त...

विकिपुस्तकानि तः
Jump to navigation Jump to search

तज्जन्यप्रत्यक्षविषयत्वम् =
तत्प्रत्यक्षत्वम्। तत्साक्षात्कृतत्वम्।तद्ग्राह्यत्वम्।तदुपलब्धत्वम्।
यथा रूपे चक्षुर्जन्यप्रत्यक्षविषयत्वं,चक्षुःप्रत्यक्षत्वं, चक्षुःसाक्षात्कृतत्वं,चक्षुर्ग्राह्यत्वं, चक्षुरुपलब्धत्वं वा विद्यते।
यथा कार्ष्ण्ये चक्षुर्जन्यप्रत्यक्षविषयत्वं,चक्षुःप्रत्यक्षत्वं,चक्षुःसाक्षात्कृतत्वं,चक्षुर्ग्राह्यत्वं, चक्षुरुपलब्धत्वं वा विद्यते।

तत्त्वातिरिक्तधर्मानवच्छिन्नप्रतियोगिता-निरूपकाभावः =
तत्सामान्याभावः।
भूतले कोऽपि घटः नास्ति इति घटत्वातिरिक्तधर्मानवच्छिन्नप्रतियोगिता-निरूपकाभावः, घटसामान्याभावः वा।
सन्धौ कापि चेष्टा न भवति इत्युक्ते सन्धौ चेष्टात्वातिरिक्तधर्मानवच्छिन्न-प्रतियोगितानिरूपकाभावः, चेष्टासामान्याभावः वा।

तत्त्वावच्छिन्न-अवच्छेदकताक-प्रतियोगिताकभेदः =
तदवच्छिन्नभेदः।तद्वद्भेदः ।‘तद्वान् नेति’ प्रतीतिसिद्धभेदः।
परशुमान् जामदग्न्यः रामः परश्वभाववतः कौसल्येयाद् रामाद् भिन्नः इत्युक्ते कौसल्येयरामे परशुरामस्य यो भेदः सः परशुत्वावच्छिन्न-अवच्छेदकताक-प्रतियोगिताकभेदः, परश्ववच्छिन्नभेदः,परशुवद्भेदः,कौसल्येयः परशुमान् न इति प्रतीतिसिद्धभेदः वा।
गर्भवत्याः भेदः सूतिकायाम् ।स च गर्भावच्छिन्न-अवच्छेदकताक-प्रतियोगिताक-भेदः, गर्भावच्छिन्नभेदः, गर्भवद्भेदः, गर्भवती न इति प्रतीतिसिद्धभेदः।
तत्त्वावच्छिन्नकार्यतानिरूपितकारणतावत् =
तदसाधारणकारणम्।
कपालद्वयं घटत्वावच्छिन्नकार्यतानिरूपितकारणतावत् घटासाधारणकारणं वा।
जलं कफत्वावच्छिन्नकार्यतानिरूपितकारणतावत् कफासाधारणकारणं, वा।

तत्त्वावच्छिन्न-सम्बद्धतानिरूपितसम्बन्धितावत् =
तत्सम्बन्धि ।
घटे पूरितं जलं घटसम्बन्धि जलं,घटत्वावच्छिन्न-सम्बद्धतानिरूपितसम्बन्धितावत् जलं वा।
आर्द्रकरसः आर्द्रकसम्बन्धी रसः, आर्द्रकत्वावच्छिन्नसम्बद्धतानिरूपित-सम्बन्धितावान् वा रसः।

तत्त्वावच्छिन्नाधेयतानिरूपिताधिकरणतावत् =
तदधिकरणम्।तद्वत्।
यथा भूतले घटः अस्ति इत्युक्ते भूतलं टत्वावच्छिन्नाधेयतानिरूपिताधिकरणतावत्, घटाधिकरणं, घटवत् वा।
यथा रक्ते पित्तम् अस्ति इत्युक्ते रक्तं पित्तत्वावच्छिन्न-आधेयतानिरूपित-अधिकरणतावत् पित्ताधिकरणं, पित्तवत् वा।

तत्प्रकारकत्वम् =
तन्निष्ठप्रकारताकत्वम्।तन्निष्ठप्रकारतानिरूपकत्वम् ।तन्निष्ठप्रकारतानिरूपित-प्रकारित्वम् । तन्निष्ठप्रकारताशालित्वम् । तत्प्रकारित्वम् ।
यथा नीलघटज्ञानम् इति नीलत्वप्रकारक - घटविशेष्यक – ज्ञानम्।अस्मिन् ज्ञाने नीलत्वप्रकारकत्वं, नीलत्वनिष्ठप्रकारताकत्वं, नीलत्वनिष्ठप्रकारतानिरूपकत्वं, नीलत्वनिष्ठप्रकारतानिरूपितप्रकारित्वं, नीलत्वनिष्ठप्रकारताशालित्वं नीलत्व-प्रकारित्वम् वा वर्तते ।
यथा रक्तमण्डलम् इति रक्तत्वप्रकारकमण्डलविशेष्यकज्ञानम्।अस्मिन् ज्ञाने रक्तत्व-प्रकारकत्वं, रक्तत्वनिष्ठप्रकारताकत्वं, रक्तत्वनिष्ठप्रकारतानिरूपकत्वं, रक्तत्वनिष्ठ-प्रकारतानिरूपितप्रकारित्वं, रक्तत्वनिष्ठप्रकारताशालित्वं, रक्तत्वप्रकारित्वम् वा वर्तते

तत्प्रकारित्वम् =
तन्निष्ठप्रकारताकत्वम्।तन्निष्ठप्रकारतानिरूपकत्वम् । तन्निष्ठप्रकारता-निरूपितप्रकारित्वम् । तन्निष्ठप्रकारताशालित्वम् । तत्प्रकारकत्वम्।
यथा नीलघटज्ञानम् इति नीलत्वप्रकारक - घटविशेष्यक - ज्ञानम् अस्मिन् ज्ञाने नीलत्वप्रकारित्वं, नीलत्वनिष्ठप्रकारताकत्वं, नीलत्वनिष्ठप्रकारतानिरूपकत्वं, नीलत्वनिष्ठप्रकारतानिरूपितप्रकारित्वं, नीलत्वनिष्ठप्रकारताशालित्वं, नीलत्व-प्रकारकत्वं वा वर्तते ।
यथा रक्तमण्डलम् इति रक्तत्वप्रकारकमण्डलविशेष्यकज्ञानम् अस्मिन् ज्ञाने रक्तत्व-प्रकारित्वं, रक्तत्वनिष्ठप्रकारताकत्वम्, रक्तत्वनिष्ठप्रकारतानिरूपकत्वं, रक्तत्वनिष्ठ-प्रकारतानिरूपितप्रकारित्वं, रक्तत्वनिष्ठप्रकारताशालित्वं,रक्तत्वप्रकारकत्वं वा वर्तते ।

तत्प्रतियोगिकत्वम् =
तत्प्रतियोगिताकत्वं,तन्निष्ठप्रतियोगितानिरूपकत्वम्।
घटाभावः इत्यत्र अभावे घटप्रतियोगिकत्वं, घटप्रतियोगिताकत्वं, घटनिष्ठ-प्रतियोगितानिरूपकत्वं वा विद्यते।
व्रणे पूयाभावः इत्यत्र अभावे पूयप्रतियोगिकत्वं, पूयप्रतियोगिताकत्वं, पूयनिष्ठप्रतियोगितानिरूपकत्वं वा विद्यते।

तत्प्रतियोगिकाभावः =
तदभावः।तदवच्छेदकावच्छिन्नप्रतियोगितानिरूपकाभावः।
यथा घटो नास्ति इत्युक्ते घटप्रतियोगिकाभावः, घटाभावः, घटत्व-(घटावच्छेदक-) वच्छिन्नप्रतियोगितानिरूपकाभावः वा वर्तते।
यथा पूयः नास्ति इत्युक्ते पूयप्रतियोगिकाभावः, पूयाभावः, पूयत्वावच्छिन्न-प्रतियोगितानिरूपकाभावः वा वर्तते।

तत्प्रतियोगिताकत्वम् =
तत्प्रतियोगिकत्वम्।तन्निष्ठप्रतियोगितानिरूपकत्वम्।
घटाभावः इत्यत्र अभावे घटप्रतियोगिताकत्वं,घटप्रतियोगिकत्वं, घटनिष्ठ-प्रतियोगितानिरूपकत्वं वा विद्यते।
पूयाभावः इत्यत्र अभावे पूयप्रतियोगिताकत्वं,पूयप्रतियोगिकत्वं, पूयनिष्ठ-प्रतियोगितानिरूपकत्वं वा विद्यते।

तत्प्रत्यक्षजनकत्वम् =
तद्ग्राहकत्वम्।तदुपलम्भकत्वम्।
यथा चक्षुषि रूपप्रत्यक्षजनकत्वं, रूपग्राहकत्वं, रूपोपलम्भकत्वं वा विद्यते।
यथा चक्षुषि कार्ष्ण्यप्रत्यक्षजनकत्वं,कार्ष्ण्यग्राहकत्वं,कार्ष्ण्योपलम्भकत्वं वा विद्यते।

तत्प्रत्यक्षत्वम् =
तत्साक्षात्कृतत्वम्।तद्ग्राह्यत्वम्।तज्जन्यप्रत्यक्षविषयत्वम्।तदुपलब्धत्वम्।
यथा रूपे चक्षुःप्रत्यक्षत्वं, चक्षुःसाक्षात्कृतत्वं,चक्षुर्ग्राह्यत्वं,चक्षुर्जन्यप्रत्यक्षविषयत्वं, चक्षुरुपलब्धत्वं,वा विद्यते।
यथा कार्ष्ण्ये चक्षुःप्रत्यक्षत्वं, चक्षुःसाक्षात्कृतत्वं, चक्षुर्ग्राह्यत्वं ,चक्षुर्जन्यप्रत्यक्ष-विषयत्वं,चक्षुरुपलब्धत्वं वा विद्यते।

तत्संसर्गकत्वम् =
तन्निष्ठसंसर्गताकत्वम्। तन्निष्ठसंसर्गतानिरूपकत्वम्।तत्संसर्गित्वम्। तन्निष्ठसंसर्गतानिरूपितसंसर्गित्वम्।तन्निष्ठसंसर्गताशालित्वम्।

यथा नीलघटज्ञानम् इति नीलत्वप्रकारक-घटविशेष्यक-समवायसंसर्गक-ज्ञानम्। अस्मिन् ज्ञाने समवायसंसर्गत्वं, समवायनिष्ठसंसर्गताकत्वं, समवायनिष्ठसंसर्गता-निरूपकत्वं, समवायसंसर्गित्वं समवायनिष्ठसंसर्गतानिरूपितसंसर्गित्वं, समवायनिष्ठ-संसर्गताशालित्वं वा विद्यते।
यथा पीतमूत्रम् इति पीतत्वप्रकारक-मूत्रविशेष्यक-समवायसंसर्गकज्ञानम्।अस्मिन् ज्ञाने समवायसंसर्गत्वं, समवायनिष्ठसंसर्गताकत्वं,समवायनिष्ठसंसर्गतानिरूपकत्वं, समवायसंसर्गित्वं, समवायनिष्ठसंसर्गतानिरूपितसंसर्गित्वं, समवायनिष्ठसंसर्गता-शालित्वं वा विद्यते।

तत्संसर्गित्वम् =
तत्संसर्गकत्वम्।तन्निष्ठसंसर्गताकत्वम्।तन्निष्ठसंसर्गतानिरूपकत्वम्। तन्निष्ठसंसर्गतानिरूपितसंसर्गित्वम्।तन्निष्ठसंसर्गताशालित्वम् ।
यथा नीलघटज्ञानम् इति नीलत्वप्रकारक-घटविशेष्यक-समवायसंसर्गकज्ञानम्। अस्मिन् ज्ञाने समवायसंसर्गित्वं,समवायसंसर्गत्वं, समवायनिष्ठसंसर्गताकत्वं, समवायनिष्ठसंसर्गतानिरूपकत्वं, समवायनिष्ठसंसर्गतानिरूपितसंसर्गित्वं, समवायनिष्ठसंसर्गताशालित्वं वा विद्यते।
यथा पीतमूत्रम् इति पीतत्वप्रकारक-मूत्रविशेष्यक-समवायसंसर्गकज्ञानम्।अस्मिन् ज्ञाने समवायसंसर्गित्वं, समवायसंसर्गत्वं, समवायनिष्ठसंसर्गताकत्वं, समवायनिष्ठसंसर्गतानिरूपकत्वं, समवायनिष्ठसंसर्गतानिरूपितसंसर्गित्वं, समवायनिष्ठसंसर्गताशालित्वं वा विद्यते।

तत्सत्वम् =
तदधिकरणकत्वम् तदधिकरणताकत्वम् । तदाधारकत्वम् । तदाधारताकत्वम् । तदाश्रयकत्वम् । तदाश्रयताकत्वम् । तद्वर्तमानत्वम् । तद्विद्यमानत्वम् । तद्वृत्तित्वम् । तन्निष्ठत्वम् । तन्निष्ठाधारतानिरुपकत्वम् । तन्निष्ठाधिकरणतानिरूपकत्वम् । तन्निष्ठाश्रयतानिरूपकत्वम् ।
यथा भूतले घटः इत्यत्र घटे भूतलसत्वं, भूतलाधिकरणकत्वं, भूतल-अधिकरणताकत्वं, भूतलाधारकत्वं, भूतलाधारकताकत्वं, भूतलाश्रयकत्वं, भूतलाश्रयताकत्वं, भूतलवर्तमानत्वं, भूतलविद्यमानत्वं, भूतलवृत्तित्वं, भूतनिष्ठत्वं, भूतलनिष्ठाधारतानिरुपकत्वं, भूतलनिष्ठाधिकरणतानिरूपकत्वं, भूतलनिष्ठश्रयता-निरूपकत्वं वास्ति।
यथा जिह्वायां रसनेन्द्रियम् इत्यत्र रसनेन्द्रिये जिह्वासत्वं, जिह्वाधिकरणकत्वं, जिह्वा-अधिकरणताकत्वं, जिह्वाधारकत्वं, जिह्वाधारकताकत्वं, जिह्वाश्रयकत्वं, जिह्वा-आश्रयताकत्वं, जिह्वावर्तमानत्वं, जिह्वाविद्यमानत्वं, जिह्वावृत्तित्वं, जिह्वानिष्ठत्वं, जिह्वानिष्ठाधारतानिरुपकत्वं, जिह्वानिष्ठाधिकरणतानिरूपकत्वं, जिह्वानिष्ठाश्रयतानिरूपकत्वं वास्ति ।

तत्सम्बन्धि =
तत्त्वावच्छिन्न-सम्बद्धतानिरूपितसम्बन्धितावत्।
यथा घटे पूरितं जलं घटसम्बन्धि जलं, घटत्वावच्छिन्नम्बद्धतानिरूपित-सम्बन्धितावत् जलं वा।
यथा आर्द्रकरसः, आर्द्रकसम्बन्धी रसः, आर्द्रकत्वावच्छिन्नसम्बद्धतानिरूपित-सम्बन्धितावान् वा रसः।

तत्साक्षात्कृतत्वम् =
तत्प्रत्यक्षत्वम्।तद्ग्राह्यत्वम्।तज्जन्यप्रत्यक्षविषयत्वम्।तदुपलब्धत्वम्।
यथा रूपे चक्षुःसाक्षात्कृतत्वं,चक्षुःप्रत्यक्षत्वं,चक्षुर्ग्राह्यत्वं,चक्षुर्जन्यप्रत्यक्षविषयत्वं, चक्षुरुपलब्धत्वं वा विद्यते।
यथा कार्ष्ण्ये चक्षुःसाक्षात्कृतत्वं,चक्षुःप्रत्यक्षत्वं,चक्षुर्ग्राह्यत्वं, चक्षुर्जन्यप्रत्यक्ष-विषयत्वं, चक्षुरुपलब्धत्वं वा विद्यते।

तत्सामान्याभावः =
तत्त्वातिरिक्तधर्मानवच्छिन्नप्रतियोगिता-निरूपकाभावः।
भूतले कोऽपि घटः नास्ति इति घटसामान्याभावः, घटत्वातिरिक्तधर्मानवच्छिन्न-प्रतियोगितानिरूपकाभावः।
सन्धौ कापि चेष्टा न भवति इत्युक्ते सन्धौ चेष्टासामान्याभावः, चेष्टात्वातिरिक्त-धर्मानवच्छिन्नप्रतियोगितानिरूपकाभावः वा।।

तदधिकरणकत्वम् =
तदधिकरणताकत्वम् ।तदाधारकत्वम् ।तदाधारकताकत्वम् ।तदाश्रयकत्वम् । तदाश्रयताकत्वम् । तद्वर्तमानत्वम् । तद्विद्यमानत्वम् । तद्वृत्तित्वम् । तन्निष्ठत्वम् । तन्निष्ठाधारतानिरूपकत्वम्। तन्निष्ठाधिकरणतानिरूपकत्वम् । तन्निष्ठश्रयतानिरूपकत्वम् । तत्सत्वम् ।
भूतले घटः इत्यत्र घटे भूतलाधिकरणकत्वं, भूतलाधिकरणताकत्वं, भूतलाधारकत्वं, भूतलाधारकताकत्वं, भूतलाश्रयकत्वं, भूतलाश्रयताकत्वं, भूतलवर्तमानत्वं, भूतलविद्यमानत्वं, भूतलवृत्तित्वं, भूतलनिष्ठत्वं, भूतलनिष्ठाधारतानिरूपकत्वं, भूतलनिष्ठाधिकरणतानिरूपकत्वं, भूतलनिष्ठश्रयतानिरूपकत्वं, भूतलसत्वं वा विद्यते।
जिह्वायां रसनेन्द्रियम् इत्यत्र रसनेन्द्रिये जिह्वाधिकरणकत्वं, जिह्वाधिकरणताकत्वं, जिह्वाधारकत्वं, जिह्वाधारकताकत्वं, जिह्वाश्रयकत्वं, जिह्वाश्रयताकत्वं, जिह्वावर्तमानत्वं, जिह्वाविद्यमानत्वं, जिह्वावृत्तित्वं, जिह्वानिष्ठत्वं, जिह्वानिष्ठ-आधारतानिरूपकत्वं, जिह्वानिष्ठाधिकरणतानिरूपकत्वं, जिह्वानिष्ठश्रयतानिरूपकत्वं, जिह्वासत्वं वा विद्यते।

तदधिकरणताकत्वम् =
तदधिकरणकत्वम्। तदाधारकत्वम् । तदाधारताकत्वम् । तदाश्रयकत्वम् । तदाश्रयताकत्वम् । तद्वर्तमानत्वम् । तद्विद्यमानत्वम् । तद्वृत्तित्वम् । तन्निष्ठत्वम् ।तन्निष्ठाधारतानिरुपकत्वम् । तन्निष्ठाधिकरणतानिरूपकत्वम् । तन्निष्ठश्रयतानिरूपकत्वम् । तत्सत्वम् ।
यथा भूतले घटः इत्यत्र घटे भूतलाधिकरणताकत्वं, भूतलाधिकरणकत्वं, भूतलाधारकत्वं, भूतलाधारकताकत्वं, भूतलाश्रयकत्वं, भूतलाश्रयताकत्वं, भूतलवर्तमानत्वं, भूतलविद्यमानत्वं, भूतलवृत्तित्वं , भूतलनिष्ठत्वं भूतलनिष्ठाधारतानिरूपकत्वं, भूतलनिष्ठाधिकरणतानिरूपकत्वं भूतलनिष्ठश्रयतानिरूपकत्वं, भूतलसत्वं वास्ति।
जिह्वायां रसनेन्द्रियम् इत्यत्र रसनेन्द्रिये जिह्वाधिकरणताकत्वं,जिह्वाधिकरणकत्वं, जिह्वाधारकत्वं, जिह्वाधारकताकत्वं, जिह्वाश्रयकत्वं, जिह्वाश्रयताकत्वं, जिह्वा-वर्तमानत्वं, जिह्वाविद्यमानत्वं, जिह्वावृत्तित्वं, जिह्वानिष्ठत्वं, जिह्वानिष्ठाधारता-निरूपकत्वं, जिह्वानिष्ठाधिकरणतानिरूपकत्वं, जिह्वानिष्ठश्रयतानिरूपकत्वं, जिह्वासत्वं वास्ति।

तदधिकरणत्वाभावः =
तदनधिकरणत्वम्।तदधिकरणभिन्नत्वम्।
यथा जलाशये अग्न्यधिकरणत्वाभावः, अग्न्यनधिकरणत्वम्, अग्न्यधिकरणभिन्नत्वं वा विद्यते।
यथा करतले रोमाधिकरणत्वाभावः, रोमानधिकरणत्वं, रोमाधिकरणभिन्नत्वं वा विद्यते।

तदधिकरणभिन्नत्वम् =
तदनधिकरणत्वम्।तदधिकरणत्वाभावः।
यथा जलाशये अग्न्यधिकरणभिन्नत्वं, अग्न्यनधिकरणत्वम्, अग्न्यधिकरणत्वाभावः, वा विद्यते।
यथा करतले रोमाधिकरणभिन्नत्वं, रोमानधिकरणत्वं, रोमाधिकरणत्वाभावः, वा विद्यते।

तदधिकरणम् =
तद्वत्।तत्त्वावच्छिन्नाधेयतानिरूपिताधिकरणतावत्।
यथा भूतले घटः अस्ति इत्युक्ते भूतलं घटाधिकरणं,घटवत्, घटत्वावच्छिन्न-आधेयतानिरूपिताधिकरणतावत् वास्ति।

यथा रक्ते पित्तम् अस्ति इत्युक्ते रक्तं पित्ताधिकरणं, पित्तवत्, पित्तत्वावच्छिन्न-आधेयतानिरूपित-अधिकरणतावत् वास्ति।

तदनधिकरणत्वम् =
तदधिकरणत्वाभावः।तदधिकरणभिन्नत्वम् ।
यथा जलाशये अग्न्यनधिकरणत्वम्, अग्न्यधिकरणत्वाभावः, अग्न्यधिकरण-भिन्नत्वं वा विद्यते।
यथा करतले रोमानधिकरणत्वं, रोमाधिकरणत्वाभावः, रोमाधिकरणभिन्नत्वं वा विद्यते।

तदनुयोगिकत्वम् =
तदनुयोगिताकत्वम्।तन्निष्ठानुयोगितानिरूपकत्वम्।
यथा ‘भूतले घटाभावः’ इत्यत्र भूतले अभावानुयोगिकत्वम् , अभावानुयोगिताकत्वम्, अभावनिष्ठानुयोगितानिरूपकत्वं वा विद्यते।
यथा ‘व्रणे पूयाभावः’ इत्यत्र व्रणे अभावानुयोगिकत्वम्, अभावानुयोगिताकत्वम्,अभावनिष्ठानुयोगितानिरूपकत्वं वा विद्यते।

तदनुयोगिताकत्वम् =
तदनुयोगिकत्वम्।तन्निष्ठानुयोगितानिरूपकत्वम् ।
यथा ‘भूतले घटाभावः’ इत्यत्र भूतले अभावानुयोगिताकत्वम्, अभावा-नुयोगिकत्वम्, अभावनिष्ठानुयोगितानिरूपकत्वं वा विद्यते।
यथा ‘व्रणे पूयाभावः’ इत्यत्र व्रणे अभावानुयोगिताकत्वम्, अभावानुयोगिकत्वम्, अभावनिष्ठानुयोगितानिरूपकत्वं वा विद्यते।

तदभावः =
तदवच्छेदकावच्छिन्नप्रतियोगितानिरूपकाभावः।तत्प्रतियोगिकाभावः।
यथा घटाभावः इत्युक्ते घटत्व-(घटावच्छेदक-) वच्छिन्नप्रतियोगितानिरूपकाभावः, घटप्रतियोगिकाभावः वा।
यथा पूयाभावः इत्युक्ते पूयत्वावच्छिन्नप्रतियोगितानिरूपकाभावः, पूयप्रतियोगिकाभावः वा।

तदवगाहित्वम् =
तद्गोचरत्वम्। तद्विषयताशालित्वम्। तद्विषयकत्वम्। तद्विषयताकत्वम्। तद्विषयित्वम्। तन्निष्ठविषयतानिरूपकत्वम्।
यथा ’घटस्य ज्ञानम् ’ इत्यत्र ज्ञाने घटावगाहित्वं, घटगोचरत्वं, घटविषयता-शालित्वं, घटविषयकत्वं, घटविषयताकत्वं, घटविषयित्वं, घटनिष्ठविषयता-निरूपकत्वं वा वर्तते ।
यथा ‘व्रणस्य ज्ञानम्’ इत्यत्र ज्ञाने व्रणावगाहित्वं, व्रणगोचरत्वं, व्रणविषयता-शालित्वं, व्रणविषयकत्वं, व्रणविषयताकत्वं, व्रणविषयित्वं, व्रणनिष्ठविषयता-निरूपकत्वं वा वर्तते ।

तदवच्छिन्नत्वम् =
तदवच्छेद्यत्वम्।तन्निष्ठावच्छेदकतावत्त्वम्।तन्निष्ठावच्छेदकतानिरूपकत्वम्।
यथा घटे घटत्वावच्छिन्नत्वं, घटत्वावच्छेद्यत्वं, घटत्वनिष्ठावच्छेदकतावत्त्वं, घटत्वनिष्ठावच्छेदकतानिरूपकत्वं वा विद्यते।
यथा कफे कफत्वावच्छिन्नत्वं, कफत्वावच्छेद्यत्वं,कफत्वनिष्ठावच्छेदकतावत्त्वं, कफत्वनिष्ठावच्छेदकतानिरूपकत्वं वा विद्यते।

तदवच्छिन्नभेदः =
तद्वद्भेदः।तद्वान् नेति प्रतीतिसिद्धभेदः।तत्त्वावच्छिन्न-अवच्छेदकताक-प्रतियोगिताक-भेदः ।
यथा परशुमान् जामदग्न्यः रामः परश्वभाववतः कौसल्येयाद् रामाद् भिन्नः इत्युक्ते कौसल्येयरामे परशुरामस्य यो भेदः सः परशुवद्भेदः,परश्ववच्छिन्नभेदः, ‘कौसल्येयः परशुमान् न’ इति प्रतीतिसिद्धभेदः, परशुत्वावच्छिन्नअवच्छेदकताकप्रतियोगिताक-भेदः।
यथा गर्भवत्याः भेदः सूतिकायाम् ।स च गर्भावच्छिन्नभेदः, गर्भवद्भेदः, ‘गर्भवती न’ इति प्रतीतिसिद्धभेदः,गर्भत्वावच्छिन्न-अवच्छेदकताक-प्रतियोगिताकभेदः।

तदवच्छेदकावच्छिन्नप्रतियोगितानिरूपकाभावः =
तदभावः।तत्प्रतियोगिकाभावः।
यथा घटः नास्ति इत्युक्ते घटत्व-(घटावच्छेदक-) वच्छिन्नप्रतियोगिता-निरूपकाभावः, घटाभावः , घटप्रतियोगिकाभावः वा विद्यते।
यथा पूयः नास्ति इत्युक्ते पूयत्वावच्छिन्नप्रतियोगितानिरूपकाभावः पूयाभावः पूयप्रतियोगिकाभावः वा विद्यते।
तदवच्छेद्यत्वम् =
तदवच्छिन्नत्वम्।तन्निष्ठावच्छेदकतावत्त्वम्।तन्निष्ठावच्छेदकतानिरूपकत्वम्
यथा घटे घटत्वावच्छेद्यत्वं, घटत्वावच्छिन्नत्वं, घटत्वनिष्ठावच्छेदकतावत्त्वं, घटत्वनिष्ठावच्छेदकतानिरूपकत्वं वा विद्यते।
यथा कफे कफत्वावच्छेद्यत्वं, कफत्वावच्छिन्नत्वं, कफत्वनिष्ठावच्छेदकतावत्त्वं, कफत्वनिष्ठावच्छेदकतानिरूपकत्वं वा विद्यते।

तदसाधारणकारणम् =
तत्त्वावच्छिन्नकार्यतानिरूपितकारणतावत्।
यथा कपालद्वयं घटासाधारणकारणं,घटत्वावच्छिन्नकार्यतानिरूपितकारणतावत् वा।
यथा जलं कफासाधारणकारणं, कफत्वावच्छिन्नकार्यतानिरूपितकारणतावत् वा।

तदाधारकत्वम् =
तदधिकरणकत्वम्। तदधिकरणताकत्वम् । तदाधारताकत्वम् । तदाश्रयकत्वम् । तदाश्रयताकत्वम् । तद्वर्तमानत्वम् । तद्विद्यमानत्वम् । तद्वृत्तित्वम् । तन्निष्ठत्वम् । तन्निष्ठाधारतानिरुपकत्वम् । तन्निष्ठाधिकरणतानिरूपकत्वम् । तन्निष्ठश्रयतानिरूपकत्वम् । तत्सत्वम् ।
यथा भूतले घटः इत्यत्र घटे भूतलाधारकत्वं, भूतलाधिकरणकत्वं, भूतलाधिकरणताकत्वं, भूतलाधारकताकत्वं, भूतलाश्रयकत्वं, भूतलाश्रयताकत्वं, भूतलवर्तमानत्वं, भूतलविद्यमानत्वं, भूतलवृत्तित्वं, भूतलनिष्ठत्वं, भूतल-निष्ठाधारतानिरूपकत्वं, भूतलनिष्ठाधिकरणतानिरूपकत्वं, भूतलनिष्ठश्रयता-निरूपकत्वं, भूतलसत्वं वा विद्यते।
यथा जिह्वायां रसनेन्द्रियम् इत्यत्र रसनेन्द्रिये जिह्वाधारकत्वं, जिह्वाधिकरणकत्वं, जिह्वाधिकरणताकत्वं, जिह्वाधारकताकत्वं, जिह्वाश्रयकत्वं, जिह्वाश्रयताकत्वं, जिह्वावर्तमानत्वं, जिह्वाविद्यमानत्वं, जिह्वावृत्तित्वं, जिह्वानिष्ठत्वं, जिह्वानिष्ठाधारतानिरूपकत्वं, जिह्वानिष्ठाधिकरणतानिरूपकत्वं, जिह्वानिष्ठश्रयता-निरूपकत्वं, जिह्वासत्वं वा विद्यते ।

तदाधारताकत्वम् =
तदधिकरणताकत्वम्। तदधिकरणकत्वम्। तदाधारकत्वम् । तदाश्रयकत्वम् । तदाश्रयताकत्वम् । तद्वर्तमानत्वम् । तद्विद्यमानत्वम् । तद्वृत्तित्वम् । तन्निष्ठत्वम् । तन्निष्ठाधारतानिरुपकत्वम् । तन्निष्ठाधिकरणतानिरूपकत्वम् । तन्निष्ठश्रयतानिरूपकत्वम् ।तत्सत्वम् ।
यथा ‘भूतले घटः’ इत्यत्र घटे भूतलाधारकताकत्वं, भूतलाधिकरणकत्वं, भूतलाधिकरणताकत्वं, भूतलाधारकत्वं, भूतलाश्रयकत्वं, भूतलाश्रयताकत्वं, भूतलवर्तमानत्वं, भूतलविद्यमानत्वं, भूतलवृत्तित्वं, भूतलनिष्ठत्वं, भूतलनिष्ठाधारतानिरूपकत्वं, भूतलनिष्ठाधिकरणतानिरूपकत्वं, भूतलनिष्ठश्रयतानिरूपकत्वं, भूतलसत्वं वा विद्यते।
यथा ‘जिह्वायां रसनेन्द्रियम्’ इत्यत्र रसनेन्द्रिये जिह्वाधारकत्वं, जिह्वाधिकरणकत्वं, जिह्वाधिकरणताकत्वं, जिह्वाधारकताकत्वं, जिह्वाश्रयकत्वं, जिह्वाश्रयताकत्वं, जिह्वावर्तमानत्वं, जिह्वाविद्यमानत्वं, जिह्वावृत्तित्वं, जिह्वानिष्ठत्वं, जिह्वा-निष्ठाधारतानिरूपकत्वं, जिह्वानिष्ठाधिकरणतानिरूपकत्वं, जिह्वानिष्ठाश्रयतानिरूपकत्वं, जिह्वासत्वं वा विद्यते।

तदाश्रयकत्वम् =
तदधिकरणताकत्वम्।तदधिकरणकत्वम्। तदाधारकत्वम् ।तदाधारताकत्वम् । तदाश्रयताकत्वम् । तद्वर्तमानत्वम् । तद्विद्यमानत्वम् । तद्वृत्तित्वम् । तन्निष्ठत्वम् । तन्निष्ठाधारतानिरूपकत्वम् ।तन्निष्ठाधिकरणतानिरूपकत्वम् । तन्निष्ठश्रयतानिरूपकत्वम् । तत्सत्वम् ।
यथा ‘भूतले घटः’ इत्यत्र घटे भूतलाश्रयकत्वं, भूतलाधिकरणकत्वं, भूतलाधिकरणताकत्वं, भूतलाधारकत्वं, भूतलाधारकताकत्वं, भूतलाश्रयताकत्वं, भूतलवर्तमानत्वं, भूतलविद्यमानत्वं, भूतलवृत्तित्वं, भूतलनिष्ठत्वं, भूतल-निष्ठाधारतानिरूपकत्वं, भूतलनिष्ठाधिकरणतानिरूपकत्वं,भूतलनिष्ठश्रयतानिरूपकत्वं, भूतलसत्वं वास्ति।
यथा ‘जिह्वायां रसनेन्द्रियम्’ इत्यत्र रसनेन्द्रिये जिह्वाश्रयकत्वं, जिह्वाधिकरणकत्वं, जिह्वाधिकरणताकत्वं, जिह्वाधारकत्वं, जिह्वाधारकताकत्वं, जिह्वाश्रयताकत्वं, जिह्वावर्तमानत्वं, जिह्वाविद्यमानत्वं, जिह्वावृत्तित्वं, जिह्वानिष्ठत्वं, जिह्वानिष्ठा-धारतानिरूपकत्वं, जिह्वानिष्ठाधिकरणतानिरूपकत्वं,जिह्वानिष्ठश्रयता-निरूपकत्वं, जिह्वासत्वं वास्ति।

तदाश्रयताकत्वम् =
तदधिकरणताकत्वम्। तदधिकरणकत्वम् तदाधारकत्वम् । तदाधारताकत्वम् । तदाश्रयकत्वम् । तद्वर्तमानत्वम् । तद्विद्यमानत्वम् । तद्वृत्तित्वम् । तन्निष्ठत्वम् । तन्निष्ठाधारतानिरुपकत्वम् । तन्निष्ठाधिकरणतानिरूपकत्वम् । तन्निष्ठश्रयतानिरूपकत्वम् । तत्सत्वम् ।
यथा ‘भूतले घटः’ इत्यत्र घटे भूतलाश्रयताकत्वं, भूतलाधिकरणकत्वं, भूतलाधिकरणताकत्वं, भूतलाधारकत्वं, भूतलाधारकताकत्वं, भूतलाश्रयकत्वं, भूतलवर्तमानत्वं, भूतलविद्यमानत्वं, भूतलवृत्तित्वं, भूतलनिष्ठत्वं, भूतलनिष्ठाधारतानिरूपकत्वं, भूतलनिष्ठाधिकरणतानिरूपकत्वं, भूतलनिष्ठश्रयता-निरूपकत्वं, भूतलसत्वं वास्ति।
यथा ‘जिह्वायां रसनेन्द्रियम्’ इत्यत्र रसनेन्द्रिये जिह्वाश्रयताकत्वं, जिह्वाधिकरणकत्वं, जिह्वाधिकरणताकत्वं, जिह्वाधारकत्वं, जिह्वाधारकताकत्वं, जिह्वाश्रयकत्वं, जिह्वावर्तमानत्वं, जिह्वाविद्यमानत्वं, जिह्वावृत्तित्वं, जिह्वानिष्ठत्वं, जिह्वानिष्ठाधारतानिरूपकत्वं, जिह्वानिष्ठाधिकरणतानिरूपकत्वं,जिह्वानिष्ठश्रयता-निरूपकत्वं, जिह्वासत्वं वास्ति।

तदुपलब्धत्वम् =
तत्प्रत्यक्षत्वम्।तत्साक्षात्कृतत्वम्।तद्ग्राह्यत्वम्।तज्जन्यप्रत्यक्षविषयत्वम्।
यथा रूपे चक्षुरुपलब्धत्वं, चक्षुःप्रत्यक्षत्वं, चक्षुःसाक्षात्कृतत्वं,चक्षुर्ग्राह्यत्वं,चक्षुर्जन्य-प्रत्यक्षविषयत्वं वा विद्यते।
यथा कार्ष्ण्ये चक्षुःप्रत्यक्षत्वं, चक्षुःसाक्षात्कृतत्वं,चक्षुर्ग्राह्यत्वं, चक्षुर्जन्यप्रत्यक्ष-विषयत्वं, चक्षुरुपलब्धत्वं,वा विद्यते।

तदुपलम्भकत्वम् =
तद्ग्राहकत्वम्। तत्प्रत्यक्षजनकत्वम्।
यथा चक्षुषि रूपोपलम्भकत्वं, रूपग्राहकत्वं, रूपप्रत्यक्षजनकत्वं वा विद्यते।
यथा चक्षुषि कार्ष्ण्योपलम्भकत्वं कार्ष्ण्यग्राहकत्वं कार्ष्ण्यप्रत्यक्षजनकत्वं वा विद्यते
तद् =
तद्वत्त्वम्। तद्विशिष्टत्वम्। तद्युक्तत्वम्।
यथा स्पर्शः स्पर्शवत्त्वं, स्पर्शविशिष्टत्वं, स्पर्शयुक्तत्वं वा वायोः धर्मः।
यथा विस्रगन्धः, विस्रगन्धवत्त्वं, विस्रगन्धविशिष्टत्वं, विस्रगन्धयुक्तत्वं, वा पित्तस्य धर्मः।

तद्-अवृत्तित्वम् =
तन्निरूपितवृत्तित्वाभावः ।
यथा शिरःस्थे घटे भूतलावृत्तित्वं, भूतलनिरूपितवृत्तित्वाभावः वा।
यथा स्तन्ये पुरुषदेहावृत्तित्वं, पुरुषदेहनिरूपितवृत्तित्वाभावः वा।

तद्गोचरत्वम् =
तदवगाहित्वम्। तद्विषयताशालित्वम् । तद्विषयकत्वम् । तद्विषयताकत्वम् । तद्विषयित्वम् । तन्निष्ठविषयतानिरूपकत्वम्।
यथा ’घटस्य ज्ञानम् ’ इत्यत्र ज्ञाने घटगोचरत्वं, घटावगाहित्वं, घटविषयताशालित्वं, घटविषयकत्वं, घटविषयताकत्वं, घटविषयित्वं, घटनिष्ठविषयतानिरूपकत्वं वा वर्तते ।
यथा ‘व्रणस्य ज्ञानम्’ इत्यत्र ज्ञाने व्रणगोचरत्वं, व्रणावगाहित्वं, व्रणविषयताशालित्वं, व्रणविषयकत्वं, व्रणविषयताकत्वं, व्रणविषयित्वं, व्रणनिष्ठविषयतानिरूपकत्वं वा वर्तते ।

तद्ग्राहकत्वम् =
तत्प्रत्यक्षजनकत्वम्।तदुपलम्भकत्वम्।
यथा चक्षुषि रूपग्राहकत्वं, रूपप्रत्यक्षजनकत्वं, रूपोपलम्भकत्वं वा विद्यते।
यथा चक्षुषि कार्ष्ण्यग्राहकत्वं, कार्ष्ण्यप्रत्यक्षजनकत्वं, कार्ष्ण्योपलम्भकत्वं वा विद्यते।

तद्ग्राह्यत्वम् =
तत्प्रत्यक्षत्वम्।तत्साक्षात्कृतत्वम्।तज्जन्यप्रत्यक्षविषयत्वम्।तदुपलब्धत्वम्।
यथा रूपे चक्षुर्ग्राह्यत्वं, चक्षुःप्रत्यक्षत्वं, चक्षुःसाक्षात्कृतत्वं, चक्षुर्जन्यप्रत्यक्ष-विषयत्वं, चक्षुरुपलब्धत्वं वा विद्यते।
यथा कार्ष्ण्ये चक्षुर्ग्राह्यत्वं, चक्षुःप्रत्यक्षत्वं, चक्षुःसाक्षात्कृतत्वं,चक्षुर्जन्यप्रत्यक्ष-विषयत्वं, चक्षुरुपलब्धत्वं वा विद्यते।

तद्युक्तत्वम् =
तद्वत्त्वम्। तद्विशिष्टत्वम्। तद्।
यथा स्पर्शयुक्तत्वं, स्पर्शवत्त्वं, स्पर्शविशिष्टत्वं, स्पर्शः वा वायोः धर्मः।
यथा विस्रगन्धयुक्तत्वं, विस्रगन्धवत्त्वं, विस्रगन्धविशिष्टत्वं, विस्रगन्धः वा पित्तस्य धर्मः।

तद्वत् =
तदधिकरणम्।तत्त्वावच्छिन्नाधेयतानिरूपिताधिकरणतावत्।
यथा भूतले घटः अस्ति इत्युक्ते भूतलं घटवत्, घटाधिकरणं, घटत्वावच्छिन्नाधेयतानिरूपिताधिकरणतावत् वा।
यथा रक्ते पित्तम् अस्ति इत्युक्ते रक्तं पित्तवत्, पित्ताधिकरणं, पित्तत्वावच्छिन्न-आधेयतानिरूपित-अधिकरणतावत् वा।

तद्वत्त्वम् =
तद्विशिष्टत्वम्। तद्युक्तत्वम्। तद् ।
यथा स्पर्शवत्त्वं, स्पर्शविशिष्टत्वं, स्पर्शयुक्तत्वं, स्पर्शः वा वायोः धर्मः।
यथा विस्रगन्धवत्त्वं, विस्रगन्धविशिष्टत्वं, विस्रगन्धयुक्तत्वं, विस्रगन्धः वा पित्तस्य धर्मः।

तद्वद्भेदः =
तदवच्छिन्नभेदः।तद्वान् नेति प्रतीतिसिद्धभेदः।तत्त्वावच्छिन्न-अवच्छेदकताक-प्रतियोगिताकभेदः ।
यथा परशुमान् जामदग्न्यः रामः परश्वभाववतः कौसल्येयाद् रामाद् भिन्नः इत्युक्ते कौसल्येयरामे परशुरामस्य यो भेदः सः परश्ववच्छिन्नभेदः,परशुवद्भेदः, कौसल्येयः परशुमान् न इति प्रतीतिसिद्धभेदः, परशुत्वावच्छिन्न-अवच्छेदकताक-प्रतियोगिताकभेदः।
यथा गर्भवत्याः भेदः सूतिकायाम् ।स च गर्भवद्भेदः, गर्भावच्छिन्नभेदः, गर्भवती न इति प्रतीतिसिद्धभेदः, गर्भत्वावच्छिन्न-अवच्छेदकताक-प्रतियोगिताकभेदः।

तद्वर्तमानत्वम् =
तदधिकरणताकत्वम् । तदधिकरणकत्वम् तदाधारकत्वम् । तदाधारताकत्वम् । तदाश्रयकत्वम् । तदाश्रयताकत्वम् । तद्विद्यमानत्वम् । तद्वृत्तित्वम् । तन्निष्ठत्वम् । तन्निष्ठाधारतानिरूपकत्वम् । तन्निष्ठाधिकरणतानिरूपकत्वम् । तन्निष्ठाश्रयतानिरूपकत्वम् । तत्सत्वम् ।
यथा ‘भूतले घटः’ इत्यत्र घटे भूतलवर्तमानत्वं, भूतलाधिकरणकत्वं, भूतलाधिकरणताकत्वं, भूतलाधारकत्वं, भूतलाधारकताकत्वं, भूतलाश्रयकत्वं, भूतलाश्रयताकत्वं, भूतलविद्यमानत्वं, भूतलवृत्तित्वं, भूतलनिष्ठत्वं, भूतलनिष्ठाधारतानिरूपकत्वं, भूतलनिष्ठाधिकरणतानिरूपकत्वं, भूतलनिष्ठाश्रयता-निरूपकत्वं, भूतलसत्वं वा विद्यते।
यथा जिह्वायां रसनेन्द्रियम् इत्यत्र रसनेन्द्रिये,जिह्वावर्तमानत्वं, जिह्वाधिकरणकत्वं, जिह्वाधिकरणताकत्वं, जिह्वाधारकत्वं, जिह्वाधारकताकत्वं, जिह्वाश्रयकत्वं, जिह्वाश्रयताकत्वं, जिह्वाविद्यमानत्वं, जिह्वावृत्तित्वं, जिह्वानिष्ठत्वं, जिह्वानिष्ठाधारतानिरूपकत्वं, जिह्वानिष्ठाधिकरणतानिरूपकत्वं, जिह्वानिष्ठाश्रयता-निरूपकत्वं, जिह्वासत्वं वा विद्यते ।

तद्वान् नेति प्रतीतिसिद्धभेदः =
तदवच्छिन्नभेदः।तद्वद्भेदः।तत्त्वावच्छिन्न-अवच्छेदकताक-प्रतियोगिताकभेदः।
परशुमान् जामदग्न्यः रामः यथा परश्वभाववतः कौसल्येयाद् रामाद् भिन्नः इत्युक्ते कौसल्येयरामे परशुरामस्य यो भेदः सः ‘कौसल्येयः परशुमान् न’ इति प्रतीतिसिद्धभेदः, परश्ववच्छिन्नभेदः,परशुवद्भेदः, परशुत्वावच्छिन्नअवच्छेदकताक-प्रतियोगिताकभेदः।
यथा गर्भवत्याः भेदः सूतिकायाम् ।स च ‘सूतिका गर्भवती न’ इति प्रतीतिसिद्धभेदः, गर्भावच्छिन्नभेदः, गर्भवद्भेदः, गर्भत्वावच्छिन्न-अवच्छेदकताक-प्रतियोगिताकभेदः।

तद्विद्यमानत्वम् =
तदधिकरणताकत्वम् । तदधिकरणकत्वम् तदाधारकत्वम् । तदाधारताकत्वम् । तदाश्रयकत्वम् । तदाश्रयताकत्वम् । तद्वर्तमानत्वम् । तद्वृत्तित्वम् । तन्निष्ठत्वम् । तन्निष्ठाधारतानिरुपकत्वम् । तन्निष्ठाधिकरणतानिरूपकत्वम् । तन्निष्ठश्रयतानिरूपकत्वम् । तत्सत्वम् ।
यथा ‘भूतले घटः’ इत्यत्र घटे भूतलविद्यमानत्वं, भूतलाधिकरणकत्वं, भूतलाधिकरणताकत्वं, भूतलाधारकत्वं, भूतलाधारकताकत्वं, भूतलाश्रयकत्वं, भूतलाश्रयताकत्वं, भूतलवर्तमानत्वं, भूतलवृत्तित्वं, भूतलनिष्ठत्वं, भूतलनिष्ठाधारतानिरूपकत्वं, भूतलनिष्ठाधिकरणतानिरूपकत्वं, भूतलनिष्ठश्रयता-निरूपकत्वं, भूतलसत्वं वा विद्यते।
यथा जिह्वायां रसनेन्द्रियम् इत्यत्र रसनेन्द्रिये जिह्वावर्तमानत्वं, जिह्वाधिकरणकत्वं, जिह्वाधिकरणताकत्वं, जिह्वाधारकत्वं, जिह्वाधारकताकत्वं, जिह्वाश्रयकत्वं, जिह्वाश्रयताकत्वं, जिह्वाविद्यमानत्वं, जिह्वावृत्तित्वं, जिह्वानिष्ठत्वं, जिह्वानिष्ठाधारतानिरूपकत्वं, जिह्वानिष्ठाधिकरणतानिरूपकत्वं, जिह्वानिष्ठश्रयता-निरूपकत्वं, जिह्वासत्वं वा ।

तद्विशिष्टत्वम् =
तद्वत्त्वम्।यद्युक्तत्वम्।तद् ।
यथा स्पर्शविशिष्टत्वं< स्पर्शवत्त्वं, स्पर्शयुक्तत्वं, स्पर्शः वा वायोः धर्मः।
यथा विस्रगन्धविशिष्टत्वं, विस्रगन्धवत्त्वं, विस्रगन्धयुक्तत्वं, विस्रगन्धः वा पित्तस्य धर्मः।

तद्विशेष्यकत्वम् =
तद्विशेष्यताकत्वम् । तन्निष्ठ-विशेष्यतानिरूपकत्वम् । तन्निष्ठविशेष्यता-निरूपितविशेष्यित्वम् । तद्विशेष्यताशालित्वम् । तद्विशेष्यित्वम् ।
यथा नीलघटज्ञानम् इति नीलत्वप्रकारक-घटविशेष्यकज्ञानम्। अस्मिन् ज्ञाने घटविशेष्यकत्वं, घटविशेष्यताकत्वं, घटनिष्ठविशेष्यतानिरूपकत्वं, घटनिष्ठ-विशेष्यतानिरूपितविशेष्यित्वं, घटविशेष्यताशालित्वं, घटविशेष्यित्वं, वा वर्तते।
यथा रक्तमण्डलम् इति रक्तत्वप्रकारकमण्डलविशेष्यकज्ञानम्। अस्मिन् ज्ञाने मण्डलविशेष्यकत्वं, मण्डलविशेष्यताकत्वं, मण्डलनिष्ठविशेष्यतानिरूपकत्वं, मण्डलनिष्ठविशेष्यतानिरूपितविशेष्यित्वं, मण्डलविशेष्यताशालित्वं, मण्डलविशेष्यित्वं वा वर्तते।

तद्विशेष्यताकत्वम् =
तद्विशेष्यकत्वम्।तन्निष्ठ-विशेष्यतानिरूपकत्वम्। तन्निष्ठविशेष्यतानिरूपित-विशेष्यित्वम् । तद्विशेष्यताशालित्वम् । तद्विशेष्यित्वम् ।
यथा नीलघटज्ञानम् इति नीलत्वप्रकारकघटविशेष्यकज्ञानम्। अस्मिन् ज्ञाने घटविशेष्यताकत्वं, घटविशेष्यकत्वं, घटनिष्ठविशेष्यतानिरूपकत्वं, घटनिष्ठ-विशेष्यतानिरूपितविशेष्यित्वं, घटविशेष्यताशालित्वं, घटविशेष्यित्वं वा वर्तते।
रक्तमण्डलम् इति रक्तत्वप्रकारकमण्डलविशेष्यकज्ञानम्।अस्मिन् ज्ञाने मण्डलविशेष्यताकत्वं, मण्डलविशेष्यकत्वं, मण्डलनिष्ठविशेष्यतानिरूपकत्वं, मण्डलनिष्ठविशेष्यतानिरूपितविशेष्यित्वं मण्डलविशेष्यताशालित्वं मण्डलविशेष्यित्वं वा वर्तते।

तद्विशेष्यताशालित्वम् =
तद्विशेष्यकत्वम् । तद्विशेष्यताकत्वम् । तन्निष्ठविशेष्यतानिरूपकत्वम् । तन्निष्ठविशेष्यतानिरूपितविशेष्यित्वं तद्विशेष्यित्वम् ।
यथा नीलघटज्ञानम् इति नीलत्वप्रकारक-घटविशेष्यकज्ञानम्। अस्मिन् ज्ञाने घटविशेष्यताशालित्वं, घटविशेष्यकत्वं, घटविशेष्यताकत्वं, घटनिष्ठविशेष्यता-निरूपकत्वं, घटनिष्ठविशेष्यतानिरूपितविशेष्यित्वं, घटविशेष्यित्वं वा वर्तते।
रक्तमण्डलम् इति रक्तत्वप्रकारकमण्डलविशेष्यकज्ञानम्। अस्मिन् ज्ञाने मण्डलविशेष्यताशालित्वं, मण्डलविशेष्यकत्वं, मण्डलविशेष्यताकत्वं, मण्डलनिष्ठविशेष्यतानिरूपकत्वं, मण्डलनिष्ठविशेष्यतानिरूपितविशेष्यित्वं, मण्डलविशेष्यित्वं वा वर्तते।

तद्विशेष्यित्वम् =
तद्विशेष्यकत्वम्। तद्विशेष्यताकत्वम् । तन्निष्ठ-विशेष्यतानिरूपकत्वम् । तन्निष्ठविशेष्यतानिरूपितविशेष्यित्वम् । तद्विशेष्यताशालित्वम् ।
यथा नीलघटज्ञानम् इति नीलत्वप्रकारक- घटविशेष्यकज्ञानम्। अस्मिन् ज्ञाने घटविशेष्यित्वं, घटविशेष्यकत्वं, घटविशेष्यताकत्वं, घटनिष्ठविशेष्यतानिरूपकत्वं, घटनिष्ठविशेष्यतानिरूपितविशेष्यित्वं, घटविशेष्यताशालित्वं वा वर्तते ।
रक्तमण्डलम् इति रक्तत्वप्रकारकमण्डलविशेष्यकज्ञानम् अस्मिन् ज्ञाने मण्डलविशेष्यित्वं, मण्डलविशेष्यकत्वं, मण्डलविशेष्यताकत्वं, मण्डलनिष्ठ-विशेष्यतानिरूपकत्वं, मण्डलनिष्ठविशेष्यतानिरूपितविशेष्यित्वं, मण्डलविशेष्यता-शालित्वं वा वर्तते।

तद्विषयकत्वम् =
तदवगाहित्वम् ।तद्गोचरत्वम् । तद्विषयताशालित्वम्तद्विषयताकत्वम् । तद्विषयित्वम् । तन्निष्ठविषयतानिरूपकत्वम् ।
यथा ’घटस्य ज्ञानम् ’ इत्यत्र ज्ञाने घटविषयकत्वं, घटावगाहित्वं, घटगोचरत्वं, घटविषयताशालित्वं, घटविषयताकत्वं, घटविषयित्वं, घटनिष्ठविषयतानिरूपकत्वं वा वर्तते ।
यथा ‘व्रणस्य ज्ञानम्’ इत्यत्र ज्ञाने व्रणविषयकत्वं, व्रणावगाहित्वं, व्रणगोचरत्वं, व्रणविषयताशालित्वं, व्रणविषयताकत्वं, व्रणविषयित्वं, व्रणनिष्ठविषयतानिरूपकत्वं वा वर्तते ।

तद्विषयताकत्वम् =
तदवगाहित्वम्।तद्गोचरत्वम् । तद्विषयताशालित्वम् । तद्विषयकत्वम् । तद्विषयित्वम् । तन्निष्ठविषयतानिरूपकत्वम् ।
यथा ’घटस्य ज्ञानम् ’ इत्यस्मिन् ज्ञाने घटविषयताकत्वं, घटावगाहित्वं, घटगोचरत्वं, घटविषयताशालित्वं, घटविषयकत्वं, घटविषयित्वं, घटनिष्ठविषयता-निरूपकत्वं वा वर्तते ।
यथा ‘व्रणस्य ज्ञानम्’ इत्यस्मनिन् ज्ञाने व्रणविषयताकत्वं, व्रणावगाहित्वं, व्रणगोचरत्वं, व्रणविषयताशालित्वं, व्रणविषयकत्वं, व्रणविषयित्वं, व्रणनिष्ठविषयतानिरूपकत्वं वा वर्तते ।

तद्विषयताशालित्वम् =
तदवगाहित्वम्। तद्गोचरत्वम् । तद्विषयकत्वम् । तद्विषयताकत्वम् । तद्विषयित्वम् । तन्निष्ठविषयतानिरूपकत्वम् ।
यथा ’घटस्य ज्ञानम् ’ इत्यत्र ज्ञाने घटविषयताशालित्वं, घटावगाहित्वं, घटगोचरत्वं, घटविषयकत्वं, घटविषयताकत्वं, घटविषयित्वं, घटनिष्ठविषयतानिरूपकत्वं वा वर्तते ।
यथा ‘व्रणस्य ज्ञानम्’ इत्यत्र ज्ञाने व्रणविषयताशालित्वं, व्रणावगाहित्वं, व्रणगोचरत्वं, व्रणविषयकत्वं, व्रणविषयताकत्वं, व्रणविषयित्वं, व्रणनिष्ठविषयतानिरूपकत्वं वा वर्तते ।

तद्विषयित्वम् =
तदवगाहित्वम्। तद्गोचरत्वम् । तद्विषयताशालित्वम् । तद्विषयकत्वम् । तद्विषयताकत्वम् । तन्निष्ठविषयतानिरूपकत्वम् ।
यथा ’घटस्य ज्ञानम् ’ इत्यत्र ज्ञाने घटविषयित्वं, घटावगाहित्वं, घटगोचरत्वं, घटविषयताशालित्वं, घटविषयकत्वं, घटविषयताकत्वं, घटनिष्ठविषयतानिरूपकत्वं वा वर्तते ।
यथा ‘व्रणस्य ज्ञानम्’ इत्यत्र ज्ञाने व्रणविषयित्वं, व्रणावगाहित्वं, व्रणगोचरत्वं, व्रणविषयताशालित्वं, व्रणविषयकत्वं, व्रणविषयताकत्वं, व्रणनिष्ठविषयतानिरूपकत्वं वा वर्तते ।

तद्वृत्तित्वम् =
तदधिकरणताकत्वम् । तदधिकरणकत्वम् तदाधारकत्वम् । तदाधारताकत्वम् । तदाश्रयकत्वम् । तदाश्रयताकत्वम् । तद्वर्तमानत्वम् । तद्विद्यमानत्वम् । तन्निष्ठत्वम् । तन्निष्ठाधारतानिरुपकत्वम् । तन्निष्ठाधिकरणतानिरूपकत्वम् । तन्निष्ठश्रयतानिरूपकत्वम् । तत्सत्वम् ।
‘भूतले घटः’ इत्यत्र घटे भूतलवृत्तित्वं, भूतलाधिकरणकत्वं, भूतलाधिकरणताकत्वं, भूतलाधारकत्वं, भूतलाधारकताकत्वं, भूतलाश्रयकत्वं, भूतलाश्रयताकत्वं, भूतलवर्तमानत्वं, भूतलविद्यमानत्वं, भूतलनिष्ठत्वं, भूतलनिष्ठाधारतानिरूपकत्वं, भूतलनिष्ठाधिकरणतानिरूपकत्वं, भूतलनिष्ठश्रयतानिरूपकत्वं, भूतलसत्वं वा विद्यते।
जिह्वायां रसनेन्द्रियम् इत्यत्र रसनेन्द्रिये जिह्वावृत्तित्वं, जिह्वाधिकरणकत्वं, जिह्वाधिकरणताकत्वं, जिह्वाधारकत्वं, जिह्वाधारकताकत्वं, जिह्वाश्रयकत्वं, जिह्वाश्रयताकत्वं, जिह्वावर्तमानत्वं, जिह्वाविद्यमानत्वं, जिह्वानिष्ठत्वं, जिह्वानिष्ठाधारतानिरूपकत्वं, जिह्वानिष्ठाधिकरणतानिरूपकत्वं, जिह्वानिष्ठश्रयता-निरूपकत्वं, जिह्वासत्वं वा विद्यते।

तन्निरूपितवृत्तित्वाभावः =
तद्-अवृत्तित्वम्।
शिरःस्थे घटे भूतलनिरूपितवृत्तित्वाभावः, भूतलावृत्तित्वं, वा।
स्तन्ये पुरुषदेहनिरूपितवृत्तित्वाभावः, पुरुषदेहावृत्तित्वं वा।
तन्निष्ठत्वम् =
तदधिकरणताकत्वम्। तदधिकरणकत्वम्। तदाधारकत्वम् । तदाधारताकत्वम् । तदाश्रयकत्वम् । तदाश्रयताकत्वम् । तद्वर्तमानत्वम् । तद्विद्यमानत्वम् । तद्वृत्तित्वम् । तन्निष्ठाधारतानिरुपकत्वम् । तन्निष्ठाधिकरणतानिरूपकत्वम् । तन्निष्ठश्रयतानिरूपकत्वम् । तत्सत्वम् ।
भूतले घटः इत्यत्र घटे भूतलनिष्ठत्वं, भूतलाधिकरणकत्वं, भूतलाधिकरणताकत्वं, भूतलाधारकत्वं, भूतलाधारकताकत्वं, भूतलाश्रयकत्वं, भूतलाश्रयताकत्वं, भूतलवर्तमानत्वं, भूतलविद्यमानत्वं, भूतलवृत्तित्वं, भूतलनिष्ठाधारतानिरूपकत्वं, भूतलनिष्ठाधिकरणतानिरूपकत्वं, भूतलनिष्ठश्रयतानिरूपकत्वं, भूतलसत्वं वास्ति।
जिह्वायां रसनेन्द्रियम् इत्यत्र रसनेन्द्रिये जिह्वानिष्ठत्वं, जिह्वाधिकरणकत्वं, जिह्वाधिकरणताकत्वं, जिह्वाधारकत्वं, जिह्वाधारकताकत्वं, जिह्वाश्रयकत्वं, जिह्वाश्रयताकत्वं, जिह्वावर्तमानत्वं, जिह्वाविद्यमानत्वं, जिह्वावृत्तित्वं, जिह्वानिष्ठाधारतानिरूपकत्वं, जिह्वानिष्ठाधिकरणतानिरूपकत्वं,जिह्वानिष्ठश्रयता-निरूपकत्वं, जिह्वासत्वं वास्ति ।
तन्निष्ठप्रकारताकत्वम् =
तन्निष्ठप्रकारतानिरूपकत्वम् । तन्निष्ठप्रकारतानिरूपितप्रकारित्वम् । तन्निष्ठप्रकारताशालित्वम् । तत्प्रकारकत्वम् ।तत्प्रकारित्वम्
यथा नीलघटज्ञानम् इति नीलत्वप्रकारक - घटविशेष्यक – ज्ञानम्। अस्मिन् ज्ञाने नीलत्वनिष्ठप्रकारताकत्वं, नीलत्वनिष्ठप्रकारतानिरूपकत्वं, नीलत्वनिष्ठप्रकारता-निरूपितप्रकारित्वं, नीलत्वनिष्ठप्रकारताशालित्वं, नीलत्वप्रकारकत्वं नीलत्वप्रकारित्वं वा वर्तते ।
रक्तमण्डलम् इति रक्तत्वप्रकारकमण्डलविशेष्यकज्ञानम्। अस्मिन् ज्ञाने रक्तत्वनिष्ठप्रकारताकत्वं, रक्तत्वनिष्ठप्रकारतानिरूपकत्वं, रक्तत्वनिष्ठप्रकारतानिरूपित-प्रकारित्वं, रक्तत्वनिष्ठप्रकारताशालित्वं, रक्तत्वप्रकारकत्वं, रक्तत्वप्रकारित्वं वा वर्तते ।

तन्निष्ठप्रकारतानिरूपकत्वम् =
तन्निष्ठप्रकारताकत्वम् ।तन्निष्ठप्रकारतानिरूपितप्रकारित्वम् । तन्निष्ठप्रकारताशालित्वम् । तत्प्रकारकत्वम् । तत्प्रकारित्वम्।
यथा नीलघटज्ञानम् इति नीलत्वप्रकारक - घटविशेष्यक – ज्ञानम्। अत्र ज्ञाने नीलत्वनिष्ठप्रकारतानिरूपकत्वं, नीलत्वनिष्ठप्रकारताकत्वं. नीलत्वनिष्ठप्रकारता -निरूपित-प्रकारित्वं, नीलत्वनिष्ठप्रकारताशालित्वं, नीलत्वप्रकारकत्वं, नीलत्वप्रकारित्वं वा वर्तते ।
रक्तमण्डलम् इति रक्तत्वप्रकारकमण्डलविशेष्यकज्ञानम्। अत्र ज्ञाने रक्तत्वनिष्ठप्रकारतानिरूपकत्वं, रक्तत्वनिष्ठप्रकारताकत्वं, रक्तत्वनिष्ठप्रकारता-निरूपितप्रकारित्वं, रक्तत्वनिष्ठप्रकारताशालित्वं, रक्तत्वप्रकारकत्वं, रक्तत्वप्रकारित्वं वा वर्तते।

तन्निष्ठप्रकारतानिरूपितप्रकारित्वम् =
तन्निष्ठप्रकारताकत्वम्। तन्निष्ठप्रकारतानिरूपकत्वम्। तन्निष्ठप्रकारताशालित्वम्। तत्प्रकारकत्वम् । तत्प्रकारित्वम् ।
यथा नीलघटज्ञानम् इति नीलत्वप्रकारक - घटविशेष्यक – ज्ञानम्। अत्र ज्ञाने नीलत्वनिष्ठप्रकारतानिरूपितप्रकारित्वं, नीलत्वनिष्ठप्रकारताकत्वं, नीलत्वनिष्ठप्रकारतानिरूपकत्वं, नीलत्वनिष्ठप्रकारताशालित्वं, नीलत्वप्रकारकत्वं, नीलत्वप्रकारित्वं वा वर्तते ।
रक्तमण्डलम् इति रक्तत्वप्रकारकमण्डलविशेष्यकज्ञानम्। अत्र ज्ञाने रक्तत्वनिष्ठप्रकारतानिरूपितप्रकारित्वं,रक्तत्वनिष्ठप्रकारताकत्वं, रक्तत्वनिष्ठप्रकारतानिरूपकत्वं, रक्तत्वनिष्ठप्रकारताशालित्वं, रक्तत्वप्रकारकत्वं, रक्तत्वप्रकारित्वं वा वर्तते।

तन्निष्ठप्रकारताशालित्वम् =
तन्निष्ठप्रकारताकत्वम्। तन्निष्ठप्रकारतानिरूपकत्वम् । तन्निष्ठप्रकारता-निरूपितप्रकारित्वम्। तत्प्रकारकत्वम् । तत्प्रकारित्वम्।
यथा नीलघटज्ञानम् इति नीलत्वप्रकारक - घटविशेष्यक – ज्ञानम्। अस्मिन् ज्ञाने नीलत्वनिष्ठप्रकारताशालित्वं, नीलत्वनिष्ठप्रकारताकत्वं, नीलत्वनिष्ठप्रकारता-निरूपकत्वं, नीलत्वनिष्ठप्रकारतानिरूपितप्रकारित्वं, नीलत्वप्रकारकत्वं, नीलत्व-प्रकारित्वं वा वर्तते ।
रक्तमण्डलम् इति रक्तत्वप्रकारकमण्डलविशेष्यकज्ञानम्। अस्मिन् ज्ञाने रक्तत्वनिष्ठप्रकारताशालित्वं, रक्तत्वनिष्ठप्रकारताकत्वं, रक्तत्वनिष्ठप्रकारता-निरूपकत्वं , रक्तत्वनिष्ठप्रकारतानिरूपितप्रकारित्वं, रक्तत्वप्रकारकत्वं, रक्तत्वप्रकारित्वं वा वर्तते

तन्निष्ठप्रतियोगितानिरूपकत्वम् =
तत्प्रतियोगिकत्वम्।तत्प्रतियोगिताकत्वम्।
घटाभावः इत्यत्र अभावे घटनिष्ठप्रतियोगितानिरूपकत्वं, घटप्रतियोगिकत्वं, घटप्रतियोगिताकत्वं वा विद्यते।
पूयाभावः इत्यत्र अभावे पूयनिष्ठप्रतियोगितानिरूपकत्वं,पूयप्रतियोगिकत्वं, पूयप्रतियोगिताकत्वं वा विद्यते।

तन्निष्ठ-विशेष्यतानिरूपकत्वम् =
तद्विशेष्यकत्वम्।तद्विशेष्यताकत्वम् ।तन्निष्ठविशेष्यतानिरूपितविशेष्यित्वम् । तद्विशेष्यताशालित्वम् । तद्विशेष्यित्वम् ।
यथा ‘नीलघटज्ञानम्’ इति नीलत्वप्रकारक-घटविशेष्यकज्ञानम्। अत्र ज्ञाने घटनिष्ठ-विशेष्यतानिरूपकत्वं, घटविशेष्यकत्वं, घटविशेष्यताकत्वं,घटनिष्ठविशेष्यता-निरूपितविशेष्यित्वं, घटविशेष्यताशालित्वं, घटविशेष्यित्वं, वा वर्तते।
रक्तमण्डलज्ञानम् इति रक्तत्वप्रकारकमण्डलविशेष्यकज्ञानम्। अत्र ज्ञाने मण्डलनिष्ठ-विशेष्यतानिरूपकत्वं, मण्डलविशेष्यकत्वं, मण्डलविशेष्यताकत्वं, मण्डलनिष्ठ-विशेष्यतानिरूपितविशेष्यित्वं, मण्डलविशेष्यताशालित्वं, मण्डलविशेष्यित्वं वा वर्तते।

तन्निष्ठविशेष्यतानिरूपितविशेष्यित्वम् =
तद्विशेष्यकत्वम्। तद्विशेष्यताकत्वम् । तन्निष्ठविशेष्यतानिरूपकत्वम्। तद्विशेष्यताशालित्वम् । तद्विशेष्यित्वम् ।
यथा नीलघटज्ञानम् इति नीलत्वप्रकारक- घटविशेष्यकज्ञानम्। अत्र ज्ञाने घटनिष्ठविशेष्यतानिरूपितविशेष्यित्वं, घटविशेष्यकत्वं, घटविशेष्यताकत्वं, घटनिष्ठविशेष्यतानिरूपकत्वं, घटविशेष्यताशालित्वं, घटविशेष्यित्वं वा वर्तते।
रक्तमण्डलम् इति रक्तत्वप्रकारकमण्डलविशेष्यकज्ञानम्। अत्र ज्ञाने मण्डलनिष्ठविशेष्यतानिरूपितविशेष्यित्वं, मण्डलविशेष्यकत्वं, मण्डल-विशेष्यताकत्वं, मण्डलनिष्ठविशेष्यतानिरूपकत्वं, मण्डलविशेष्यताशालित्वं, मण्डलविशेष्यित्वं वा वर्तते।

तन्निष्ठविषयतानिरूपकत्वम् =
तदवगाहित्वम्। तद्गोचरत्वम् । तद्विषयताशालित्वम् । तद्विषयकत्वम् । तद्विषयताकत्वम्। तद्विषयित्वम् ।
यथा ’घटस्य ज्ञानम् ’ इत्यत्र ज्ञाने घटनिष्ठविषयतानिरूपकत्वं, घटावगाहित्वं, घटगोचरत्वं, घटविषयताशालित्वं, घटविषयकत्वं, घटविषयताकत्वं, घटविषयित्वं वा वर्तते ।
यथा ‘व्रणस्य ज्ञानम्’ इत्यत्र ज्ञाने व्रणनिष्ठविषयतानिरूपकत्वं,व्रणावगाहित्वं, व्रणगोचरत्वं, व्रणविषयताशालित्वं, व्रणविषयकत्वं, व्रणविषयताकत्वं, व्रणविषयित्वं वा वर्तते ।

तन्निष्ठश्रयतानिरूपकत्वम् =
तदधिकरणताकत्वम् ।तदधिकरणकत्वम्। तदाधारकत्वम् । तदाधारताकत्वम् । तदाश्रयकत्वम् । तदाश्रयताकत्वम् । तद्वर्तमानत्वम् । तद्विद्यमानत्वम् । तद्वृत्तित्वम् । तन्निष्ठत्वम् । तन्निष्ठाधारतानिरुपकत्वम् । तन्निष्ठाधिकरणतानिरूपकत्वम् । तत्सत्वम्।
भूतले घटः इत्यत्र घटे भूतलनिष्ठश्रयतानिरूपकत्वं, भूतलाधिकरणकत्वं, भूतलाधिकरणताकत्वं, भूतलाधारकत्वं, भूतलाधारकताकत्वं, भूतलाश्रयकत्वं, भूतलाश्रयताकत्वं, भूतलवर्तमानत्वं, भूतलविद्यमानत्वं, भूतलवृत्तित्वं, भूतलनिष्ठत्वं, भूतलनिष्ठाधारतानिरूपकत्वं, भूतलनिष्ठाधिकरणतानिरूपकत्वं, भूतलसत्वं वा विद्यते।
जिह्वायां रसनेन्द्रियम् इत्यत्र रसनेन्द्रिये जिह्वानिष्ठश्रयतानिरूपकत्वं, जिह्वाधिकरणकत्वं, जिह्वाधिकरणताकत्वं, जिह्वाधारकत्वं, जिह्वाधारकताकत्वं, जिह्वाश्रयकत्वं, जिह्वाश्रयताकत्वं, जिह्वावर्तमानत्वं, जिह्वाविद्यमानत्वं, जिह्वावृत्तित्वं, जिह्वानिष्ठत्वं, जिह्वानिष्ठाधारतानिरूपकत्वं, जिह्वानिष्ठाधिकरणता-निरूपकत्वं, जिह्वासत्वं, वा विद्यते। ।

तन्निष्ठसंसर्गताकत्वम् =
तत्संसर्गकत्वम्। तन्निष्ठसंसर्गतानिरूपकत्वम्। तत्संसर्गित्वम्। तन्निष्ठसंसर्गतानिरूपित-संसर्गित्वम्। तन्निष्ठसंसर्गताशालित्वम्।
यथा नीलघटज्ञानम् इति नीलत्वप्रकारक- घटविशेष्यक-समवायसंसर्गक-ज्ञानम्। अस्मिन् ज्ञाने समवायनिष्ठसंसर्गताकत्वं, समवायसंसर्गकत्वं, समवायनिष्ठसंसर्गता-निरूपकत्वं, समवायसंसर्गित्वं, समवायनिष्ठसंसर्गतानिरूपितसंसर्गित्वं, समवायनिष्ठसंसर्गताशालित्वं वा विद्यते।
यथा पीतमूत्रम् इति पीतत्वप्रकारक-मूत्रविशेष्यक-समवायसंसर्गकज्ञानम्।अस्मिन् ज्ञाने समवायनिष्ठसंसर्गताकत्वं, समवायसंसर्गकत्वं, समवायनिष्ठसंसर्गता-निरूपकत्वं, समवायसंसर्गित्वं, समवायनिष्ठसंसर्गतानिरूपितसंसर्गित्वं, समवायनिष्ठसंसर्गताशालित्वं वा विद्यते।

तन्निष्ठसंसर्गतानिरूपकत्वम् =
तत्संसर्गकत्वम्। तन्निष्ठसंसर्गताकत्वम्। तत्संसर्गित्वम्। तन्निष्ठसंसर्गता-निरूपितसंसर्गित्वम्। तन्निष्ठसंसर्गताशालित्वम्।
यथा नीलघटज्ञानम् इति नीलत्वप्रकारक-घटविशेष्यक-समवायसंसर्गक-ज्ञानम्। अस्मिन् ज्ञाने समवायनिष्ठसंसर्गतानिरूपकत्वं, समवायसंसर्गकत्वं, समवायनिष्ठ-संसर्गताकत्वं, समवायसंसर्गित्वं,समवायनिष्ठसंसर्गतानिरूपितसंसर्गित्वं, समवाय-निष्ठसंसर्गताशालित्वं वा विद्यते।
यथा पीतमूत्रम् इति पीतत्वप्रकारक-मूत्रविशेष्यक-समवायसंसर्गकज्ञानम्।अस्मिन् ज्ञाने समवायनिष्ठसंसर्गतानिरूपकत्वं, समवायसंसर्गकत्वं, मवायनिष्ठसंसर्गताकत्वं, समवायसंसर्गित्वं, समवायनिष्ठसंसर्गतानिरूपितसंसर्गित्वं, समवायनिष्ठसंसर्गता-शालित्वं वा विद्यते।

तन्निष्ठसंसर्गतानिरूपितसंसर्गित्वम् =
तत्संसर्गकत्वम्।तन्निष्ठसंसर्गताकत्वम्।तन्निष्ठसंसर्गतानिरूपकत्वम्। तत्संसर्गित्वम्।तन्निष्ठसंसर्गताशालित्वम्।
यथा नीलघटज्ञानम् इति नीलत्वप्रकारक-घटविशेष्यक-समवायसंसर्गक-ज्ञानम्। अस्मिन् ज्ञाने समवायनिष्ठसंसर्गतानिरूपितसंसर्गित्वं, समवाय-संसर्गत्वं,समवायनिष्ठसंसर्गताकत्वं, समवायनिष्ठसंसर्गतानिरूपकत्वं, समवाय-संसर्गित्वं, समवायनिष्ठसंसर्गताशालित्वं वा विद्यते।
यथा पीतमूत्रम् इति पीतत्वप्रकारक-मूत्रविशेष्यक-समवायसंसर्गकज्ञानम्।अस्मिन् ज्ञाने समवायनिष्ठसंसर्गतानिरूपितसंसर्गित्वं, समवायसंसर्गत्वं, समवायनिष्ठ-संसर्गताकत्वं,समवायनिष्ठसंसर्गतानिरूपकत्वं,समवायसंसर्गित्वं,समवायनिष्ठसंसर्गता-शालित्वं वा विद्यते।

तन्निष्ठसंसर्गताशालित्वम् =
तत्संसर्गकत्वम्। तन्निष्ठसंसर्गताकत्वम्। तन्निष्ठसंसर्गतानिरूपकत्वम्। तत्संसर्गित्वम्। तन्निष्ठसंसर्गतानिरूपितसंसर्गित्वम्
यथा नीलघटज्ञानम् इति नीलत्वप्रकारक-घटविशेष्यक-समवायसंसर्गक-ज्ञानम्। अस्मिन् ज्ञाने समवायनिष्ठसंसर्गताशालित्वं, समवायसंसर्गत्वं, समवायनिष्ठ-संसर्गताकत्वं, समवायनिष्ठसंसर्गतानिरूपकत्वं, समवायसंसर्गित्वं, समवायनिष्ठ-संसर्गतानिरूपितसंसर्गित्वं वा विद्यते।
यथा पीतमूत्रम् इति पीतत्वप्रकारक-मूत्रविशेष्यक-समवायसंसर्गकज्ञानम्।अस्मिन् ज्ञाने समवायनिष्ठसंसर्गताशालित्वं, समवायसंसर्गत्वं, समवायनिष्ठसंसर्गताकत्वं, समवायनिष्ठसंसर्गतानिरूपकत्वं, समवायसंसर्गित्वं, समवायनिष्ठसंसर्गतानिरूपित-संसर्गित्वं वा विद्यते।

तन्निष्ठाधारतानिरुपकत्वम् =
तदधिकरणताकत्वम्। तदधिकरणकत्वम्। तदाधारकत्वम् । तदाधारताकत्वम् । तदाश्रयकत्वम् । तदाश्रयताकत्वम् । तद्वर्तमानत्वम् । तद्विद्यमानत्वम् । तद्वृत्तित्वम् । तन्निष्ठत्वम् । तन्निष्ठाधिकरणता-निरूपकत्वम् । तन्निष्ठश्रयतानिरूपकत्वम् । तत्सत्वम् ।
यथा भूतले घटः इत्यत्र घटे भूतलनिष्ठाधारतानिरुपकत्वं भूतलाधिकरणकत्वं भूतलाधिकरणताकत्वं भूतलाधारकत्वं भूतलाधारकताकत्वं भूतलाश्रयकत्वं भूतलाश्रयताकत्वं भूतलवर्तमानत्वं भूतलविद्यमानत्वं भूतलवृत्तित्वं भूतलनिष्ठत्वं भूतलनिष्ठाधिकरणतानिरूपकत्वं भूतलनिष्ठश्रयतानिरूपकत्वं भूतलसत्वं वा विद्यते।
यथा जिह्वायां रसनेन्द्रियम् इत्यत्र रसनेन्द्रिये जिह्वानिष्ठाधारतानिरुपकत्वं, जिह्वा-अधिकरणकत्वं, जिह्वाधिकरणताकत्वं, जिह्वाधारकत्वं, जिह्वाधारकताकत्वं, जिह्वा-आश्रयकत्वं, जिह्वाश्रयताकत्वं जिह्वावर्तमानत्वं, जिह्वाविद्यमानत्वं, जिह्वावृत्तित्वं, जिह्वानिष्ठत्वं, जिह्वानिष्ठाधिकरणतानिरूपकत्वं, जिह्वानिष्ठश्रयतानिरूपकत्वं, जिह्वासत्वं वा विद्यते ।

तन्निष्ठाधिकरणतानिरूपकत्वम् =
तदधिकरणताकत्वम्। तदधिकरणकत्वम्। तदाधारकत्वम् । तदाधारताकत्वम्। तदाश्रयकत्वम्। तदाश्रयताकत्वम्। तद्वर्तमानत्वम्। तद्विद्यमानत्वम्। तद्वृत्तित्वम्। तन्निष्ठत्वम्। तन्निष्ठाधारतानिरुपकत्वम्। तन्निष्ठश्रयतानिरूपकत्वम्। तत्सत्वम्।
यथा भूतले घटः इत्यत्र घटे भूतलनिष्ठाधिकरणतानिरूपकत्वं, भूतलाधिकरणकत्वं, भूतलाधिकरणताकत्वं, भूतलाधारकत्वं, भूतलाधारकताकत्वं, भूतलाश्रयकत्वं, भूतलाश्रयताकत्वं, भूतलवर्तमानत्वं, भूतलविद्यमानत्वं, भूतलवृत्तित्वं, भूतलनिष्ठत्वं, भूतलनिष्ठाधारतानिरुपकत्वं, भूतलनिष्ठश्रयतानिरूपकत्वं, भूतलसत्वं वा विद्यते।
यथा जिह्वायां रसनेन्द्रियम् इत्यत्र रसनेन्द्रिये जिह्वानिष्ठाधिकरणतानिरूपकत्वं, जिह्वानिष्ठ-आश्रयतानिरूपकत्वं, जिह्वाधिकरणकत्वं, जिह्वाधिकरणताकत्वं, जिह्वाधारकत्वं, जिह्वाधारकताकत्वं, जिह्वाश्रयकत्वं, जिह्वाश्रयताकत्वं, जिह्वा-वर्तमानत्वं, जिह्वाविद्यमानत्वं, जिह्वावृत्तित्वं, जिह्वानिष्ठत्वं, जिह्वानिष्ठाधारता-निरुपकत्वं, जिह्वासत्वं वा विद्यते।

तन्निष्ठानुयोगितानिरूपकत्वम् =
तदनुयोगिकत्वम्।तदनुयोगिताकत्वम्।
यथा भूतले घटाभावः इत्यत्र अभावे भूतलनिष्ठानुयोगितानिरूपकत्वम् ,भूतलानुयोगिकत्वं, भूतलानुयोगिताकत्वं वा विद्यते।
यथा व्रणे पूयाभावः इत्यत्र अभावे व्रणनिष्ठानुयोगितानिरूपकत्वं, व्रणानुयोगिकत्वम् वर्णानुयोगिताकत्वं वा विद्यते।

तन्निष्ठावच्छेदकतानिरूपकत्वम् =
तदवच्छेद्यत्वम्।तदवच्छिन्नत्वम्।तन्निष्ठावच्छेदकतावत्त्वम्।
यथा घटे घटत्वनिष्ठावच्छेदकतानिरूपकत्वं, घटत्वावच्छेद्यत्वं, घटत्वावच्छिन्नत्वं, घटत्वनिष्ठावच्छेदकतावत्त्वं वा विद्यते।
यथा कफे कफत्वनिष्ठावच्छेदकतानिरूपकत्वं कफत्वावच्छेद्यत्वं, कफत्व-अवच्छिन्नत्वं, कफत्वनिष्ठावच्छेदकतावत्त्वं वा विद्यते।

तन्निष्ठावच्छेदकतावत्त्वम् =
तदवच्छेद्यत्वम्।तदवच्छिन्नत्वम्।तन्निष्ठावच्छेदकतानिरूपकत्वम्।
यथा घटे घटत्वनिष्ठावच्छेदकतावत्त्वं,घटत्वावच्छेद्यत्वं, घटत्वावच्छिन्नत्वं, घटत्वनिष्ठ-अवच्छेदकतानिरूपकत्वं वा विद्यते।
यथा कफे कफत्वनिष्ठावच्छेदकतावत्त्वं,कफत्वावच्छेद्यत्वं, कफत्वावच्छिन्नत्वं, कफत्वनिष्ठ-अवच्छेदकतानिरूपकत्वं वा विद्यते।

तादात्म्यसम्बन्धः =
अभेदसम्बन्धः।
यथा घटकलशयोः अभेदसम्बन्धः, तादात्म्यसम्बन्धः वा।
यथा रक्तासृजोः अभेदसम्बन्धः, तादात्म्यसम्बन्धः वा।

न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः

"https://sa.wikibooks.org/w/index.php?title=त...&oldid=6459" इत्यस्माद् प्रतिप्राप्तम्