णः, अत्युष्णः, रूक्षः, विदाही, दुःखशोक-आमयप्रदः यातयामः, गतरसः,पूतिः, पर्युषितः,उच्छिष्टः, अमेध्यः
यज्ञः फलाकाङ्क्षारहितः,विधिपूर्वकः, यष्टव्यबुद्ध्या कृतः फलाकाङ्क्षासहितः, दम्भार्थम् विधिहीनः, असृष्टान्नः मन्त्रहीनः, अदक्षिणः, श्रद्धाविरहितः
तपः श्रद्धया परया तप्तं,फलाकाङ्क्षारहितम् सत्कारमानपूजार्थं, दम्भयुतं.चलम् अध्रुवम् मूढग्राहेण,आत्मनो पीडार्थं, परस्य उत्सादनार्थम्
दानम् देशे काले पात्रे च दत्तम्, अनुपकारिणे, दातव्यमिति बुद्ध्या दत्तम् प्रत्युपकारार्थं,फलमुद्दिश्य,परिक्लिष्टं, अदेशकाले, अपात्रेभ्यः दीयते ,असत्कृतम्, अवज्ञातम्
ज्ञानम् विभक्तेषु सर्वभूतेषु अविभक्त-एकत्वदर्शनम् विभक्तेषु सर्वभूतेषु नानात्व-पृथक्त्व-दर्शनम् सङ्कुचितं, निर्युकतिकम् अयथार्थम्
कर्म नियतं, सङ्गरहितं, अरागद्वेषतः कृतं, फलाकाङ्क्षारहितम् फलाकाङ्क्षासहितं, साहंकारं, बहुलायासम् अनुबन्ध-क्षय- हिंसा-पौरुषम् अनवेक्ष्य, मोहाद् आरब्धम्
कर्ता मुक्तसङ्गः, अनहंवादी धृत्युत्साहसमन्वितः,सिद्ध्यसिद्ध्योर्निर्विकारः रागी, कर्मफलप्रेप्सुः, र्लुब्धः हिंसात्मकः अशुचिः,हर्षशोकान्वितः अयुक्तः, प्राकृतः, स्तब्धः, शठः, अनैष्कृतिकः,अलसःविषादी, दीर्घसूत्री
बुद्धिः प्रवृत्ति-निवृत्ती, कार्याकार्ये भयाभये, बन्ध-मोक्षौ वेत्ति धर्ममधर्मं तथा कार्यमकार्यम् अयथावत् प्रजानाति अधर्मं धर्ममिति मन्यते,सर्वार्थान् विपरीतान् मन्यते
धृतिः अव्यभिचारिनी मनःप्राणेन्द्रियक्रियाधारिणी धर्मकामार्थधारिणी. फलाकाङ्क्षिणी यया स्वप्नं भयं शोकं विषादं मदं न विमुञ्चति
सुखम् अग्रे विषमिव परिणामेऽमृतोपमम् विषयेन्द्रियसंयोगजम् अग्रेऽमृतोपमं,परिणामे विषमिव अग्रे चानुबन्धे च मोहकरं, निद्रालस्य-प्रमादजम्

त्रिगुणानां स्वरूपम् (साधारणम्) [सम्पाद्यताम्]

त्रयाणाम् अपि गुणानां असाधारणाः धर्माः उपति उक्ताः।केचन तेषां साधारणधर्माः अपि सन्ति, तान् पश्यामः –
अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः॥सां.का.१२

अन्योन्याभिभवः [सम्पाद्यताम्]

एते गुणाः परस्परं पराभवं कुर्वन्ति इति अर्थः।तदुक्तम् –
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥भ.गीता१४-१०॥

सत्त्वगुणः × रजस्तमसोः पराभवं कृत्वा स्वयं प्रबलः भवति
रजोगुणः × सत्त्वतमसोः पराभवं कृत्वा स्वयं प्रबलः भवति
तमोगुणः × सत्त्वरजसोः पराभवं कृत्वा स्वयं प्रबलः भवति

कथं ज्ञातव्यं यत् ‘अधुना अमुकगुणस्य प्राबल्यम् अस्ति’ इति?कस्य गुणस्य प्राबल्ये सति कानि लक्षणानि उत्पद्यन्ते इति शास्त्रे उक्तम्।तैः तैः लक्षणैः तस्य तस्य गुणस्य उत्कर्षः अनुमीयते।तद्यथा -

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥भ.गीता१४- ११॥
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा।रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ भ.गीता १४- १२॥
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ भ.गीता १४- १३॥

सत्त्वे प्रवृद्धे देहस्य सर्वेन्द्रियेषु प्रकाश उपजायते।
रजसि प्रवृद्धे लोभः, प्रवृत्तिः, आरम्भः, कर्मणामशमः, स्पृहा
तमसि प्रवृद्धे प्रकाशः, अप्रवृत्तिः,प्रमादः, मोहः

अन्योन्याश्रयः –[सम्पाद्यताम्]

गुणाः परस्परम् आश्रयेण कार्यं कुर्वन्ति।आश्रयशब्दः अत्र नाधिकरणार्थकः।आश्रयः साहाय्यम्। प्रत्येकं गुणः अन्ययोः साहाय्येन स्वकार्यं पारयति इति तेषाम् अन्योन्याश्रयः। कार्पासवर्तिः, तैलं तथा अग्निः इति एते त्रयःपरस्परं विलक्षणाः पदार्थाः।परं ते परस्परम् सहकार्येण प्रदीपं ज्वालयन्ति।एवमेव परस्परं विलक्षणाः अपि त्रिगुणाः परस्परं सहकार्येण कार्यं कुर्वन्ति।

अन्योन्यजननम्-[सम्पाद्यताम्]

एतेषु प्रत्येकं गुणः अन्यगुणत्वेन परिणमते।एवं सत्त्वगुणः क्वचिद् रजोगुणरूपेण परिणमते।तदा सत्त्वगुणात् रजोगुणस्य जननं सम्भूतम् इति व्यवहारः भवति।अन्योन्यजननम् एवम् –

अन्योन्यमिथुनत्वम् – [सम्पाद्यताम्]

मिथुनत्वं सदा सङ्गतत्वम्।सत्त्वं सदा रजः सङ्गे वर्तते।रजः सदा सत्त्वसङ्गे वर्तते।एवं सत्त्वरजसी सदा तमसा सङ्गतौ भवतः।एतदेव त्रिगुणानाम् अन्योन्यमिथुनत्वम्।

पुरुष-बन्धकर्तृत्वम् [सम्पाद्यताम्]

एते त्रिगुणाः पुरुषं बध्नन्ति-
सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः।निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥भ.गीता१४- ५॥
तथापि प्रत्येकं गुणस्य बन्धनरीतिः भिन्ना अस्ति।
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥भ.गी.१४- ६॥
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्॥ भ.गी.१४- ७॥
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत॥ भ.गी.१४- ८॥
सत्त्वं सुखे संजयति रजः कर्मणि भारत ।ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥ भ.गी.१४- ९॥

गुणः कथं बध्नाति
सत्त्वम् सुखसङ्गेन, ज्ञानसङ्गेन
रजः कर्मसङ्गेन
तमः प्रमादेन, आलस्येन, निद्रया

पुरुषः त्रिगुणातीतः[सम्पाद्यताम्]

सर्वः महदादिप्रपञ्चः त्रिगुणात्मकः अस्ति,यतो हि तस्य कारणं प्रधानं त्रिगुणात्मकम् अस्ति। पुरुषः तु न प्रकृतौ अन्तर्भवति, न वा प्रकृतिजन्यविकृतौ।

न प्रकृतिर्नविकृतिः पुरुषः।सां.का.३ एवं तर्हि पुरुषः त्रिगुणात्मकः अस्ति वा न ?अत्र साङख्यानाम् उत्तरम् अस्ति -
त्रिगुणादिविपर्ययात्... पुरुषोऽस्ति...। सां.का.१७
पुरुषः त्रिगुणविपरीतः अस्ति इत्युक्ते त्रिगुणात्मकः नास्ति।

आयुर्वेदे त्रिगुणविवेचनं [सम्पाद्यताम्]

अथ आयुर्वेदे त्रिगुणविवेचनं पश्यामः।

प्रपञ्चः त्रिगुणात्मकः [सम्पाद्यताम्]

यथा साङ्ख्यमते सकलः प्रपञ्चः त्रिगुणात्मकः प्रतिपादितः, तथैव आयुर्वेदे अपि
तत्र कारणानुरूपं कार्यमिति कृत्वा सर्व एवैते विशेषाः सत्त्वरजस्तमोमया भवन्ति; -सु.शा.१.१०

पुरुषः तत्त्वतः त्रिगुणरहितः[सम्पाद्यताम्]

पुरुषः अपि त्रिगुणात्मकः अस्ति वा इत्यस्य सुश्रुताचार्येण एत्तम् उत्तरम् एवम् -
तदञ्जनत्वात्, त्तन्मयत्वाच्च तद्गुणा एव पुरुषा भवन्तीत्येके भाषन्ते ॥सु.शा.१.१०
संयुक्तस्य पञ्चविंशतितमस्य पुरुषस्यापि सत्त्वादिगुणत्वं दर्शयन्नाह- तदञ्जनत्वादित्यादि। तेषां सत्त्वरजस्तमसामञ्जनं लक्षणं व्यक्तिर्वा येषु ते तदञ्जनाः पुरुषाः; सत्त्वादिलक्षणा इत्यर्थः, तेषां भावस्तत्त्वं, तस्मात् तदेव कुत इत्याह- तन्मयत्वादिति। सत्त्वादिमयत्वात्। सत्त्वादिमयत्वं पुनः पुरुषाणां सत्त्वादिरूपे महदादौ प्रतिबिम्बनात्; यथा- तडागोदके प्रतिबिम्बितो विधुस्तडागोदकप्रकम्पनेन प्रकम्पात्मकः कथ्यते, एवं सत्त्वादिरूपे महदादौ प्रतिबिम्बिताः पुरुषाः सत्त्वादिमया इव भवन्ति, न तु वास्तवं सत्त्वादिमयत्वं; तादृशाच्च तन्मयत्वात्तल्लक्षणत्वेन तद्गुणाः सुखिनो दुःखिनो मूढाश्च पुरुषा भवन्ति।
अस्याः टीकायाः सारः एवं यत् पुरुषः तत्त्वतः त्रिगुणरहितः अस्ति,तथापि महदादि-प्रपञ्चे तस्य बिम्बः दृश्यते अतः सः अपि सत्त्वरजस्तमोमयः अस्ति इति भाति।

चरकसंहितायामपि एतदुक्तम् –
निर्विकारः परस्त्वात्मा सर्वभूतानां निर्विशेषः; सत्त्वशरीरयोस्तु विशेषाद्विशेषोपलब्धिः।च.शा.४.३३
सुखादयस्तु न परमात्मविकाराः, किन्तु बुद्धिधर्मा एवेति दर्शितमेव। यानि चात्मजत्वेन गर्भे “तासु तासु योनिषूत्पत्तिः” (शा. ३)इत्यादिना ग्रन्थेन दर्शितानि, तान्यपि परमात्मविकारा न भवन्ति, किन्तु सत्त्वरजस्तमःप्रबलतारूपविकारजमनोविकारजन्यधर्माधर्मजन्यान्येव । चक्रपाणिः
राशिपुरुषाः सत्त्वरजस्तमोमयाः सन्तीति भाति।कः पुरुषः सत्त्वबहुलः, कः रजोबहुलः. कश्च तमोबहुलः इति जिज्ञासा जायते।तस्याः समाधानार्थं सुश्रुताचार्येण प्रत्येकं कानिचन लक्षणानि उक्तानि
सात्त्विकास्तु आनृशंस्यं संविभागरुचिता तितिक्षा सत्यं धर्म आस्तिक्यं ज्ञानं बुद्धिर्मेधास्मृतिर्धृतिः अनभिषङ्गश्च;
राजसास्तु दुःखबहुलताऽटनशीलताऽधृतिरहङ्कार आनृतिकत्वमकारुण्यं दम्भो मानो हर्षः कामः क्रोधश्च;
तामसास्तु विषादित्वं नास्तिक्यमधर्मशीलता बुद्धेर्निरोधोऽज्ञानं दुर्मेधस्त्वमकर्मशीलता निद्रालुत्वं चेति। सु.शा.१.१८

सात्त्विकपुरुषाः राजसपुरुषाः तामसपुरुषाः
आनृशंस्यं, संविभागरुचिता, तितिक्षा, सत्यं, धर्मः, आस्तिक्यं, ज्ञानं, बुद्धिः,मेधा, स्मृतिः, धृतिः, अनभिषङ्गः दुःखबहुलता, अटनशीलता अधृतिः अहङ्कारः आनृतिकत्वम् अकारुण्यं दम्भः मानः हर्षः कामः क्रोधः विषादित्वं, नास्तिक्यम्, अधर्मशीलता, बुद्धेर्निरोधः,अज्ञानं, दुर्मेधस्त्वम्, अकर्मशीलता, निद्रालुत्वम्

चरकाचार्येण अपि त्रिगुणप्रभावाम् अनुसृत्य चित्तस्य त्रयो भेदाः उक्ताः
त्रिविधं खलु सत्त्वं- शुद्धं, राजसं, तामसमिति। तत्र शुद्धमदोषमाख्यातं कल्याणांशत्वात्, राजसं सदोषमाख्यातं रोषांशत्वात्, तामसमपि सदोषम् आख्यातं मोहांशत्वात्।च.शा.४.३६

त्रिगुण-महाभूतसम्बन्धः-[सम्पाद्यताम्]

त्रिगुणेभ्यः भूतानि उत्पद्यन्ते।अतः तयोः कार्यकारणभावसम्बन्धः इति साङ्ख्यमतम्। एतद् मतम् आयुर्वेदे अभ्युपगतम्।पञ्च अपि महाभूतानि त्रिगुणेभ्यः जातानि इति एतावान् अंशः साङ्ख्यमतात् स्वीकृतः।ततः कस्मिन् महाभूते कस्य गुणस्य प्राबल्यं वर्तते इति स्वशास्त्रे अधिकं प्रतिपादितम्।तदेवम् –
तत्र सत्त्वबहुलमाकाशं, रजोबहुलो वायुः, सत्त्वरजोबहुलोऽग्निः, सत्त्वतमोबहुला आपः, तमोबहुला पृथिवीति ॥सु.शा.१.२०॥

अथाकाशादिभूतानां सत्त्वादिगुणमयत्वं दर्शयन्नाह- तत्रेत्यादि। सत्त्वबहुलमाकाशं प्रकाशकत्वात्, रजोबहुलो वायुश्चलत्वात्, सत्त्वरजोबहुलोऽग्निः प्रकाशकत्वाच्चलत्वाच्च, सत्त्वतमोबहुला आपः स्वच्छत्वात् प्रकाशकत्वाद्गुरुत्वादावरणत्वाच्च, तमोबहुला पृथिवी अत्यन्तावरकत्वात्। सु.शा.१२० डह्लणः
सूत्रटीकयोः आशयः एवम्-

महाभूतम् प्रबलः गुणः गुण-भूतयोः सादृश्यम्
आकाशम् सत्त्वम् प्रकाशकत्वम्
वायुः रजः चलत्वम्
अग्निः सत्त्वं रजः च प्रकाशकत्वं चलत्वं च
आपः सत्त्वं तमः च स्वच्छत्वम् प्रकाशकत्वम् गुरुत्वम् आवरणत्वम्
पृथिवी तमः अत्यन्तावरकत्वम्

ननु यदि भूतानि त्रिगुणात्मकानि, तर्हि भूतजन्येषु कार्यद्रव्येषु त्रिगुणानां प्रतीतिः कुतो न भवति? अस्य प्रश्नस्य समाधानं कृतम्
- सत्त्वरजस्तमसां परमं रूपं दृष्टिपथं नोपगच्छति किन्तु विशेषेष्वभिव्यज्यते, सर्व एव विशेषास्तमोमया इत्युक्तत्वात् मा.नि.१७.१४ आतङ्कदर्पणः
सर्वे एव विशेषाः तमोमयाः इति अत्र यदुक्तं तद् भूतजन्यकार्यद्रव्याभिप्रायेण।यतो हि सर्वानि महाभूतानि तामसाद् अहङ्कारात् जायन्ते इति साङ्ख्याः वदन्ति।
सत्त्वरजस्तमसां रूपं विशेषेषु अभिब्यज्यते '’ इति टीकाकारः वदति।तस्य एतानि कतिपयानि निदर्शनानि।सर्वाणि एतानि निदर्शनानि भावप्रकाशनिघण्टोः आधारेण प्रतिपाद्यन्ते।

पाञ्चभौतिकं द्रव्यम् तत्र अभिव्यज्यमानाः त्रिगुणाः कुतः अनुमीयते?
हरीतकी सत्त्वम् रजः मेध्या उन्मीलनी बुद्धिबलेन्द्रियाणाम्
’बिभीतकम्' तमः कलिद्रुमः,मदकृत्
’शङ्खपुष्पी' सत्त्वम् मङ्गल्यकुसुमा,मेध्या
’अरिष्टकः' सत्त्वम् मङ्गल्यः,ग्रहजित्
’भल्लातकम्' सत्त्वम् मेध्यम्
’गोरोचना सत्त्वम् मङ्गल्या,अलक्ष्मीहृत् ग्रहहृत्
धत्तूरः रजः मदकृत्,उन्मत्तः
मधु' सत्त्वम् ह्लादि, प्रसादजनकं मेधाकरम्
चन्दनम् सत्त्वम् आह्लादनम्
'’नागदमनी'’ सत्त्वम् सुमतिप्रदा
गोघृतम् सत्त्वम् स्मृतिकरं, मेध्यम्, पवित्रं, सुमङ्गल्यम्
माहिषदुग्धम् तमः निद्राकरम्
पीयूषम् तमः विनिद्राणां हितकरम्
भङ्गा रजः तमः च मोहवर्द्धिनी

त्रिगुणाः तथा मद्यपानम् [सम्पाद्यताम्]

सात्त्विकाः, राजसाः, तामसाः च जनाः मद्यं पिबन्ति।तथापि तेषां मद्यपानरीतिः विभिन्ना वर्तते
- ==सात्त्विकानां मद्यपानम==
सुगन्धिमाल्यगन्धर्वं सुप्रणीतमनाकुलम्।मिष्टान्नपानविशदं सदा मधुरसङ्कथम्॥७४
सुखप्रपानं सुमदं हर्षप्रीतिविवर्धनम्।स्वन्तं सात्त्विकमापानं न चोत्तममदप्रदम्॥७५
वैगुण्यं सहसा यान्ति मद्यदोषैर्न सात्त्विकाः।मद्यं हि बलवत्सत्त्वं गृह्णाति सहसा न तु॥च.चि.२४.७६
==राजसानां मद्यपानम् ==
सौम्यासौम्यकथाप्रायं विशदाविशदं क्षणात्।चित्रं राजसमापन्नं प्रायेणास्वन्तकाकुलम्॥ च.चि.२४.७७
='तामसानां मद्यपानम्' == -
हर्षप्रीतिकथापेतमतुष्टं पानभोजने।सम्मोहक्रोधनिद्रान्तमापानं तामसं स्मृतम्॥ च.चि.२४.७८

सात्त्विकानां मद्यपानम् राजसानां मद्यपानम् तामसानां मद्यपानम्
सुगन्धपुष्पैः युतम्,गानयुतम्,शोभनं प्रवर्तितम् (सुप्रणीतम्),व्याकुलतारहितम्,मिष्टान्नपानसहितम्, विशदम्,मधुरकथाभिः युक्तम्,सुखजनकं , इषन्मदकरनम् ,हर्षविवर्धनम् प्रीतिविवर्धनम्,समाप्तिः शोभना,उत्तममदरहितम् क्वचित् सौम्याः कथाः ,क्षणमात्रेण उग्राः कथाः,क्वचित् प्रसन्नवार्ताः,क्षणमात्रेण अप्रसन्नवार्ताः क्वचित् सुसङ्गातानि वाक्यानि,सहसा विसङ्गतानि वाक्यानि ,समाप्तिः अशोभना, व्याकुलतायुतम् न हर्षः,न प्रीतिः,न कथालापः,न सन्तोषः,मोहः,क्रोधः,अन्ते निद्रा

त्रिगुणाः निद्रास्वप्नप्रबोधनानि च।[सम्पाद्यताम्]

निद्रा तथा प्रबोधनम् इति एते उभे अपि शारीरक्रिये।तत्र त्रिगुणानां निमित्तत्वं विद्यते-
हृदयं चेतनास्थानमुक्तं सुश्रुत ! देहिनाम्। तमोभिभूते तस्मिंस्तु निद्रा विशति देहिनम्॥३४
निद्राहेतुस्तमः, सत्त्वं बोधने हेतुरुच्यते। सु.शा.४.३५
करणानां तु वैकल्ये तमसाऽभिप्रवर्धिते ।अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते ॥ सु.शा.४.३७


एवमेव स्वप्नः अपि रजोगुणस्य कार्यम्
पूर्वदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुः रजोयुक्तेन मनसा गृह्णात्यर्थाञ् शुभाशुभान्॥ सु.शा.४.३६
मनसः... सर्वदैव सम्भवात् सदा स्वप्नदर्शनप्रसङ्ग इत्याह- रजोयुक्तेनेति; रजःप्रेरितेनेत्यर्थः, रजसः प्रवर्तकत्वात्; तमोयुक्तेन च मनसा न किमपि सुप्तः पश्यति, तमस आवरणात्मकत्वात्. सु.शा.४.३५डह्लणः
जाग्रदवस्था, स्वप्नावस्था तथा निद्रावस्था इति एतासां शरीरावस्थानां त्रिगुणैः कार्यकारणसम्बन्धः एवं भवति

अवस्था प्रबोधनम् स्वप्नः निद्रा
हेतुः सत्त्वगुणः रजोगुणः तमोगुणः

किञ्च निद्रापि त्रिगुणतारतम्यात् भिद्यते।
तत्र यदा सञ्ज्ञावहानि स्रोतांसि तमोभूयिष्ठः श्लेष्मा प्रतिपद्यते तदा तामसी नाम निद्रा सम्भवति अनवबोधिनी, सा प्रलयकाले; तमोभूयिष्ठानामहःसु निशासु च भवति, रजोभूयिष्ठानामनिमित्तं, सत्त्वभूयिष्ठानामर्धरात्रे; क्षीणश्लेष्मणामनिलबहुलानां मनःशरीराभितापवतां च नैव, सा वैकारिकी भवति ॥ सु.शा.४.३३

यद्यपि तन्त्रान्तरीयैः सप्तविधा निद्रा पठिता तथाऽपि त्रिविधैव- तामसी, स्वाभाविकी, वैकारिकी चेति भेदेन; ताः क्रमेण दर्शयन्नाह- तत्र यदेत्यादि। यद्यपि सर्वासामपि निद्राणां तमो हेतुस्तथाऽपि प्रकृष्टतमस्त्वात् तामसीयं निद्रा कथ्यते। स्वाभाविकीमाह- तम इत्यादि। अनिमित्तमनियतकालं, चलत्वाद्रजसः कदाचिद्दिवा कदाचिद्रात्रावित्यर्थः। सत्त्वभूयिष्ठानामर्धरात्र इति तस्मिन् काले किञ्चिदल्पीभूतं सत्त्वमुत्कटं च तमो भवति, तस्मादर्धरात्रे सात्त्विकाः स्वपन्ति। वैकारिकीमाह- क्षीणेत्यादि।एवम्भूतानां पुरुषाणां निद्रा नैव भवति, यदि च भवति तदा वैकारिकी नाम निद्रा भवति। ननु, यदा लङ्घनश्रमादिभिर्वायुर्वर्धते श्लेष्मा च क्षीयते तदा कथं निद्रोदेति? उच्यते- मनसः क्लान्तत्वाद्भूतात्मनो विषयनिवृत्तौ प्राणिनः स्वपन्ति। तदुक्तं चरके- “यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः। विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः”। डह्लणः

अस्य सूत्रस्य सारः एवम्

निद्राभेदः स्वरूपम् त्रिगुणाः
तामसी अनवबोधिनी,प्रलयकाले भवति तमोभूयिष्ठः श्लेष्मा
स्वाभाविकी तमोभूयिष्ठानामहःसु निशासु च प्रकृतिगतं तमः +निद्रारम्भकं तमः
स्वाभाविकी रजोभूयिष्ठानामनिमित्तं भवति। प्रकृतिगतं रजः+ निद्रारम्भकं तमः
स्वाभाविकी सत्त्वभूयिष्ठानामर्धरात्रे भवति। प्रकृतिगतं सत्त्वम् + निद्रारम्भकं तमः
वैकारिकी मनःशरीराभितापवतां भवति। क्षीणश्लेष्मा+वातकोपः+मनःशरीराभितापजं तमः

रजस्तमसी रोगहेतू-[सम्पाद्यताम्]

सुश्रुताचार्येण मूर्च्छायाः सम्प्राप्तिः उक्ता

सञ्ज्ञावहासु नाडीषु पिहितास्वनिलादिभिः ।तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ॥

सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत् ।मोहो मूर्च्छेति तां प्राहुः ।सु.उ.४६.७

अत्र तमोगुणः रोगस्य हेतुः।

अन्येषु तमोबहुलेषु रोगेषु मदात्ययादिषु सत्त्वरजसी न तथा लीयेते, यथा मूर्छायामित्यत आह–सुखदुःखव्यपोहकृदिति। सुखदुःखयोरसंवित्तिकरम्। मा.नि.१७.४ मधुकोशः


यथा मूर्च्छायाः सम्प्राप्तौ, तथा भ्रमस्य तथा तन्द्रायाः सम्प्राप्तौ अपि रजस्तमसोः हेतुत्वं वर्तते मूर्च्छा पित्ततमःप्राया, रजःपित्तानिलाद्भ्रमः |तमोवातकफात्तन्द्रा, निद्रा श्लेष्मतमोभवा॥सु.शा.४.५६
मूर्छा पित्ततमःप्राया तमोगुणयुक्तेन पित्तेन मूर्छा भवति। भ्रमहेतुमाह रज इति। रजोगुणेन पित्तानिलाभ्यां युक्तेन भ्रमो भवति, … तन्द्राहेतुमाह तम इति।तमोगुणेन युक्ताभ्यां वातकफाभ्यां तन्द्रा भवति, समाहारद्वन्द्वेनैकवचनम्। निद्राहेतुमाह श्लेष्मणा मिलितेन तमोगुणेन निद्रा भवति; मानि.१९.१७ आतङ्कदर्पणः

अवस्था मूर्च्छा भ्रमः तन्द्रा निद्रा
हेतुः पित्तं + तमः वातः +पित्तं+ रजः वातः+कफः+तमः कफः +तमः

मदमूर्च्छासन्न्यासेषु रजस्तमसी हेतू[सम्पाद्यताम्]

मलिनाहारशीलस्य रजोमोहावृतात्मनः।प्रतिहत्यावतिष्ठन्ते जायन्ते व्याधयस्तदा॥२६
मदमूर्च्छायसन्न्यासास्तेषां विद्याद्विक्षणः।यथोत्तरं बलाधिक्यं हेतुलिङ्गोपशान्तिषु॥च.सू.२७.२४

व्याधिः हेतुभूतस्य रजसः मानम् हेतुभूतस्य तमसः मानम्
मदः + +
मूर्च्छा ++ ++
सन्न्यासः +++ +++





साङ्ख्यायुर्वेदयोः 
"https://sa.wikibooks.org/w/index.php?title=त्रिगुणाः&oldid=6767" इत्यस्माद् प्रतिप्राप्तम्