दक्षिणे ... वन्दे रघुनन्दनम्
दिखावट
मूलम्
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥३१॥
पदच्छेदः
दक्षिणे लक्ष्मणः यस्य वामे तु जनक-आत्मजा ।
पुरतः मारुतिः यस्य तं वन्दे रघुनन्दनम् ॥३१॥
अन्वयः
यस्य दक्षिणे लक्ष्मणः (अस्ति), वामे तु जनक-आत्मजा (अस्ति), यस्य पुरतः मारुतिः (अस्ति), तं रघुनन्दनम् (अहं) वन्दे ॥३१॥
सरलार्थः यस्य दक्षिणपार्श्वे लक्ष्मणः अस्ति, वामपार्श्वे सीता अस्ति, यस्य पुरतः मारुतिः अस्ति, तं रघुनन्दनम् अहं वन्दे ॥३१
सन्धिविग्रहः ३१
| सन्धिः | विग्रहः | सूत्रम् |
|---|---|---|
| लक्ष्मणो यस्य | लक्ष्मणस् यस्य | ससजुषो रुः।८.२.६६ हशि च।६.१.११२ |
| जनकात्मजा | जनक-आत्मजा | अकः सवर्णे दीर्घः।६.१.९९ |
| पुरतो मारुतिः | पुरतस् मारुतिः | ससजुषो रुः।८.२.६६ हशि च।६.१.११२ |
| मारुतिर्यस्य | मारुतिस् यस्य | ससजुषो रुः।८.२.६६ |
समासविग्रहः ३१
जनकात्मजा
आत्मनः जाता आत्मजा।... उपपदमतिङ् ।२.२.१९
जनकस्य आत्मजा जनकात्मजा।... षष्ठी।२.२.८
रघुनन्दनम्
रघूणां नन्दनः रघुनन्दनः।... षष्ठी।२.२.८
रामरक्षास्तोत्रम् - सान्वयं सार्थम्