दशकुमारचरितं उत्तरपीठिका

विकिपुस्तकानि तः
Jump to navigation Jump to search

श्रीः


दशकुमारचरितम् उत्तरपीठीकायाः प्रथमोच्छ्वासः[सम्पाद्यताम्]

दकुच २,१

श्रुत्वा तु भुवनवृत्तान्तमुत्तमाङ्गना विस्मयविकसिताक्षी सस्मितमिदमभाषत-"दयित, त्वत्प्रसादादद्य मे चरितार्था श्रोत्रवृत्तिः ।
अद्य मे मनसि तमो ऽपहस्त्वया दत्तो ज्ञानप्रदीपः ।
पक्कमिदानां त्वत्पादपद्मपरिचर्याफलम् ।
अस्य च त्वत्प्रसादस्य किमुपकृत्य प्रत्युपकृतवती भवेयम् ।
अभवदीयं हि नैव किञ्चिन्मत्संबद्धम् ।
अथवास्त्येवास्यापिजनस्य क्वचित्प्रभुत्वम् ।
अशक्यं हि मादिच्छया विना सरस्वतीमुखग्रहणोच्छेषणीकृतो दशनच्छद एष चुम्बयितुम् ।
अम्बुजासनास्तनतटोपभुक्तमुरःस्थलं चेदमालिङ्गयितुम्ऽ इति प्रियोरसि प्रावृडिव नभस्युपास्तीर्णगुरुपयोधरमण्डला प्रौढकन्दलीकुड्मलमिव रूढरागरूषितं चक्षुरुल्लासयन्ती वर्हिवर्हावलीं विडम्बयता कुसुमचन्द्रकशारेण मधुकरकुलव्याकुलेन केशकलापेन स्फुरदरुणकिरणकेसरकरालं कदम्बमुकुलमिव कान्तस्याधरमणिमधीरमाचुचुम्ब ।
तदारम्भसफरितया च रागवृत्त्या भूयो ऽप्यावर्ततातिमात्रचित्रोपचारशीफरो रतिप्रबन्धः ।
सुरतखेदसुप्तयोस्तु तयोः स्वप्ने बिसगुणनिगडितपादो जरठः कश्चिज्जालपादो ऽदृश्यत ।
प्रत्यबुध्येतां चौभौ ।
अथ तस्य राजकुमारस्य कमलमूढशशिकिरणरज्जुदामनिगृहीतमिव रजतशृङ्खलोपगूढं चरणयुगलमासीत् ।
उपलभ्यैव च "किमेतत्ऽ इत्यतिपरित्रासविह्वला मुक्तकण्ठमाचक्रन्द राजकन्या ।
यन च तत्सकलमेव कन्यान्तःपुरमग्निपरीतमिव पिशाचोपहतमिव वेपमानमनिरूप्यमाणतदात्वायतिविभागमगण्यमानरहस्यरक्षासमयमवनितलविप्रविध्यमानगात्रमाक्रन्दविदीर्यमाणकण्ठमश्रुस्रोतो ऽवगुण्ठितकपोलतलमाकुलीबभूव ।
तुमुले चास्मिन्समये ऽनियन्त्रितप्रवेशाः "किं किम्ऽ इति सहसोपसृत्य विविशुरन्तर्वंशिकपुरुषाः ।
ददृशुश्च तदवस्थं राजकुमारम् ।
तदनुभावनिरुद्धनिग्रहेच्छास्तु सद्य एव ते तमर्थं चण्डवर्मणे निवेदयाञ्चक्रुः ।
सो ऽपि कोपादागत्य निर्दहन्निव दहनगर्भया दृशा निशाम्योत्पन्नप्रत्यभिज्ञः "कथं स एवाष मदनुजमरणनिमित्तभूतायाः पापाया बालचन्द्रिकायाः पत्युरत्यभिनिविष्टवित्तदर्पस्य वैदेशिकवणिक्पुत्रस्य पुष्पोद्भवस्य मित्रं रूपमत्तः कलाभिमानी नैकविधविपरलम्भोपायपाटवावर्जितमूढपौरजनमिथ्यारोपितवितथदेवतानुभावः कपटधर्मकञ्चुको निगूढपापशीलश्चपलो ब्राह्मणब्रुवः ।
कथमिवैनमनुरक्ता मादृशेष्वपि पुरुषसिंहेषु सावमाना पापेयमवन्तिसुन्दरी ।
पश्यतु पतिमद्यैव शूलावतंसितमियमनार्यशीला कुलपांसनीऽ इति निर्भर्त्सयन्भीषणभ्रुकुटिदूषतललाटः काल इव काललोहदण्डकर्कशेन बाहुदण्डेनावलम्ब्य हस्ताम्बुजे रेखाम्बुजरथाङ्गलाञ्छने राजपुत्रं सरभसमाचकर्ष ।
स तु स्वभावधीरः सर्वपौरुषातिभूमिः सहिष्णुतैकप्रतिक्रियां दैवीमेव तामापदमवधार्य "स्मर तस्या हंसगामिनि, हंसकथायाः ।
सहस्व वासु, मासद्वयम्ऽिति प्राणपरित्यागरागिणीं प्राणसमां समाश्वास्यारिवश्यतामयासीत् ।
अथ विदितवार्तावार्तौ महादेवीमालवेन्द्रौ जामातरमाकारपक्षपातिनावात्मपरित्यागोपन्यासेनारिणा जिघांस्यमानं ररक्षतुः ।
न शेकतुस्तु तमपरभुत्वादुत्तारयितुमापदः ।
स किल चण्डशीलश्चण्जवर्मा सर्वमिदमुदन्तजातं राजराजगिरौ तपस्यते दर्पसाराय संदिश्य सर्वमेव पुष्पोद्भवकुटुम्बकं सर्वस्वहरणपूर्वकं सद्य एव बन्धने क्षिप्त्वा कृत्वा च राजवाहनं राजकेसरिकिशोरकमिव दारुपञ्जरनिबद्धं मूर्धजजालवलीनचूढामणिप्रभावविक्षिप्तक्षुत्पिपासादिखेदं च तमवधूतदुहितृप्रार्थनस्याङ्गराजस्योद्धरणायाङ्गानभियास्यन्न्यविश्वासान्निनाय ।
रुरोध च बलभरदत्तकम्पश्चम्पाम् ।
चम्पेश्वरो ऽपि सिंहवर्मा सिंह इवासह्यविक्रमः प्राकारं भेदयित्वा महता बलसमुदायेन निर्गत्य स्वप्रहितदूतव्राताहूतानां साहाय्यदानायातिसत्वरमापततां धरापतीनामचिरकालभाविन्यपि संनिधावदत्तापेक्षःस साक्षादिवावलेपो वपुष्मानक्षमापरीतः प्रतिबलं प्रतिजग्राहः ।
जगृहे च महति संपराये क्षीणसकलसैन्यमण्डलः प्रचण्डप्रहरणशतभिन्नमर्मा सिंहवर्मा करिणः करिणमवप्लुत्यातिमानुषप्राणबलेन चण्डवर्मणा ।
स च तद्दुहितर्यम्बालिकायामबलारत्नसमाख्यातायामतिमात्राभिलाषः प्राणैरेनं न व्ययूयुजत् ।
अवपि त्वनीनयदपनीताशेषशल्यमकल्यसंधो बन्धनम् ।
अजीगणच्च गणकसंघैः "अद्यैव क्षपावसाने विवाहनीया राजदुहिताऽ इति ।
कृतकौतुकमङ्गले च तस्मिन्नेकपिङ्गाचलात्प्रतिनिवृत्त्यैणजङ्घो नाम जङ्घाकरिकः प्रभवतो दर्पसारस्य प्रतिसंदेशमावेदयत्--"अयि मूढ, किमस्ति कन्यान्तःपुरदूषके ऽपि कश्चित्कृपावसारः ।
स्थविरः स राजा जराविलुप्तमानावमानचित्तो दुश्चरितदुहितृपक्षपाती यदेव किञ्चित्प्रलपति त्वयापि किं तदनुमत्या स्थातव्यम् ।
अविलम्बितमेव तस्य कामोन्मत्तस्य चित्रवधवार्ताप्रेषणेन श्रवणोत्सवो ऽस्माकं विधेयः ।
सा च दुष्टकन्या सहानुजेन कीर्तिसारेण निगडितचरणा चारके निरोद्धव्याऽ इति ।
तच्चाकर्ण्य "प्रातरेव राजभवनद्वारे स च दुरात्मा कन्यान्तःपुरदूषकः संनिधापयितव्यः ।
चण्डपोतश्च मातङ्गपतिरुपचितकल्पनोपपन्नस्तत्रैव समुपस्थापनीयः ।
कृतविवाहकृत्यश्चोत्थायाहमेव तमनार्यशीलं तस्य हस्तिनः कृत्वा क्रीडनकं तदधिरूढ एव गत्वा शत्रसाहाय्यकाय प्रत्यासीदतो राजन्यकस्य सकोशवाहनस्यावग्रहणं करिष्यामिऽ इति पार्श्वचरानवेक्षाञ्चक्रे ।
निन्ये चासावहन्यन्यस्मिन्नुन्मिषत्येवोषारोगे राजपुत्रो राजाङ्गणं रक्षिभिः ।
उतस्थे च क्षरितगण्डश्चण्डपोतः ।
क्षणे च तस्मिन्मुमुचे तदङ्घ्रियुगलं रजतशृङ्खलया ।
सा चैनं चन्द्रलेखाच्छविः काचिदप्सरा भूत्वा प्रदक्षिणीकृत्य प्राञ्जलिर्ंव्यजिज्ञपत्--"देव, दीयतामनुग्रहार्द्रं चित्तम् ।
अहमस्मि सोमरश्मिसंभवा सुरतमञ्जरी नाम सुरसुन्दरी ।
तस्या मे नभसि नलिनलुब्ध मुग्धकलहंसानुबद्धवक्त्रायास्तन्निवारणक्षोभविच्छिन्नविगलिता हारयष्टिर्यदृच्छया जातु हैमवते मन्दोदके मग्नोन्मग्नस्य महर्षेर्मार्कण्डेयस्य मस्तके मणिकिरणद्विगुणितपलितमपतत् ।
पातितश्च कोपितेन को ऽपि तेन मयि शापः--"पापे, भजस्व लोहजातिमजातचैतन्या सतीऽ इति ।
स पुनः प्रसाद्यमानस्त्वत्पादपद्मद्वयस्य मासद्वयमात्रं संदानतामेत्य निस्तरणीयामिमामापदमपरिक्षीणशक्तित्वं चेन्द्रियाणामकल्पयत् ।
अनल्पेन च पाप्मना रजतशृङ्खलीभूतां मामैक्ष्वाकस्य राज्ञो वेगवतः पौत्रः, पुत्रो मानसवेगस्य, वीरशेखरो नाम विद्याधरः शङ्करगिरौ समध्यगमत् ।
आत्मसात्कृता च तेनाहमासम् ।
अथासौ पितृप्रयुक्तवैरे प्रवर्तमाने विद्याधरचक्रवर्तिनि वत्सराजवंशवर्धने नरवाहनदत्ते विरसाशयस्तदपकारक्षमो ऽयमिति तपस्यता दर्पसारेण सह समसृज्यत ।
प्रतिश्रुतं च तेन तस्मै स्वसुरवन्तिसुन्दर्याः प्रदानम् ।
अन्यदा तु वियति व्यवदायमानचन्द्रिके मनोरथप्रियतमामवन्तिसुन्दरीं दिदृक्षुरवशेन्द्रियस्तदिन्द्रमन्दिरद्युति कुमारीपुरमुपासरत् ।
अन्तरितश्च तिरस्करिण्या विद्यया ।
स च तां तदा त्वदङ्कापाश्रयां सुरतखेदसुप्तगात्रीं त्रिभुवनसर्गयात्रासंहारसंबद्धाभिः कथाभिरमृतस्यन्दिनीभिः प्रत्यानीयमानरागपूरां न्यरूपयत् ।
स तु प्रकुपितो ऽपि त्वदनुभावप्रतिबद्धनिप्रहान्तराध्यवसायः समालिङ्ग्येतरेतरमत्यन्तसुखसुप्तयोर्युवयोर्दैवदत्तोत्साहः पाण्डुलोहशृङ्खलात्मना मया पादपद्मयोर्युगलं तव निगडयित्वा सरोषरभसमपासरत् ।
अवसितश्च ममाद्य शापः ।
तच्च मासद्वयं तव पारतन्त्र्यम् ।
प्रसीदेदानीम् ।
किं तव करणीयम्ऽ इति प्रणिपतन्ती "वार्तयानया मत्प्राणसमां समाश्वासयऽ इति व्यादिश्य विससर्ज ।
तस्मिन्नेव क्षणान्तरे "हतो हतश्चण्डवर्मा सिंहवर्मदुहितुरम्बालिकायाः पाणिस्पर्शरागप्रसारिते बाहुदण्ड एव बलवदलम्ब्य सरभसमाकृष्य केनापि दुष्करकर्मणा तस्करेण नखप्रहारेण राजमन्दिरोद्देशं च शवशतमयमापादयन्नचकितगतिरसौ विहरतिऽ इति वाचः समभवन् ।
श्रुत्वा चैतत्तमेव मत्तहस्तिनमुदस्ताधोरणो राजपुत्रो ऽधिरुह्य रंहसोत्तमेन राजभवनमभ्यवर्तत ।
स्तम्बेरमरयावधूतपदातिदत्तर्त्मा च प्रविश्य वेश्याभ्यन्तरमदभ्राभ्रनिर्घोषगम्भीरेण स्वरेणाभ्यधात्--"कः स महापुरुषो यैनैतन्मानुषमात्रदुष्करं महत्कर्मानुष्ठितम् ।
आगच्छतु ।
मया सहेमं मत्तहस्तिनमारोहतु ।
अभयं मदुपकण्ठवर्तिनो देवदानवैरपि विगृह्णानस्यऽ इति ।
निशम्यैवं स पुमानुपोढहर्षो निर्गत्य कृता ञ्जलिराक्रम्य संज्ञासंकुचितं कुञ्जरगात्रमसक्तमध्यरुक्षत् ।
आरोहन्तमेवैनं निर्वर्ण्यहर्षोत्फुल्लदृष्टिः "अये, प्रियसखो ऽयमपहारवर्मैवऽ इति पश्चान्निषीदतो ऽस्य बाहुदण्डयुगलमुभयभुजमूलप्रवेशितमग्रे ऽवलम्ब्य स्वमङ्गमालिङ्गयामास ।
स्वयं च पृष्ठतो वलिताभ्यां भुजाभ्यां पर्यवेष्टयत् ।
तत्क्षणोपसंहृतालिङ्गनव्यतिकरश्चापहारवर्मा चापचक्रकणपकर्पणप्रासपट्टिशमुसलतोमरादिप्रहरणजातमुपयुञ्जानान् बलावलिप्तान्प्रतिबलवीरान्बहुप्रकारायोधिनः परिक्षिपतः क्षितौ विचिक्षेप ।
क्षणेन चाद्राक्षीत्तदपिसैन्यमन्येन समन्ततो ऽभिमुखमभिधावता बलनिकायेन परिक्षिप्तम् ।
अनन्तरं च कश्चित्कर्मिकारगौरः कुरुविन्दसवर्णकुन्तलः कमलकोमलपाणिपादः कर्णचुम्बिदुग्धधवलस्निग्धनीललोचनः कटितटनिविष्टरत्ननखः पट्टनिवसनः कृशाकृशोदरोरःस्थलः कृतहस्ततया रिपुकुलमिषुवर्षेणाभिवर्षन्पादाङ्गुष्ठनिष्ठरावघृष्टकर्णमूलेन प्रजविना गजेन संनिकृष्य पूर्वोपदेशप्रत्ययात् "अयमेव स देवो राजवाहनःऽ ति प्राञ्जलिः प्रणम्यापहारवर्मणि निविष्टदृष्टिराचष्टत्वदादिष्टेन मार्गेण संनिपातितमेतदङ्गराजसहाय्यदानायोपस्थितं राजकम् ।
अरिबलं च विहितविध्वस्तं स्त्रीबालहार्यशस्त्रं वर्तते ।
किमन्यत्कृत्यम्ऽ इति ।
हृष्टस्तु व्याजहारापहारंवर्मा--"देव, दृष्टिदानेनानुगृह्यतामयमाज्ञाकारः ।
सो ऽयमेव ह्यमुना रूपणे धनमित्राख्यया चान्तरितो मन्तव्यः स एवायं निर्गमप्यबन्धनादङ्गराजमपवर्जितं च कोशवाहनमेकीकृत्यास्मद्गृह्येणामुना सह राजन्यकेनैकान्ते सुखोपविष्टमिह देवमुपतिष्ठतु यदि न दोषःऽ इति ।
देवो ऽपि "यथा ते रोचतेऽ इति तमाभाष्य गत्वा च तन्निर्दिष्टेन मार्गेण नगराद्वहिरतिमहतो रोहिणद्रुमस्य कस्यचित्क्षौमावदातसैकते गङ्गातरङ्गपवनपातशीतले तले द्विरदादवततर ।
प्रथमसमवतीर्णेनापहारवर्मणा च स्वहस्तसत्वरसमीकृते मातङ्ग इव भागीरथीपुलिनमणअडले सुखं निषसाद ।
तथा निषण्मं च तमुपहारवर्मार्थपालप्रमतिमित्र्रगुप्तमन्त्रगुप्तविश्रुतैर्मैथिलेन च प्रहारवर्मणा, काशीभर्त्रा च कामपालेन चम्पेश्वरेण सिंहवर्मणा सहोपागतय धनमित्रः प्रणिपपात ।
देवो ऽपि हर्षाविद्धमभ्युत्थितः "कथं समस्त एष मित्रगणः समागतः को नामायमभ्युदयःऽ इति कृतयथोचितोपचारान्निर्भरतरं परिरेभे ।
काशपितिमैथिलाङ्गराजांश्चसुहृन्निवेदितान्पितृवदपश्यत् ।
तैश्च हर्षकम्पितपलितं सरभसोपगूढः परमभिननन्द ।
ततः प्रवृत्तासु प्रीतिसंकथासु प्रियवयम्यगणानुयुक्तः स्वस्य च सोमदत्तपुष्पोद्भेवयाश्चरितमनुवरण्य सुहृदामपि वृत्तान्तं क्रमेण श्रोतुं कृतप्रस्तावस्तांश्च तदुक्तावन्वयुङ्क्त ।
तेषु प्रथमं प्राह स्म किलापहारवर्मा-- ।। दकुच_२,१ ।।


इति श्रीदण्डिनः कृतौ दशकुमारचरिते राजवाहनचरित नाम प्रथम उच्छ्वासः



द्वितीयोच्छ्वासः[सम्पाद्यताम्]

दकुच २,२

"देव, त्वयि तदावतीर्णे द्विजोपकारायासुरविवरं त्वदन्वेषणप्रसृते च मित्रगण अहमपि महीमटन्नङ्गेषु गङ्गातटे बहिश्चम्पायाः "कश्चिदस्ति तपःप्रभावोत्पन्नदिव्यचक्षुर्मरीचिर्नाम महर्षिःऽ इति ।
कुतश्चित्संलपतो जनसमाजादुपलभ्यामुतोबुभुत्सुस्त्वद्गतिं तमुद्देशमगमम् ।
न्यशामयं च तस्मिन्नाश्रमे कस्याचिच्चूतपोतकस्य छायायां कमप्युद्विग्नवर्णं तापसम् ।
अमुना चातिथिवदुपचरितः क्षणं विश्रान्तः "क्वासौ भगवान्मरचिः, तस्मादहमुपलिप्सुः प्रसङ्गप्रोषितस्य सुहृदो गतिम आश्चर्यज्ञानविभवो हि स महर्षिर्मह्यां विश्रुतःऽ इत्यवादिपम् ।
अथासावुष्णमायतं च निःश्वस्याशंसत-"आसीत्तादृशो मुनिरस्मिन्नाश्रमे ।
तमेकदा काममञ्जरी नामाङ्गपुरीवतंसस्थानीया बारयुवतिरश्रुबिन्दुतारकितपयोधरा सनिर्वेदमभ्येत्य कीर्णशिखण्डास्तीर्णभूमिरभ्यवन्दिष्ट ।
तस्मिन्नेव च क्षणे मातृप्रमुखस्तदाप्तवर्गः सानुक्रोशमनुप्रधावितस्तत्रैवाविच्छिन्नपातमपतत् ।
स किल कृपालुस्तं जनमार्द्रया गिराश्वास्यार्तिकारणं तां गणिकामपृच्छत् ।
सा तु सव्रीडेव सार्वपादेव सगारैवेव चाव्रवीत् ।
"भगवन्! ऐहिकस्य सुखस्याभाजनं जनो ऽयमामुष्मिकाय श्वोवसीयायार्ताभ्युपपत्तिवित्तयोर्भगवत्पादयोर्मूलं शरणमभिप्रपन्नःऽ इति ।
तस्यास्तु जनन्युदञ्जलिः परितशारशिखण्डबन्धस्पृष्टमुक्तभूमिरभाषत--"भगवन्, अस्या मे दोषमेषा वो दासी विज्ञापयति ।
दोषश्च मम स्वाधिकरारानुष्ठा पनम् ।
एष हि गणिकामातुरधिकारो यद्दुहितुर्जन्मनः प्रभृत्येवाङ्गक्रिया, तेजोबलवर्णमेधासंवर्धनेन दोषाग्निधातुसाम्यकृता मितेनाहारेण शरीरपोषणम्, आपञ्चमाद्वर्षात्पितुरप्यनतिदर्शनम्, जन्मदिने पुम्यदिने चोत्सवोत्तरो मङ्गलविधिः, अध्यापनमनङ्गविद्यानां साङ्गानाम्, नृत्यगीतवाद्यनाट्यचित्रास्वाद्यगन्धपुष्पकलासु लिपिज्ञानवचनकौशलादिषु च सम्यग्विनयनम्, शब्दहेतुसमयविद्यासु वार्तामात्रावबोधनम्, आजीवज्ञाने क्रीडाकौशले सजीवनिर्जीवासु च द्यूतकलास्वभ्यन्तरीकरणम्, अभ्यन्तरकलासु वैश्वासिकजनात्प्रयत्नेन प्रयोगग्रहणम्, यात्रोत्सवादिष्वादरप्रसाधितायाः स्फीतपरिबर्हायाः प्रकाशनम्, प्रसङ्गवत्यां संगीतादिप्रियायां पूर्वसंगृहीतैर्ग्राह्यवाग्भिः सिद्विलम्भनम्, दिङ्मुखेषु तत्तच्छिल्पवित्तकैर्यशःप्रख्यापनम्, कार्तान्तिकादिभिः कल्याणलक्षणोद्धोषणम्, पीठमर्दविटविदूषकैर्भिक्षुक्यादिभिश्च नागरिकपुरुषसमवायेषु रूपशीलशिल्पसौन्दर्यमाधुर्यप्रस्थावना, युवजनमनोरथलक्ष्यभूतायाः प्रभूततमेन शुल्केनावस्थापनम् स्वतो रागान्धाय तद्भावदर्शनोन्मादिताय वा जातिरूपवयोर्ऽथशक्तिशौचत्यागदाक्षिण्यशिल्पशीलमाधुर्योपपन्नाय स्वतन्त्राय प्रदानम्, अधिकगुणायास्वतन्त्राय प्राज्ञतमायाल्पेनापि बहुव्यपदेशेनार्पणम्, अस्वतन्त्रेण वा गन्धर्वसमागमेन तद्गुरुभ्यः शुल्कापहणम्, अलाभेर्ऽथस्य कामस्वीकृते स्वामिन्यधिकरणे च साधनम्, रक्तस्य दुहित्रैकचारिणीव्रतानुष्ठापनम्, नित्यनैमितिकप्रीतिदायकतया हृतशिष्टानां गम्यधनानां चित्रैरुपायैरपहरणम्, अददता लुब्धप्रायेण च विगृह्यासनम् प्रतिहस्तिप्रोत्साहनेन लुब्धस्य रागिणस्त्यागशक्तिसंधुक्षणम्, असारस्य वाक्संतक्षणैर्लोकोपक्रोशनैर्दुहितृनिरोधनैव्रीडोत्पादनैरन्याभियोगैरवमानैश्चापवाहनम्, अर्थदैरनर्थप्रतिघातिभिश्चानिन्द्यैरिभ्यैरनुबद्धार्थानर्थसंशयान्विचार्य भूयोभूयः संयोजनमिति ।
गणिकायाश्च गम्यं प्रति सज्जतैव न सङ्गः ।
सत्यामपि प्रीतौ न मातुर्मातृकाया वा शासनातिवृत्तिः ।
एवं स्थिते ऽनया प्रजापतिविहितं स्वधर्ममुल्लङ्घ्य क्वचिदागन्तुकं रूपमात्रधने विप्रयूनि स्वेनैव धनव्ययेन रममाणया मासमात्रमत्यवाहि ।
गम्यजनश्च भूयानर्थयोग्यः प्रत्याचक्षणयानया प्रकोपितः ।
स्वकुटुम्बकं चावसादितम् "एषा कुमतिर्न कल्याणोऽ इति निवारयन्त्यां मयि वनवासाय कोपात् प्रस्थिता ।
सा चेदियमहार्यानिश्चया सर्व एष जनो ऽत्रैवानन्यगतिरनशनेन संस्थास्यतेऽ इत्यरोदीत् ।
अथ सा वारयुवतिस्तेन तापसेन "भद्रे! ननु दुःखीकरे ऽयं वनवासः ।
तस्य फलमपवर्गः स्वर्गो वा ।
प्रथमस्तु तयोः प्रकृष्टज्ञानसाध्यः प्रायो दुस्संपाद एव, द्वितीयस्तु सर्वमस्यैव सुलभः कुलधर्मानुष्ठायिनः ।
तदशक्यारम्भादुपरम्य मातुर्मते वर्तस्वऽ इति सानुकम्पमभिहिता यदिह भगवत्पादमूलमशरणम्, शरणमस्तु ममम कृपणाया हिरण्यरेता देव एव इत्युदमनायत ।
स तु मुनिरनुविमृश्य गणिकामातरमवदत्--"संप्रति गच्छ गृहान् ।
प्रतीक्षम्व कानि चिहिनानि यावदियं सुकुमारा सुखोपभोगसमुचिता सत्यरण्यवासव्यसनेनोद्वेजिता भूयोभूयश्चास्माभिर्विबोध्यमाना प्रकृतावेव स्थाम्यतिऽ इति ।
"तथाऽ इति तस्याः प्रतियाते स्वजने सा गणिका तमृषिमलघुभक्तिर्धौतोद्गमनीयवासिनी नात्यादृतशरीरसंस्कारा वनतरुपोतालवालपूरणैर्देवतर्चनकुसुमोच्चयावचयप्रयासैर्नैकविकल्पोपहारकर्मभिः कामशासनार्थे च गन्धमाल्यधूपदीपनृत्यगीतवाद्यादिभिः क्रियाभिरेकन्ते च त्रिवर्गसंबन्धनीभिः कथाभिरध्यात्मवादैश्चानुरूपैरल्पीयसैव कालेनान्वरञ्जयत् ।
एकदा च रहसि रक्तं तमुपलक्ष्य मूढः खलु लोको यत्सह धर्मेणार्थकामावपि गणयतिऽ इति किञ्चिदस्मयत ।
"कथय वासु, केनांशेनार्थकामातिशायी धर्मस्तवाभिप्रेतःऽ इति प्रेरिता मरीचिना लज्जामन्थरमारभताभिधातुम्--"इतः किम जनाद्भगवतस्त्रिवर्गबलाबलज्ञानम् ।
अथवैतदपि प्रकारान्तरं दासजनानुग्रहस्य ।
भवतु, श्रूयताम् ।
ननु धर्मादृतेर्ऽथकामयोरनुत्पत्तिरेव ।
तदनपेक्ष एव धर्मो निवृत्तिसुखप्रसूतिहेतुरात्मसमाधानमात्रसाध्यश्च ।
सोर्ऽथकामवद्बाह्यसाधनेषु नात्यायतते ।
तत्त्वदर्शनोपबृंहितश्च यथाकथञ्चिदष्यनुष्ठीयमानभ्यां नार्थकामाभ्यां बाध्यते ।
बाधितो ऽपि चाल्पायासप्रतिसमाहितस्तमपि दोषं निर्हृत्य श्रेयसे ऽनल्पाय कल्पते ।
तथाहि पितामहसय तिलोत्तमाभिलाषः, भवानीपतेर्मुनिपत्नीसहस्रसंद्रूषणम्, पद्मनाभस्य षोडशमहस्रान्तःपुरविहारः, प्रजापतेः स्वदुहितर्यपि प्रणयप्रवृत्तिः, शचीपतेरहल्याजारता, शशाङ्कस्य गुरुतल्पगमनम्, अंशुमालिनो वडवालङ्घनम्, अनिलस्य केसरिकलत्रसमागमः, बृहस्पतेरुतथ्यभार्याभिसरणम्, पराशरस्य दाशकन्यादूषणम्, पाराशर्यस्य भ्रातृदारसंगतिः, अत्रेर्मृकगीसमागम ति ।
अमराणां च तेषु तेषु कार्येष्वासुरविप्रलम्भनानि ज्ञानबलान्न धर्मपीडामावहन्ति ।
धर्मपूते च मनसि नभसीव न जातु रजो ऽनुषज्यते ।
तन्मन्ये नार्थकामौ धर्मस्य शततमीमपि कलां स्पृशतःऽ इति ।
श्रुत्वैतदृषिरुदीर्णरागवृत्तिरभ्यधात्--"अयि विलासिन्, साधु पश्यसि न धर्मस्तत्त्वदर्शिनां विषयोपभोगेनोपरुध्यत इति ।
किन्तु जन्मनः प्रभृत्यर्थकामवार्तानभिज्ञा वयम् ।
ज्ञेयौ चेमौ किंरूपौ किंपरिवारौ किंफलौ चऽ इति ।
सात्ववादति--"अर्थस्तावदर्जनवर्धनरक्षणात्मकः, कृषिपाशुपाल्यवाणिज्यसंधिविग्रहादिपरिवारः तीर्थप्रतिपादनफलश्च ।
कामस्तु विषयातिसक्तचेतसोः स्त्रीपुंसयोर्निरतिशयसुखम्पर्शविशेषः ।
परिवारस्त्वस्य यावदिह रम्यमुज्जवलं च ।
फलं पुनः परमाह्लादनम् परम्परविमर्दजन्म, स्मर्यमाणमधुरम्, उदीरिताभिमानमनुत्तमम् लुखमपरोक्षं स्वसंवेद्यमेव ।
तस्यैव कृते विशिष्टस्थानवर्तिनः कष्टानि तषांसि, महान्ति दानानि, दारुणानि युद्धानि, भीमानि समुद्रलङ्घनादीनि च नराः समाचरन्तिऽ इति ।
निशस्यैतन्नियतिवलान्नु तत्पाटवान्नु स्वबुद्धिमान्द्यान्नु स्वनियममनादृत्य तस्यामसौ प्रासजत् ।
सा सुदूरं मूढात्मानं च तं प्रवहणेन नीत्वा पुरमुदारशोभया राजवीथ्या स्वभवनमनैपीत् ।
अभूच्च घोषणा "श्वः कामोत्सवःऽ इति ।
उत्तरे द्युः स्नातानुलिप्रमारचितमञ्जुमालमारब्धकामिजनवृत्तं निवृत्तस्ववृत्ताभिलाषं क्षणमात्रे गते ऽपि तया विना दूयमानं तमृद्धिमता राजमार्गेणोत्सवसमाजं नीत्वा क्वचिदुपवनोद्देशे युवतिजनशतपरिवृतस्य राज्ञः संनिधौ स्मितमुखेन तेन "भद्रे, भगवता सह निषीदऽ इत्यादिष्टा सविभ्रमं कृतप्रणामा सस्मितं न्यषीदत् ।
तत्र काचिदुत्थाय बद्धाञ्जलिरुत्तमाङ्गना "देव, जितानयाहम्, अस्यै दास्यमद्यप्रभृत्यभ्युपेतं मयाऽ इति प्रभुं प्राणंसीत् ।
विस्मयहर्षमूलश्चकोलाहलो लोकस्योदजिहीत ।
हृष्टेन च राज्ञा महार्है रत्नालङ्कारेर्महता च परिबर्हेणानुगृह्य विसृष्टा वारमुख्याभिः पौरमुख्यैश्च गणशः प्रशस्यमाना स्वभवनमगत्वैव तमृषिमभाषत--"भगवन्, अयमञ्जलिः, चिरमनुगृहीतो ऽयं दासजनः, स्वार्थ इदानीमनुष्ठेयःऽ इति ।
स तु रागादशनिहत इवोद्भाम्याब्रवीत्--"प्रियेऽ किमेतत् ।
कुत इदमौदासीन्यम् ।
क्व गतस्तव मय्यसाधारणो ऽनुरागःऽ इति ।
अथ सा सस्मितमवादीत्--"भगवन्, ययाद्य राजकले मत्तः पराजयो ऽब्युपेतस्तस्याश्च मम च कस्मिंश्चित्संघर्षे "मरीचिमावर्जितवतीव श्लाघसेऽ इति तयास्म्यहमधिक्षिप्ता ।
दास्यण्णबन्धेन चास्मिन्नर्थे प्रावर्तिषि ।
सिद्धार्था चास्मित्वत्प्रसादात्ऽ इति ।
समस्था तथावधूतो दुर्मतिः कृतानुशयः शून्यवनन्यवर्तिष्ट ।
यस्तयैवं कृतस्तपस्वी तमेव मां महाभाग, मन्यस्व ।
स्वशक्तिनिषिक्तं रागमुद्धृत्य तत्यैव बनधक्या महद्वैराग्यमर्पितम् ।
अचिरादेव शक्य आत्मा त्वदर्थसाधनक्षमः कर्तुम् ।
अस्यामेव तावद्वसाङ्गपुर्यां चम्पायाम्ऽ इति ।
अथ तनमनश्च्युततमःस्पर्शभियेवास्तं रविरगात् ।
ऋषिमुक्तश्च रागः संध्यात्वेनास्फुरत् ।
तत्कथादत्तवैराग्याणीव कमलवनानि समकुचन् ।
अनुमतमुनिशासनस्त्वममुनैव सहोपास्य संध्यामनुरूपाभिः कथाभिस्तमनुशय्य नीतरात्रिः प्रत्युन्मिषत्युदयप्रस्थदावकल्पे कल्पद्रुमकिसलयावधीरिण्यरुणार्चिषि तं नमस्कृत्य नगरायोदचलम् ।
अद्रशं च मार्गाभ्याशवर्तिनः कस्यापि क्षपणकविहारस्य बहिर्विविक्ते रक्ताशोकषण्डे निषण्णमस्पृष्टसमाधिमाधिक्षीणमग्रगण्यमनभिरूपाणां कृपणवर्णं कमपि क्षपणकम् ।
उरसि चास्य शिथिलितमलनिचयान्मुखान्निपततो ऽश्रुबिन्दूनलक्षयम् ।
अप्राक्षं चान्तिकोपविष्टः--"क्व तपः, क्व च रुदितम् ।
न चेद्रहस्यमिच्छामि श्रोतुं शोकहेतुम्ऽ इति ।
सो ऽब्रूत-"सौम्य, श्रूयताम् ।
अहमस्यामेव चम्पायां निधिपालितनाम्नः श्रोष्ठिनो ज्येष्ठसूनुर्वसुपालितो नाम ।
वैरूप्यान्मम निरूपक इति प्रसिद्धिरासीत् ।
अन्यश्चात्र सुन्दरक इति यथार्थनामाकलागुणैः समृद्धो वसुना नातिपुष्टो ऽभवत् ।
तस्य च मम च वपुर्वसुनी निमित्तीकृत्य वैरं वैरोपजीविभिः पौरधूर्तैरुदपाद्यत ।
त एव कदाचिदावयोरुत्सवसमाजे स्वयमुत्पादितमन्योन्यावमानमूलमधिक्षेपवचनव्यतिकरमुपशमय्य "न वपुर्वसु वा पुंस्त्वमूलम्, अपि तु प्रकृष्टगणिकाप्रार्थ्ययौवनो हि यः स पुमान् ।
अतो युवतिललामभूता काममञ्जरी यं वा कामयते स हरतु सुभगपतकाम्ऽ इति व्यवास्थापयन् ।
अभ्युपेत्यावां प्राहिणुव तस्यै दूतान् ।
अहमेव किलामुष्याः स्मरोन्मादहेतुरासम् ।
आसीनयोश्चावयोर्मामेवापगम्य सा नीलोत्पलमयमिवापाङ्गदामाङ्गे मम मुञ्चन्ती तं जनमपत्रपयाधोमुखं व्यधत्त ।
सुभगंमन्येन च मया स्वधनस्य स्वगृहस्य स्वगणस्य स्वदेहस्य स्वजीवितस्य च सैवेश्वरीकृता ।
कृश्चाहमनया मलमल्लकशेषः हृतसर्वस्वतया चापवाहितः प्रपद्य लोकोपहासलक्ष्यतामक्षमश्च सोढुं धिक्वृ-तानि पौरवृद्धानामिह जैनायतने मुनिनैकेनोपदिष्टमोक्षवर्त्मा सुकर एष वेषो वेशनिर्गतानामित्युदीर्णवैराग्यस्तदपि कौषीनमजहाम् ।
अथ पुनः प्रकीर्णमलपङ्कः प्रबलकेशलुञ्चनव्यथः प्रकृष्टतमक्षुत्पिपासादिदुःखः स्थानासनशयनभोजनेष्वपि द्विप इव नवग्रहो बलवतीभिर्यन्त्रणाभिरुद्वेजितः प्रत्यवामृशम् ।
"अहमस्मि द्विजातिः ।
अस्वधर्मो ममैष पाखाण्डिपथावतारः ।
श्रुतिस्मृतिविहितेनैव वर्त्मना मम पूर्वजाः प्रावर्तन्त ।
मम तु मन्दभाग्यस्य निन्द्यवेषममन्ददुःस्वायतनं हरिहरहिरण्यगर्भादिदेवतापवादक्षश्रवणनैरन्तर्यात्प्रेत्यापि निरयफलम् अफलं विप्रलम्भप्रायमीदृशमिदमधर्मवर्त्म धर्मवत्समाचरणीयमासीत्ऽ इति प्रत्याकलितस्वदुर्नयः पिण्डीषण्डं विविक्तमेतदासाद्य पर्याप्तमश्रुमुञ्चामिऽ इति ।
श्रुत्वा चैतदनुकम्पमानो ऽब्रवम्-"भद्र, क्षमस्व ।
कञ्चित्कालमत्रैव निवस ।
निजेन द्युम्नेनासावेव वेश्या यथा त्वां योजयिष्यति तथा यतिष्ये ।
सन्त्युपायास्तादृशाःऽ इत्याश्वास्य तमनुत्थितो ऽहम् ।
नगरमाविशन्नेव चोपलभ्य लोकवादाल्लुब्धसमृद्धपूर्णं पुरमित्यर्थानां नश्वरत्वं च प्रदर्श्य प्रकृतिस्थानमून्विधास्यन्कर्मीसुतप्रहिते तथि मतिमकरवम् ।
अनुप्रविश्य च द्यूतसभामक्षधूर्तैः समगंसि ।
तेषां च पञ्चविंशतिप्रकारासु सर्वासु द्यूताश्रयासु कलासु कौशलमक्षभूमिहस्तादिषु चात्यन्तदुरुपलक्ष्याणि कूटकर्माणि तन्मूलानि सावलेपान्यधिक्षेपवचनानि जीवितनिरपेक्षाणि संरम्भविचेष्टितानि सभिकप्रत्ययव्यवहारान्न्यायबलप्रतापप्रायानङ्गीकृतार्थसाधनक्षमान्बलिषु सान्त्वनानि दुर्बलेषु भर्त्सितानि पक्षरचनानैपुणमुच्चावचानि प्रलोभनानि ग्लहप्रभेदवर्णनानि द्रव्यसंविभागौदार्यमन्तरान्तराश्वीलप्रायान्कलकलानित्येतानि चान्यानि चानुभवन्न तृप्तिमध्यगच्छम् ।
अहसं च किञ्चित्प्रमाददत्तशारे क्वचित्कितवे ।
प्रतिकितवस्तु निर्दहन्निव क्रोधताम्रया दृशा मामभिवीक्ष्य "शिक्षयसि रे द्यूतवर्त्म हासव्याजेन ।
आस्तामयमशिक्षितो वराकः ।
त्वयैव तावद्विचक्षणेन देविष्यामिऽ इति द्यूताध्यक्षानुमत्या व्यत्यषजत् ।
मया जितश्चासौ षोडशसहस्राणि दीनाराणाम् ।
तदर्धं सभिकाय सभ्येभ्यश्च दत्त्वार्धं स्वीकृत्योदतिष्ठम् ।
उदतिष्ठंश्च तत्रगतानां हर्षगर्भाः प्रशंसालापाः ।
प्रार्थयमानसभिकानुरोधाच्च तदगारे ऽत्युदारमभ्यवहारविधिमकरवम् ।
यन्मूलश्च मे दुरोदरावतारः स मे विमर्दको नाम विश्वास्यतरं द्वितीयं हृदयमासीत् ।
तन्मुखेन च सारतः कर्मतः शीलतश्च सकलमेव नगरमवधार्य दूर्जटिकण्ठकल्माषकालतमे तमसि नीलनिवसनार्धोरुकपरिहितो बदधतीक्ष्णकौक्षेयकः फणिमुखकाकलीसंदंशकपुरुषशीर्षकयोगचूर्णयोगवर्तिकामानसूत्रकर्कटकरज्जुदीपभाजनभ्रमरकरण्ढकप्रभृत्यनेकोपकरणयुक्तो गत्वा कस्यचिल्लब्धेश्वरस्य गृहे संधिं छित्त्वा पटभाससूक्ष्माच्छिद्रालक्षितान्तर्गृहप्रवृत्तिरव्यथो निजगृहमिवानुप्रविश्य नीवीं सारमहतीमादाय निरगाम् ।
नीलनीरदनिकरपीवरतमोनिबिडितायां राजवीथ्यां झटिति शतह्रदासंपातमिव क्षणमालोकमलक्षयम् ।
अथासौ नगरदेवतेव नगरमोषरोषिता निःसंबाधवेलायां निःसृता संनिकृष्टा काचिदुन्मिषद्भूषणा युवतिराविरासीत् ।
"कासि वासु, क्वयासिऽ इति सदयमुक्ता त्रासगद्गदमगादीत्-"आर्य, पर्युस्यामर्यवर्यः कुबेरदत्तनामा वसति ।
आस्म्यहं तस्य कन्या ।
मां जातमात्रां धनमित्रनाम्ने ऽत्रत्यायैव कस्मैचिदिभ्यकुमारायान्वजानाद्भार्यां मे पिता ।
स पिनरस्मिन्नत्युदारतया पित्रोरन्ते वित्तैर्निजैः क्रीत्वेवार्थिवर्गाद्दारिद्षं दरिद्रति सत्यथोदारक इति च प्रीतलोकाधिरोपितापरश्लाध्यनामनि वरयत्येव तस्मिन्मां तरुणीभूतामधन इत्यदत्त्वार्थपतिनाम्ने कस्मैचिदितरस्मै यथार्थनाम्ने सार्थवाहाय दित्सति मे पिता ।
तदमङ्गलमद्य किल प्रभाते भावीति ज्ञात्वा प्रागेव प्रियतमदत्तसंकेता वञ्चितस्वजना निर्गत्य बाल्याभ्यस्तेन वर्त्मना मन्मथाभिसरातदगारमभिसराभि तन्मां मुञ्च ।
गृहाणैतद्भाण्डम्ऽ इत्युन्मुच्य मह्यमर्पितवती ।
दयमानश्चाहमब्रवम्--"एहि साध्वि, त्वां नयेयं त्वत्प्रियावसथम्ऽ इति त्रिचतुराणि पदान्युदचलम् ।
आपतच्च दीपिकालोकपरिलुप्यमानतिमिरभारं यष्टिकृपाणपाणि नागारिकबलमनल्पम् ।
दृष्ट्वैव प्रवेपमानां कन्यकामवदम्--"भेद्रे, मा भैषीः ।
अस्त्ययमसिद्वितीयो मे बाहुः अपि तु मृदुरयमुपायस्त्वदपेक्षया चिन्तितः ।
शये ऽहं भावितविषवेगविक्रियः ।
त्वयाप्यमी वाच्याः "निशि वयमिमां पुरी प्रविष्टाः ।
दष्टश्च ममैष नायको दर्वीकरेणामुष्मिन्सभागृहकोणे ।
यदि वः कश्चिन्मन्त्रवित् कृपालुः स एनमुज्जीवयन्मम प्राणानाहरेदनाथायाःऽ इति ।
सापि बाला गत्यन्तराभावाद्भयगद्गदस्वरा बाप्यदुर्दिनाक्षी बद्धवेपथुः कथङ्कथमपि गत्वा मदुक्तमन्वतिष्ठन्, अशयिति चादं भावितविषविक्रियः तेषु कश्चन्निरेन्द्राभिमानी मां निर्ण्यं मुद्रातन्तत्रमन्त्रध्यानादिभिश्चोपक्रम्याकृतार्थः "गत एवायं कालदष्टः ।
तथा हि स्तब्धश्यावमङ्गम्, रुद्धा दृष्टिः, शान्त एवोप्मा ।
शुचालं वासु, श्वो ऽग्निसात्करिष्यामः ।
को ऽतिवर्तते दैवम्ऽ इति सहेतरैः प्रायात् ।
उत्थितश्चाहमुदारकाय तां नीत्वाब्रवम्--"अहमस्मि को ऽपि तस्करः ।
त्वद्गतेनैव चेतसा सहायभूतेन त्वामिमामभिसरन्तीमन्तरोपलभ्य कृपया त्वत्समीपमनैषम् ।
भूषणमिदमस्याःऽ इत्यंशुपटलपाटितध्वान्तजालं तदप्यर्पितवान् ।
उदारकस्तु तदादाय सलज्जं च सहर्षं च ससंभ्रमं च मामभाषत-"आर्य, त्वयेवेयमस्यां निशि प्रिया मे दत्ता ।
वाक्पुनर्ममापहृता ।
तथा हि न जाने वक्तुं त्वत्कर्मैतदद्भुतमिति ।
न ते स्वशीलमद्भुतवत्प्रतिभाति ।
नैवमन्येनापि कृतपूर्वमिति प्रतिनियतैव वस्तुशक्तिः ।
न हि त्वय्यन्यदीया लोभादयः ।
त्वयाद्य साधुतोन्मीलितेति तत्प्रायस्त्वत्पूर्वावदानेभ्यो न रोचते ।
त्वयामुना सुकृतेन क्रीतो ऽयं दासजन इत्यसारमतिगरीयसा क्रीणासीति स ते प्रज्ञाधिक्षेपः ।
प्रियादानस्य प्रतिदानमिदं शरीरमिति तदलाभे निधनोन्मुखमिदमपि त्वयैव दत्तम् ।
अथवैतावदत्र प्राप्तरूपम् ।
अद्यप्रभृति भरतव्यो ऽयं दासजनःऽ इति मम पादयोरपत् ।
अत्थाप्य चैनमुरसोपश्लिष्याभाषिषि-"भद्र, काद्य ते प्रतिपत्तिःऽ इति ।
सो ऽभ्यधत्त--"न शक्नोमि चैनामत्र पित्रोरनभ्यनुज्ञयोपयम्य जीवितुम् ।
अतो ऽस्यामेव यामिन्यां देशमिमं जिहासामिऽ को वाहम्, यथा त्वमाज्ञपयसिऽ इति ।
अथ मयोक्तम्-"अस्त्येतत् ।
स्वदेशो देशान्तरमिति नेयं गणना विदग्धस्य पुरुषस्य ।
किन्तु बालेयमनल्पसौकुमार्या ।
कष्टाः प्रत्यवपायभूयिष्ठाश्च कान्तारपथाः ।
शैथिल्यमिव किञ्चित्प्रज्ञासत्त्वयोरनर्थेनेदृशेन देशत्यागेन संभव्यते ।
तत्सहानया सुखमिहैव वास्तव्यम् ।
एहि नयावैनां स्वमेवावासम्ऽ इति ।
अविचारानुमतेन तेन सद्य एवैनां तद्गृहमुपनीय तयैवापसर्पभूतया तत्र मृद्भाण्डावशेषमचोरयाव ।
ततो निष्पत्य क्वचिन्मुषितकं निधाय समुच्चलन्तौ नागरिकसंपाते मार्गपार्श्वशायिनं कञ्चिन्मत्तवारयणमुपरिपुरुषमाकृष्याध्यारोहाव ।
ग्रैवेयप्रोतपादयुगलेन च मयोत्थाप्यमान एव पातिताधोरणपृथुलोरःस्थलपरिणतः पुरीतल्लतापरीदन्तकाण्डः स रक्षिकबलमक्षिणोत् ।
अध्वंसयाव चामुनैवार्थपतिभवनम् ।
अपवाह्य च क्वचन जीर्णोद्याने शाखाग्राहिकया चावातराव ।
स्वगृहगतौ च स्नातौ शयनमध्यीशश्रियाव ।
तावदेवोदगादुदधेरुदयाचलेन्द्रपद्मरागशृङ्गकल्पं कल्पद्रुमहेमपल्लवापीडपाटलं पतङ्गमण्डलम् ।
उत्थाय च धौतवक्त्रौ प्रगेतनानि मङ्गलान्यनुष्ठायास्मत्कर्मतुमुलं पुरमनुविचरन्तावशृणुव वरवधूगृहेषु कोलाहलम् ।
अथार्थैरर्थपतिः कुबेरदत्तमाश्वास्य कुलपालिकाविवाहं मासावधिकमकल्पयत् ।
उपह्वरे पुनरित्यशिक्षयं धनमित्रम्--"उपतिष्ठ सखे, एकान्त एव चर्मरत्नभस्त्रिकामिमां पुरस्कृत्याङ्गराजम् ।
आचक्ष्व च जानात्येव देवो नैककोटिसारस्य वसुमित्रस्य मां धनभि नामैकपुत्रम् ।
सो ऽहं मूलहरत्वमेत्यार्थिवर्गादस्म्यवज्ञातः ।
मदर्थमेव संवर्धितायां कुलपालिकायां मद्दारिद्षदोषात्पुनः कुबेरदत्तेन दुहितर्यर्थपतये दित्सितायामुद्वेगादुज्झितुमसूनुपनगरभवं जरद्वनमवगाह्य कण्ठन्यस्तशस्त्रिकः केनापि जटाधरेण निवार्यैवमुक्तः-"किं ते साहसस्य मूलम्ऽ इति ।
मयोक्तम्--"अवज्ञासोदर्यं दारिद्षम्ऽ इति ।
स पुनरेवं कृपालुरन्वग्रहीत्--"तात्, मूढो ऽसि ।
नान्यत्पापिष्ठतममात्मत्यागात् ।
आत्मानमात्मनानवसाद्यैवोद्धरन्ति सन्तः ।
सन्त्युपाया धनार्जनस्य बहवः नैको ऽपि च्छिन्नकण्ठप्रतिसंधानबूर्वस्य प्राणलाभस्य ।
किमनेन ।
सो ऽस्म्यहं मन्त्रसिद्धः ।
साधितेयं लक्षग्राहिणी चर्मरत्नभस्त्रिका ।
चिरमहमस्याः प्रसादात्कामरूपेषु कामप्रदः प्रजानामवात्सम् ।
मत्सरिण्यां जरसि भूमिस्वर्गमत्रोद्देशे प्रवेक्ष्यन्नागतः ।
तामिमां प्रतिगृहाण ।
मदन्यत्र चेयं वणिग्भ्यो वारमुख्याभ्यो वा दुग्धे इति हि तद्गता प्रतीतिः ।
किन्तु यत्सकाशादन्यायापहृतं तत्तस्मै प्रत्यर्पणीयम् ।
न्यायार्जितं तु देवब्राह्मणेभ्यस्त्याज्यम् ।
अथेयं देवतेव शुचौ देशे निवेश्यार्च्यमाना प्रातः प्रातः सुवर्णपूर्णव दृश्यते ।
इयं च रत्नभूता चर्मभस्त्रिका देवायानिवेद्य नोपजीव्येत्यानीता ।
परन्तु देवः प्रमाणम्ऽ इति ।
राजा च नियतमेवं वक्ष्यति--"भेद्र, प्रीतो ऽस्मि ।
गच्छ ।
यथेष्टमिमामुपभुङ्क्ष्वऽ इति ।
भूयश्च ब्रूहि-"यथा न कश्चिदेनां मुष्णाति तथानुगृह्यताम्ऽ इति ।
तदप्यवश्यमसावभ्युपैष्यति ।
ततः स्वगृहमेत्य यथोक्तमर्थत्यागं कृत्वा दिने दिने वरिवस्यमानां स्तेयलब्धैरर्थैर्नक्तमापूर्य प्राह्णे लोकाय दर्शयिष्यसि ।
ततः कुबेरदत्तस्तृणायमत्वार्थपतिमर्थलुब्धः कन्यकया स्वयमेव त्वामुप्सतास्याति ।
अथ कुपितोर्ऽथपतिर्व्यवहर्तुमर्थगर्वादभियोक्ष्यते ।
तं च भूयश्चित्रैरुपायैः कौपीनावशेषं करिष्यावः ।
स्वकं चौर्यमनेनैवाभ्युपायेन सुप्रच्छन्नं भविष्यतिऽ इति ।
हृष्टश्च धनमित्रो यथोक्तमन्वतिष्ठत् ।
तदहरेव मन्नियोगाद्विमर्दकोर्ऽथपतिसेवाभियुक्तस्तस्योदारके वैरमभ्यवर्धयत् ।
अथलुब्धश्च कुबेरदत्तो निवृत्त्यार्थपतेर्धनमित्रायैव तनयां सानुनयं प्रादित्सत ।
प्रत्यबध्नाच्चार्थपतिः ।
एष्वेव दिवसेषु काममञ्जर्याः स्वसा यवीयसी रागमञ्जरी नाम पञ्चवीरगोष्ठे संगीतकमनुष्ठास्यतीति सान्द्रादरः समागमननागरजनः ।
स चाहं सह सख्याधनमित्रेण तत्र संन्यधिषि ।
प्रवृत्तनृत्यायां च तस्यां द्वितीयं रङ्गपीठं ममाभून्मनः ।
तद्दृष्टिविभ्रमोत्पलवनसच्चापाश्रयश्च पञ्चशरो भावरसानां सामग्र्यात्समुदितबल इव मामतिमात्रमव्यथयत् ।
अथासौ नगरदेवतेव नगरमोषरोषिता लीलाकटाक्षमालाशृङ्खलाभिर्नीलोत्पलपलाशश्यामलाभिर्मामबध्नात् ।
नृत्योत्थिता च सा सिद्धिलाभशोभिनी-"किं विलासात्, किमभिलाषात्, किमकस्मादेव वा, न जाने,-असकृत्मां सखीभिरप्यनुपलक्षितेनापाङ्गप्रेक्षितेन सविभ्रमारेचितभ्रूलतमभिर्वाक्ष्य, सापदेसं च किञ्चिदाविष्कृतदशनचन्द्रिकं स्मित्वा, लोकलोचनमानसानुयाता प्रातिष्ठत ।
सो ऽहं स्वगृहमेत्य दुर्निवारयोत्कण्ठया दूरीकृताहारस्पृहः शिरःशूलस्पर्शनमपदिशन्विविक्ते तल्पे मुक्तैरवयवैरशयिषि ।
अतिनिष्णातश्च मदनतन्त्रे मामभ्युपेत्य धनमित्रो रहस्यकथयत्-"सखे, सैव धन्या गणिकादारिका, यामेवं भन्मनो ऽबिनिविशते ।
तस्याश्च मया सुलक्षिता भाववृत्तिः ।
तामप्यचिरादयुग्मशरः शरशयने शाययिष्यति ।
स्थानाबिनिवेशिनोश्च वामयत्नसाध्यः समागमः ।
किन्तु सा किल वारकन्यका गणिकास्वधर्मप्रतीपगामिना भद्रोदारेणाशयेन समगिरत-"गुणशुल्काहम्, न धनशुल्का ।
न च पाणिग्रहणादृते ऽन्यभोग्यं यौवनम्ऽ इति ।
तच्च मुहुः प्रतिषिध्याकृतार्था तद्भगिनी काममञ्जरीमाता च माधवसेना राजानमश्रुकण्ठ्यौ व्यजिज्ञपताम्-"देव, युष्मद्दासी रागमञ्जरो रूपानुरूपशीलशिल्पकौशला पूरयिष्यति मनोरथानित्यासीदस्माकमतिमहत्याशा साद्य मूलच्छिन्ना ।
यदियमतिक्रम्य स्वकुलधर्ममर्थनिरपेक्षा गुणेभ्य एवं स्वं यौवनं विचिक्रीषते कुलस्त्रीवृत्तमेवाच्युतमनुतिष्ठासति ।
सा चेदियं देवपादाज्ञयापि तावत्प्रकृतिमापद्येत तदा पेशलं भवेत्ऽ इति ।
राज्ञा च तदनुरोधात्तथानुशिष्टा सत्यप्यनाश्रवैव सा यदासीत्, तदास्याः स्वसा माता च रुदितनिर्बन्धेन राज्ञे समगिरताम्-"यदि कश्चिद्भुजङ्गो ऽस्मदिच्छया विनैनां बालां विप्रलभ्य नाशयिष्यति स तस्करवद्वध्यःऽ इति ।
तदेवं स्थिते धनादृतेन तत्स्वतनो ऽनुमन्यते ।
न तु धनदायासावभ्युपगच्छतीति विचिन्त्यो ऽत्राभ्युपायःऽ इति ।
अथ मोयक्तम्-"किमत्र चिन्त्यम् ।
गुणैस्तामावर्ज्य गूढं धनैस्तत्स्वजनं तोषयावःऽ इति ।
ततश्च काञ्चित्काममञ्जर्याः प्रधानदूतीं धर्मरक्षितां नाम शाक्यभिक्षुकीं चीवरपिण्डदानादिनोपसंगृह्य तन्मुखेन तया बन्धक्या पणबन्धमकरवम्--"अजिनरत्नमुदारकान्मुषित्वा मया तुभ्यं देयम्, यदि प्रतिदानं रागमञ्जरीऽ इति ।
सो ऽहंसंप्रतिपन्नायां च तस्यां तथा तदर्थं संपाद्यमद्गुणोन्मादिताया रागमञ्जर्याः करकिसलयमग्रहीषम् ।
यस्यां च निशि चर्मरत्नस्तेयवादस्तस्याः प्रारम्भे कार्यान्तरापदेशेनाहूतेषु शृण्वत्स्वेव नागरमुख्येषु मत्प्रणिधिर्विमर्दकोर्ऽथपतिगृह्यो नामभूत्वा धनमित्रमुल्लङ्घ्य बह्वर्तयत् ।
उक्तं च धनमित्रेण-"भेद्र, कस्तवार्थो यत्परस्य हेतोर्मामाक्रोशसि ।
न स्मरामि स्वल्पमपि तवापकारं मत्कृतम्ऽ इति ।
स भूयो ऽपि तर्जयन्निवाब्रवीत्--"स एष धनगर्वो नाम, यत्परस्य भार्यां शुल्कक्रीतां पुनस्तत्पितरौ द्रव्येण विलोभ्य स्वीचिकीर्षसि ।
ब्रवीषि च-"कस्तवापकारो मत्कृतःऽ इति, ननु प्रतीतमेवैतत् "सार्थवाहस्यार्थपतेर्विमर्दको बहिश्चराः प्राणाःऽ इति ।
सो ऽहं तत्कृते प्राणानपि परित्यजामि ।
ब्रह्महत्यामपि न परिहरामि ।
"ममैकरात्रजागरप्रतीकारस्तवैष चर्मरत्नाहङ्कारदाहज्वरःऽ इति ।
तथा ब्रुवाणश्च पौरमुख्यैः सामर्षं निषिध्यापवाहितो ऽभूत् ।
इयं च वार्ता कृत्रिमार्तिना धनमित्रेण चर्मरत्ननाशमादावेवोपक्षिप्य पार्थिवाय निवेदिता ।
स चार्थपतिमाहूयोपह्वरे पृष्टवान् "अङ्ग, किमस्ति कश्चिद्विमर्दको नामात्रभवतःऽ इति ।
तेन च मूढात्मना "अस्ति देव, परं मित्रम्ऽ ।
कश्च तेनार्थःऽ इति कथिते राज्ञोक्तम्-"अपि शक्नोषि तमाह्वातुम्ऽ इति ।
"बाढमस्मि शक्तःऽ इति निर्गत्य स्वगृहे वेशवाटे द्यूतसभायामापणे च निपुणमन्विष्यन्नोपलब्धवान् ।
कथं वोपलभ्येत स वराकः ।
स खलु विमर्दको मद्ग्राहितत्वदभिज्ञानचिह्नो मन्नियोगात्त्वदन्वेषणायोज्जयिनीं तदहरेव प्रातिष्ठत ।
अर्थपतिस्तु तमदृष्ट्वा तत्कृतमपराधमात्मसंबद्धं मत्वा मोहाद्भयाद्वा प्रत्याख्याय पुनर्धनमित्रेण विभाविते कुपितेन राज्ञा निगृह्य निगडबन्धनमनीयत ।
तेष्वेव दिवसेषु विधिना कल्पोक्तेन चर्मरत्नं दोग्धुकामा काममञ्जरी पूर्वदुग्धं क्षणणीभूतं विरूपकं रहस्युपसृत्य ततो ऽपहृतं सर्वमर्थजातं तस्मै प्रत्यर्प्य सप्रश्रयं च बह्वनुनीय प्रत्यागमत् ।
सो ऽपि कथञ्चिन्निर्ग्रन्थिकग्रहान्मोचितात्मा मदनुशिष्टो हृष्टतमः स्वधर्ममेव प्रत्यपद्यत ।
काममञ्जर्यपि कतिपयैरेवाहोभिरश्मन्तकशेषमजिनरत्नदोहाशया स्वमभ्युदयमकरोत् ।
अथ मत्प्रयुक्तो धनमित्रः पार्थिवं भिथो व्यज्ञापयत्-"देव, येयं गणिका काममञ्जरी लोभोत्कर्षाल्लोभमञ्जरीति लोकावक्रोशपात्रमासीत्, साद्य मुसलोऌखलान्यपि निरपेक्षं त्यजति ।
तन्मन्ये मच्चर्मरत्नालाभं हेतुम् ।
तस्य खलु कल्पस्तादृशः ।
वणिग्भ्यो वारमुख्याभ्यश्च दुग्धे नान्येभ्य इति हि तद्गता प्रतीतिः ।
अतो ऽमुष्यामस्ति मे शङ्काऽ इति ।
सा सद्य एव राज्ञा सह जनन्या समाहूयत ।
व्यथितवर्णेनेव मयोपह्वरे कथितम्-"नूनमार्ये, सर्वस्वत्यागादतिप्रकाशादाशङ्कनीयचर्मरत्नलाभा ।
तदनुयोगायाङ्गराजेन समाहूयसे ।
भूयोभूयश्च निर्बद्धया त्वया नियतमस्मि तदागतित्वेनाहमपदेश्यः ।
ततश्च मे भावी चित्रवधः ।
मृते च मयि न जीविष्यत्येव ते भगिनी ।
त्वं च निःस्वीभूता ।
चमरत्नं च धनमित्रमेव प्रतिभजिष्यति ।
तदियमापत्समन्ततो ऽनर्थानुबन्धिनी ।
तत्किमत्र प्रतिविधेयम्ऽ इति ।
तया तज्जनन्या चाश्रूणि विसृज्योक्तम्-"अस्त्येवैतदस्मद्वालिश्यान्निर्भिन्नप्रायं रहस्यम् ।
राज्ञश्च निर्बन्धाद्द्विश्त्रिश्चतुर्निह्नुत्यापि नियतमागतिरपदेश्यैव चोरितस्य त्वयि ।
त्वयि त्वपदिष्टे सर्वमस्मत्कुटुम्बमवसीदेत् ।
अर्थपतौ च तदपयशो रूढम् ।
अङ्गपुरप्रसिद्धं च तस्य कीनाशस्यास्माभिः संगतम् ।
अमुनैव तदस्मभ्यं दत्तमित्यपदिश्य वरमात्मा गोपायितुम्ऽ इति मामभ्युपगमय्य राजकुलमगमताम् ।
राज्ञानुयुक्ते च "नैष न्यायो वेशकुलसय यद्दातुरपदेशः ।
न ह्यर्थैर्न्यायार्जितैरेव पुरुषा वेशमुपतिष्ठन्तिऽित्यसकृततिप्रणुद्य कर्णनासाच्छेदोपक्षेपभीषिताभ्यां दग्धबन्धकीभ्यां स एव तपस्वी तस्करत्वेनार्थपतिरग्राह्यत ।
कुपितेन च राज्ञा तस्य प्राणेषूद्यतो दण्डः ।
प्राञ्जलिना धनमित्रेणैव प्रत्यषिध्यत-"आर्य, मौर्यदत्त एष वरो वणिजाम् रिदृशेष्वपराधेष्वसुभिरवियोगः ।
यदि कुपितो ऽसि हृतसर्वस्वो निर्वासनीयः पाप एषःऽ इति ।
तन्मूला च धनमित्रस्य कीर्तिरप्रथत ।
अप्रीयत च भर्ता ।
पटच्चरच्छेदशेषोर्ऽथपतिरर्थमत्तः सर्वपौरजनसमक्षं निरवास्यत ।
तस्यैव द्रव्याणां तु केनचिदवयवेन सा वराकी काममञ्जरी चर्मरत्नमृगतृष्णिकापविद्धसर्वस्वा सानुकम्पं धनमित्राभिनोदितेन भूपेनान्वगृह्यत ।
धनमित्रश्चाहनि गुणिनि कुलपालिकामुपायंस्त ।
तदेवं सिद्धसंकल्पो रागमञ्जरीगृहं हेमरत्नपूर्णमकरवम् ।
अस्मिंश्च पुरे लुब्धसमृद्धवर्गस्तथा मुषितो यथा कपालपाणिः स्वैरेव धनैर्मद्विश्राणितैः समृद्धीकृतस्यार्थवर्गस्य गृहेषु भिक्षार्थमभ्रमत् ।
न ह्यलमतिनिपुणो ऽपि पुरुषो नियतिलिखितां लेखामतिक्रमितुम् ।
यतो ऽहमेकदा रागमञ्जर्याः पमास्वादमास्वादं मदेनास्पृश्ये ।
शीलं हि मदोन्मादयोरमार्गेणाप्युचितकर्मस्वेव प्रवर्तनम् ।
यदहमुपोढमदः "नगरमिदमेकयैव शर्वर्या निर्धनीकृत्य त्वद्भवनं पूरयेयम्ऽ इति प्रव्यथितप्रियतमाप्रणामाञ्जलिशपथशतातिवर्ती मत्तवारण इव रभसच्छिन्नशृङ्खलः कयापि धात्र्या शृगालिकाङ्ख्ययानुगम्यमानो नातिपरिकरो ऽसिद्धितीयो रंहसा परेणोदचलम् ।
अभिपततो ऽपि नागरिकपुरुषानशङ्कमेव विगृह्य तस्कर इति तैरभिहन्यमानो ऽपि नातिकुपितः क्रीडन्निव मदावसन्नहस्तपतितेन निस्त्रिंशेन द्वित्रानेव हत्वावघूर्णमानताम्रदृष्टिरपतम् ।
अनन्तरमार्तरवान्विसृजन्ती शृगालिका ममाभ्याशमागमत् ।
अबध्ये चाहमरिभिः ।
आपदा तु मदापहारिण्या सद्य एव बोधितस्तत्क्षणोपजातया प्रतिभया व्यचीचरम्-"अहो, ममेयं मोहमूला महत्यापदापतिता ।
प्रसृततरं च सख्यं मया सह धनमित्रस्य, मत्परिग्रहत्वं च रागमञ्जर्याः ।
मदेन सा च तौ प्रोर्णुतौ श्वो नियतं निग्रहिष्येते ।
तदियमिह प्रतिपत्तिर्ययानुष्ठीयमानया मन्नियोगतस्तौ परित्रास्येते ।
मां च कदाचिदनर्थादितस्तारयिष्यतिऽ इति कमप्युपायमात्मनैव निर्णीय शृगालिकामर्गादिषम्-"अपेहि जरतिके, या तामर्थलुब्धां दग्धगणिकां राजमञ्जरिकामजिनरत्नमत्तेन शत्रुणा मे मित्रचछद्मना धनमित्रेण संगमितवती, सा हतासि ।
तस्य पापस्य चर्मरत्नमोषाद्दुहितुश्च ते साराभरणापहारादहमद्य निःशल्यमुत्सृजेयं जीवितम्ऽ इति ।
सा पुनरुद्धटितज्ञा परमधूर्ता साश्रुगद्गदमुदञ्जलिस्तान् पुरुषान्सप्रणाममासादितवती सामपूर्वं मम पुरस्तादयाचत-"भद्रकाः, प्रतीक्ष्यतां कञ्चित्कालं यावदस्मादस्मदीयं सर्वं मुषितमर्थजातमवगच्छेयम्ऽ इति ।
तथेति तैः प्रतिपन्ने पुनर्मत्समीपमासाद्य "सौम्य, क्षमस्वास्य दासीजनस्यैकमपराधम् ।
अस्तु स कामं त्वत्कलत्राभिमर्शी वैरास्पदं धनमित्रः ।
स्मरंस्तु चिरकृतां ते परिचर्यामनुग्रहीतुमर्हसि दासीं रागमञ्जरीम् ।
आकल्पसारो हि रूपाजीवाजनः ।
तद्ब्रूहि क्व निहितमस्यां भूषणम्ऽ इति पादयोरपतत् ।
ततो दयमान इवाहमव्रवम्-"भवतु, मृत्युहस्तवर्तिनः किं ममामुप्या वैरानुबन्धेनऽ इति तद्व्रुवन्निव कर्ण एवैनामशिक्षयम्-"एवमेवं प्रतिपत्तव्यम्ऽ इति ।
सा तु प्रतिपन्नार्थेव जीव चिरम्, प्रसीदन्तु ते देवताः, देवो ऽप्यङ्गराजः पौरुषप्रीतो मोचयतु त्वाम्, एते ऽपि भद्रमुखास्तव दयन्ताम्, इति क्षणादपासरत् ।
आनीये चाहमारक्षकनायकस्य शासनाच्चारकम् ।
अथोत्तरेद्युरागत्य दृप्ततरः सुभगमानी सुन्दरंमन्यः पितुरत्ययादचिराधिष्ठताधिकारस्तारुण्यमदादनतिपक्वः कान्तको नाम नागारेकः किञ्चिदिव भर्त्सयित्वा मां समभ्यधत्त--"न चेद्धनमित्रस्याजिनरत्नं प्रतिप्रयच्छसि, न चेद्वा नागरिकेभ्यश्चोरितकानि परत्यर्पयसि, द्रक्ष्यसि पारमष्टादशानां कारणानामन्ते च मृत्युमुखम्ऽ इति मया तु स्मयमानेनाभिहितम्--"सौम्य, यद्यपि दद्यामाजन्मनो मुपितं धनं न त्वर्थपतिदारापहारिणः शत्रोर्मे मित्रमुखरय धननित्रस्य चर्मरत्नप्रत्याशां पूरयेयम् ।
अदत्त्वैव तदयुतमपि यातनानामनुभवेयम् ।
इयं नेसाथीयसी सन्धाऽ इति ।
तेनैव क्रमेण वर्तमाने सान्त्नतर्जनप्राये प्रतिदिनमनुयोगव्यतिकरे ऽनुगुणान्नपानलाभात्कतिपयैरेवहोभिर्विरोपि तत्रणः प्रकृतिस्थो ऽहमासम् ।
अथ कदाचिदच्युताम्बरपीतातपत्विपि क्षयिणि वासरे हृष्टवर्णा शृगालिकोज्ज्वलेन वेषेणोपसृत्य दूरस्थानुचरा मामुपश्लिष्याव्रवीत्--"आर्य, दिष्ट्या वधस ।
फलिता तव सुनीतिः ।
यथा त्वयादश्ये तथा धनमित्रमेत्यात्रवम्-- आर्य तवैवमापन्नः सुहृदित्युवाच-"अहमद्य वेशसंसर्गसुलभात्पानदोषाद्वद्धः ।
त्वया पुनरविशङ्कमद्यैव राजा विज्ञापनीयः--"देव, देवप्रसादादेव पुरापि तदजिनरत्नमर्थपतिमुषितमासादितम् ।
अथ तु भर्ता रागमञ्जर्याः कश्चिदक्षधूर्तः कलासु कवित्वेषु लोकवार्तासु चातिवैचक्षण्यान्मया समसृज्यत तत्सम्बन्धाच्च वस्त्राभरणप्रेषणादिना तद्भार्यां प्रतिदिनमन्ववर्ते ।
तदसावशङ्किष्ट निकृष्टाशयः कितवः ।
तेन च कुपितेन हृतं तच्चर्मरत्नमामरणसमुद्गकश्च तस्याः ।
स तु भूयः स्तेयाय भ्रमन्नगृह्यत नागरिकपुरुषैः ।
आपन्नैन चामुनानुसृत्य रुदत्यै रागमञ्जरीपरिचारिकायै पूर्वप्रणयानुवर्तिना तद्भाण्जनिधानोद्देशः कथितः ।
ममापि चर्मरत्नमुपायोपक्रान्तो यदि प्रयच्छेदह देव पादः प्रसादः कार्यः इति ।
तथा निवेदितश्च नरपतिरसुभिर्मामवियोज्योपच्छन्दनैरेव संवं ते दापयितुं प्रयतिष्यते तन्नः पथ्यम्ऽ इति ।
श्रुत्वैव च त्वदनुभावप्रत्ययादनतित्रस्नुना तेन तत्तथैव संपादितम् ।
अथाहं त्वदभिज्ञानप्रत्यायिताया रागमञ्जर्याः सकाशाद्यर्थष्सितानि वसूनि लभमाना राजदुहितुरम्बालिकाया धात्रीं माङ्गलिकां त्वदादिष्टेन मार्गेणान्वरञ्जयम् ।
तामेव च संक्रमीकृत्य रागमञ्जर्याश्चाम्बालिकायाः सख्यं परमवीवृधम् ।
अहरङश्च नवनवानि प्राभृतान्युपहरन्ती कथाश्चित्राश्चित्तहारिणीः कथयन्ती तस्याः परं प्रसादपात्रमासम् ।
एकदा च हर्म्यगतायास्तस्याः स्थानस्थितमपि कर्णकुवलयं स्रस्तमिति समादधत्ती प्रमत्तेव प्रच्याव्य पुनरुत्क्षिष्य भूमेस्तेनोपकन्यापुरं कारणेन केनापि भवनाङ्गणं प्रविष्टस्य कान्तकस्योपरि प्रवृत्तिकुहरपारावतत्रासनापदेशात्प्रहसन्ती प्राह्र्षम् ।
सो ऽपि ते धन्यंमन्यः किञ्चिदुन्मुखः स्मयमानो मत्कर्मप्रहासितायाराजदुहितार्विलासप्रायमाकारमात्माभिलाषमूलमिव यथा संकल्पयेत्तथा मयापि संज्ञयैव किमपि चतुरमाचेष्टितम् ।
आकृष्टधन्वना च मनसिजेन विद्धः सन्दिग्धफलेन पत्रिणातिमुग्धः कथङ्कथमप्यपासरत् ।
सायं च राजकन्याङ्गुलीयकमुद्रितां वासताम्बूलपट्टांशुकयुगलभूषणावयवगर्भां च वङ्गेरिकां कयाचिद्वालिकया ग्राहयित्वा रागमञ्जर्या इति नीत्वा कान्तकस्यागारमगाम् ।
अगाधे च रागसागरे मग्नो नावमिव मामुपलभ्य परमहृष्यत् अवस्थान्तराणि च राजदुहितुः सुदारुणानि व्यावर्णयन्त्या मया स दुर्मतिः सुदूरमुदमाद्यत ।
तत्प्रार्थिता चाहं त्वत्प्रियाप्रहितमिति ममैव मुखताम्बूलोच्छिष्टानुलेपनं निर्माल्यं मलिनांशुकं चान्येद्युरुपाहरम् ।
तदीयानि च राजकन्यार्थमित्युपादाय च्छन्नमेवापोढानि ।
इत्थं च सन्धुक्षितमन्मथाग्निः स एवैकान्ते मयोपमन्त्रितो ऽभूत्--"आर्य, लक्षणान्येव तवाविसंवादीनि ।
तथा हि मत्प्रातिवेश्यः कश्चित्कार्तान्तिकः "कान्तकस्य च त्वामियं राजकन्यका कामयते ।
तदेकापत्यश्च राजा तया त्वां समागतमुपलभ्य कुपितो ऽपि दुहितुर्मरणभयान्नोच्छेत्स्यति ।
प्रत्युत प्रापयिष्यत्येव यौवराज्यम् ।
इत्थं चायमर्थोर्ऽथानुबन्धी ।
किमिति तात्, नाराध्यते ।
यदि कुमारीपुरप्रवेशाभ्युपायं नावबुध्यसे ।
ननु बन्धनागारभित्तेव्यमित्रयमन्तरालमारमप्राकारस्य केनचित्तु हस्तवतैकागारिकेण तावतीं सुरङ्गां कारयित्वा प्रविष्टस्योपवनं तवोपरिष्टादस्मदायत्तैव रक्षा ।
"रक्ततरो हि तस्याः परिजनो न रहस्यं भेत्स्यतिऽ इति ।
सो ऽव्रवीत्--"साधु भेद्र, दर्शितम् ।
अस्ति कश्चित्तस्करः खननकर्मणि सगरसुतानामिवान्यतमः स चेल्लब्धः क्षणेनैतत्कर्म साधयिष्यतिऽ इति ।
"कतमो ऽसौ, किमिति लभ्यते इति मयोक्त "येन तद्धनमित्रस्य चर्मरत्नं मुषितम्ऽ इति त्वामेव निरदिक्षत् ।
यद्येवमेहि, त्वयास्मिन्कर्मणि साधित चित्रैरुपायैस्त्वामहं मोचयिष्यामीति शपथपूर्वं तेनाभिसन्दाय सिद्धेर्ऽथे भूयो ऽपि निगडियित्वा "यो ऽसौ चारेः स सर्वथोपक्रान्तः न तु धार्ष्ट्यभूमिः प्रकृष्टवैरस्तदजिनरत्नं दर्शयिष्यतिऽ इति राज्ञे विज्ञाप्य "चित्रमेनं हनिप्यसि, तथा च सत्यर्थः सिद्ध्यति, रहस्यं च न स्रवतिऽ इति मयोक्ते सो ऽतिहृष्टः प्रतिपद्य मानेव त्वदुपप्रलोभने नियुज्य बरिरवस्थितः प्राप्तमितः परं चिन्त्यताम्ऽ इति प्रीतेन च मयोक्तम्, "मदुक्तमल्पम्, त्वन्नय एवात्र भूयान् आनयैनम्ऽ इति ।
अथानीतेनामुनामन्मोचनाय शपथः कृतः, अहं च रहस्यानिर्भेदाय विनिगजीकृतश्च स्नानभोजनविलोपनान्यनुभूय नित्यान्धकाराद्भित्तिकोणादारभ्योरगास्येन सुरङ्गामकरत्रम् ।
अचिन्तयं चैम्-"हन्तुमनसैवामुना मन्मोचनाय शपथः कृतः तदेनं हत्वापि नासत्यवाददोषेण स्पृश्येऽ इति ।
निष्पततश्च मे निगजनाय प्रसार्यमाणपाणेस्तस्य पादेनोरसि निहत्य पतितसय तस्यैवासिधेन्वा शिरो न्यकृन्तम् ।
अकथयं च शृगालिकाम्-"भण भद्रे, कथंभूतःकन्यापुरसंनिवेशः? महानयं प्रयासो मा वृथैव भूत् ।
अमुत्र किञ्चिच्चोरयित्वा निवर्तिष्येऽ इति ।
तदुपदर्शितविभागे चावगाह्य कन्यान्तःपुरं प्रज्वलत्सु मणिप्रदीपेषु नैकक्रीडाखेदसुप्रस्य परजनस्य मध्ये महितमहार्घरत्नप्रत्युप्तसिंहाकारदन्तपादे हंसतूलगर्भशय्योपधानशालिनि कुसुमविच्छुरितपर्यन्ते पर्यङ्कगले दक्षिणपादपार्प्ण्यधोभागानुवलितेतरचरणाग्रपृष्टम् रिषद्विवृत्तमधुरगुलफसंधि, परस्पराश्लिष्टजङ्घाकाण्डम्, आकुञ्चितकोमलोभयजानुकिञ्चिद्वेल्लितोरुदण्डयुगलम्, अधिनितम्बस्रस्तमुक्तैकभुजलताग्रपेशलम्, अपाश्रयान्तनिमिताकुञ्चितेतरभुजलतोत्तानतलकरकिसलयम्, आमुग्नश्रोणिमण्डलम्, अतिश्लिष्टचीनांशुकान्तरीयम्, अनतिवलिततनुतरोदरम्, अतनुतरनिःश्वासारम्भकम्पमानकठोरकुचकुङ्मलम्, अतिरश्चीनबन्धुरशिरोधरोद्देशदृश्यामाननिष्टप्ततपनीयसूत्रपर्यस्तपद्मरागरुचकम्, अर्धलक्ष्याधरकर्णपाशनिभृतकुण्डलम्, उपरिपरावृत्तश्रवणपाशरत्नकर्णिकाकिरणमञ्जरीपिञ्जरितविषयव्याविद्धाशिथिलशिखण्डबन्धम्, आत्मप्रभापटलदुर्लक्ष्यपाटलोत्तराधरविवरम्, गण्डस्थलीसंक्रान्तहस्तपल्लवदर्शितकर्णावतंसकृत्यम्, उपरिकपोलादर्शतलनिषक्तचित्रवितानपत्रजातजनितविशेषकक्रियम्, आमीलितलोचनेन्दीवरम्, अविभ्रान्तभ्रूपताकम्, उद्भिद्यमानश्रमजलपुलकभिन्नशिथिलचन्दनतिलकम्, आननेन्दुसंमुखालकलतं च विश्रब्धप्रसुप्तामतिधवलोत्तरच्छदनिमग्नप्रयैकपार्श्वतया चिरविलसनखेदनिश्चलां शरदम्भोधरोत्सङ्गशायिनीमिव सौदामिनीं राजकन्यामपश्यम् ।
दृष्ट्वै स्फुरदनङ्गरागश्चकितश्चोरयितवयनिस्पृहस्तयैव तावच्छोर्यमाणहृदयः किङ्कर्तव्यतामूढः क्षणमतिष्ठम् ।
अतर्कयं च-"न चेदिमां वामलोचनामाप्नुयां न मृष्यति मां जीवितु वसन्तबन्धुः असंकेतितपरामृष्टा चेयमतिबाला व्यक्तमार्तस्वरेण निहन्यान्मे मनोरथम् ।
ततो ऽहमेवाहन्येय ।
तदियमत्र प्रतिपत्तिःऽ इति ।
नागदन्तलग्ननिर्यासकल्कवर्णितं फलकमादाय मणिसमुद्गकाद्वर्णवर्तिकामुद्धृत्य तां तथाशयानां तस्याश्च मामावद्धञ्जालिं चरणलग्नमालिखमार्यां चैताम्- "त्वामयमाबद्धाञ्जलि दासजनस्तमिममर्थमर्थयते ।
स्वपिहि मया सह सुरतव्यतिकरखिन्नेव मा मैवम्ऽ ।। हेमकरण्डकाच्चवासताम्बूलवीटिकां कपूरस्फुटिकां पारिजातकं चोपयुज्यालक्तकपाटलेन तद्रसेन सुधाभितौ चक्रवाकमिथुनं निरष्ठीवम् ।
अङ्गुलीयकविनिमयं च कृत्वा कथङ्कथमपि निरगाम् ।
सुरङ्गया च प्रत्येत्य बन्धागारं तत्र बद्धस्य नागरिकवरस्य सिंहघोषनाम्नस्तेष्वेव दिनेषु मित्रत्वेनोपचरितस्य "एवं मया हतस्तपस्वी कान्तकः, तत्त्वया प्रतिभिद्य रहस्यं लब्धव्यो मोक्षःऽ इत्युपदिश्य सह शृगालिकया निरक्रामिषम् ।
नृपतिपथे च समागत्य रक्षिकपुरुषैरगृह्ये ।
अचिन्तयं च-"अलमस्मि जवेनापसर्तुमनामृष्ट एवैभिः ।
एषा पुनर्वराकी गृह्येत ।
तदिदमत्र प्राप्तरूपम्ऽ इति तानेव चपलमभिपत्य स्वपृष्ठसमर्पितकूर्परः पराङ्मुखः स्थित्वा "भद्राः, यद्यहमस्मि तस्करः बध्नीत माम् ।
युष्माकमयमधिकारः, न पुनरस्या वर्षियस्याःऽ इत्यवादिषम् ।
सा तु तावतैवोन्नीतमदभिप्राया तान्सप्रणाममभ्येत्य "भद्रमुखाः, ममैष पुत्रो वायुग्रस्तश्चिरं चिकित्सितः ।
पूर्वेद्यः प्रसन्नकल्पः प्रकृतिश्थ एव जातः ।
जातास्थया मया बन्धनान्निष्क्रमय्य स्नापितो ऽनुलेपितश्चपरिधाप्यनिष्प्रवाणियुगलमभ्यवहार्य परमान्नमौशीरे ऽद्यकामचारः कृतो ऽभूत् ।
अथ निशीथे भूय एव वायुनिघ्नः "निहत्य कान्तकं नृपतिदुहित्रा रमेयऽ इति रंहसा परेण राजपथमभ्यपतत् ।
निरूप्य चाहं पुत्रमेवङ्गतमस्यां वेलायामनुधावामि ।
तत्प्रसीदत ।
बद्ध्वैनं मह्यमर्पयतऽ इति यावदसौक्रन्दति तावदहं "स्थविरे, केन देवो मातरिश्वा बद्धपूर्वः ।
किमेते काकाःशौङ्गेयस्य मे निग्रहीतारः ।
शान्तं पापम्ऽ इत्यभ्यधावम् ।
असावप्यमीभिः "त्वमेवोन्मत्ता यानुन्मत्त इत्युन्मत्तं मुक्तदवती ।
कस्तमिदानीं बध्नातिऽ इति निन्दिता कदर्थिता रुदत्येवमामन्वधावत् ।
गत्वा च रागमञ्जरीगृहं चिरविरहखेदविह्वलामिमां बहुविधं समाश्वास्य तं निशाशेषमनयम् ।
प्रत्यूषे पुनरुदारकेण च समगच्छे ।
अथ भगवन्तं मरीचिं वेशकृच्छुदुत्थाय पुनः प्रतितप्ततपःप्रभावप्रत्यापन्नादिव्यचक्षुषमुपसंगम्य तेनास्म्येवंभूतत्वद्दर्शनमवगमितः ।
सिंहघोषश्च कान्तकापचारं निर्भिद्य ततपदे प्रसन्नेन राज्ञा प्रतिष्ठापितः तेनैव चारकसुरङ्गापथेन कन्यापुरप्रवेशं भूयो ऽपि मे समपादयत् ।
समगंसि चाहं शृगालिकामुखनिःसृतवार्तानुरक्तया राजदुहित्रा ।
तष्वेवे दिवसेषु चण्डवर्मा सिंहवर्मावधूतदुहितृप्रार्थनः कुपितो ऽभियुज्य पुरमवारुणत् ।
अमर्षणश्चाङ्गराजो यावदरिः पारग्रामिकं विधिमाचिकीर्षति तावत्स्वयमेव प्राकारं निर्भिद्य प्रत्यासन्नानपि सहायानप्रतीक्षमाणो निर्गत्याभ्यधिकबलेन विद्विषा महति संपराये भिन्नवर्मा सिंहवर्मा बलादगृह्यत ।
अम्बालिका च बलवदभिगृह्य चण्डवर्मणा हठात्परिणेतुमात्मभवनमनीयत् ।
कौतुकं च स किल क्षपावसाने विवाह इत्यबध्नात् ।
अहं च धनमित्रगृहे तद्विवाहायैव पिनद्धमङ्गलप्रतिसरस्तमेवमवोचम्-"सखे, समापतितमेवाङ्गराजाभिसरं राजमण्डलम् ।
सुगूढमेव संभूय पौरवृद्धैस्तदुपावर्तय ।
उपावृत्तश्च कृत्तशिरसमेव शुत्रुं द्रक्ष्यसिऽ इति ।
"तथाऽ इति तेनाभ्युपगते गतायुषो ऽमुष्य भवनमुत्सवाकुलमुपसमाधीयमानपरिणयोपकरणमिस्ततः प्रवेशनिर्गमप्रवृत्तलोकसंबाधमलक्ष्यशस्त्रिकः सह प्रविश्य मङ्गलपाठकैरम्बलिकापाणिपल्लवमग्नौ साक्षिण्याथर्वणेन विधिनार्प्यमाणमादित्समानस्यायामिनं बाहुदुण्डमाकृष्य च्छुरिकयोरसि प्राहर्षम् ।
स्फुरतश्च कतिपयानन्यानपि यमविषयमगमयम् ।
हतविध्वस्तदं च तद्गृहमन् विचरन्वेपमानमधुरगात्रीं विशाललोचनामभिनिशाम्य तदालिङ्गनसुखमनुबुभूषुस्तामादाय गर्भगृहमविक्षम् ।
अस्मिन्नेव क्षणे तवास्मि नवाम्बुवाहस्तनितगम्भीरेण स्वरेणानुगृहीतःऽ इति ।
श्रुत्वा च स्मित्वा च देवो ऽपि रजवाहनः "कथमसि कार्कस्येन कर्णीसुतमप्यतिक्रान्तःऽ इत्यभिधाय पुनरवेक्ष्योपहारवर्माणम् आचक्ष्व, तवेदानीमवसरःऽ इत्यभाषत ।
सो ऽपि सस्मितं प्रणस्यारभताभिधातुम् ।। दकुच_२,२ ।।


इति श्रीदण्डिनः कृतौ दशकुमारचरिते ऽपहारवर्मचरितं नाम द्वितीय उच्छ्वासः


तृतीयोच्छ्वासः[सम्पाद्यताम्]

दकुच २,३

एषो ऽस्मि पर्यटन्नेकदा गतो विदेहेषु ।
मितिलामप्रविश्यैव बहिः क्वचिन्मठिकायां विश्रमितुमेत्य कयापि वृद्धतापस्या दत्तपाद्यः क्षणमलिन्दभूमाववास्थिषि ।
तस्यास्तु मद्दर्शनादेव किमप्याबद्धधारमश्रु प्रावर्तत ।
"किमेतदम्ब, कथय कारणम्ऽ इति पृष्टा सकरुणमाचष्ट--"जैवातृक, ननु श्रूयते पातिरस्या मिथिलायाः प्राहरवर्मा नामासीत् ।
तस्य खलु मगधराजो राजहंसः परं मित्रमासीत् ।
तयोश्च वल्लभे बलशम्बलयोरिव वसुमतीप्रियंवदे सख्यमप्रतिममधत्ताम् ।
अथ प्रथमगर्बाभिनन्दितां तां च प्रियसखीं दिदृक्षुः प्रियंवदा वसुमतीं सह भर्त्रा पुष्पपुरमगमत् ।
तस्मिन्नेव च समये मालवेन मगधराजस्य महज्जन्यमजनि ।
तत्र लेशतो ऽपि दुर्लक्ष्यां गतिमगमन्मगधराजः, मैथिलेन्द्रस्तु मालवेन्द्रप्रयत्नप्राणितः स्वविषयं प्रतिनिवृत्तो ज्येष्ठस्य संहारवर्मणः सुतैर्विकटवर्मप्रभृतिभिर्व्याप्तं राज्यमाकर्ण्य स्वस्रीयात्सुह्यपतेर्दण्डावयवमादित्सुरटवीपदमवगाह्यलुब्धकलुप्तसर्वस्वो ऽभूत् ।
तत्सुतेन च कनीयसा हस्तवर्तिना सहैकाकिना वनचरशरवर्षभयपलायिता वनमगाहिषि ।
तत्र च मे शार्दूलनखावलीझनिपतितायाः पाणिभ्रष्टः स बालकः कस्यापि कपिलाशवस्य क्रोडमभ्यलीयत ।
तच्छवाकर्षिणश्च व्याघ्रस्यासूनिषुरिष्वसनयन्त्रमुक्तः क्षणादलिक्षत् ।
भिल्लदारकैःस बालो ऽपाहारि ।
सात्वहं मोहसुप्ता केनापि वृष्णिपालेनोपनीय स्वं कुटीरमावेश्यकृपयोपक्रान्तव्रणा स्वस्थीभूय स्वभर्तुरन्तिकमुपतिष्ठासुरसहायतया यावद्व्याकुलीभवामि तावन्ममैव दुहीता सह यूना केनापि तमेवोद्देशमागमत् ।
सा भृशं रूरोद ।
रुदितान्ते च सा सार्थघाते स्वहस्तगतस्य राजपुत्रस्य किरातभर्तृहस्तगमनम्, आत्मनश्च केनापि वनचरेण व्रणविरोपणम्, स्वस्थायाश्च पुनस्तेनोपयन्तुं चिन्तिताया निकृष्टजातिसंसर्गवैक्लव्यात्प्रत्याख्यानपारुष्यम्, तदक्षणेण चामुना विविक्ते विपिने स्वशिरः- कर्तनोद्यमम्, अनेन यूना यदृच्छया दृष्टेन तस्य दुरात्मनो हननम्, आत्मनश्चोपयमनमित्यकथयत् ।
स तु पृष्टो मैथिलेन्द्रस्यैव को ऽपि सेवकः कारणविलम्बी तन्मार्गानुसारि जातः ।
सह तेन भर्तुरन्तिकमुपसृत्य पुत्रवृत्तान्तेन श्रोत्रमस्य देव्याः प्रियंवदायाश्चादहाव ।
स च राजा दिष्टदोषाज्ज्येष्ठपुत्रैश्चिरं विगृह्य पुनरसहिष्णुतयातिमात्रं चिरं प्रयुध्य बद्धः ।
देवी च बन्धनं गमिता ।
दग्धा पुनरहमस्मिन्नपिवार्धके हतजीवितमपारयन्ती हातुं प्रव्रज्यां किलाग्रहीपम् ।
दुहीता तु मम हतजीविताकृष्टा विकटवर्ममहादेवी कल्पसुन्दरी किलाशिश्रियत् ।
तौ चेद्राजपुत्रौनिरुपद्रवावेवावर्धिष्येताम्, इयता कालेन तवेमां वयोवस्थामम्प्रक्ष्येताम् ।
तयोश्च सतोर्न दायादा नरेन्द्रस्य प्रसह्यकारिणो भवेयुःऽ इति प्रमन्युरभिरुरोद ।
श्रुत्वा च तापसीगिरमहमपि प्रवृद्धवाप्पो निगृढमभ्यधाम्-"यद्येवमम्ब, समाश्वसिहि ।
नन्वन्ति कश्चिन्मुनिस्त्वया तदवस्थया पुत्राभ्युपपादनार्थं याचितस्तेन स लब्धो वर्धतश्च ।
वार्तेयमतिमहती ।
किमनया ।
सो ऽहमस्मि ।
शक्यश्च मयासौ विकटवर्मा यताकथञ्चिदुपश्लिष्य व्यापादयितुम् ।
अनुजाः पुनरतिबहवः, तैरपि घटन्ते पौरजानपदाः ।
मां तु न कश्चिदिहत्यर्ः इदृक्तया जनो जानाति ।
पितरावपि तावन्मां न संविदाते, किमुतेतरे तमेनमर्थमुपायेन साधयिष्यामिऽ इत्यगादिपम् ।
सा तु हर्षनिर्भरनिपीडिता चिरं प्ररुद्य बहुं विलप्य शान्ता पुनः स्वमात्रा राजान्तःपुरवृत्तान्ताख्याने न्ययुज्यत ।
उक्तं च तया-"कुमार,कामरूपेश्वरस्य कलिन्दवर्मनाम्नः कन्या कल्पसुन्दरी कलासु रूपे चाप्सरसो ऽपयतिक्रान्ता पतिमभिभूय वर्तते ।
तदेकवल्लभः, स तु बह्ववरोधो ऽपि विकटवर्माऽ इति ।
तामवोचम्-"उपसर्पैनां मत्प्रयुक्तैर्गन्धमाल्यैः ।
उपजनयचासमानदोषनिन्दादिना स्वभर्तरि द्वेषम् ।
अनुरूपभर्तृगामिनीनां च वासवदत्तादीनां वर्णनेन ग्राहयानुशयम् ।
अवरोधनान्तरेषु च राज्ञो विलसितानि सुगूढान्यपि प्रयत्नेनान्विप्य प्रकाशयन्ती मानसस्या वर्धयऽ इति ।
पुनरिदमम्बामवोचम्-"इत्थमेव त्वयाप्यनन्यव्यापारया नृपाङ्गनासावुपस्थातव्या ।
प्रत्यहं च यद्यत्र वृत्तं तदस्मि त्वयैव बोध्यः, मदुक्ता पुनरियमुदर्कस्वादुनो ऽस्मत्कर्मणः प्रसाधनाय च्छायेवानयायिनी कल्पसुन्दरीमनुवर्तताम्ऽ इति ।
तेन च तमर्थं तथैवान्वतिष्ठताम् ।
केषुचिद्दिनेषु गतेष्वाचष्ट मां मदम्बा "वत्स, माधवीव पिचुमन्दाश्लेषिणी यथासौ शोच्यमात्मानं मन्येत तथोपपाद्य स्थापिता ।
किं भूयः कृत्यम्ऽ इति ।
पुनरहमभिलिख्यात्मनः प्रतिकृतम् "इत्यममुष्यै नेया ।
नीतां चैनां निर्वर्ण्य सा नियतमेवं वक्ष्यति ।
"नन्वस्ति कश्चिदीदृशाकारः पुमान्ऽ इति ।
प्रतिब्रूह्येनाम्-"यदि स्यात्ततः किम्ऽ इति ।
तस्य यदुत्तरं सा दास्यति "तदहमस्मि प्रतिबोधनीयःऽ इति ।
सा "तथा इति राजकुलमुपसंक्रम्य प्रतिनिवृत्ता मामेकान्ते न्यवेदयत्-"वत्स, दर्शितो ऽसौ चित्रपटस्तस्यै मत्तकाशिन्यै ।
चित्रीयमाणा चासौ भुवनमिदं सनाथीकृतं यद्देवे ऽपि कुसुमधन्वनि नेदृशी वपुःश्रीः संनिधत्ते ।
चित्रमेतच्चित्रतरम् ।
न च तमवैमि यर् इदृशमिदमिहत्यो निर्मिमीते ।
केनेदमालिखितम्, इत्यादृतवती व्याहृतवती च ।
मया च स्मेरयोदीरितम्-"देवि, सदृशमाज्ञापयसि ।
भगवान्मकरकेतुरप्येवंसुन्दरं इति न शक्यमेव संभवायितुम् ।
अथ च विस्तीर्णेयमर्णवनेमिः ।
क्वचिदीदृशमपि रूपं दैवशक्त्या संभवेत् ।
अथ तु यद्येवंरूपो रूपानुरूपशिल्पशीलविदयाज्ञानकौशलो युवा महाकुलीनश्च कश्चित्संनिहितः स्यात्, स किं लप्स्यतेऽ इति ।
तयोक्तम्-"अम्ब, किं ब्रवीमि ।
शरीरं हृदयं जीवितमिति सर्वमिदमल्पमनर्हं च ।
ततो न किञ्चिल्लप्स्यते न चेदयं विप्रलम्भस्तस्यामुप्य दर्शनानुभवेन यथेदं चक्षुश्चरितार्थं भवेत्तथानुग्रहः कार्यःऽ इति ।
भूयो ऽपि मया दृढतरीकर्तुमुपन्यस्तम्-"अस्ति को ऽपि राजसूनुर्निगूढं चरन् ।
अमुप्य वसन्तोत्सवे सहसखीभिर्नगरोपवनविहारिणीरतिरिव विग्रहिणी यदृच्छया दर्शनपथं गतासि ।
गतश्चासौ कामशरैकलक्ष्यतां मामन्ववर्तिष्ट ।
मया च वामन्योन्यानुरूपैरन्यदुर्लभैराकारादिभिर्गुणातिशयैश्च प्रेर्यमाणया तद्रचितैरेव कुसुमशेखरस्रगनुलेपनादिभिश्चिरमुपासितासि ।
सादृश्यं च स्वमनेन स्वयमेवाभिलिख्य त्वत्समाधिगाढत्वदर्शनाय प्रेषितम् ।
एष चेदर्थो निश्चितस्तस्यामुप्यातिमानुषप्राणसत्तवप्रज्ञाप्रकर्षस्य न किञ्चिद्दुष्करं नाम ।
तमद्यैव दर्शयेयम् ।
संकेतो देयःऽ इति ।
तया तदु किञ्चिदिव ध्यात्वा पुनरभिहितम्--"अम्ब, तव नैतदिदानीं गोप्यतम् ।
अतः कथयामि ।
मम तातस्य राज्ञ प्रहारवर्मणा सह महती प्रीतिरासीत् ।
मातुश्च मे मानवत्याः प्रियवयस्या देवी प्रियंवदासीत् ।
ताभ्यां पुनरजातापत्याभ्यामेवकृतः समयो ऽभूत्--"आवयोः पुत्रमत्याः पुतराय दुहितृमत्या दुहिता देयाऽ इति ।
तातस्तु मां जातां प्रनष्टापत्या प्रियंवदेति प्रार्थयमानाय विकटवर्मणे दैवाद्दत्तवान् ।
अयं च निष्ठुरः पितृद्रोही नाप्युपपन्नसंस्थानः कामोपचारेष्वलब्धवैचक्षण्यः कलासु काव्यनाटकादिषु मन्दाभिनिवेशः सौर्योन्मादी दुर्विकत्थनो ऽनृतवादी चास्थानवर्पी ।
नातिरोचते म एष भर्ता विशेषतश्चैषु वासरेषु यदयमुद्याने मदन्तरङ्गभूतां पुष्करिकामप्युपान्तवर्तिनीमनादृत्य मयि बद्धसापत्न्यमतसरामनात्मज्ञामात्मनाटकीयां रमयन्तिकां नामापत्यनिर्विशेषं मत्संवर्धितायाश्चम्पकलतायां स्वयमवचिताभिः सुमनोभिरलमकार्षित् ।
मदुपभुक्तमुक्ते चित्रकूटगर्भवेदिकागते रत्नतस्य तया सह व्यहार्षित् ।
अयोग्यश्च पुमानवज्ञातं च प्रवृत्तः ।
तत्किमित्यपेक्ष्यते परलोकभयं चैहिकेन दुःखेनान्तरितम् ।
अविषह्यं हि योषितामनङ्गशरनिषङ्गीभूतचेतसामनिष्टजनसंवासयन्त्रणादुःखम् ।
अतो ऽमुना पुरुषेण ममाद्योद्यानमाधवीगृहे समागमय ।
तद्वार्थाश्रवणमात्रेणैव हि ममातिमात्रं मनो ऽनुरक्तम् ।
अस्ति चायमर्थराशिः ।
अनेनामुप्य पदे प्रतिष्ठाप्य तमेवात्यन्तमुपचर्य जीविष्यामिऽ इति ।
मयापि तदभ्युपेत्य प्रत्यागतम् ।
अतः परं भर्तृदारकः प्रमाणम्ऽ इति ।
ततस्तस्या एव सकाशादन्तःपुरनिवेशमन्तर्वंशिकपुरुषस्थान् प्रमदवनप्रदेशानपि विभागेनावगम्य, अस्तगिरिकूटपातक्षुभितशोणित इव शोणीभवति भानुबिम्बे, पश्चिमाम्बुधिषयःपातनिर्वापितपतङ्गाङ्गारधूमसंभार इव भरितनभसितमसि विजृम्भते, परदारपरामर्शोन्मुखस्य ममाचार्यकमिव कर्तुमुत्थिते गुरुपरिग्रहश्लाघिनि ग्रहाग्रेसरे क्षपाकरे, कल्पसुन्दरीवदनपुण्डरीकेणेव मद्दर्शनातिरागप्रथमोपनतेन स्मयमानेन चन्द्रमण्डलेन संधुक्ष्यमाणतेजसि भुवनविजिगीषोद्यते देवे कुसुमधन्वनि, यतोचितं शयनीयमभजे ।
व्यचीचरं च-"सिद्धप्राय एवायमर्थः ।
किन्तु परकलत्रलङ्घानाद्धर्मपीडा भवेत्, साप्यर्थकामयोर्द्वयोरुपलम्भेशास्त्रकारैरनुमतैवेति ।
गुरुजनबन्धमोक्षोपायसंधिना मया चैप व्यतिक्रमः कृतः, तदपि पापं निर्हृत्य कियत्यापि धर्मकलया मां समग्रयेदिति ।
अपि त्वेतदाकर्ण्य देवो राजवाहनः सुहृदो वा किं नु वक्ष्यन्तिऽ इति चिन्तापराधीन एव निद्रया परामृश्ये ।
अदृस्यत च स्वप्नो हस्तिवक्रो भगवान् ।
आहस्म च-"सौम्य उपहारवर्मन्, मा स्म ते दुर्विकल्पो भूत् ।
यतस्त्वमसि मदंशः ।
शङ्करजटाभारलालनोचिता सुरसरिदसौ वरवर्णिनी ।
सा च कदाचिन्मद्विलोडनासहिष्णुर्मामशपत्-"एहि मर्त्यत्वम्ऽ इति ।
अशप्यत मया च-"यथेह बहुभोग्या तथा प्राप्यापि मानुप्यकमनेकसाधारणी भवऽ इति ।
अब्यर्थितश्चानया "एकपूर्वा पुनस्त्वामेवोपचर्य यावज्जीवं रमेयम्ऽ इति ।
तदयमर्थो भव्य एव भवता निराशङ्क्यःऽ इति ।
प्रतिबुध्य च प्रीतियुक्तस्तदहरपि प्रियासंकेतव्यतिकरादिस्मरणेनाहमनैषम् ।
अन्येद्युरनन्यथावृत्तिरनङ्गो मय्येवेषुवर्षमवर्षत् ।
अशुष्यच्च ज्योतिष्मतः प्रभामयं सरः ।
प्रासरच्च तिमिरमयः कर्दमः ।
कार्दमिकनिवसनश्च दृझतरपरिकरः खङ्गपाणिरुपहृतप्रकृतोपस्करः ।
स्मरन्मातृदत्तान्यभिज्ञानानि राजमन्दिरपरिखामुदम्भसमुपातिष्ठम् ।
अथोपखातं मातृगृहद्वारे पुष्करिकया प्रथमसंनिधापितां वेमुयष्टिमादाय तया शायितया च परिखाम्, स्थापितया च प्राकारभित्तिमलङ्घयम् ।
अधिरुह्य पक्वेष्टकचितेन गोपुरोपरितलाधिरोहेण सोपानपथेन भुवमवातरम् ।
अवतीर्णश्च बकुलवीथीमतिक्रम्य चम्पकावलिवर्त्मना मनागिवोपसृत्योत्तराहि करुणं चक्रवाकमिथुनरवमशृणवम् ।
पुनरुदीचा पाटलिपथेन स्पर्शलभ्यविशालसौधकुड्योदरेण शरक्षेपमिव गत्वा पुनः प्राचा पिण्डीभाण्डीरषण्डमण्डितोभयपार्श्वेन सैकतपथेन किञ्चिदुन्त्तरमतिक्रम्य पुनरवाचीं चूतवीथीमगाहिषि ।
ततश्च गहनतरमुदरोपचितरत्नवेदिकं माधवीलतामण्डपमीषद्विवृतसमुद्गकोन्मिषितभासा दीपवर्त्या न्यरूपयम् ।
प्रविश्य चैकपार्श्वे फुल्लपुष्पनिरन्तरकुरण्टपोतपङ्क्तिभित्तिपरिगतं गर्भगृहम्, अवनिपतितारुणाशोकलतामयमभिनवकुसुमकोरकपुलकलाञ्छितं प्रत्यग्रप्रवालपटलपाटलं कपाटमुद्धाट्य प्राविक्षम्, तत्र चासीत्स्वास्तीर्णं कुसुमशयनम्, सुरतोपकरणवस्तुगर्भाश्चभृङ्गारकः ।
समुपविश्य मुहूर्तं विश्रान्तः परिमलमतिशयवन्तमाघ्रासिषम् ।
अश्रौषं च मन्दमन्दं पदशब्दम् ।
श्रुत्वैव संकेतगृहान्निर्गत्य रक्ताशोकस्कन्धपार्श्वव्यवहिताङ्गयष्टिः स्थितो ऽस्मि ।
सा च सुभ्रूः सुषीमकामा शनैरुपेत्य तत्र मामदृष्ट्वा बलवदव्यथिष्ट ।
व्यसृजच्च मत्तराजहंसवि कण्ठरागवल्गुगद्गदां गिरम्-"व्यक्तमस्मि विप्रलब्धा ।
नास्त्युपायः प्राणितुम् ।
अयि हृदय, किमिदमकार्यं कार्यवदध्यवसाय तदसंभवेन किमेवमुत्ताम्यसि ।
भगवन्पञ्चबाण, कस्तवापराधः कृतो मया यदेवं दहसि, न च भस्मीकरोषिऽ इति ।
अथाहमाविर्भूय विवृतदीपभाजनः "भामिनि, ननु बह्वपराद्धं भवत्या चित्तजन्मनो यदमुष्य जीवितभूता रतिराकृत्या कदर्थिता, धनुर्यष्टिर्भ्रूलताभ्याम्, भ्रमरमालामयी ज्या नीलालकद्युतिभिः, अस्त्राण्यपाङ्गवीक्षितवृष्टिभिः, महारजनरञ्जितध्वजपटांशुकं दन्तच्छदमयूखजालैः, प्रथमसुहृन्मलयमारुतः परिमलपटीयसा निःश्वासपवनेन, परभृतो ऽतिमञ्जुलैः प्रलापैः, पुष्पमयी पताका भुजयष्टिभ्याम्, दिग्विजयारम्भपूर्णकुम्भमिथुनमुरोजकुम्भयुगलेन, क्रीजासरो नाबिमम्डलेन, संनाह्यरथः श्रोणिमण्डलेन, भवनरत्नतोरणस्तम्भयुगलमूरुयुगलेन, लीलाकर्णकिसलयं चरणतलप्रभाभिः ।
अतः स्थान एव त्वां दुनोति मीनकेतुः ।
मां पुनरनपराधमधिकमायासयतीत्येष एव तस्य दोषः ।
तत्प्रसीद सुन्दरि, जीवय मां जीवनौषधिभिरवापाङ्गैरनङ्गभुजङ्गदष्टम्ऽ इत्याश्लिष्टवान् ।
अरीरमं चानङ्गरागपेशलविशाललोचनाम् ।
अवसितार्थां चारक्तवलितेक्षणामीषत्स्वेदरेखोद्भेदजर्जरितकपोलमूलामनर्गलकलकलप्रलापिनीमकरुणदशनकररुहार्पणव्यतिकरामत्यर्थपरिश्लथाङ्गीमार्तामिव लक्षयित्वा मानसीं शारीरीं च धारणां शिथिलयन्नात्मानमपि तया समानार्थमापादयम् ।
तत्क्षणविमुक्तसंगतौ रतावसानकं विधिमनुभवन्तौ चिरपरिचिताविवातिरूढविश्रम्भौ क्षणमवातिष्ठावहि ।
पुनरहमुष्णमायतं च निःश्वस्य किञ्चिद्दीन दृष्टिः सचकितप्रसारिताभ्यां भुजाभ्यामेनामनतिपीडं परिष्वज्य नातिविशदमचुम्बिषम् ।
अश्रुमुखी तु सा "यदि प्रायासि नाथ, प्रयातमेव मे जीवितं गणय ।
नय मामपि ।
न चेदसौ दासजनो निष्प्रयोजनःऽ इत्यञ्जलिमवतंसतामनैषीत् ।
अवादिषं च ताम्--"अयि मुग्धे, कः सचेतनः स्त्रियमभिकामयमानां नाभिनन्दति ।
यदि मदनुग्रहनिश्चलस्तवाभिसंधिराचराविचारं मदुपदिष्टम् ।
आदर्शय रहसि राज्ञे मत्सादृश्यगर्भं चित्रपटम् ।
आचक्ष्व च किमियमाकृतिः पुरुषसौन्दर्यस्य पारमारूढा न वाऽ इति ।
"बाढमारूढाऽ इति नूनमसौ वक्ष्यति ।
ब्रूहि भूयः--"यद्येवम्, अस्ति कापि तापसी देशान्तरभ्रमणलब्धप्रागल्भ्या मम च मातृभूताऽ ।
तयेदमालेख्यरूपं पुरस्कृत्याहमुक्ता-"सो ऽस्ति तादृशो मन्त्रो येन त्वमुपोषिता पर्वणि विविक्तायां भूमौ पुरोहितैर्हुतमुक्ते सप्तार्चिषि नक्तमेकाकिनी शतं चन्दनसमिधः, शतमगुरुसमिधः कर्पूरमुष्ठिः पट्टवस्त्राणि च प्रभूतानि हुत्वा भविष्यस्येवमाकृतिः ।
अथ चालयिष्यसि घण्टाम् ।
घण्टापुटक्वणिताहूतश्च भर्ता भवत्यै सर्वरहस्यमाख्याय निमीलिताक्षो यदि त्वामालिङ्गेत्, इयमाकृतिरमुमुपसंक्रामेत् ।
त्वं तु भविष्यसि यथापुराकारैव यदि भवत्यै भवत्प्रियाय चैवं रोचेत, न चास्मिन्विधौ विसंवादः कायःऽ इति ।
"वपुश्चोदिदं तवाभिमतं सह सुहृन्मन्त्रिभिरनुजैः पौरजानपदैश्च संप्रधार्य तेषामप्यनुमते कर्मण्यभिमुखेन स्तेयम्ऽ इति ।
स नियतमभ्युपैष्यति ।
पुनरस्यामेव प्रमदवनवाटीशृङ्गाटिकायामाथर्वणिकेन विधिना संज्ञपितपशुनाभिहुत्य मुक्ते हिरण्यरेतसि धूमपटेन संप्रविष्टेन मयास्मिन्नेव लतामण्डपे स्थातव्यम् ।
त्वं पुनः प्रगाढायां प्रदोषवेलायामालपिष्यसि कर्णे कृतनर्मस्मिता विकटवर्माणम्--"धूर्तो ऽसि त्वमकृतज्ञश्च ।
मदनुग्रहलब्धेनापि रूपेण लोकलोचनोत्सवायमानेन मत्सपत्नीरभिरमयिष्यसि ।
नाहमात्मविनाशाय वेतालोत्थापनमाचरेयम्ऽ इति ।
श्रुत्वेदं त्वद्वचः स यद्वदिष्यति तन्मह्यमेकाकिन्युपागत्य निवेदयिष्यसि ततः परमहमेव ज्ञास्यामि ।
मत्पदचिह्नानि चोपवने पुष्करिकया प्रमार्जयऽ इति ।
सा "तथाऽ इति शास्त्रोपदेशमिव मदुक्तमादृत्यातृप्तसुरतरागैव कथङ्कथमप्यगादन्तःपुरम् ।
अहमपि यथाप्रवेशं निर्गत्य स्वमेवावासमयासिपम् ।
अथ सा मत्तकाशिनी तथा तमर्थमन्वतिष्ठत् ।
अतिष्ठच्च तन्मते स दुर्मतिः ।
अभ्रमच्च पौरजानपदेष्वियमद्भुतायमाना वार्ता-"राजा किल विकटवर्मा देवीमन्त्रबलेन देवयोग्यं वपुरासादयिष्यति ।
नूनमेष विप्रलम्भो नातिकल्याण) ।
कैव कथा प्रमादस्य ।
स्वस्मिन्नेवान्तःपुरोपवने स्वाग्रमहिष्यैव संपाद्यः किलायमर्थः ।
तथाहि बृहस्पतिप्रतिमबुद्धिभिर्मन्त्रिभिरप्यभ्यूह्यानुमतः ।
यद्येवं भावि नान्यदतः परमस्ति किञ्चिदद्भुतम् ।
अचिन्त्यो हि मणिमन्त्रौपधीनां प्रभावः इति प्रसृतेषु लोकप्रवादेषु प्राप्ते पर्वदिवसे, प्रगाढायां प्रौढतमसि प्रदोषवेलायामन्तःपुरोद्यानादुदैरयद्धूर्जटिकण्ठधूम्रो धूमोद्गमः ।
क्षीराज्यदधितिलगौरसर्पपवसामांसरुधिराहुतीनां च परिमलः पवनानुसारी दिशिदिशि प्रावात्सीत् ।
प्रशान्ते च सहसा धूमोद्गमे तस्मिन्नहमविशम् ।
निशान्तोद्यानमगाच्च गजगामिनी ।
आलिङ्ग्य च मां सस्मितं समभ्यधत्त--"धूर्त, सिद्धं ते समीहेतम् ।
अवसितश्च पशुरसौ ।
अमुष्य प्रलोभनाय त्वदादिष्टया दिशा मयोक्तम्-"कितव, न साधयामि ते सौन्दर्यम् ।
एवं सुन्दरो हि त्वमप्सरसामपि स्पृहणीयो भविष्यसि, किमुत मानुषीणाम् ।
मधुकर इव निसर्गचपलो यत्र क्वचिदसज्जति भवादृशो नृशंसःऽ इति ।
तेन तु मे पादयोर्निपत्याभिहितम्-"रम्भोरु, सहस्व मत्कृतानि दुश्चरितानि ।
मनसापि न चिन्तयेयमितःपरमितरनारम् ।
त्वरस्व प्रस्तुते कर्मणिऽ इति ।
तदहमीदृशेनवैवाहिकेननेपथ्येन त्वामभिसृतवती ।
प्रागपि रागाग्निसाक्षिकमनङ्गेन गुणरूपा दत्तैव तुभ्यमेषा जाया ।
पुनरपीमं जातवेदसं साक्षीकृत्य स्वहृदयेन दत्ता इति प्रपदेन चरणपृष्ठे निष्पीड्योत्क्षिप्तपादपार्प्णिरितरेतरव्यतिषक्तकोमलाङ्गुलिदलेन भुजलताद्वयेन कन्धरां ममावेष्ट्य सलीलमाननमानमय्य स्वयमुन्नमितमुखकमला विभ्रान्तविशालदृष्टिरसकृदभ्यचुम्बत् ।
अथैनाम् "इहैव कुरण्टकगुल्मगर्भे तिष्ठ यावदहं निर्गत्य साधयेयं साध्यं सम्यक्ऽ इति विसृज्य तामुपसृत्य होमानलप्रदेशमशोकशाखावलम्बिनीं घण्टामचालयम् ।
अकूजचच सा तं जनं कृतान्तदृतीवाह्वयन्ती ।
प्रावर्तिषि चाहमगुरुचन्दनप्रमुखानि होतुम् ।
आयासीच्च राजा यथोक्तं देशम् ।
शङ्कापन्नमिव किञ्चित्सविस्मयं विचार्य तिष्ठन्तमब्रवम्--"ब्रूहि सत्यं भूयो ऽपि मे भगवन्तं चित्रभानुमेव साक्षीकृत्य ।
न चेदनेन रूपेण मत्सपत्नीरभिरमयिष्यसि, ततस्त्वयीदं रूपं संक्रामयेयम्ऽ इति ।
स तदैव "देव्यैवेयम्, नोपधिःऽ इति स्फुटोपजातसंप्रत्ययः प्रावर्तत शपथाय ।
स्मित्वा पुनर्मयोक्तम्--"किं वा शपथेन ।
कैव हि मानुपी मां परिभविष्यति ।
यद्यप्सरोभिः संगच्छसे, संगच्छस्व कामम् ।
कथय कानि ते रहस्यानि ।
तत्कथनान्ते हि त्वत्स्वरूपभ्रंशःऽ इति ।
सो ऽब्रवीत्--"अस्ति बद्धो मत्पितुः कनीयान्भ्राता प्रहारवर्मा ।
तं विषान्नेन व्यापाद्याजीर्णदोषं ख्यापयेयमिति मन्त्रिभिः सहा ध्यवसितम् ।
अनुजाय विशालवर्मणे दण्डचक्रं पुण्ड्रदेशाभिक्रमणाय दित्सितम् ।
पौरवृद्धश्च पाञ्चालिकः परित्रातश्च सार्थवाहः स्वनतिनाम्नो यवनाद्वज्रमेकं वसुंधरामूल्यं लधीयसार्धेण लभ्यमिति ममैकान्ते ऽमन्त्रयेताम् ।
गृहपतिश्च ममान्तरङ्गभूतो जनपदमहत्तरः शतहलिरलीकवादशीलमवलेपवन्तं दुष्टग्रामण्यमनन्तसीरं जनपदकोपेन घातयेयमिति दण्डधरानुद्धारकर्मणि मत्प्रयोगान्नियोक्तुमभ्युपागमत् ।
इत्थमिदमचिरप्रस्तुतं रहस्यम्ऽ ।
इत्याकर्ण्य-तम् "इयत्तवायुः ।
उपपद्यस्व स्वकर्मोचितां गतिम्ऽ इति च्छुरिकया द्विधाकृत्य कृत्तमात्रं तस्मिन्नेव प्रवृत्तस्फीतसर्पिषि हिरण्यरेतस्यजूहवम् ।
अभूच्चासौ भस्मसात् ।
अथ स्त्रीस्वभावादीषद्विह्वलां हृदयवल्लभां समाश्वास्य हस्तकिसलये ऽवलम्ब्य गत्वा तद्गृहमनुज्ञयास्याः सर्वाण्यन्तःपुराण्याहूय सद्य एव सेवां दत्तवान् ।
सविस्मितविलासिनीसार्थमध्ये कञ्चिद्विहृत्य कालं विसृष्टावरोधमण्डलस्तामेव संहतोरूमूरूपपीडं भुजोपपीडं चोपगुह्य तल्पे ऽभिरमयन्नल्पामिव तां निशामत्यनैषम् ।
अलभे च तन्मुखात्तद्राजकुलस्य शीलम् ।
उषसि स्नात्वा कृतमङ्गलो मन्त्रिभिः सह समगच्छे ।
तांश्चाब्रवम्--"आर्याः, रूपेणैव सह परिवृत्तौ मम स्वभावः ।
य एव विषान्नेन हन्तु चिन्तितः पता मे स मुक्त्वा स्वमेतद्राज्यं भूय एव ग्राहयितव्यः ।
पितृवदमुष्मिन्वयं शुश्रूषयैव वर्तामहे ।
न ह्यस्ति पितृवधात्परं पातकम्ऽ इति ।
भ्रातरं च विशालवर्माणमाहूयोक्तवान्--"वत्स, न सुभिक्षाः सांप्रतं पुण्ड्राः ते दुःखमोहोपहतास्त्यक्तात्मानो राष्ट्रं नो न समृद्धमभिद्रवेयुः ।
अतो मुष्टिवधः सस्यवधो वा यदोत्पद्यते तदाभियास्यसि, नाद्य यात्रा युक्ताऽ इति ।
नगरवृद्धावप्यवलापिषम्--"अल्पीयसा मूल्येन महार्हं वस्तु मास्तु मे लभ्यं धर्मरक्षायै, तदनुगुणेनैव मूल्येनादः क्रीयताम्ऽ इति ।
शतहलिं च राष्ट्रमुख्यमाहूयाख्यातवान्--"यो ऽसावनन्तसीरः प्रहारवर्मणः पक्ष इति निनाशयिषितः, सो ऽपि पितरि मे प्रकृतिस्थि किमिति नाश्येत, तत्त्वयापि तस्मिन्संरम्भो न कार्यःऽ इति ।
त इमे सर्वमाभिज्ञानिकमुपलभ्य "स एवायम्ऽ इति निश्चिन्वाना विस्मयमानाश्च मां महादेवीं च प्रशंसन्तो मन्त्रबलानि चोद्धोपयन्तो बन्धनात्पितरौ निष्क्रामय्य स्वं राज्यं प्रत्यपादयन् ।
अहं च तया मे धात्र्या सर्वमिदं ममाचेष्टितं रहसि पित्रोरवगमय्य प्रहर्षकाष्ठाधिरूढयोस्तयोः पादमूलमभजे ।
अभज्ये च यौवराज्यलक्ष्म्या तदनुज्ञातया ।
प्रसाधितात्मा देवपादविरहृदुःखदुर्भगान्भोगान्निर्विशन्भूयो ऽस्य पितृसखस्य सिंहवर्मणो लेख्याच्चण्डवर्मणश्चम्पाभियोगमवगम्य "शत्रुवधो मित्ररक्षा चोभयमपि करणीयमेवऽ इत्यलघुना लघुसमुत्थानेन सैन्यचक्रेणाभ्यसरम् ।
अभवं च भूमित्स्वत्पादलक्ष्मीसाक्षात्क्रियामहोत्सवानन्दराशेःऽ इति ।
श्रुत्वैतद्देवो राजवाहनः सन्मितमवादीत्--"पश्यत पारतल्पिकमुपधियुक्तमपि गुरुजनून्धव्यसनमुक्तिहेतुतया दुष्टामित्रप्रमापणाभ्युपायतया राज्योपलब्धिमूलतया च पुष्कलावर्थधर्मावप्यरीरधत् ।
किं हि बुद्धिमत्प्रयुक्तं नाभ्युपैति शोभाम्ऽ इति ।
अर्थपालमुखे निधाय स्निग्धदीर्घां दृष्टिम् "आचष्टां भवानात्मीयचरितम्ऽ इत्यादिदेश ।
सो ऽपि बद्धाञ्जलिरभिदधे ।। दकुच_२,३ ।।


इति श्रीदण्डिनः कतौ दशकुमारचरिते उपहारवर्मचरितं नाम तृतीय उच्छ्वासः



चतुर्थोच्छ्वासः[सम्पाद्यताम्]

दकुच २,४

देव, सो ऽहमप्योभिरेव सुहृद्भिरेककर्मोर्मिमालिनेमिभूमिवलयं परिभ्रमन्नुपासरं कदाचित्काशीपुरीं वाराणसीम् ।
उपस्पृश्य मणिभङ्गनिर्मलाम्भसि मणिकर्णिकायामविमुक्तेश्वरं भगवन्तमन्धकमथनमभिप्रणम्य प्रदक्षिणं परिभ्रमन्पुरुषमेकमायामवन्तमायसपरि घपीवराभ्यां भुजाभ्यामाबध्वमानपरिकरमविरतरुदितोच्छूनताम्रदृष्टिमद्राक्षम् ।
अतर्कयं च-"कर्कशो ऽयं पुरुषः कार्पण्यमिव वर्षपि क्षीणतारं चक्षुः, आरम्भश्च साहसानुवादी, नूनमसौ प्राणनिःस्पृहः किमपि कृच्छ्रं प्रियजनव्यसनमूलं प्रतिपत्स्यते ।
तत्पृच्छेयमेनम् ।
अस्ति चेन्ममापि को ऽपि साहाय्यदानावकाशस्तमेनमभ्युपेत्येत्यपृच्छम्-"भद्र, संनाहो ऽयं साहसमवगमयति ।
न चेद्गोप्यमिच्छामि श्रोतुं शोकहेतुम्ऽ इति ।
स मां सबहुमानं निर्वर्ण्य "को दोषः, श्रूयताम्ऽ इति ।
क्वचित्करवीरतले मया सह निषण्णः कथामकारषित्-"महाभाग, सो ऽहमस्मि पूर्वेषु कामचरः पूर्णभद्रो नाम गृहपतिपुत्रः ।
प्रयत्नसंवर्धितो ऽपि पित्रा दैवच्छन्दानुवर्ती चौर्यवृत्तिरासम् ।
अथास्यां काशीपुर्यामर्यवर्यस्य कस्यचिद्गृहे चोरयित्वा रूपाभिग्राहितो बद्धः ।
वध्ये च मयि मत्तहस्ती मृत्युविजयो नाम हिंसाविहारी राजगोपुरोपरितलाधिरूढस्य पश्यतः कामपालनाम्न उत्तमामात्यस्य शासनाज्जनकण्ठरवद्विगुणितघण्टारवो मण्डलितहस्तकाण्डं समभ्यधावत् ।
अभिपत्य च मया निभयन निर्भर्त्सितः परिणमन्दारुखण्डसुषिरानुप्रविष्टोभयभुजदण्डघटितप्रतिमानो भीतवन्न्यवर्तिष्ट ।
भूयश्च नेत्रा जातसंरम्भेण निकामदारुणैर्वागङ्कुशपादपातैरभिमुखीकृतः ।
मयापि द्विगुणाबद्धमन्युना निर्भर्त्स्याभिहतो निवृत्यापाद्रवत् ।
अथ मयोपेत्य सरभसमाक्रुष्टो रुष्टश्च यन्ता "हन्त, मृतो ऽसि कुञ्जरापसदऽ इति निशितेन वारणेन वारणं मुहुर्मुहुरभिघ्नन्निर्याणभागे कथमपि मदभिमुखमकरोत् ।
अथावोच्यम्--"अपसरतु द्विककीट एषः ।
अन्यः कश्चिन्मातङ्गफतिरानीयताम् ।
येनाहं मुहूर्तं विहृत्य गच्छामि गन्तव्यां गतिम्ऽ इति ।
दृष्टैव स मां रुष्टमुद्गर्जन्तमुत्क्रान्तयन्तृनिष्ठुराज्ञः पलायिष्ट ।
मन्त्रिणा पुनरहमाहूयाभ्यधायिषि--"भद्र, मृत्युरेवैष मृत्युविजयो नाम हिंसाविहारी ।
सो ऽयमपि तावत्त्वयैवंभूतः कृतः ।
तद्विरम् कर्मणो ऽस्मान्मलीमसात्किमलमसि प्रतिपद्यास्मानार्यवृत्त्या वर्तितुम्ऽ इति ।
"यथाज्ञापितो ऽस्मिऽ इति विज्ञापितो ऽयं मया मित्रवन्मय्यवर्तिष्ट ।
पृष्टश्च मयैकदा रहसि जातविश्रम्भेणाभाषत स्वचरितम्--"आसीत्कुसुमपुरे राज्ञो रिपुञ्जयस्य मन्त्री धर्मपालो नाम विश्रुतधीः श्रुतऋषिः ।
अमुष्य पुत्रः सुमित्रो नाम पित्रैव समः प्रज्ञागुणेषु ।
तस्यास्मि द्वैमातुरः कनीयन्भ्राताहम् ।
वेशेषु विलसन्तं मामसौ विनयरुचिरवारयत् ।
अवार्यदुर्नयश्चाहमपसृत्य दिङ्मुखेषु भ्रमन्यदृच्छयास्यां वारणस्यां प्रमदवने मदनदमनाराधनाय निर्गत्य सहसखीभिः कन्दुकेनानुक्रीडमानां काशीभर्तुश्चण्डसिंहस्य कन्यां कान्तिमतीं नाम चकमे ।
कथमपि समगच्छे च ।
अथ छन्नं च विहरता कुमारीपुरे सा मयासीदापन्नसत्त्वा ।
कञ्चित्सुतं च प्रसूतवती ।
मृतजात इति सो ऽपविद्धो रहस्यनिर्भेदभयात्परिजनेन क्रीडाशैले ।
शबर्या च स्मशानाभयाशं नीतः ।
तयैव निवर्तमानया निशीथे राज्यविध्यमारक्षिकपुरुषैरभिगृहंय तर्जितया दण्डपारुप्यभीतया निर्भिन्नप्रायं रहस्यम् ।
राजज्ञया निशीथे ऽहमाक्रीजनगिरिदरीगृहे विश्रब्धप्रसुप्तस्तयोपदरशितो यथोपपन्नरज्जुबद्धः श्मशानमुपनीय मातङ्गोद्यतेन कृपाणेन प्राजिहीर्ष्ये नियतिबलाल्लूनबन्धस्तमसिमाच्छिद्यान्त्यजं तमन्यांश्च कांश्चित्प्रहृत्यापासरम् ।
अशरण्श्च भ्रमन्नटव्यामेकदाश्रुमुख्या कयापि दिव्याकारया सपरिचारया कन्ययोपास्थायिपि ।
सा मामञ्जलिकिसलयोत्तंसितेन मुखविलोलकुन्तलेन मूर्ध्ना प्रणम्य मया सह वनवटद्रुमस्य कस्यापि महतः प्रच्छायशीतले तले निषण्णा, "कासि वासु, कुतो ऽस्यागता, कस्य हेतोरस्य मे प्रसीदसिऽ इति साभिलाषमाभाषिता मया वाङ्मयं मधुवर्षमवर्षत्-"आर्य, नाथस्य यक्षाणां मणिभद्रस्यास्मि दुहिता तारावली नाम ।
साहं कदाचिदगस्त्यपत्नीं लोपामुद्रां नमस्कृत्यापावर्तमाना मलयगिरेः परेतावासे वाराणस्याः कमपि दारकं रुदन्तमद्राक्षम् ।
आदाय चैनं तीव्रस्नेहान्ममपित्रोः संनिधिमनैषम् ।
अनैपीच्च मे पिता देवस्यालकेश्वरस्यास्थानीम् ।
अथाहमाहूयाज्ञप्ता हरसखेन, "बाले बाले ऽस्मिन्कीदृशस्ते भावःऽ इति ।
"औरस इवास्मिन्वत्से वत्सलताऽ इति मया विज्ञापितः "सत्यमाह वराकीऽ इति तन्मूलामतिमहतीं कथामकरोत् ।
तत्रैतावन्मयावगतम् "त्वं किल शौनकः शूद्रकः कामपालश्चाभिन्नः ।
बन्धुमती विनयवती कान्तिमती चाभिन्ना ।
वेदिमत्यार्यदासी सोमदेवी वैकैव ।
हंसावली शूरसेना सुलोचना चानन्या ।
नन्दिनी रङ्गपताकेन्द्रसेना चापृथग्भूता ।
या किल शौनकावस्थायामग्निसाक्षिकमात्मसात्कृता गोपकन्या सैव किलार्यदासी पुनश्चाद्य तारावलीत्यभूवम् ।
बालश्च किलशूद्रकावस्थे त्वय्यार्यदास्यवस्थायां मय्युदभूत् ।
अवर्ध्यत च विनयवत्या स्नेहवासनया ।
स तु तस्यां कान्तिमत्यवस्थायामद्योदभूत् ।
एवमनेकमृत्युमुखपरिभ्रष्टं दैवान्मयोपलब्धं तमेकपिङ्गादेशाद्वने तपस्यतो राजहंसस्य देव्यै वसुमत्यै तत्सुतस्य भाविचक्रवर्तिनो राजवाहनस्य परिचर्यार्थं समर्प्य गुरुभिरभ्यनुज्ञाता कृतान्तयोगात्कृतान्तमुखभ्रष्टस्य ते पादपद्मशुश्रूषार्थमागतास्मिऽ इति ।
श्रुत्वा तामनेकजन्मरमणीमसकृदाश्लिष्य हर्षाश्रुमुखो मुहुर्मुहुः सान्त्वयित्वा तत्प्रभावदर्शिते महति मन्दिरे ऽहर्निशं भूमिदुर्लभान्भोगानन्वभूवम् ।
द्वित्राणि दनान्यतिक्रम्य मत्तकाशिनीं तामवादिषम्-"प्रिये, प्रत्यपकृत्य मत्प्राणद्गोहिणश्चण्डसिंहस्य वैरनिर्यातनसुखमनुबुभूषामिऽ इति तया सस्मितमभिहितम्-"एहि कान्त, कान्तिमतीदर्शनाय नयामि त्वाम्ऽ इति ।
स्थितेर्ऽधरात्रे राज्ञो वासगृहनीये ।
ततस्तच्छिरोभागवर्तिनीमादायासियष्टिं प्रबोध्यैनं प्रस्फुरन्तमब्रवम्--"अहमस्मि भवज्जामाता ।
भवदनुमत्या विना तव कन्याभिमर्शी ।
तमपराधमनुवृत्त्या प्रमार्ष्टुमागतःऽ इति ।
सो ऽतिभीतोमामभिप्रणम्याह-"अहमेव मूढो ऽपराद्धः यस्तव दुहितृसंसर्गानुग्राहिणो ग्रहग्रस्त इवोत्क्रान्तसीमा भवदधीनम्ऽ इत्यवादीत् ।
अथापरेद्युः प्रकृतिण्डलं संनिपात्य विधिवदात्मजायाः पाणिमग्राहयत् ।
अश्रावयच्च तनयवार्तां तारावली कान्तिमत्यै, सोमदेवीसुलोचनेन्द्रसेनाभ्यश्च पूर्वजातिवृत्तान्तम् ।
इत्थमहं मन्त्रिपदापदेशं यौवराज्यमनुभवन्विहरामि विलासिनीभिःऽ इति ।
स एवं मादृशे ऽपि जन्तौ परिचर्यानुबन्धी बन्धुरेकः सर्वभूतानामलसकेन स्वर्गते श्वशुरे, ज्यायसि जन्तौ परिचर्यानुबन्धी बन्धुरेकः सर्वभूतानामलसकेन स्वर्गते श्वशुरे, ज्यायसि च श्याले चण्डघोषनाम्नि स्त्रीष्वतिप्रसङ्गात्प्रागेव क्षयक्षीणायुषि, पञ्चवर्षदेशीयं सिहघोषनामानं पैशुन्यवादिनां दुर्मन्त्रिणः कतिचिदासन्नन्तरङ्गभूताः ।
तैः किलासावित्थमग्राह्यत-"प्रसङ्यैव स्वसा तवामुना भुजङ्गेन संगृहीता ।
पुनः प्रसुप्ते राजनि प्राहर्तुमद्युतासिरासीत् ।
तेनास्मै तल्क्षणप्रवृद्धेन भीत्यानुनीय दत्ता कन्या ।
तं च देवज्येष्ठं चण्डघोषं विषेण हत्वा बालो ऽयमसमर्थ इति त्वमद्यापि प्रकृतिविश्रम्भणायोपेक्षितः ।
क्षिणोति च पुरा स कृतघ्नो भवन्तम् ।
तमेवान्तकपुरमभिगमयितुं यतस्वऽ इति ।
स तथा दूषितो ऽपि यक्षिणीभयान्नामुष्मिन्पापमाचरितुमशकत् ।
एषु किल दिवसेष्वयथापूर्वमाकृतौ कान्तिमत्याः समुपलक्ष्य राजमहिषी सुलक्षणा नाम सप्रणयमपृच्छत्-"देवि, नाहमायथातथ्येन विप्रलम्भनीया ।
कथय तथ्यं केनेदमयथापूर्वमाननारविन्दे तवैषु वासरेषुऽ इति ।
सा त्ववदीत्-"भद्रे, स्मरसि किमद्याप्यायथातथ्येन किञ्चिन्मयोक्तपूर्वम् ।
सखी मे तारावली सपत्नी च किमपि कलुषिताशया रहसि भर्त्रा मद्गोत्रापदिष्टा प्रणयमप्युपेक्ष्य प्रणम्यमानाप्यस्मभिरुपोढमत्सरा प्रावसत् ।
अवसीदति च नः पतिः ।
अतो मे दौर्मनत्यम्ऽ इति ।
तत्प्रायेणैकान्ते सुलक्षणया कान्ताय कथितम् ।
"अथासौ निर्भयो ऽद्य प्रियतमाविरहपाण्डुभिरवयैर्घैर्यस्तम्भिताश्रुपर्याकुलेन चक्षुषोष्मश्वासशोषिताभिरिवानतिपेशलाभिर्वाग्भिर्वियोगं दर्शयन्तम्, कथमपि राजकुले कार्याणि कारयन्तम्, पूर्वसंकेतितैः पुरुषैरभिग्राह्याबन्धयत् ।
तस्य किल स्थाने स्थाने दोषानुद्धोष्य तथोद्धरणीये चक्षुषी यथा तन्मूलमेवास्य मरणं भवेत्ऽ इति ।
अतो ऽत्रैकान्ते यथेष्टमश्रु मुक्त्वा तस्य साधोः पुरः प्राणान्मोक्तुकामो बध्नामि परिकरम्ऽ इति ।
मयापि तत्पितृव्यसनमाकर्ण्य पर्यश्रुणा सो ऽभिहितः-"सौम्य, किं तव गोपायित्वा ।
यस्तस्य सुतो यक्षकन्यया देवस्य राजवाहनस्य पादशुश्रूषार्थं देव्या वसुमत्या हस्तन्यासः कृतः सो ऽहमस्मि ।
शक्ष्यामि सहस्रमपि सुभटानामुदायुधानां हत्वा पितरं मोचयितुम् ।
अपि तु संकुले यदि कश्चित्पातयेत्तदङ्गे शस्त्रिकां सर्व एव मे यत्नो भस्मानि हुतमिव भवेत्ऽ इति ।
अनवसितवचन एव मयि महानाशीविषः प्राकाररन्ध्रेणोदैरयच्छिरः ।
तमहं मन्त्रौषधबलेनाभिगृह्य पूर्णभद्रमब्रवम्-"भद्र, सिद्धं नः समीहितम् ।
अनेन तातमलक्ष्यमाणः संकुले यदृच्छया पतितेन नाम दंशयित्वा तथा विषं स्तम्भवेवं यथा मृत इत्युदास्येत ।
त्वया तु मुक्तसाध्वसेन माता मे बोधयितव्या-" या यक्ष्या वने देव्या वसुमत्या हस्तार्पितो युष्मत्सूनुः सो ऽनुप्राप्तः पितुरवस्थां मदुपलभ्य बुद्धिबलादित्थामाचरिष्यति ।
त्वया तु मुक्तत्रासया राज्ञे प्रेषणीयम्-"एष खलु क्षात्रधर्मो यद्बन्धुरबन्धुर्वा दुष्टः स निरपेक्षं निर्ग्राह्य इति ।
स्त्रीधर्मश्चैष यददुष्टस्य दुष्टस्य वा भर्तुर्गतिर्गन्तव्येति ।
तदहममुनैव सह चिताग्निमारोक्ष्यामि ।
युवतिजनानुकूलः पश्चिमो विधिरनुज्ञातव्यःऽ इति ।
स एव निवेदितो नियतमनुज्ञास्यति ।
ततः स्वमेवागारमानीय काण्डपटीपरिक्षिप्ते विविक्तोद्देर्शे दर्भसस्तरणमधिशाय्य स्वयं कृतानुमरणमण्डनया त्वया च तत्र संनिधेयम् ।
अहं च बाह्यकक्षागतस्त्वया प्रवेशयिष्ये ।
ततः पितरमुज्जीव्य तदभिरुचितेनाभ्युपायेन चेष्टिष्यामहेऽ इति ।
स "तथाऽ इति हृष्टतरस्तूर्णमगमत् ।
अहं तु घोषणस्थाने चिञ्चावृक्षं घनतरविपुलशाखमारुह्य गूढतनुरतिष्ठम् ।
आरूढश्च लोको यथायथमुच्चैस्थानानि ।
उच्चावचप्रलापाः प्रस्तुताः ।
तावन्मे पितरं तस्करमिव पश्चाद्बद्धभुजमुद्धुरध्वनि महाजनानुयातमानीय मदभ्याश एव स्थापयित्वा मातङ्गस्त्रिरघोषयत्-"एष मन्त्री कामपालो राज्यलोभद्भर्तारं चण्डसिंहम्, युवराजं चण्डघोषं च विषान्नेनोपांशु हत्वा पुनर्देवो ऽपि सिंहघोषः पूर्णयौवन इत्यमुष्मिन्पापमाचरिष्यन्विश्वासाद्रहस्यभूमौ पुनरमात्यं शिवनागमाहूय स्थूणमङ्गारवर्षं च राजवधायोपजप्य तैः स्वामिभक्त्या विवृतगुह्यो राज्यकामुकस्यास्य ब्राह्मणस्यान्धतमसप्रवेशो न्याय्य इति प्राङ्विवाकवाक्यादक्ष्युद्धरणाय नीयते ।
पुनरन्यो ऽपि यदि स्यादन्यायवृत्तिस्तमष्येवमेव यथार्हेण दण्डेन योजयिष्यति देवःऽ इति ।
श्रुत्वैतद्भद्धकलकले महाजने पितुरङ्गे प्रदीप्तशिरसमाशीविषं व्यक्षिपम् ।
अहं च भीतो नामावप्लुत्य तत्रैव जनादनुलीनः क्रुद्ध्वयालदष्टस्य तातस्य विहितजीवरक्षो विषक्षणादस्तम्भयम् ।
अपतच्चैष भूमौ मृतकल्पः ।
प्रालपं च "सत्यमिदं राजावमानिनं दैवो दण्ड एव स्पृशतीति ।
यदयमक्षिभ्यां विनावनिपेन चिकीर्षितः, प्राणैरेव वियोजितो विधिनाऽ इति ।
मदुक्तं च केचिदन्वमन्यन्त, अपरे पुनर्निनिन्दुः ।
दर्वीकरस्तु तमपि चण्डालं दष्ट्वा रूढत्रासद्रुतलोकदत्तमार्गः प्राद्रवत् ।
अथ मदम्बा पूर्णभद्रबोधितार्था तादृशे ऽपि व्यसने नातिविह्वला कुलपरिजनानुयाता पद्भ्यामेव धीरमागत्य मत्पितुरुत्तमाङ्गमुत्सङ्गेन धारयन्त्यासित्वा राज्ञे समादिशत्-"एष मे पतिस्तवापकर्ता न वेति दैवमेव जानाति ।
न मे ऽनयास्ति चिन्तया फलम् ।
अस्य तु पाणिग्राहकस्य गतिमननुप्रपद्यमाना भवत्कुलं कलङ्कयेयम्ऽ अतो ऽनुमन्तुमर्हसि भर्त्रा सह चिताधिरोहणाय माम्ऽ इति ।
श्रुत्वा चैतत्प्रीतियुक्तः समादिक्षत्क्षितीश्वरः-"क्रियतां कुलोचितः संस्कारः ।
उत्सवो त्तरं च पश्चिमं विधिसंस्कारमनुभवतु मे भगिनीपतिःऽ इति चण्डाले तु मत्प्रतिषिद्धसकलमन्त्रवादिप्रयासे संस्थिते "कामपालो ऽपि कालदष्ट एवऽ इति स्वभवनोपनयनममुष्य स्वमाहात्म्यप्रकाशनाय महीपतिरन्वमंस्त ।
आनीतश्च पिता मे विविक्तायां भूमौ दर्भशय्यामधिशाय्य स्थितो ऽभूत् ।
अथ मदम्बा मरणमण्डनमनुष्ठाय सकरुणं सखीरामन्त्र्य, मुहुरभिप्राणम्य भव नदेवता यत्ननिवारितपरिजनाक्रन्दिता पितुर्मे शयनस्थानमेकाकिनी प्राविक्षत् ।
तत्र च पूर्वमेव पूर्णभद्रोपस्थापितेन च मया वैनतेयतां गतेन निर्विषीकृतं भर्तारमैक्षत ।
हृष्टतमा पत्युः पादयोः पर्यश्रुमुखी प्रणिपत्य मां च मुहुर्मुहुः प्रस्नुतस्तनी परिष्वज्य सहर्षबाष्पगद्गदमगदत्-"पुत्र, यो ऽसि जातमात्रः पापया मया परित्यक्तः, स किमर्थमेवं मामतिनिर्घृणामनुगृह्णासि ।
अथवैपनिरपराध एव ते जगयिता ।
युक्तमस्य प्रत्यानयनमन्तकाननात् ।
क्रूरा खलु तारावली या त्वासुपलभ्यापि तत्त्वतः कुबेरादसमर्प्य मह्यमर्पितवती देव्यै वसुमत्यै सैव वा सदृशकारिणी ।
नहि तादृशाद्भाग्यराशेर्विना मादृशो जनो ऽल्पपुण्यस्तवर्हति कलप्रलापामृतानि कर्णाभ्यां पातुम् ।
एहि, परिष्वजस्वऽ इति भूयोभूयः शिरसि जिघ्रन्यङ्कमारोपयन्ती, तारावलीं गर्हयन्त्यालिङ्गयन्त्यश्रुभिरभिषिञ्चती चोत्कम्पिताङ्गयष्टिरन्यादृशीव क्षणमजनिष्ट ।
जनयितापिमे नरकादिव स्वर्गम्, तादृशादव्यसनात्तथाबूतमभ्युदयमारूढः पूर्णभद्रेण विस्तरेण यथाव-त्तान्तमावेदितो भगवतो मघवतो ऽपि भाग्यवन्तमात्मानमजीगणत् ।
मनगिव च मत्संबन्धमाख्याय हर्पविस्मितात्मनोः पित्रोरकथयम्-"आज्ञापयतं काद्य नः प्रितपत्तिःऽ इति ।
पिता मे प्राब्रवीत्-"वत्स, गृहमेवेदमस्मदीयमतिविशालप्राकारबलयमक्षय्यानुधस्थानम् ।
अलङ्घ्यतमा च गुप्तिः ।
उपकृताश्चमयातिबहवः सन्ति सामन्ताः ।
प्रकृतयश्च भूयस्यो न मे व्यसनमनुरुध्यन्ते ।
सुभटानां चानेकसहस्रमस्त्येव समुहृत्पुत्रदारम् ।
अतो ऽत्रैव कतपयान्यहानि स्थित्वा बाह्यभ्यन्तरङ्गान्कोपानुत्पादयिष्यामः ।
कुपितांशञ्च संगृह्य प्रोत्साह्यास्य प्रकृत्यमित्रानुत्थाप्य सहजांश्च द्विषः, दुर्दान्तमेनमुच्छेत्स्यामःऽ इति ।
"को दोषः, तथास्तुऽ इति तातस्य मतमन्वमंसि ।
तथास्मासु प्रतिविधाय तिष्ठत्सु राजापि विज्ञापितोदन्तो जातानुतापः पारप्रामिकान्प्रयोगान्प्रायः प्रायुङ्क ।
ते चास्माभिः प्रत्यहमहन्यन्त ।
अस्मिन्नेवावकाश पूर्णभद्रमुखाच्च राज्ञः शय्यास्थानमवगस्य तदैव स्वोदवसितभित्तिकोणादारभ्योरगास्येन सुरङ्गामकार्षम् ।
गता च सा भूमिस्वर्गकल्पमनल्पकन्यकाजनं कमप्युद्देशम् ।
अव्यथिष्ट च दृष्टैव स मां नारीजनः ।
तत्र काचिदिन्दुकलेव स्वलावण्येन रसातलान्धकारांनह्नुवाना विग्रहिणीव देवी विश्वंभराःहरगृहिणीवासुरविजयायावतीर्णा, पातालमागता गृहिणीव भगवतः कुसुमधन्वनः गतलक्ष्मीरिवानेकदुर्नृपदर्शनपरिहाराय महीविवरं प्रविष्टा, निष्टप्तकनकपुत्रिकेवावदातकान्तिः कन्यका, चन्दनलतेव मलयमारुतेन, मद्दर्शनेनोद्रकम्पत्र ।
तथा भूते च तस्मिन्नङ्गनासमाजे, कुसुमितेव काशयष्टिः, पाण्डुशिरसिज्ञा न्यविगकाचिच्चरणयोर्मे निपत्य त्रासदीनमब्रूत-"दीयतामभयदानमस्मा अनन्यशरणाय स्त्रीजनाय ।
किमसि देवकुमारो दनुजयुद्धतृष्णया रसातलंविविक्षुः ।
आज्ञापयको ऽसि ।
कस्य हेतोरागतो ऽसिऽ इति ।
सातु मया प्रत्यवादि--"सुदत्यः, मास्म भवत्यो भैषुः ।
अहमस्मि द्विजातिवृषात्कामपालाद्देव्यां कान्तिमत्यामुत्पन्नोर्ऽथ पालो नाम ।
सत्यर्थे निजगृहान्नृपगृहं सुरङ्गयोपसरसन्निहान्तरे वो दृष्टवान् ।
कथयत क स्थ यूयम् ।
कथमिह निवसथऽ इति ।
सोदञ्जलिरुदीरितवती-"भर्तृदारक, भाग्यवत्यो वयम्, यास्त्वामेभिरेव चक्षुर्भिरनघमद्राक्ष्म ।
श्रूयताम् ।
यस्तवमातामहश्चणअडसिहः, तेनास्यां देव्यां लीलावतयां चण्डघोषः कान्तिमतीत्यपत्यद्वयमुदपादि ।
चण्डघोपस्तु युवराजो ऽत्यासङ्गादङ्गनासु राजयक्ष्मणा सुरक्षयमगादन्तर्वर्त्न्यां देव्यामाचारवत्याम् ।
अमुया चेयं मणिकर्णिका नाम कन्या प्रसृता ।
अथ प्रसववेदनया मुक्तजीविताचारवती पत्युरन्तिकमगमत् ।
अथ देवश्चण्डसिहो मामाहूयोपह्वरे समाज्ञापयत्-"ऋद्धिमति, कन्यकेयं कल्याणलक्षणा ।
तामिमां मालवेन्द्रनन्दनाय दर्षसाराय विधिवद्वर्धयित्वा दित्सामि ।
बिभेमि च कान्तिमतीबृत्तान्तादारभ्य कन्यकानां प्रकाशावस्थापनात् ।
अत इयमरातिवयसनाय कारिते महति भूमिगृहे कृत्रिमशैलगर्भोत्कीर्णनानामणअडपप्रेक्षागृहे प्रचुरपरिबर्हया भवत्या संवर्ध्यताम् ।
अस्त्यतिर भोग्यवस्तु वर्पशतेनाप्यक्षय्यम्ऽ इति ।
स तथोक्त्वा निजवासगृहस्य द्व्यङ्गुलभित्तावर्धपादं किष्कुविष्कम्भमुद्धृत्य तेनैव द्वारेण त्थानाभिदमस्मानवीविशत् ।
इह च नो वसन्तीनां द्वादशसमाः समत्ययुः ।
इयं च वत्सा तरुणीबूता ।
न चाद्यापि स्मरति राजा ।
काममियं पितामहेन दर्पसाराय संकगल्पिता ।
त्वदम्बया कान्तिमत्या चेयं गर्भस्थैव द्यृतजिता स्वमात्रातवैव जायात्वेन समकल्प्यत ।
"तदत्र प्राप्तरूपं चिन्त्यतां कुमारेणैवऽ इति ।
तां पुनरवोचम्-"अद्यैव राजगृहे किमपि कार्यं साधयित्वा प्रतिनिवृत्तो युष्मासु यथार्हं प्रतिपत्स्येऽ इति ।
तेनैव दीपदर्शितबिलपथेन गत्वा स्थितेर्ऽधरात्रे तदर्धपादं प्रत्युद्धृत्य वासगृहं प्रविष्टो विस्रब्धसुप्तं सिहघोषं जीवग्राहमग्रहीषम् ।
आकृष्य च तमहिमिवाहिशत्रुः स्फुरन्तममुनैव भित्तिरन्ध्रपथेन स्त्रैणसंनिधिमनैषम् ।
आनीय च स्वभवनमायसनिगडसंदितचरणयुगलमवनामितमलिनवनमश्रुबहुलरक्तचक्षुषमेकान्ते जनयित्रोरदर्शयम् ।
अकथयं च बिलकथाम् ।
अथ पितरौ प्रहृष्टतरौ तं निकृष्टाशयं निशम्य बन्धने नियम्य तस्या दारिकाया यथार्हेण कर्मणा मां पाणिमग्राहयेताम् ।
अनाथकं च तद्राज्यमस्मदायत्तमेव जातम् ।
प्रकृतिकोपभयात्तु मन्मात्रा मुमुक्षितो ऽपि न मुक्त एव सिंहघोषः ।
तथास्थिताश्च वयमङ्गराजः सिंहवर्मा देवपादानां भक्तिमान्कृतकर्मा चेत्यमित्राभियुक्तमेनमभ्यसराम ।
अभूवं च भवत्पादपङ्कजरजो ऽनुग्राह्याः स चेदानीं भवच्चरणप्रणामप्रायश्चित्तमनुतिष्ठतु सर्वदुश्चरितक्षालनमनार्यः सिंहघोषःऽ इत्यर्थपालः प्राञ्जलिः प्रणनाम ।
देवो ऽपि राजवाहनः "बहु पराक्रान्तम् ।
बहूपयुक्ता च बुद्धिः, मुक्तबन्धस्ते श्वशुरः पश्यतु माम्ऽ इत्यभिधाय भूयः प्रमतिमेव पश्यन्प्रीतिस्मेरः "प्रस्तूयतां तावदात्मीयं चरितम्ऽ इत्याज्ञापयत् ।। दकुच_२,४ ।।


इति श्रीदण्डिनः कृतौ दशकुमारचरितेर्ऽथपालचरितं नाम चतुर्थ उच्छ्वासः



पञ्चमोच्छ्वासः[सम्पाद्यताम्]

दकुच २,५

सो ऽपि प्रणम्य विज्ञापयामास-"देव देवस्यान्वेषणायदिक्षु भ्रमन्नभ्रङ्कपस्यापि विन्ध्यपार्श्वरूढस्य वनस्पतेरधः, परिणतपतङ्गबालपल्लवावतंसिते पश्चिमदिगङ्गनामुखे पल्वलाम्भस्युपस्पुपस्पृश्योपासय संध्याम्, तमःसमीकृतेषु निम्नोन्नतेषुगन्तुमक्षमः क्षमातले किसलयैरुपरचय्य शय्यां शिशयिषमाणः, शिरसि कुर्वन्नञ्जलिम्, "यस्मिन्वनस्पतौ वसति देवता सैव म शरणमस्तु शरारुचक्रचारभीषणायां शर्वगलश्यामशार्वरान्धकारपूराध्मातगभीरगह्वरायामस्यां महाटव्यामेककस्य प्रसुप्तस्यऽ इत्युपधाय वामभुजमशयिषि ।
ततः क्षणादेवावनिदुर्लभेन स्पर्शेनासुखायिषत किमपि गात्राणि, आह्लादयिषतेन्द्रियाणि, अभ्यमनायिष्ट चान्तरात्मा, विशेषतश्च हृषितास्तनूरुहाः, पर्यस्फुरन्मे दक्षिणभुजः ।
"कथंन्विदम्ऽ इति मन्दमन्दमुन्मिषन्नुपर्यच्छचन्द्रातपच्छेदकल्पं शुक्लांशुकवितानमैक्षिषि ।
वामतश्चलितदृष्टिः समया सौधभित्तिं चित्रास्तरयणशायिनमतिविश्रब्धप्रसुपतमङ्गनाजनमलक्षयम् ।
दक्षिणतो दत्तचक्षुरागलितस्तनांशुकाम्, अमृतफेनपटलपाण्डुरशयनशायिनीम्, आदिवराहदंष्ट्रांशुजाललग्नाम्, अंसस्रस्तदुग्धसागरदुकूलोत्तरीयाम्, भयसाध्वसमूर्च्छितामिव धरणिम्, अरुणाधरकिरणबालकिसलयलास्यहेतुभिराननारविन्दपरिमलोद्वाहिभि र्निःश्वासमातरिश्वभिरीश्वरेक्षणदहनदग्धं स्फुलिङ्गशेषमनङ्गमिव संधुक्षयन्तीम्, अन्तःसुप्तषटूपदमम्बुजमिव जातिनिद्रमामीलितलोचनेन्दीवरमाननं दधानाम्, ऐरावतमदावलेपलूनापविद्धामिव नन्दनवनकल्पवृक्षरत्नवल्लरीं कामपि तरुणीमालोकयम् ।
अतर्कयं च--"क गता सा महाटवी, कुत इदमूर्ध्वाण्डसंपुटोल्लेखि शक्तिध्वजशिखरशूलोत्सेधं सौधमागतम्, क्व च तदरण्यस्थलीसमास्तीर्णं पल्लवशयनम्, कुतस्त्यं चेदमिन्दुगभस्तिसंभारभासुरं हंसतूलदुकूलशयनम्, एष च को नु शीतरश्मिकिरणरज्जुदोलापरिभ्रष्टमूर्च्छित इवाप्सरोगणः स्वैरसुप्तः सुन्दरीजनः, का चेयं देवीवारविन्दहस्ता शारदशशाङ्कमण्डलामलदुकलोत्तरच्छदमधिशेते शयनतलम् ।
न तावदेषा देवयोषा, यतो मन्दमन्दमिन्दुकिरणैः संवाह्यमाना कमलिनीव संकुचति ।
भग्नवृन्तच्युतरसबिन्दुशबलितं पाकपाण्डु चूतफलमिवोद्भिन्नस्वेदरेखं गण्डस्थलमालक्ष्यते, अभिनवयौवनविदाहनिर्भरोष्मणि कुचतटे वैवर्ण्यमुपैति वणकम् ।
वाससी च परीभोगानुरूपं धूसरिमाणमदर्शयतः, तदेषा मानुष्येव ।
दिष्ट्या चानुच्छिष्टयौवना, यतः सौकुमार्यमागताः सन्तो ऽपि संहता इवावयवाः, प्रस्निग्धतमापि पाण्डुतानुवद्धेव देहच्छविः, स्मरपीडानभिज्ञतया नातिविशदरागो मुखे, विद्रुमद्युतिरधरमणिछः अनत्यापूर्णमारक्तमूलं चम्पककुङ्मलदलमिव कठोरं कपोलतलम्, अनङ्गबाणपातमुक्ताशङ्कं च विस्रब्धमधुरं सुप्यते, न चैतद्वक्षःस्थलं निर्दयविमर्दविस्तारितमुखस्तनयुगलम्, अस्ति चानतिक्रान्तशिष्टमर्यादचेतसो ममास्यामासक्तिः ।
आसत्त्यनुरूपं पुनराश्लिष्टा यदि, स्पष्टमार्तरवेणैव सह निद्रां मोक्ष्यति ।
अथाहं न शक्ष्यामि चानुपश्लिष्य शयितुम् ।
अतो यद्भावि तद्भवतु ।
"भाग्यमत्र परीक्षिष्येऽ इति स्पष्टास्पृष्टमेव किमप्याविद्धरागसाध्वत्तंलक्षसुप्तः स्थितो ऽस्मि ।
साप किमष्युत्कम्पिना रोमोद्बेदवता वामपार्श्वेन सुखायमानेन मन्दमन्दजृम्भिकारम्भमन्थराङ्गी, त्वङ्गदग्रपक्ष्मणोश्चक्षुषोरलसतान्ततारकेणानतिपक्वनिद्राकषाय् इतापाङ्गपरभागेन युगलेनेषदुन्मिषन्ती, त्रासविस्मयहर्षरागशङ्काविलासविभ्रमव्यवहितानि व्रीडान्तराणि कानि कान्यपि कामेनाद्भुतानुभावेनावस्थान्तराणि कार्यमाणा, परिजनप्रबोधनोद्यतां गिरं कामावेगपरवशं हृदयमङ्गानि च साध्वसायाससंबध्यमानस्वेदपुलकानि कथङ्कथमपि निगृह्य, सस्पृहेण मधुरकूणितत्रिभागेन मन्दमन्दप्रचारितेन चक्षुषा मदङ्गानि निर्वर्ण्य, दूरोत्सर्पितपूर्वकायापि तस्मिन्नेव शयने सचकितमशयिष्ट ।
अजनिष्ट मे रागाविष्टचेतसो ऽपि किमपि निद्रा ।
पुनरननुकूलस्पर्शदुःखायत्तगात्रः प्राबुध्ये ।
प्रबुद्धस्य च सवे मे महाटवी, तदेव तरुतलम्, स एव पत्रास्तरः ममाभूत् ।
विभावरी च व्ययासीत् ।
अभूच्च मे मनसि किमयं स्वप्नः किं विप्रलम्भो वा, किमियमासुरी दैवी वा कापि माया ।
यद्भावि तद्भवतु ।
नाहमिदं तत्त्वतो नावबुध्यमोक्ष्यामि भूमिशय्याम् ।
यावदायुरत्रत्यायै देवतायै प्रतिशयितो भवामिऽ इति निश्चितमतिरतिष्ठम् ।
अथाविर्भूय कापि रविकराभितप्तकुवलयदामतान्ताङ्गयष्टिः, क्लिष्टनिवसनोत्तरीया, निरलक्तकरूक्षपाटलेन निःश्वासोष्मजर्जरितत्विषा दन्तच्छदेन वमन्तीव कपिलधूमधूम्रं विरहानलम्, अनवरतसलिलधाराविसर्जनाद्रुधिरावशेषमिव लोहिततरं द्वितयमक्ष्णोरुद्वहन्ती, कुलचारित्रबन्धनपाशविभ्रमेणैकवेणीभूतेन केशपाशेन, नीलांशुकचीरचूडिकापरिवृता पतिव्रतापताकेव संचरन्ती, क्षामक्षामापि देवतानुभावादनतिक्षीणवर्मआवकाशा सीमन्तिनी, प्रणिपतन्तं मां प्रहर्षेत्कम्पितेन भुजलताद्वयेनोत्थाप्य पुत्रवत्परिष्वज्य शिरस्युपघ्राय वात्सल्यमिव स्तनयुगलेन स्तन्यच्छलात्प्रक्षरन्ती, शिशिरेणाश्रुणा निरुद्वकण्ठी स्नेहगद्गदं व्याहार्षीत्--"वत्स, यदि वः कथितवती मगधराजमहिषी वसुमती मम हस्ते वालमर्थपालं निधाय कथां च काञ्चिदात्मभर्तृपुत्रसखीजनानुबद्धां राजराजप्रवर्तितां कृत्वान्तर्धानमगादात्मजा मण्भद्रस्येतिऽ साहमस्मि वो जननी ।
पितुर्वो धर्मपालसूनोः सुमन्त्रानुजस्य कामपालस्य पादमूलान्निष्कारणकोपकलुषिताशया प्रोष्यानुशयविधुरा स्वप्ने केनापि रक्षोरुपेणोपेत्य शप्तास्मि--"चण्डिकायां त्वयिवर्षमात्रं वसामि प्रवासदुःखायऽ इति व्रुवतैवाहमाविष्टा प्राबुध्ये ।
गतं च तद्वर्षं वर्षसहस्रदीर्घम् ।
अतीतायां तु यामिन्यां देवदेवस्य त्र्यम्बकस्य श्रावस्त्यामुत्सवसमाजमनुभूय बन्धुजनं च स्थानस्थानेभ्यः संनिपातितमभिसमीक्ष्य मुक्तशापापत्युः पार्श्वमभिसरामीति प्रस्थितायामेव मयि, त्वमत्राभ्युपेत्य "प्रतिपन्नो ऽस्मिशरणमिहत्यां देवताम्ऽ इति प्रसुप्तो ऽसि ।
एवं शापदुःखाविष्टया तु मया तदा न तत्त्वतः परिच्छिन्नो भवान् अपि तु शरणागतस्त्वविरलप्रमादायामस्यां महाटव्यामयुक्तं परित्यज्य गन्तुमिति मया त्वमपि स्वपन्नेवासि नीतः ।
प्रत्यासन्ने च तस्मिन्देवगृहे पुनरचिन्तयम्--"कथमिह तरुणेनानेन सह समाजं गमिष्यामिऽ इति ।
अथ राज्ञः श्रावस्तीश्वरस्य यथार्थनाम्नो धर्मवर्धनस्य कन्यां नवमालिकां घर्मकालसुभगे कन्यापुरविमानहर्म्यतले विशालकोमलतलं शय्यातलमधिशयानां यदृच्छयोपलभ्य "दिष्ट्येयं सुप्ता, परिजनश्च गाढनिद्रः ।
शेतामयमत्र मुहूर्तमात्रं ब्राह्मणकुमारो यावत्कृतकृत्या निवर्तेयऽ इति त्वां तत्र शाययित्वा तमुद्देशमगमम् ।
दृष्ट्वा चोत्सवश्रियम्, निर्विश्य च स्वजनदर्शनसुखमभिवाद्य च त्रिभुवनेश्वरमात्मालीकपरत्याकलनोपारूढसाध्वसं च नमस्कृत्य भक्तिप्रणतहृदयां भगवतीम्बिकाम्, तया गिरिदुहित्रा देव्या सस्मितम् अयि भद्रे, मा भैषीः ।
भवेदानीं भर्तृषार्श्वगामिनी ।
गतस्ते शापःऽ इत्यनुगृहीता सद्य एव प्रत्यापन्नमहिमा प्रतिनिवृत्त्य दृष्ट्वैव त्वां यथावदभ्यजानाम्--"कथं मत्सुत एवायं वत्सस्यार्थपालस्य प्राणभूतः सखा प्रमतिरिति पापया मयास्मिन्नज्ञानादौदासीन्यमाचरितम् ।
अपि चायमस्यामासक्तभावः ।
कन्या चैनं कामयते ।
युवानम् ।
उभौ चेमौ लक्षसुप्तौ त्रपया साध्वसेन वान्योन्यमात्मानं न विवृण्वाते ।
गन्तव्यं च मया ।
कामाघ्रातयाप्यनया कन्यया रहस्यरक्षणाय न समाभाषितः सखीजनः परिजनो वा ।
नयामि तावत्कुमारम् ।
पुनरपीममर्थं लब्धलक्षो यथोपपन्नैरुपायैः साधयिष्यतिऽ इति मत्प्रभावप्रस्वापितं भवन्तमेतदेव पत्रशयनं प्रत्यनैषम् ।
एवमिदं वृत्तम् ।
"एषा चाहं पितुस्ते पादमूलं प्रत्युपसर्पेयम्ऽ इति प्राञ्जलिं मां भूयोभूयः परिष्वज्य शिरस्युपाघ्राय कपोलयोश्चुम्बित्वा स्नेहविह्वलागतासीत् ।
अहं च पञ्चबाणवश्यः श्रावस्तीमभ्यवर्तिषि ।
मार्गे च महति निगमे नैगमानां ताम्रचूडनुद्धकोलाहलो महानासीत् ।
अहं च तत्र संनिहितः किञ्चिदस्मेषि ।
संनिधिनिषण्णस्तु मे वृद्धविटः को ऽपि ब्राह्मणछ शनकैः स्मतहतेमपृच्छत् ।
अव्रवं च-"कथमिव नारिकेलजातेः प्राच्यवाटकुक्कुटस्य प्रतीच्यवाटः पुरुषैरसमक्ष्यि बलाकाजातिस्ताम्रचूडो बलप्रमाणाधिकस्यैवं प्रतिविसृष्टःऽ इति ।
सो ऽपि तज्ज्ञः"किमज्ञैरेभिर्व्युत्पादितैः ।
तूष्णीमास्स्वऽित्युपहस्तिकायास्ताम्बूलं कर्पूरसहितमुद्धृत्य मह्यं दत्त्वा चित्राः कथा कथयन्क्षणमतिष्ठत् ।
प्रायुध्यत चातिसंरब्धमनुप्रहारप्रवृत्तस्वपक्षमुक्तकण्ठीरवरवं विहङ्गमद्वयम् ।
जितश्चासौ प्रतीच्यवाटकुक्कुटः ।
सो ऽपि विटः स्ववाटकुक्कुटविजयहृष्टः, मयि वयोविरुद्धं सख्यमुपेत्य तदहरेव स्वगृहे स्नानभोजनादि कारयित्वोत्तरेद्युः क्षावस्तीं प्रति यान्तं मामनुगम्य "स्मर्तव्यो ऽस्मि सत्यर्थेऽ इति मित्रवद्विसृज्य प्रत्ययासीत् ।
अहं च गत्वा श्रावस्तीमध्वश्रान्तो बाह्मोद्याने लतामण्डपे शयितो ऽस्मि ।
हंसरवप्रबोधितश्चोत्थाय कामपि क्वणितनूपुरमुखराभ्यां चरणाभ्यां मदन्तिकमुपसन्तीं युवतीमद्राक्षम् ।
सा त्वागत्य स्वहस्तवर्तिनि चित्रपटे लिखितं मत्सदृशं कमपि पुंरूपं मां च पर्यायेण निर्वर्णयन्ती सविस्मयं सवितर्कं सहर्षं च क्षणमवातिष्ठत् ।
मयापि तत्र चित्रपटे मत्सादृश्यं पश्यता तद्दृष्टिचेष्टितमनाकस्मिकं मन्यमानेन "ननु सर्वसाधारणो ऽयंरमणीयः पुण्यारामभूमिभागः ।
किमिति चिरस्थितिक्लेशो ऽनुभूयते ।
ननूपवेष्टव्यम्ऽ इत्यभिहिता सा सस्मितम् "अनुगृहीतास्मिऽ इति न्यपीदत् ।
संकथा च देशवार्तानुविद्धा काचनावयोरभूत् ।
कथासंश्रिता च सा "देशातिथिरसि ।
दृश्यन्ते च ते ऽध्वश्रान्तानीव गात्राणि ।
यदि न दोषो मद्गृहे ऽद्य विश्रमितुमनुग्रहः क्रियताम्ऽ इत्यसंसत् ।
अहं च "अयि मुग्धे, नैष दोषः, गुण एवऽ इति तदनुमार्गगामी तद्गृहगतो राजार्हेण स्नानभोजनादिनोपचरितः, सुखं निषण्णो रहसि पर्यपृच्छ्ये-महाभाग, दिगन्तराणि भ्रमता कच्चिदस्ति किञ्चिदद्भुतं भवतोपलब्धम्ऽ इति ।
ममाभवन्मनसि "महदिदमाशास्पदम् ।
एषा खलु निखिलपरिजनसंबाधसंलक्षितायाः सखी राजदारिकायाः ।
चित्रपटे चास्मिन्नपि तदुपरि विरचितसितवितानं हर्म्यतलम्, तद्गतं च प्रकामविस्तीर्णं शरदभ्रपटलपाण्डुरं शयनम्, तदधिशायिनी च निद्रालीढलोचना ममैवेयं प्रतिकृतिः अतो नूनमनङ्गेन सापि राजकन्या तावतीं भूमिमारोपिता ।
यस्यामसह्यमदनज्वरव्यथितोन्मादिता सती सखीनर्बन्धपृष्टविक्रियानिमित्ता चातुर्येणैतद्रूपनिर्माणेनैव समर्थमुत्तरं दत्तवती ।
रूपसंवादाच्च संशयादनया पृष्टो भिन्द्यामस्याः संशयं यथानुभवकथनेनऽ इति जातनिश्चयो ऽब्रवम्-"भद्रे, देहि चित्रपटम्ऽ इति ।
सा त्वर्पितवती मद्धस्ते ।
पुनस्तमादाय तामपि व्याजसुप्तामुल्लसन्मदनरागविह्वलां वल्लभां तत्रैवाभिलिख्य "काचिदेवंभूता युवतिरीदृशस्य पुंसः पार्श्वशायिन्यरण्यानीप्रसुप्तेन मयोपलब्धा ।
किलैष स्वप्नःऽ इत्यालपं च ।
हृष्टया तु तया विस्तरतः पृष्टः सर्वमेव वृत्तान्तमकथयम् ।
असौ च सख्या मन्निमित्तान्यवस्थान्तराण्यवर्णयत् ।
तदाकर्ण्य च यदि तत्र सख्या मदनुग्रहोन्मुखं मानसम् ।
गमय कानिचिदहानि ।
कमपि कन्यापुरे निराशङ्कनिवासकरणमुपायमारचय्यागमिष्यामिऽ इति कथञ्चिदेनामभ्युपगमय्य गत्वा तदेव खर्वटं वृद्धविटेन समगंसि ।
ससंभ्रमं सो ऽपि विश्रमय्य तथैव स्नानभोजनादि कारयित्वा रहस्यपृच्छम्-"आर्य, कस्य हेतोरचिरेणैवप्रत्यागतो ऽसिऽ ।
प्रत्यवादिषमेनम्-"स्थान एवाहमार्येणास्मि पृष्टः ।
श्रूयताम् ।
अस्ति हि श्रावस्तीनाम नगरी ।
तस्याः पतिरपर इव धर्मपुत्रो धर्मवर्धनो नाम राजा ।
तस्य दुहिता, प्रत्यादेश इव श्रियः, प्राणा इव कुसुमधन्वनः सौकुमार्याविडम्बितनवमालिका, नवमालिका नाम कन्यका ।
सा मया समापत्तिदृष्टा कामनाराचपङ्क्तिमिव कटाक्षमालां मम मर्मणि व्यकिरत् ।
तच्छल्योद्धरणाक्षमश्च धन्वन्तरिसदृशस्त्वदृते नेतरो ऽस्ति वैद्य इति प्रत्यागतो ऽस्मि ।
तत्प्रसीद कञ्चिदुपायमाचरितुम् ।
अयमहं परिवर्तितस्त्रीवेषस्ते कन्या नाम भवेयम् ।
अनुगतश्च मया त्वमुपगम्य धर्मासनगतं धर्मवर्धनं वक्ष्यसि--"ममेयमेकैव दुहिता ।
जातमात्रायां त्वस्यां जनन्यस्याः संस्थिता ।
माता च पिता च भूत्वाहमेव व्यवर्धयम् ।
एतदर्थमेव विद्यामयं शुल्कमर्जितुं गतो ऽबूदवन्तिनगरीमज्जयिनीमस्मद्वैवाह्यकुलजः को ऽपि विप्रदारकः ।
तस्मै चेयमनुमता दातुमितरस्मै न योग्या ।
तरुणीभूता चेयम् ।
स च विलम्बितः ।
तेन तमानीय पाणिमस्या ग्राहयित्वा तस्मिन् न्यस्तभारः संन्यसिष्ये ।
दुरभिरक्षतया तु दुहितॄणां मुक्तशैशवानाम्, विशेषतश्चामातृकाणाम्, इह देवं मातृपितृस्थानीयं प्रजानामापन्नशरणमागतो ऽस्मि ।
यदि वृद्धं ब्राह्मणमधीतिनमगतिमतिथिं च मामनुग्राह्यपक्षे गणयत्यादिराजचरितधुयो देवः, सैषा भवद्भुजतरुच्छायामखण्डितचारित्रा तावदध्यास्तां यावदस्याः पाणिग्राहकमानयेयम्ऽ इति ।
स एवमुक्तो नियतमभिमनायमानः स्वदुहितृसंनिधौ मां वासयिष्यति ।
गतस्तु भवानागामिनि मासि फाल्गुने फल्गुनीषूत्तरासु राजान्तःपुरजनस्य तीर्थयात्रोत्सवो भविष्यति ।
तीर्थस्थानात्प्राच्यां दिशिगोरुतान्तरमतिक्रम्य, वानीरवलयमध्यवर्तिनि कार्त्तिकेयगृहे करतलगतेन शुक्लाम्बरयुगलेन स्थास्यसि ।
स खल्वहमनभिशङ्क एवैतावन्तं कालं सहाभिविहृत्य राजकन्यया भूयस्तस्मिन्नुत्सवे गङ्गाम्भसि विहरन्विहारव्याकुले कन्यकासमाजेमग्नोपसृतस्त्वदभ्याश एवोन्मङ्क्ष्यामि ।
पिनस्त्वदुपहृते वाससी परिधायापनीतदारिकावेषो जामाता नाम भूत्वा त्वामेवानुगच्छेयम् ।
नृपात्मजा तु मामितस्ततो ऽन्विष्यानासादयन्ती "तया विना न भोक्ष्येऽ इति रुदन्त्येवावरोधने स्थास्यति ।
तन्मूले च महति कोलाहले, क्रन्दत्सु परिजनेषु, रुदत्सु सखीजनेषु, शोचत्सु पौरजनेषु, किङ्कर्तव्यतामूढे सामात्ये पार्थिवे, त्वमास्थानीमेत्य मां स्थापयित्वा वक्ष्यसि-"देव, स एष मे जामाता तवार्हति श्रीभुजाराधनम् ।
अधीति चतुर्ष्वाम्नायेषु, गृहीती षट्स्वङ्गेषु, आन्वीक्षिकीविचक्षणः, चतुःषष्टिकलागमप्रयोगचतुरः, विशेषेण गजरथतुरङ्गतन्त्रवित्, इष्वसनास्त्रकर्मणि गदायुद्धे च निरूपमः, पुराणेतिहासकुशलः, कर्ता काव्यनाटकाख्यायिकानाम्, वेत्ता सोपनिषदोर्ऽथशास्त्रस्य, निर्मत्सरो गुणेषु, विश्रम्भी सुहृत्सु, शक्लः, संविभागशीलः, श्रुतधरः, गतस्मयश्च ।
नास्य दोषमणीयांसमप्युपलभे ।
न च गुणेष्वविद्यमानम् ।
तन्मादृशस्य ब्राह्मणमात्रस्य न लभ्य एव सम्बन्धी ।
दुहितरमस्मै समर्प्य बार्धकोचितमन्त्यमाश्रमं संक्रमेयम्, यदि देवः साधु मन्यतेऽ इति ।
स इदमाकर्ण्य वैवर्ण्याक्रान्तवक्रः परमुपेतो वैलक्ष्यमारप्स्यते ऽनुनेतुमनित्यतादिसंकीर्तनेनैत्रभवन्तं मन्त्रिभिः सह ।
त्वं तु तेषामदत्तश्रोत्रो मुक्तकण्ठं रुदित्वा चिरस्य बाप्पाकुण्ठकण्ठः काष्ठान्याहृत्याग्निं संधुक्ष्य राजमन्दिरद्वारे चिताधिरोहणायोपक्रमिष्यसे ।
स तावदेव त्वत्पादयोर्निपत्य सामात्यो नरपतिरनूनैर्थैस्त्वामुपच्छन्द्य दुहितरं मह्यं दत्त्वा मद्योग्यतासमाराधितः समस्तमेव राज्यभारं मयि समर्पयिष्यति ।
सो ऽयमभ्युपायो ऽनुष्ठेयो यदि तुभ्यं रोचतेऽ इति ।
सो ऽपि पटुर्विटानामग्रणीरसकृदभ्यस्तकपटप्रपञ्चः पाञ्चालशर्मा यथोक्तमभ्यधिकं च निपुणमुपक्रान्तवान् ।
आसीच्च मम समीहितानामहीनकालसिद्धिः ।
अन्वभवं च मधुकर इव नवमालिकामार्द्रसुमनसम् ।
अस्य राज्ञः सिंहवर्मणः साहाय्यदानं सुहृत्संकेतभूमिगमनमित्युभयमपेक्ष्य सर्वबलसंदोहेन चम्पामिमामुपगतो दैवाद्देवदर्शनसुखमनुभवामिऽ इति ।
श्रुत्वैततप्रमतिचरितं स्मितमुकुलितमुखनलिनः विलासप्रायमूर्जितम्, मृदुप्रायं चेष्टितम्, इष्ट एष मार्गः प्रज्ञावताम् ।
"अथेदानीमत्रभवान्प्रविशतुऽ इति मित्रगुप्तमैक्षत क्षितीशपुत्रः ।। दकुच_२,५ ।।


इति श्रीदण्डिनः कृतौ दशकुमारचरितं नाम पञ्चम उच्छ्वासः



षष्ठोच्छ्वासः[सम्पाद्यताम्]

दकुच २,६

सो ऽप्याचचक्षे-देव, सो ऽहमपि सुहृत्साधारणभ्रमणकारणः सुह्मेषु दामलिप्ताह्वयस्य नगरस्य बाह्मोद्याने महान्तमुत्सवसमाजमालोकयम् ।
तत्र क्वचिदतिमुक्तकलतामण्डपे कमपि वीणावादेनात्मानं विनोदयन्तमुत्कण्ठितं युवानमद्राक्षम् ।
अप्राक्षं च-"भद्र, को नामायमुत्सवः, किमर्थं वा समारब्धः, "केन वा निमित्तेनोत्सवमनादृत्यैकान्ते भवानुत्कण्ठित इव परिवादिनीद्वितीयस्तिष्ठतिऽ इति ।
सो ऽभ्यधत्त-"सौम्य, सुह्यपतिस्तुङ्गधन्वनामानपत्यः पार्थितवानमुष्मिन्नायतने विस्मृतविन्ध्यवासरागं वसन्त्या विन्ध्यवासिन्याः पादमूलादपत्यद्वयम्ऽ ।
अनया च किलास्मै प्रतिशयिताय स्वप्ने समादिष्टम्-"समुत्पत्स्यते तवैकः पुत्रः, जनिष्यते चैका दुहिता ।
स तु तस्याः पाणिग्राहकमनुजीविष्यति ।
सा तु सप्तमाद्वर्षादरभ्यापरिणयनात्प्रतिमासं कृत्तिकासु कन्दुकनृत्येन गुणवद्भर्तृलाभाय मां समाराधयतु ।
यं चाभिलषेत्सामुष्मै देया ।
स चोत्सवः कन्दुकोत्सवनामास्तुऽ इति ।
ततो ऽल्पीयसा कालेन राज्ञः प्रियमहिषी मेदिनी नामैकं पुत्रमसूत ।
समुत्पन्ना चैका दुहिता ।
साद्य नाम कन्या कन्दुकावती सोमापीडां देवीं कन्दुकविहारेणाराधयिष्यति ।
तस्यास्तु सखी चन्द्रसेना नाम धात्रेयिका मम प्रियासीत् ।
सा चैषु दिवसेषु राजपुत्रेण भीमधन्वना बलवदनुरुद्धा ।
तदहमुत्कण्ठितो मन्मथशरशल्यदुः खोद्विग्नचेताः कलेन वीणारवेमात्मानं किञ्चिदाश्वासयन्विविक्तमध्यासेऽ इति ।
अस्मिन्नेव च क्षणे किमपि नूपुरक्वणितमुपातिष्ठत् ।
आगता च काचिदङ्गना दृष्टैव स एनामुत्फुल्लदृष्टिरुत्थायोपगूढकण्ठश्च तया तत्रैवोपाविशत् ।
अशंसच्च-"सैषा मे प्राणसमा, यद्विरहो दहन इव दहति माम् ।
इदं च मे जीवितमपहरता राजपुत्रेण मृत्युनेव निरुष्मतां नीतः ।
न च शक्ष्यामि राजसूनुरित्यमुष्मिन् पापमाचरितुम् ।
अतो ऽनयात्मानं सुदृष्टं कारयित्वा त्यक्ष्यामि निष्प्रतिक्रियान् प्राणान्ऽ इति ।
सा तु पर्यश्रुमुखी समभ्यधात्-"मा स्म नाथ, मत्कृते ऽध्यवस्यः साहसम् ।
यस्त्वमुत्तमात्सार्थवाहादर्थदासादुत्पद्य कोशदास इति गुरुभिरभिहितनामधेयः पुनर्मदत्यासङ्गाद्वेशदास इति द्विषद्भिः प्रख्यापितो ऽसु, तस्मिंस्त्वय्युपरते यद्यहं जीवेयं नृशंसो वेश इति समर्थयेयं लोकवादम् ।
अतो ऽद्यैव नय मामीप्सितं देशम्ऽ इति ।
स तु मामभ्यधत्त-"भद्र, भवद्दृष्टेषु राष्ट्रेषु कतमत्समृद्धं संपन्नसस्यं सत्पुरुषभूयिष्टं चऽ इति ।
तमहमीषद्विहस्याब्रवम्-"भद्र, विस्तीर्णेयमर्णवाम्बरा ।
न पर्यन्तो ऽस्ति स्थानस्थानेषु रम्याणां जनपदानाम् ।
अपितु न चेहिदे युवयोः सुखनिवासकारणं कमष्युपायमुत्पादयितुं शक्नुयाम् ।
ततो ऽहमेव भवेयमध्वदर्शी ।
तावतोदैरत रणितानि मणिनूपुराणाम् ।
अथासौ जातसंभ्रमा "प्राप्तैवेयं भर्तृदारिका कन्दुकावती कन्दुकक्रीडितेन देवीं विन्ध्यवासिनीमाराधयितुम् ।
अनिषिद्धदर्शना चेयमस्मिन्कन्दुकोत्सवे ।
सफलमस्तु युष्मच्चक्षुः ।
आगच्छतं द्रष्टुम् ।
अहमस्याः सकाशवर्तिनी भवेयम्ऽ इत्ययासीत् ।
तामन्वयाव चावाम् ।
महति रत्नरङ्गपीठे स्थितां प्रथमं ताम्रोष्ठीमपश्यम् ।
अतिष्ठच्च सा सद्य एव मम हृदये ।
न मयान्येन वान्तराले दृष्टा ।
चित्रीयाविष्ठचित्तश्चाचिन्तयम्-"किमियं लक्ष्मीः ।
नहि नहि ।
तस्याः किल हस्ते विन्यस्तं कमलम्, अस्यास्तु हस्त एव कमलम् ।
अभुक्तपूर्वा चासौ पुरातनेन पुंसा पूर्वराजैश्च, अस्याः पुनरनवद्यमयातयामं च यौवनम्ऽ इति चिन्तयत्येव मयि, सानघसर्वगात्री व्यत्यस्तहस्तपल्लवाग्रस्पृष्टभूमिरालोलनीलकुटिलालका सविभ्रमं भगवतीमभिवन्द्य कन्दुकममन्दरागरूषिताक्षमनङ्गमिवालम्बत ।
लीलाशिथिलं च भूमौ मुक्तवती ।
मन्दोत्थितं च किञ्चित्कुञ्चिताङ्गुष्ठेन प्रसृतकोमलाङ्गुलिना पाणिपल्लवेन समाहतय हस्तपृष्टेन चोन्नीय, चटुलदृष्टिलाञ्छतं स्तबकमिव भ्रमरमालानुविद्धमवपतन्तमाकाश एवाग्रहीत् ।
अमुञ्चच्च ।
मध्यविलम्बितद्रुतलये मृदुमुदु च प्रहरन्ती तत्क्षणं चूर्णपदमदर्शयत् ।
प्रशान्तं च तं निर्दयप्रहारैरुदपातयत् ।
विपर्ययेण च प्राशमयत् ।
पक्षमृज्वागतं च वामदक्षिणाभ्यां कराभ्यां पर्यायेणाभिघ्नती शकुन्तमिवोदस्थापयत् ।
दूरोत्थितं च प्रपतन्तमाहृत्य गीतमार्गमारचयत् ।
प्रतिदिशं च गमयित्वा प्रत्यागमयत् ।
एवमनेककरणमधुरं विहरन्ती रङ्गगतस्य रक्तचेतसो जनस्य प्रतिक्षणमुच्चावचाः प्रशंसावाचः प्रतिगृह्णती, प्रतिक्षणारूढविभ्रमं कोशदासमंसे ऽवलम्ब्य कण्टकितगण्डमुत्फुल्लेक्षणं च मय्यभिमुखीभूय तिष्ठति तत्प्रथमावतीर्णकन्दर्पकारितकटाक्षदृष्टिस्तदनुमार्गविलसितलीलाञ्चितभ्रूलता, श्वासानिलवेगान्दोलितैर्दन्तच्छदरश्मिजालैर्लीलापल्लवैरिव मुखकमलपरिमलग्रहणलोलानलिनस्ताडयन्ती, मण्डलभ्रमणेषु कन्दुकस्यातिशीघ्रप्रचारतया विशन्तीव मद्दर्शनलज्जया पुष्पमय पञ्जरम्, पञ्चबिन्दुप्रसृतेषु पञ्चापि पञ्चबाणबाणआन्युगपदिवाभिपततस्त्रासेनावघट्टयन्ती, गोमूत्रिकाप्रचारषु घनदर्शितरागविभ्रमा विद्युल्लतामिव विडम्बयन्ती, भूषणमणिरणितदत्तलसंवादिपादचारम्, अपदेशस्मितप्रभानिषिक्तबिम्बाधरम्, अंसस्रंसितप्रतिसमाहितशिखण्ढभारम्, समाघट्टितक्वणितरत्नमेखलागुणम्, अञ्चितोत्थितपृथुनितम्बविलम्बितविचलदंशुकोज्ज्वलम्, आकुञ्चितप्रसृतवेल्लितभुजलताभिहतललितकन्दुकम्, आवर्जितबाहुपाशम्, उपरिपरिवर्तितत्रिकविलग्नलोलकुन्तलम्, अवगलितकर्णपूरकनकपत्रप्रतिसमाधानशीघ्रतानतिक्रमितप्रकृतक्रीडनम्, असकृदुत्क्षिष्यमाणहस्तपादबाह्माभ्यन्तरभ्रान्तकन्दुकम्, अवनमनोन्नमननैरन्तर्यनष्टदृष्टमध्ययष्टिकम्, अवपतनोत्पतननिर्व्यवस्थमुक्ताहारम्, अङ्कुरितघर्मसलिलदूषितकपोलपत्रभङ्गशोषणाधिकृतश्रवणपल्लवानिलम्, आगलितस्तनतटांशुकनियमनव्यापृतैकपाणिपल्लवं च निषद्योत्थाय निमील्योन्मील्य स्थित्वा गत्वा चैवातिचित्रं पर्यक्रीडत राजकन्या ।
अभिहत्य भूतलाकाशयोरपि क्रीजान्तराणि दर्शनीयान्येकेनैव वानेकेनैव कन्दुकेनादर्शयत् ।
चन्द्रसेनादिभिश्च प्रियसखीभिः सह विहृत्य विहृतान्ते चाभिवन्द्य देवीं मनसा मे सानुरागेणेव परिजनेनानुगम्यमाना, कुवलयशरमिव कुसुमशरस्य मय्यपाङ्गं समर्पयन्ती, सापदेशमसकृदार्त्यमानवदनचन्द्रमण्डलतया स्वहृदयमिव मत्समीपे प्रेरितं प्रतिनिवृत्तं न वेत्यालोकयन्ती, सह सखीभिः कुमारीपुरमगमत् ।
अहं चानङ्गविह्वलः स्ववेश्म गत्वा कोशदासेन यत्नवदत्युदारं स्नानभोजनादिकमनुभावितो ऽस्मि ।
सायं चोपसृत्य चन्द्रसेना रहसि मां प्रणिपत्य पत्युरंसमंसेन प्रणयपेशलमाघट्टयन्त्युपाविशत् ।
आचष्ट च हृष्टः कोशदासः-"भूयासमेवं यावदायुरायताक्षि, त्वत्प्रसादस्य पात्रम्ऽ इति ।
मया तु सस्मितमभिहितम्--"सखे, किमेतदाशास्यम् ।
अस्ति किञ्चिदञ्जनम् ।
अनया तदक्तनेत्रया राजसूनुरुपस्थितो वानरीमिवैनां द्रक्ष्यति, विरुक्तश्चैनां पुनस्त्यक्ष्यतिऽ इति ।
तया तु स्मेरयास्मि कथितः-"सो ऽयमार्येणाज्ञाकरो जनो ऽत्यर्थमनुगृहीतः, यदस्मिन्मन्नेव जन्मनि मानुषं वपुरपनीय वानरीकरिष्यते ।
तदास्तामिदम् ।
अन्यथापि सिद्धं नः समीहितम् ।
अद्य खलु कन्दुकोत्सवे भवन्तमपहसितमनोभवाकारमभिलषन्ती रोषादिव शम्बरद्विषातिमात्रमायास्यते राजपुत्री ।
सो ऽयमर्थो विदितभावया मया स्वमात्रे तया च तन्मात्रे, महिष्या च मनुजेन्द्राय, निवेदयिष्यते ।
विदितार्थस्तु पार्थिवस्त्वया दुहितुः पाणिं ग्राहयिष्यति ।
ततश्च त्वदनुजीविना राजपुत्रेण भवितव्यम् ।
एष हि देवतासमादिष्टो विधिः ।
त्वदायत्ते च राज्ये नालमेव त्वामतिक्रम्य मामवरोद्धुं भीमधन्वा ।
तत्सहतामयं त्रिचतुराणि दिनानिऽ इति मामामन्त्र्य प्रियं चोपगूह्य प्रत्ययासीत् ।
मम च कोशदासस्य च तदुक्तानुसारेण बहुविकल्पयतोः कथञ्चिदक्षीयत क्षपा ।
क्षपान्ते च कृतयथोचितनियमस्तमेव प्रियादर्शनसुभगमुद्यानोद्देशमुपागतो ऽस्मि ।
तत्रैव चोपसृत्य राजपुत्रो निरभिमानमनुकूलाभिः कथाभिर्मामनुवर्तमानो मुहूर्तमास्त ।
नीत्वा चोपकार्यामात्मसमेन स्नानबोजनशयनादिव्यतिकरेणोपाचरम् ।
तल्पगतं च स्वप्नेनानुभूयमानप्रियादर्शनालिङ्गनसुखमायसेन निगडेनातिबलवद्बहुपुरुषैः पीवरभुजदण्डोपरुद्धमबन्धयन्माम् ।
प्रतिबुद्धं च सहसा समभ्यधात्--"अयि दुर्मते, श्रुतमालपितं हतायाश्चन्द्रसेनाया जालरन्ध्रनिःसृतं तच्चेष्टावबोधप्रयुक्तयानया कुब्जया त्वं किलाभिलषितो वराक्या कन्दुकावत्या तव किलानुजीविना मया स्थधेयम्, त्वद्वचः किलानतिक्रमता मया चन्द्रसेना कोशदासाय दास्यतेऽ इत्युक्त्वा पार्श्वचरं पुरुषमेकमालोक्याकथयत्--"प्रक्षिपैनं सागरेऽ इति ।
स तु लब्धराज्य इवातिहृष्टः "देव, यदाज्ञापयसिऽ इति यथादिष्टमकरोत् ।
अहं तु निरालम्बनो भुजाभ्यामितस्ततः स्पन्दमानः किमपि काष्टं दैवदत्तमुरसोपश्लिष्य तावदप्लोषि, यावदपासरद्वासरः शर्वरी च सर्वा ।
प्रत्युषस्यदृस्यत किमपि वहित्रम् ।
अमुत्रासन्यवनाः ते मामुद्धृत्य रामेषुनाम्रे नाविकानायकाय कथितवन्तः-"को ऽष्ययमायसनिगलबद्ध एव जले लब्धः पुरुषः ।
सो ऽयमपि सिञ्चेत्सहसरं द्राक्षाणां क्षणेनैकेनऽ इति ।
अस्मिन्नेव क्षणे नैकनौकापरिवृतः को ऽपि मद्गुरभ्यधावत् ।
अभिभयुर्यवनाः ।
तावदतिजवानौकाः श्वान इव वराहमस्मत्पोतं पर्यरुत्सत ।
प्रावर्तत संप्रहारः ।
पराजयिषत यवनाः ।
तानहमगतीनवसीदतः समाश्वास्यालपिषम्-"अपनयत मे निगलबन्धनम् ।
अयमहमवसादयामि वः सपत्नान्ऽ इति ।
अमी तथाकुर्वन् सर्वांश्च तान्प्रतिभटान्भल्लवर्षिणा भीमटङ्कृतेन शार्ङ्गेण लवलवीकृताङ्गानकार्षम् ।
अवप्लुत्य हतविध्वस्तयोधमस्मत्पोतसंसक्तपोतममुत्र नाविकनायकमनभिसरमभिपत्य जीवग्राहमग्रहीषम् ।
असौ चासीत्स एव भीमधन्वा ।
तं चाहमवबुध्य जातव्रीडमब्रवम्-"तात, किं दृष्टानि कृतान्तविलसितानिऽ इति ।
ते तु सांयात्रिका मदीयेनैव शृङ्खलेन तमतिगाढं बद्ध्वा हर्षिकलकिलारवमकुर्वन्मां चापूजयन् ।
दुर्वारा तु सा नौरननुकूलवातनुन्ना दूरमभिपत्य कमपि द्वीपं निबिढमाश्लिष्टवती ।
तत्र च स्वादु पानीयमेधांसि कन्दमूलफलानि संजिघृक्षवो गाढपातितशिलावलयमबातराम ।
तत्र चसीन्महाशैलः ।
सो ऽहम् "अहो रमणीयो ऽयं पर्वतनितम्बभागः, कान्ततरेयं गन्धपाषाणवत्युपत्यका, शिशिरमिदमिन्दीवरारविन्दमकरन्दबिन्दुचन्द्रकोत्तरं गोत्रवारि, रम्यो ऽयमनेकवर्णकुसुममञ्जरीभरस्तरुवनाभोगःऽ इत्यतृप्ततरया दृशा बहुबहु पश्यन्नलक्षिताध्यारूढक्षोणीधरशिखरः शोणीभूतमुत्प्रभाभिः पद्मरागसोपानशिलाभिः किमपि नालीकपरागधूसरं सरः समध्यगाम् ।
स्नातश्च कांश्चिदमृतस्वादून्बिसभङ्गानास्वाद्य, अंसलग्नकह्लारस्तीरवर्तिना केनापि भीमरूपेण ब्रह्माराक्षसेनाभिपत्य "को ऽसि, कुतस्त्यो ऽसिऽ इति निर्भर्त्सयताभ्यधीये ।
निर्भयेन च मया सो ऽब्यधीयत-"सौम्य, सो ऽहमस्मि द्विजन्मा ।
शुत्रहस्तादर्णवम्, अर्णवाद्यवननावम्, यवननावश्चित्रग्रावाणमेनं पर्वतप्रवरं गतः, यदृच्छयास्मिन्सरसि विश्रान्तः, भद्रं तवऽ इति ।
सो ऽब्रूत-"न चेद्ब्रवीषि प्रश्नान्, अश्नामित्वाम्ऽ इति ।
मयोक्तम्-"पृच्छ तावत् ।
भवतुऽ इति ।
अथावयोरेकयार्ययासीत्संलाप- "किं क्रूरं स्त्रीहृदयं किं गृहिणः प्रियहिताय दारगुणाः ।
कः कामः संकल्पः किं दुष्करसाधनं प्रज्ञा ।। तत्र धूमिनीगोमिनीनिम्बवतीनितम्बवत्यः प्रामाणम्ऽ इत्युपदिष्टो मया सो ऽब्रूत-"कथय, कीदृश्यस्ताःऽ इति ।
अत्रोदाहरणम्-"अस्ति त्रिगर्तो नाम जनपदः ।
तत्रासन्गृहिणस्त्रयःऽ स्फीतसारधनाः सोदर्या धनकधान्यकधन्यकाख्याः ।
तेषु जीवत्सु न ववर्ष वर्षाणि द्वादश दशशताक्षः, क्षीणसारं सस्यम्, ओषध्यो बन्ध्याः, न फलवन्तो वनस्पतयः, क्लीवा मेधाः क्षीणस्रोतसः स्रवन्त्यः, पङ्कशेषाणि पल्वलानि, निर्निस्यन्दान्युत्समण्डलानि, विरलीभूतं कन्दमूलफलम्, अवहीनाः कथाः, गलिताः कल्याणोत्सवक्रियाः, बहुलीभूतानि तस्करकुलानि, अन्योन्यमभक्षयन्प्रजाः, पर्यलुठन्नितस्ततो बलाकापाण्डुराणि नरशिरःकपालानि, पर्यहिण्डन्त शुष्काः काकमण्डल्यः, शून्यीभूतानि नगरग्रामखर्वटपुटभेदनादीनि ।
त एते गृहपतयः सर्वधान्यनिचयमुपयुज्याजाविकटं गवलगणं गवां वृथं दासीदासजनमपत्यानि ज्येष्ठमध्यमभार्ये च क्रमेण भयित्वा "कनिष्ठभार्या धूमिना श्वो भक्षणीयाऽ इति समकल्पयन् ।
अथ कनिष्ठो धन्यकः प्रियां स्वामत्तुमक्षमस्तया सह तस्यामेव निश्यपासरत् ।
मार्गक्लान्तां चोद्वहन्वनं जगाहे ।
स्वमांसासृगपनीतक्षुत्पिपासां तां नयन्नन्तरे कमपि निकृत्तपाणिपादकर्णनासिकमवनिपृष्टे विचेष्टमानं पुरुषमद्राक्षीत् ।
तमप्यार्द्राशयः स्कन्धेनोद्वहन्कन्दमूलमृगबहुले गहनोद्देशे यत्नरचितपर्णशालश्चिरमवसत् ।
अमुं च रोपितव्रणमिगुदीतैलादिभिरामिषेण शाकेनात्मनिर्विशेषं पुपोष ।
पुष्टं च तमुद्रिक्तधातुमेकदामृगान्वेषणाय च प्रयाते धन्यके सा धूमिनी रिरंसयोपातिष्ठत ।
भर्त्सितापि तेन बलात्कारमरीरमत् ।
निवृत्तं च पतिमुदकाभ्यर्थिनम् "उद्धृत्य कूपात्पिब, रुजाति मे शिरः शिरोरोगःऽ इत्युदञ्चनं सरज्जुं पुरश्चिक्षेप ।
उदञ्चयन्तं च तं कूपादपः, क्षणात्पृष्ठतो गत्वा प्रणुनोद ।
तं च विकलं स्कन्धेनोदुह्य देशाद्देशान्तरं परिभ्रमन्ती पतिव्रताप्रतीतिं लेभे, बहुविधाश्च पूजाः ।
पुनरवन्तिराजानुग्रहादतिमहत्या भूत्या न्यवसत् ।
अथ पानीयार्थिसार्थजनसमापत्तिदृष्टोद्धृतमवन्तिषु भ्रमन्तमाहारार्थिनं भर्तारमुपलभ्य सा धूमिनी येन मे पतिर्विकलीकृतः स दुरात्मायम्ऽ इति तस्य साधोश्चित्रवधमज्ञेन राज्ञा समादेशयाञ्चकार ।
धन्यकस्तु दत्तपश्चाद्बन्दो बध्यभूमिं नीयमानः सशेषत्वादायुषः "यो मया विकलीकृतो ऽभिमतो भिक्षुः, स चेन्मे पापमाचक्षीत, युक्तो मे दण्डऽ इत्यदीनमधिकृतं जगाद ।
"को दोषःऽ इत्युपनीय दर्शिते ऽमुष्मिन्स विकलः पर्यश्रुः पादपतितस्ततस्य सादोस्तत्सुकृतमसत्याश्च तस्यास्तथाभूतं दुश्चरितमार्यबुद्धिराचचक्षे ।
कुपितेन राज्ञा विरूपितमुखी सा दुष्कृतकारिमी कृता श्वभ्यः पाचिका ।
कृतश्च धन्यकः प्रसादभूमिः तद्ब्रवीमि-"स्त्रीहृदयं क्रूरम्ऽ इति ।
पिनरनुयुक्तो गोमिनीवृत्तान्तमाख्यातवान्-"अस्ति द्रविडेषु काञ्चो नामनगरी ।
तस्यामनेककोटिसारः श्रेष्ठिपुत्रः शक्तिकुमारो नामासीत् ।
सो ऽष्टादशवर्षदेशीयश्चिन्तामापेदे-"नास्त्यदाराणामनुगुणदाराणां वा सुखं नाम ।
तत्कथं नु गुणवद्विन्देयं कलत्रम्ऽ ति ।
अथ वरप्रत्ययाहृतेषु दारेषु यादृच्छिकीं संपत्तिमनभिसमीक्ष्य कार्तान्तिको नाम भूत्वा वस्त्रान्तपिनद्धशालिप्रस्थो भुवं बभ्राम ।
"लक्षणज्ञो ऽयम्ऽ इत्यमुष्मै कन्याः कन्यावन्तः प्रदर्शयांबभूवुः ।
यां काचिल्लक्षणवतीं सवर्णां कन्यां दृष्ट्वा स किल स्म ब्रवीति-"भद्रे, शक्नोपि किमनेन शालिप्रस्थेन गुणवदन्नमस्मानभ्यवहारयितुम्ऽ इति ।
स हसितावधूतो गृहाद्गृहं प्रविश्याभ्रमत् ।
एकदा तु शिबिषु पट्टने सह पितृब्यामवसितमहर्धिमवशीर्णभवनसारां धात्र्या प्रदर्श्यमानां काचन विरलभूषणां कुमारीं ददर्श ।
अस्यां संसक्तचक्षुश्चातर्कयत्-"अस्याः खलु कन्यकायाः सर्व एवावयवा नातिस्थूला नातिकृशा नातिह्रस्वा नातिदीर्घा न विकटा मृजावन्तश्च ।
रक्ततलाङ्गुलीयवमत्स्यकमलकलशाद्यनेकपुण्यलेखालाञ्छितौ करौ, समगुल्फसंधी मांसलावशिरालौ चाङ्घ्री, जङ्घे चानुपूर्ववृत्ते, पीवरोरुग्रस्ते इव दुरुपलक्ष्ये जानुनी, सकृद्विभक्तश्चतुरस्रः ककुन्दरविभागशोभी रथाङ्गाकारसंस्थितश्च नितम्बभागः तनुतरमीषन्निम्नं गम्बीरं नाभिमण्डलम्, वलित्रयेण चालङ्कृतमुदरम्, उरोभागव्यापिनावुन्मग्नचूचुकौ विशालारम्भशोभिनौ पयोधरौ, धनधान्यपुत्रभूयस्त्वचिह्नलेखालाञ्छिततले स्निग्धोदग्रकोमलनखमणी ऋज्वनुपूर्ववृत्तताम्राङ्गुली संन्नतांसदेशेसौकुमार्यवत्यौ निमग्नपर्वसंधी च बाहुलते, तन्वी कम्बुवृत्तबन्धुरा च कन्धरा, वृत्तमध्यविभक्तरागाधरम्, असंक्षिप्तचारुचिबुकम्, आपूर्णकठिनगण्डमण्डलम्, संगतानुवक्रनीलस्निग्धभ्रूलतम्, अनतिप्रौढतिलकुसुमसदृशनासिकम्, अत्यसितधवलरक्तत्रिभागभासुरमधुराधीरसंचारमन्थरायतेक्षणम्, इन्दुशकलसुन्दरललाटम्, इन्द्रनीलशिलाकाररम्यालकपङ्क्ति द्विगुणकुण्डलितम्लाननालीकनालललितलम्बश्रवणपाशयुगलमाननकमलम्, अनतिभङ्गुरो बहुलः पर्यन्ते ऽप्यकपिलरुचिरायामवानेकैकनिसर्गसमस्निग्धनीलो गन्धग्राही च मूर्धजकलापः ।
सेयमाकृतिर्न व्यबिचरति शीलम् ।
आसज्जति च मे हृदयमस्यामेव ।
तत्परीक्ष्यैनामुद्वहेयम् ।
अविमृश्यकारिणां हि नियतमनेकाः पतन्त्यनुशयपरम्पराःऽ इति स्निग्धदृष्टिराचष्ट-"भद्रे, कच्चिदस्ति कौशलं शालिप्रस्थेनानेन संपन्नमाहारमस्मानभ्यबहारयितुम्ऽ इति ।
ततस्तया वृद्धदासी साकूतमालोकिता ।
तस्य हस्तात्प्रस्थमात्रं धान्यमादाय क्वचिदलिन्दोद्देशे सुसिक्तसंमृष्टे दत्तपादशौचमुपावेशयत् ।
साकन्या तान् गन्धशालीन्संक्षुद्य मात्रया विशोष्यातपे मुहुर्मुहुः परिवर्त्य स्थिरसमाया भूमौ नालीपृष्टेन मृदुमृदु घट्टयन्ती तुषैरखण्डैस्तण्डुलान्पृथक्चकार ।
जगाद च धात्रीम्-"मातः, एभिस्तुषैरर्थिनो भूषणमृजाक्रियाक्षमैः स्वर्णकाराः ।
जगाद च धात्रीम्-"मातः, एभिस्तुषैरर्थिनो भूषणमृजाक्रियाक्षमैः स्वर्णकाराः ।
तेभ्य इमान्दत्त्वा लब्धाभिः काकिणीभिः स्थिरतराण्यनत्यार्द्राणि नातिशुष्काणि काष्ठानि मितंपचां स्थालीमुभे शरावे चाहरऽ इति ।
तथाकृते तया तांस्तण्डुलाननतिनिम्नोत्तानविस्तीर्णकुक्षौ ककुभोलूखले लोहपत्रवेष्टितमुखेन समशरीरेण विभाव्यमानमध्यतानवेन व्यायतेन गुरुणा खादिरेण मुसलेन चतुरललितक्षेपपणोत्क्षेपणायासितभुजमसकृदङ्गुलीभिरुद्धृत्योद्धृत्यावहत्य शूर्पशोधितकणकिंशारुकांस्तण्डुलानसकृदद्भिः प्रक्षाल्य क्वथितपञ्चगुणे जले दत्तचुल्लीपूजा प्राक्षिपत् ।
प्रश्लथावयवेषु प्रस्फुरत्सु तण्डुलेषु मुकुलावस्थामतिवरतमानेषु संक्षिप्यानलमुपहितमुखपिधानया स्थाल्यान्नमण्डमगालयत् ।
दर्व्या चावघट्य मात्रया परिवर्त्य समपक्वेषु सिक्थेषु तां स्थालीमधोमुखीमवातिष्ठिपत् ।
इन्धनान्यन्तःसाराण्यम्भसा समभ्युक्ष्य प्रशमिताग्नीनि कृष्णाङ्गारीकृत्य तदर्थिभ्यः प्राहिणोत् ।
"एभिर्लब्धाः काकिणीर्दत्त्वा शाकं धृतं दधि तैलमामकलं चिञ्चाफलं च यथालाभमानयऽ इति ।
तथानुष्ठिते च तया द्वित्रानुपदंशानुपपाद्य तदन्नमण्डमार्द्र वालुकोपहितनवशरावगतमिति मृदुना तालवृन्तानिलेन शीतलीकृत्य सलवणसंभारं दत्ताङ्गारधूपवासं च संपाद्य, तदप्यामलकं श्लक्ष्णपिष्टमुत्पलगन्धि कृत्वा धात्रीमुखेन स्नानाय तमचोदयत् ।
तया च स्नानशुद्धया दत्ततैलामलकः क्रमेण सस्नौ ।
स्नातः सिक्तमृष्टे कुट्टिमे फलकमारुह्य पाण्डुहरतस्य त्रिभागशेषलूनस्याङ्गणकदलीपलाशस्योपरि दत्तशरावद्वयमार्द्रमभिमृशन्नतिष्ठत् ।
सा तु तां पेयामेवाग्रे समुपाहरत् ।
पीत्वा चापनीताध्वक्लमः प्रहृष्टः प्रक्लिन्नसकलगात्रः स्थितो ऽभूत् ।
ततस्तस्य शाल्योदनस्य दर्वीद्वयं दत्त्वा सर्पिर्मात्रां सूपमुपदंशं चोपजहार ।
इमं च दध्ना च त्रिजातकावचूर्णितेन सुरभिशीतलाभ्यां च कालशेयकाञ्जिकाभ्यां शेषमन्नमभोजयत् ।
सशेष एवान्धस्यसावतृष्यत् ।
अयाचत च पानीयम् ।
अथ नवभृङ्गारसंभृतमगुरुधूपधूपितमभिनवपाटलाकुसुमवसितमुत्फुल्लोत्पलग्रथितसौरभं वारि नालीधारात्मना पातयांबभूव ।
सो ऽपि मुखोपहितशरावेण हिमशिशिरकणकरालितारुणायमानाक्षिपक्ष्मा धारारवाभिनन्दितश्रवणः स्पर्शसुखोद्भिन्नरोमाञ्चकर्कशकपोलः प्रवालोत्पीडपरिमलफुल्लघ्राणारन्ध्रो माधुर्यप्रकर्षावर्जितरसनेन्द्रियस्तदच्छं पानीयमाकण्ठं पपौ ।
शिरःकम्पसंज्ञावारिता च पुनरपरकरकेणाचमनमदत्त कन्या ।
वृद्धया तु तदुच्छिष्टमपोह्य हरितगोमयोपलिप्ते कुट्टिमे स्वमेवोत्तरीयकर्पटं व्यवधाय क्षणमशेत ।
परितुष्टश्च विधिवदुपयम्य कन्यां निन्ये ।
नीत्वैतदनपेक्षः कामपि गणिकामवरोधमकरोत् ।
तामपयसौ प्रियसखीमिवोपाचरत् ।
पतिं च दैवतमिव मुक्ततनद्रा पर्यचरत् ।
गृहकार्याणि चाहीनमन्वतिष्ठत् ।
परिजनं च दाक्षिण्यनिधिरात्माधीनमकरोत् ।
तद्गुणवशीकृतश्च भर्ता सर्वमेव कुटुम्बं तदायत्तमेव कृत्वा तदेकाधीनजीवितशरीरस्त्रिवर्गं निर्ववेश ।
तद्ब्रवीमि-"गृहिणः प्रियहिताय दारगुणाःऽ इति ।
ततस्तेनानुयुक्तो निम्बवतवृत्तमाख्यातवान्-"अस्ति सौराष्ट्रेषु वलभी नाम नगरी ।
तस्यां गुहगुप्तनाम्नो गुह्यकेन्द्रतुल्यविभवस्य नाविकपतेर्दुहिता रतनवती नाम ।
तां किल मधुमत्याः समुपागम्य बलभद्रो नाम सार्थवाहपुत्रः पर्यणैषीत् ।
तयापि नववध्वा रहसि रभसविघ्नितसुरतसुखो झटिति द्वेषमल्पेतरं बबन्ध ।
न तां पुनर्द्रष्टुमिष्टवान् ।
तद्गृहागमनमपि सुहृद्वाक्यशतातिवर्ती लज्जया परिजहार ।
तां च दुर्भगां तदाप्रभृत्येव "नेयं रत्नवती, निम्बवती चेयम्ऽ इति स्वजनः परिजनश्च परिबभूव ।
गते च कस्मिंश्चित्कालान्तरे सा त्वनुतप्यमाना "का मे गतिःऽ इति विमृशन्ती कामपि वृद्धप्रव्राजिकां मातृस्थानीयां देवशेषकुसुमैरुपस्थितामपश्यत् ।
तस्याः पुरो रहसि सकरुणं रुरोद ।
तयाप्यश्रुमुख्या बहुप्रकारमनुनीय रुदितकारणं पृष्टा त्रपमाणापि कार्यगौरवात्कथंविव्रवीत्-"अम्ब, किं ब्रवीमि दौर्भाग्यं नाम जीवन्मरणमेवाङ्गनानाम्, विशेषतश्च कुलवधूनाम् ।
तस्याहमस्म्युदाहरणभूता ।
मातृप्रमुखो ऽपि ज्ञातिवर्गो मामवज्ञयैव पश्यति ।
तेन सुदृष्टां मां कुरु ।
न चेत्त्यजेयमद्यैव निष्प्रयोजनान्प्राणान् ।
आविरामाच्च मे रहस्यं नाश्राव्यम्ऽ इति पादयोः पपात ।
सैनामुत्थाप्योद्वाष्पोवाच-"वत्से, माध्यवस्य साहसम् ।
इयमस्मि त्वन्निदेशवर्तिनी ।
यावति मयोपयोगस्तावति भवाम्यनन्याधीना ।
यद्येवासि निर्विण्णा तपश्चर त्वं मदधिष्ठिता पाललौकिकाय कल्याणाय ।
नन्वयमुदर्कः प्राक्तनस्य दुष्कृतस्य, यदनेनाकारेणेदृशेन शीलेन जात्या चैवंभूतया समनुगता सती अस्मादेव भर्तृद्वेष्यतां गतासि ।
यदि कश्चिदस्त्युपायः पतद्रोहप्रतिक्रियायै दर्शयामुम्, मतिर्हि ते पटीयसीऽ इति ।
अथासौ कथञ्चित्क्षणमधोमुखी ध्यात्वा दीर्घोष्णश्वासपूर्वमवोचत्-"भगवति, पतिरेकदैवतं वनितानाम्, विशेषतः कुलजानाम् ।
अतस्तच्छुश्रूषणाभ्युपायहेतुभूतं किञ्चिदाचरणीयम् ।
अस्त्यस्मत्प्रातिवेश्यो वणिगभिजनेन विभवेन राजान्तरङ्गभावेन च सर्वपौरानतीत्य वर्तते ।
तस्य कन्या कनकवती नाम मत्समानरूपावयवया ममातिस्निग्धा सखी ।
तया सह तद्विमानहर्म्यतले ततो ऽपि द्विगुणमण्डिता विहरिष्यामि ।
त्वया तु तन्मातृप्रार्थनं सकरुणमभिधाय मत्पतिरेतद्गृहं कथञ्चनावेयः ।
समीपगतेषु च युष्मासु क्रीडामत्ता नाम कन्दुकं भ्रंशयेयम् ।
अथ तमादाय तस्य हस्ते दत्त्वा वक्ष्यसि-"पुत्र, तवेयं भार्यासखी निधिपतिदत्तस्य सर्वश्रेष्ठिमुख्यस्य कन्या कनकवती नाम ।
त्वामियमनवस्थो निष्करुणश्चेति रत्नवतीनिमित्तमत्यर्थं निन्दति ।
तदेष कन्दुको विपक्षधनं प्रत्यर्पणीयम्ऽ इति ।
स तथोक्तो नियतमुन्मुखीभूय तामेव प्रियसखीं मन्यमानो मां बद्धाञ्जलि याचमानायै मह्यं भूयस्त्वत्प्रार्थितः साभिलाषमर्पयिष्यति ।
"तेन रन्ध्रेणोपश्लिष्य रागमुज्ज्वलीकृत्य यथासा कृतसङ्केतो देशान्तरमादाय मां गमिष्यति तथोपपादनीयम्ऽ इति ।
हर्षाभ्युतेपया चानया तथैव संपादितम् ।
अथैतां कनकवतीति वृद्धतापसीविप्रलब्धो बलभद्रः सरत्नसाराभरणामादाय निशि नीरन्ध्रे तमसि प्रावसत् ।
सा तु तापसी वार्तामापादयत्-"मन्देन मया निर्निमित्तमुपेक्षिता रत्नवती, श्वशुरौ च परिभूतौ, सुहृदश्चातिवर्तिताः ।
तदत्रैव संसृष्टो जिवितुं जिह्नेमीति बलभद्रः पूर्वेद्युर्मामकथयत् ।
नूनमसौ तेन नीता व्यक्तिश्चाचिराद्भविष्यतिऽ इति ।
तच्छ्रुत्वा तद्बान्धवास्तदन्वेषणां प्रति शिथिलयत्नास्तस्थुः ।
रत्नवती तु मार्गे काञ्चित्पण्यदासीं संगृह्य तयोह्यमानपाथेयाद्युपस्करा खटकपुरमगमत् ।
अमुत्र च व्यवहारकुशलो बलभद्रः स्वल्पेनैव मूलेन महद्वनमुपार्जयत् ।
पौराग्रगण्यश्चासीत् ।
परिजनश्च भूयानर्थवशात्समाजगाम ।
ततस्तां प्रथमदासीम् "न कर्म करोषि, दृष्टं मुष्णासि, अप्रियं ब्रवीषिऽ इति परुषमुक्त्वा बह्वताडयत् ।
चेटी तु प्रसादकालोपाख्यातरहस्यस्य वृत्तान्तैकदेशमात्तरोषा निर्बिभेद ।
तच्छुत्वा लुब्धेन तु दण्डवाहिना पौरवृद्धसंनिधौ निधिपतिदत्तस्य कन्यां कनकवतीं मोषेणापहृत्यास्मत्पुरे निवसत्येष दुर्मतिर्बलभद्रः ।
तस्य सर्वस्वहरणं न भवद्भिः प्रतिबन्धनीयम्ऽ इति नितरामभर्त्स्यत ।
भीतं च बलभद्रमभिजगाद रत्नवती-"न भेतव्यम् ।
ब्रूहि, नेयं निधिपतिदत्तकन्या कनकवती ।
बलभ्यामेव गृहगुपतदुहिता रत्नवती नामेयं दत्ता पितृभ्यां मया च न्यायोढा ।
न चेत्प्रतीथ प्रणिधिं प्रहिणुतास्या बन्धुपार्शवम्ऽ इति ।
बलभद्रस्तु तथोक्त्वा श्रेणीप्रातिभाव्येन तावदवातिष्ठत यावत्तत्पुरवृद्धलेख्यलब्धवृत्तान्तो गृहगुप्तः खेटकपुरमागत्य सह जामात्रा दुहितरमतिप्रीतः प्रत्यनैषीत् ।
तथा दृष्ट्वा रत्नवतीं कनकवतीति भावयतस्तस्यैव बलभद्रस्यातिवल्लभा जाता ।
तद्व्रवीमि-"कामो नाम संकल्पःऽ इति ।
तदनन्तरमसौ नितम्बवतवृत्तान्तमप्राक्षीत् ।
सो ऽहमब्रवम्-"अस्ति शूरसेनेषु मथुरा नाम नगरी ।
तत्र कश्चित्कुलपुत्रः कलासु गणिकासु चातिरक्तः मित्रार्थं स्वभुजमात्रनिर्व्यूढानेककलहः, कलहकण्टक इति कर्कशैरभिख्यापिताख्यः प्रत्यवात्सीत् ।
स चैकदा कस्यचिदागन्तोश्चित्रकरस्य हस्ते चित्रपटं ददर्श ।
तत्र काचिदलेख्यगता युवतिरालोकमात्रेणैव कलहकण्ठकस्य कामातुरं चेतश्चकार ।
स च तमब्रवीत्-"भद्र, विरुद्धमिवैतत्प्रतिभाति यतः कुलजादुर्लभं वपुः, आभिजात्यशंसिनी च नम्रता, पाणअडुरा च मुखच्छविः, अनतिपरिभुक्तसुभगा च तनुः, प्रौढतानुविद्धा च दृष्टिः ।
न चैषा प्रोषितभर्तृका, प्रवासचिह्नस्य वेण्यादेरदर्शनात् ।
लक्ष्म चैतद्दक्षिणपार्श्ववर्ति ।
तदियं वृद्धस्य कस्यचिद्वणिजो नातिपुंस्त्वस्य यथार्हसंभोगालाभपीडिता गृहिणी त्वयातिकौशलाद्यथादृष्टमालिखिता भवितुमर्हतिऽ इति ।
स तमभिप्रशस्याशंसत्-"सत्यमिदम् ।
अवन्तिपुर्यामुज्जयिन्यामनन्तकीर्तिनाम्नः सार्थवाहस्य भार्या यथार्थनामा नितम्बवती नामैषा सौन्दर्यविस्मितेन मयैवमालिखिताऽ इति ।
स तदैवोन्मनायमानसतदर्शनाय परिवव्राजोज्जयिनीम् ।
भार्गवो नाम भूत्वा भिक्षानिभेन तद्गृहं प्रविश्य तां ददर्श ।
दृष्ट्वा चात्यारूढमन्मथो निर्गत्य पौरमुख्येभ्येः श्मशानरक्षामयाचत ।
अलभत च ।
तत्र लब्धैश्च शवावगुण्ठनपटादिभिः कामप्यर्हन्तिकां नाम श्रमणिकामुपासांचक्रे ।
तन्मुखेन च नितम्बवतीमुपांशु मन्त्रयामास ।
सा चैनां निर्भर्त्सयन्ती प्रत्याचचक्षे ।
श्रमणिकामुखाच्च दुष्करशीलभ्रंशां कुलस्त्रियमुपलभ्य रहसि दूतिकामशिक्षयत्-"भूयो ऽप्युपतिष्ठ सार्वाहभार्याम् ।
ब्रूहि चोपह्वरे संसारदोषदर्शनात्समाधिमास्थाय मुमुक्षमाणो मादृशो जनः कुलवधूनां शीलपातने घटत इति क्व घटते ।
एतदपि त्वामष्युदारया समृद्ध्या रूपेणातिमानुषेण प्रथमेन वयसोपपन्नां किमितरनारीसुलभं चापल स्पृष्टं न वेति परीक्षा कृता ।
तुष्टास्मि तथैवमदुष्टभावतया ।
त्वामिदानीमुत्पन्नापत्यां द्रष्टुमिच्छामि ।
भर्ता तु भवत्याः केनचिद्ग्रहेणाधिष्ठितः पाण्डुरोगदुर्बलो भोगे चासमर्थः स्थितो ऽभूत् ।
न च शक्यं तस्य विघ्नमप्रतिकृत्यापत्यमस्माल्लब्धुम् ।
अतः प्रसीद ।
वृक्षवाटिकामेकाकिनी प्रविश्य मदुपनीतस्य कस्याचिन्मन्त्रवादिनश्छन्नमेव हस्ते चरणमर्पयित्वा तदभिमन्त्रितेन प्रणयुकुपिता नाम भूत्वा भर्तारमुरसि प्रहर्तुमर्हसि ।
उपर्यसावुत्तमधातुपुष्टिमूर्जितापत्योत्पादनक्षमामासादयिष्यति ।
अनुवर्तिष्यते देवीमिवात्र भवतीम् ।
नात्र शङ्का कार्याऽ इति ।
सा तथोक्ता व्यक्तमभ्युपैष्यति नक्तं मां वृक्षवाटिकां प्रवेश्य तामपि प्रवेशयिष्यसि तावतैव त्वयाहमनुगृहीतो भवेयम्ऽ इति ।
सा तथैवोपग्राहितवती ।
सो ऽतिप्रीतस्तस्यामेव क्षपायां वृक्षवाटिकायां गतो नितम्बवतीं निर्ग्रन्थिकाप्रयत्नेनोपनीतां पाद परामृशन्निव हेमनूपुरमेकमाक्षिप्य छुरिकयोरुमूले किञ्चिदालिख्य द्रुततरमपासरत् ।
सा तु सान्द्रत्रासा स्वमेव दुर्णयं गर्हमाणा जिधांसन्तीव श्रमणिकां तद्व्रणं भवनदीर्घिकायां प्रक्षाल्य दत्त्वा पटबन्धनमामयापदेशादपरं चापनीय नूपुरं शयनपरा त्रिचतुराणि दिनान्येकान्ते निन्ये ।
स धूर्तः "निक्रेष्येऽ इति तेन नूपुरेण तमनन्तकीर्तिमुपाससद ।
स दृष्ट्वा " मम गृहिण्या एवैष नूपुरः, कथमयमुपलब्धस्त्वयाऽ इति तमब्रुवाणं निर्बन्धेन पप्रच्छ ।
स तु "वणिग्ग्रमस्याग्रे वक्ष्यामिऽ इति स्थितो ऽभूत् ।
पुनरसौ गृहिण्यै "स्वनूपुरयुगलं प्रेषयऽ इति संदिदेश ।
स च सलज्जं ससाध्वसं चाद्य रात्रौ विश्रामप्रविष्टायां वृक्षवाटिकायां प्रभ्रष्टो ममैकः प्रशिथिलबन्धो नूपुरः ।
सो ऽद्याप्यन्विष्टो न दृष्टः स पुनरयं द्वितीय इत्यपरं प्राहिणोत् ।
अनया च वार्तयामुं पुरस्कृत्य स वणिक् वणिग्जनसमाजमाजगाम ।
स चानुयुक्तो धूर्तः सविनयमावेदयत्--"विदितमेव खलु वः, यथाहं युष्मदाज्ञया पितृवनमभिरक्ष्य तदुपजीवी प्रतिवसामि ।
लुब्धाश्च कदाचिन्मद्दर्शनभीरवो निशि दहेयुरपि शवानीति निशास्वपिश्मशानमधिशये ।
अपरेद्युर्दग्धादग्धं मृतकं चितायाः प्रसभमाकर्षन्ती श्यामाकारां नारीमपश्यम् ।
अर्थलोभात्तु निगृह्य साध्वसं सा गृहीता शस्त्रिकयोरुमूले यदृच्छया किञ्चिदुल्लिखितम् ।
एव च नूपुरश्चरणादाक्षिप्तः ।
तावत्येव द्रुतगतिः सा पलायिष्ट ।
सो ऽयमस्यागमः ।
परं भवन्तः प्रमाणम्ऽ इति ।
विमर्शेन च तस्याः शाकिनीत्वमैकमत्येन पौराणामभिमतमासीत् ।
भर्त्रा च परित्यक्ता तस्मिन्नेव श्मशाने बहु विलप्य पाशेनोद्बध्य कर्तुकामा तेन धूर्तेन नक्तमगृह्यत ।
अनुनीता च सुन्दरि, त्वदाकारोन्मादितेन मया त्वदावर्जने बहूनुपायान्भिक्षुकीमुखेनोपन्यस्य तेष्वसिद्धेषु पुनरयमुपायो यावज्जीवमसाधारणीकृत्य रन्तुमाचरितः ।
तत्प्रसीदानन्यशरणायास्मै दासजनायऽ इति मुहुर्मुहुश्चरणयोर्निपत्य, प्रयुज्य सान्त्वशतानि, तामगत्यन्तरामात्मवश्यामकरोत् ।
तदिदमुक्तम्-"दुष्करसाधनं प्रज्ञाऽ इति ।
इदमाकर्ण्य ब्रह्मराक्षसो मामपूपुजत् ।
अस्मन्नेव क्षणे नातिप्रौढपुंनागमुकुलस्थूलानि मुक्ताफलानि सह सलिलबिन्दुभिरम्बरतलादपतन् ।
अहं तु "किं न्विदम्ऽ इत्युच्चक्षुरालोकयन्कमपि राक्षसं काञ्चिदङ्गनां विचेष्टमानगात्रीमाकर्षन्तमपश्यम् ।
कथमपहरत्यकामामपि स्त्रियमनाचारो नैरृतः इति गगनगमनमन्दशक्तिरशस्त्रश्चातप्ये ।
स तु मत्संबन्धी ब्रह्माराक्षसः "तिष्ठ तिष्ठ पाप, क्वापहरसिऽ इति भर्त्सयन्नुत्थाय राक्षसेन समसृज्यत ।
तां तु रोषादनपेक्षापविद्धाममरवृक्षमञ्जरीमिवान्तरिक्षादापतन्तीमुन्मुखप्रसारितोभयकरः कराभ्यामग्रहषिम् ।
उपगृह्य च वेषमानां संमीलिताक्षीं मदङ्गस्पर्शसुखोनोद्भिन्नरोमाञ्चां तादृशीमेव तामनवतरयन्नतिष्ठम् ।
तावत्तावुभावपि शैलशृङ्गभङ्गैः पादपैश्च रभसोन्मूलितैर्मुष्टिपादप्रहारैश्च परस्परमक्षपयेताम् ।
पुनरहमतिमृदुनि पुलिनवति कुसुमलवलाञ्छिते सरस्तीरे ऽवरोप्य सस्पृहं निर्वर्णयंस्तां मत्प्राणैकवल्लभां राजकन्यां कन्दुकावतीमलक्षयम् ।
सा हि मया समाश्वास्यमाना तिर्यङ्मामभिनिरूप्य जातप्रत्यभिज्ञा सकरुमरोदीत् ।
अवादीच्च-"नाथ, त्वद्दर्शनादुषोढरागा तस्मिन्कन्दुकोत्सवे पुनःसख्या चन्द्रसेनाय त्वत्कथाभिरेव समाश्वासितास्मि ।
त्वं किल समुद्रमध्ये मज्जितः पापेन मद्भात्रा भीमधन्वनाऽ इति श्रुत्वा सखीजनं परिजनं च वञ्चयित्वा जीवितं जिहासुरेकाकिनी क्रीडावनमुपागमम् ।
तत्र च मामचकमत कामरूप एष राक्षसाधम ।
सो ऽयं मया भीतयावधूतप्रार्थनः स्फुरन्तीं मां निगृह्याभ्यधावत् ।
अत्रैवमवसितो ऽभूत् ।
"अहं च दैवात्तवैव जीवितेशस्य हस्ते पतिता ।
भद्रं तवऽ इति ।
श्रुत्वा च तया सहावरुह्य, नावमध्यारोहम् ।
मुक्ता च नौः प्रतिवातप्रेरिता तामेव दामलिप्तां प्रत्युपातिष्ठत् ।
अवरूढाश्च वयमश्रमेण "तनयस्य च तनयायाश्च नाशादनन्यापत्यस्तुङ्गधन्वा सुह्यपतिर्निष्कलः स्वयं सकलत्र एव निष्कलङ्कगङ्गारोधस्यनशनेनोपरन्तु प्रतिष्ठते ।
सह तेन मर्तुमिच्छत्यनन्यनाथो ऽनुरक्तः पौरवृद्धलोकःऽ इत्यश्रुमुखीनां प्रजानामाक्रन्दमशृणुम् ।
अथाहमस्मै राज्ञे यथावृत्तमाख्याय तदपत्यद्वयं प्रत्यर्पितवान् ।
प्रीतेन तेन जामाता कृतो ऽस्मि दामालिप्तेश्वरेण ।
तत्पुत्रो मदनुजीवा जातः ।
मदाज्ञप्तेन चामुना प्राणवदुज्झिता चन्द्रसेना कोशदासमभजत् ।
ततश्च सिंहवर्मसाहाय्यार्थमत्रागत्यं भर्तुरतव दर्शनोत्सवसुखमनुभवामिऽ इति ।
श्रुत्वा "चित्रेयं दैवगतिः ।
अवसरेषु पुष्कलः पुरुषकार-ऽ इत्यभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः पातयामास देवो राजवाहनः स किल करकमलेन किञ्चित्संवृताननो ललितवल्लभारभसदत्तदन्तक्षतव्यसनविह्वलधरमणिर्निरोष्ठ्यवर्णमात्मचरितमाचचक्षे ।। दकुच_२,६ ।।


इति श्रीदण्डिनः कृतौ दशकुमारचरिते मित्रगुप्तचरितं नाम षष्ठ उच्छ्वासः



सप्तमोच्छ्वासः[सम्पाद्यताम्]

दकुच २,७

राजाधिराजनन्दन, नगरन्ध्रगतस्य ते गतिं ज्ञास्यन्नहं च गतः कदाचित्कलिङ्गोन ।
कलिङ्गनगरस्य नात्यासन्नसंस्थितजनदाहस्थानसंसक्तस्य कस्यचित्कान्तारधरणिजस्यास्तीर्णसरसकिसलयसंस्तरे तले निपद्य निद्रालीढदृष्टिरशयिषि ।
गलति च कालरात्रिशिखण्डजालकालान्धकारे, चलितरक्षिसि क्षरितनीहारे निजनिलयनिलीननिः शेषजने नितान्तशीते निशीथे घनतरसालशाखान्तरालनिर्ह्रादिनि नेत्रनिंसिनीं निद्रां निगृह्णत्, कर्णदेशं गतं "कथं खलेनानेन दग्धसिद्धेन रिंरसाकाले निदेशं दित्सता जन एष रागेणानर्गलेनार्दित इत्थं खलीकृतः ।
क्रियेताम्याणकनरेन्द्रस्य केनचिदनन्तशक्तिना सिद्ध्यन्तरायऽ इति किङ्करस्य किङ्कर्याश्चातिकारतरं रटितम् ।
तदाकर्ण्य "क एष सिद्धः, किं चानेन किङ्करेण करिष्यतेऽ इति दिदृक्षाक्रान्तहृदयः किङ्करगतया दिशा किञ्चिदन्तरं गतस्तरलतरनरास्थिशकलरचितालङ्काराक्रान्तकायम्, दहनदग्धकाष्ठनिष्ठाङ्गाररजःकृताङ्गरागम्, तडिल्लताकारजटाधरम्, हिरण्यरेतस्यरण्यचक्रान्धकारराक्षसे क्षणगृहीतनानेन्धनग्रासचञ्चदर्चिषि दक्षिणेतरेण करेण तिलसिद्धार्थकादीन्निरन्तरचटचटायितानाकिरन्तं कञ्चिदद्राक्षम् ।
तस्याग्रे स कृताञ्जलिः किङ्करः "किं करणीयम्, दीयतां निदेशःऽ इत्यतिष्ठत् ।
आदिष्टश्चायं तेनातिनिकृष्टाशयेन-"गच्छ, कलिङ्गराजस्य कर्दनस्य कन्यां कनकलेखां कन्यागृहादिहानयऽ इति ।
स च तथाकार्षित् ।
ततश्चैनां त्रासेनालधीयसास्रजर्जरेण च कण्ठेन रणरणिकागृहीतेन च हृदयेन "हा तात, हा जननिऽ ति क्रन्दन्तीं कीर्णग्लानशेखरस्रजि शीर्णनहने शिरसिजानां संचये निगृह्यासिना शिलाशितेन शिरश्चिकर्तिषयाचेष्टत ।
झटिति चाच्छिद्य तस्य हस्तात्तां शस्त्रिकां तया निकृत्य तस्य तच्छिरः सजटाजालम्, निकटस्थस्य कस्यचिज्जीर्णसालस्य स्कन्धरन्ध्रेन्यदधाम् ।
तन्निध्याय हृष्टतरः स राक्षसः क्षीणाधिरकथयत्-"आर्य, कदर्यस्यास्य कदर्थनान्न कदाचिन्निद्रायाति नेत्रे ।
तर्जयति त्रासयति च अकृत्ये चाज्ञां ददाति ।
तदत्र कल्याणराशिना साधीयः कृतम् ।
यदेष नरकाकः कारणानां नारकिणां रसज्ञानाय नीतः शीतेतरदीधितिदेहजस्य नगरम्, तदत्र दयानिधेरनन्ततेजसस्ते ऽयं जनः काञ्चिदाज्ञां चिकीर्षति ।
आदिश, अलं कालहरणेनऽ इत्यनंसीत् ।
आदिशं च तम्-"सखे, सैषा सज्जनाचरिता सरणिः, यदणीयसिकारणे ऽनणीयानादरः संदृश्यते ।
न चेदिदं नेच्छसि सेयं संनताङ्गयष्टिरक्लेशार्हासत्यनेनाकृत्यकारिणात्यर्थं क्लेशिता, तन्नयैनां निजनिलयम् ।
नान्यदितः किञ्चिदस्ति चित्ताराधनं नःऽ इति ।
अथ तदाकर्ण्य कर्णशेखरनिलीननीलनीरजायितां धीरतलतारकां दृशं तिर्यक्किञ्चिदञ्चितां संचारयन्ती, सलिलचरकेतनशरासनानतां चिल्लिकालतां ललाटरङ्गस्थलीनर्तकीं लीलालसं लालयन्ती, कण्टकितरक्तगण्डलखा, रागलज्जान्तरालचारिणी, चरणाग्रेण तिरश्चीननखार्चिश्चन्द्रिकेण धरणितलं साचीकृताननसरसिजं लिखन्ती, दन्तच्छदकिसलयलङ्घिना हर्षास्रसलिलधाराशीकरकणजालक्लेदितस्य स्तनतटचन्दनस्यार्द्रतां निरस्यतास्यान्तरालनिः-सृतेन तनीयसानिलेन हृदयलक्ष्यदलनदक्षिणरतिसहचरशरस्यदायितेन तरङ्गितदशनचन्द्रिकाणि कानिचिदेतान्यक्षराणि कलकण्ठीकलान्यसृजत्-"आर्य, केन कारणेनैनं दासजनं कालहस्तादाच्छिद्यानन्तरं रागानिलचालितरणरणिकातरङ्गिण्यनङ्गसागरे किरसि ।
यथा ते चरणसरसिजरजःकणिका तथाहं चिन्तनीया ।
यद्यस्ति दया ते ऽत्रजने, अनन्यसाधारणः करणीयः स एव चरणाराधनक्रियायाम् ।
यदि च कन्यागाराध्यासनेरहस्यक्षरणादनर्थ आशङ्क्येत, नैतदस्ति ।
रक्ततरा हि नस्तत्रसख्यश्चेट्यश्च ।
यता न कश्चिदेतज्ज्ञास्यति तथा यतिष्यन्तेऽ इति ।
स चाहं देहजेनाकर्णाकृष्टसायकासनेन चेतस्यतिनिर्दयं ताडितस्तत्कटाक्षकालायसनिगडगाढसंयतः किङ्करानननिहितदृष्टिरगादिषम्-"यथेयं रथचरणजघना कथयति तथा चेन्नाचरेयम्, नयेत नक्रकतेनः क्षणेनैकेनाकीर्तनीयां दशाम् ।
जनं चैनं सह नयानया कन्यया कन्यागृहं हरिणनयनयाऽ इति ।
नीतश्चाहं निशाचरेण शारदजलधरजालकान्ति कन्यकानिकेतनम्ष तत्र च काञ्चित्कालकलां चन्द्राननानिदेशाच्चन्द्रशालैकदेशे तद्दर्शनचलितधृतिरतिष्ठम् ।
सा च स्वच्छन्दं शयानाः करतलालससंघटनापनीतनिद्राः काश्चिदधिगतार्थाः सखीरकार्षीत् ।
अथागत्य ताश्चरणनिहितशिरसः क्षरदस्रकरालितेक्षणा निजशेखरकेसराग्रसंलग्नपट्चरणगणरणितसंशयितकलग् इरः शनैरकथयन्-"आर्य, यदत्यादित्यतेजसस्त एषा तयनलक्ष्यतां गता, ततः कृतान्तेन गृहीता ।
दत्ता चेयं चित्तजेन गरीयसा साक्षीकृत्य रागानलम् ।
तदनेनाश्चर्यरत्नेन नलिनाक्षस्य ते रत्नशैलशिलातलस्थिरं रागतरलेनालङ्क्रियातां हृदयम् ।
अस्याश्चरितार्थं स्तनतटं गाढालिंङ्गनैः सदृशतरस्य सहचरस्य चऽ इति ।
ततः सखीजनेनातिदक्षिणेन दृढतरीकृतस्नेहनिगलस्तया संनताङ्ग्या संगत्यारंसि ।
अथ कदाचिदायासितजायारहितचेतसि, लालसालिलङ्घनग्लानघनकेसरे, राजदरण्यस्थलीललाटालीलायिततिलके, ललितानङ्गराजाङ्गीकृतनिर्निद्रकर्णिकारकाञ्चनच्छत्रे, दक्षिणदहनसारथिरयाहृतसहकारचञ्चरीककलिके, कालाण्डजकण्ठरागरक्तरक्ताधरारतिरणाग्रसंनाहशीलिनि, शालिनकन्यकान्तःकरणसंक्रान्तरागलङ्घितलज्जे, दर्दुरगिरितटचन्दनाश्लेषशीतलानिलाचार्यदत्तनानालतानृत्यलीले काले, कलिङ्गराजः सहाङ्गनाजनेन सह च तनयया सकलेन च नगरजनेन दश त्रीणि च दिनादि दिनकरकिरणजाललङ्घनीये, रणदलिसङ्घलङ्घितनतलताग्रकिसलयालीढसैकततटे, तरलतरङ्गशीकरासारसङ्गशीतले सागरतीरकानने क्रीजारसजातासक्तिससीत् ।
अथ संततगीतसंगीतसंगताङ्गनासहस्रशृङ्गारहलानिरर्गलानङ्गसंघर्षहर्षितश्च रागतृष्णैकतन्त्रस्तत्र रन्ध्र आन्ध्रनाथन जयसिंहेनसलिलतरणसाधनानीतेनानेनानेकसंख्येनानीकेन द्रागागत्यागृह्यत सकलत्रः सा द्यानीयत त्रासतरलाक्षी दयिता नः सह सखीजनेन कनकलेखा ।
तदाहं दाहेनानङ्गदहनजनितेनान्तरिताहारचिन्तश्चिन्तयन्दयितां गलितगात्रकान्तिरित्यतर्कयम्-"गता सा कलिङ्गराजतनया जनयित्रा जनयित्र्या च सहारिहस्तम् ।
निरस्तधैर्यस्तां स राजा नियतं संजिघृक्षेत् ।
तदसहा च सा सती गररसादिना सद्यः संतिष्ठेत ।
तस्यां च तादृशीं दशां गतायां जनस्यास्यानन्यजेन हन्येत शरीरधारणा ।
सा का स्याद्गतिःऽ इति ।
अत्रान्तर आन्ध्रनगरादागच्छन्नग्रजः कश्चिदैक्ष्यत ।
तेन चेयं कथा कथिता-"यथा किल जयसिंहेनानेकनिकारदततसंघर्षणजिघांसितः स कर्दनः कनकलेखादर्शनैधितेन रागेणारक्ष्यत ।
सा च दारिका यक्षेण केनचिदधिष्ठिता न तिष्ठत्यग्रे नरान्तरस्य ।
आयस्यति च नरेन्द्रसार्थसंग्रहणेन तन्निराकरिष्यन्नरेन्द्रो न चास्ति सिद्धिःऽ इति ।
तेन चाहं दर्शताशः शङ्करनृत्यरङ्गदेशजातस्य जरत्सालस्यत्कन्धरन्द्रान्तर्जटाजालं निष्कृष्य तेन जटिलतां गतः कन्थाचीरसंचयान्तरितसकलगात्रः कांश्चिच्छिष्यानग्रहीषम् ।
तांश्चनानाश्चर्यक्रियातिसंहिताज्जनादाकृष्टान्नचेलादित्यागान्नित्यहृष्टानकाष्रम् ।
अयासिषं च दिनैः कैश्चिदान्ध्रनगरम् ।
तस्य नात्यासन्ने सलिलराशिसदृशस्य कलहंसगणदलितनलिनदलसंहतिगलिताकिञ्जल्कशकलशारस्य सारसश्रेणिशेखरसय सरसस्तीरकानने कृतानिकेतनः स्थितः शिष्यजनकथितचित्रचेष्टाकृष्टसकलनागरजनाभिसंधानदक्षः सन्दिशिदिशीत्यकीर्त्ये जनेन-"य एष जरदरण्यस्थलीसरस्तीरे स्थण्डिलशायी यतिस्तस्य किल सकलानि सरहस्यानि सषडङ्गानि च छन्दांसिरसनाग्रे संनिहिताति, अन्यानि च शास्त्राणि, येन यानि न ज्ञायन्ते स तेषां तत्सकाशादर्थनिर्णयं करिष्यति ।
असत्येन नास्यास्यं संसृज्यते ।
सशरीरश्चैष दयाराशिः ।
एतत्संग्रहेणाद्य चिरं चरितार्था दीक्षा ।
तच्चरणरजः कणैः कैश्चनशिरसि कीर्णैरनेकस्यानेक आतङ्कश्चिरं चिकित्सकैरसंहार्यः संहृतः तदङ्घिक्षालनसलिलसेकैर्निष्कलङ्कशिरसां नश्यन्ति क्षणेनैकेनाखिलनरेन्द्रयन्त्रलङ्घिनश्चण्डतारा ग्रहाः ।
न तस्य शक्यं शक्तेरियत्ताज्ञानम् ।
न चास्याहङ्कारकणिकाऽ इति ।
सा चेयं कथानेकजनास्यसंचारिणी तस्य कनकलेखाधिष्ठानधनदाज्ञाकरनिराक्रियाक्रियातिसक्तचेतः क्षत्र्रियस्याकर्षणायाशकत् स चाहरहरागत्यादरेणातिगरीयसार्चयन्नर्थैश्च शिष्यान्संगृह्णन्निधिगतक्षणः कदाचित्काङ्क्षितार्थसाधनाय शनरैयाचिष्ट ।
ध्यानधीरः स्थानदर्शितज्ञानसंनिधिश्चैनं निरीक्ष्य निचाय्याकथयम्-"तात् स्थान एष हि यत्नः ।
तस्य हि कन्यारत्नस्य सकलकल्याणलक्षणैकराशेराधिगतिः क्षीरसागररशनालङ्कृताया गङ्गादिनदीसहस्रहारयाष्टिराजिताया धराङ्गनाया एवासादनाय साधनम् ।
न च स यक्षस्तदधिष्ठायी केनचिन्नरेन्द्रेण तस्या लीलाञ्चितनीलनीरजदर्शनाया दर्शनं सहते, तदत्र सह्यतां त्रीण्यहानि, यैरहं यतिष्येर्ऽथस्यास्य साधनायऽ इति ।
तथादिष्टे च हृष्टे क्षितीशे गते निशि निशि निर्निशाकरार्चिषि नीरन्ध्रान्धकारकणनिकरनिगीर्णदशदिशि निद्रानिगडितनिखिलजनदृशि निर्गतय जलतलनिलीनगाहनीयं नीरन्ध्रं कृच्छ्राच्छिद्रीकृतान्तरालं तदेकतः सरस्तटं तीर्थासंनिकृष्टं केनचित्खननसाधनेनाकार्षम् ।
घनशिलेष्टकाच्छन्नच्छिद्राननं तत्तीरदेशं जनैरशङ्कनीयं निश्चित्य, दिनादिस्ना ननिर्णिक्तगात्रश्च नक्षत्रसंतानहारयष्ट्यग्रग्रथितरत्नम् ।
क्षणदान्धकारगन्धहस्तिदारणैककेसारिणम्, कनकशैलशृङ्गरङ्गलास्यलीलानटम्, गगनसागरघनतरङ्गराजिलङ्घनैकनक्रम्, कार्याकार्यसाक्षिणम्, सहस्रार्चिषं सहस्राक्षदिगङ्गनाङ्गरागरागायितकिरणजालम्, रक्तनीरजाञ्जलिनाराध्य निजनिकेतनं न्यशिश्रियम् ।
याते च दिनत्रये, अस्तगिरिशिखरगैरिकतटसाधारणच्छये ।
अचलराजकन्यकाकदर्थनयान्तरिक्षाख्येन शङ्करशरीरेण संसृष्टायाः संध्याङ्गनायाः रक्तचन्दनचर्चितैकस्तनकलशदर्शनीये दिनाधिनाथे, जनाधिनाथः स आगत्य जनस्यास्य धरणिन्यस्तचरणनखकिरणच्छादितकिरीटः कृताञ्जलिरतिष्ठत् ।
आदिष्टश्च-"दिष्ट्या दृष्टेष्टसिद्धिः ।
इह जगति हि न निरीहं देहिनं श्रियः संश्रयन्ते ।
श्रेयांसि च सकलान्यनलसानां हस्ते नित्यसांनिध्यानि ।
यतस्ते साधीयसा सच्चरितेनानाकलितकलङ्केनार्चितेनात्यादररचितेनाकृष्टचेतसा जनेनानेन सरस्तथा संस्कृतम्, यथेह ते ऽद्य सिद्धिः स्यात् ।
तदेतस्यां निसि गलादर्दायां गाहनीयम् ।
गाहनानन्तरं च सलिलतले सततगतीनन्तःसंचारिणः संनिगृह्य यथाशक्ति शय्याकार्या ।
ततश्च तटस्खलितजलस्थगितजलजखण्ढचलितदण्डकण्टकाग्रदलितदेहराजहंसत्रासजर्जररसितसंदत्तकर्णस्य जनस्य क्षणादाकर्णनीयं जनिष्यते जलसंघातस्य किञ्चिदारटितम् ।
शान्ते च तत्र सलिलरटिते क्लिन्नगात्रः किञ्चिदारक्तदृष्टिर्येनाकारेण निर्यास्यति निचाय्य तं निखिलजननेत्रानन्दकारिणं न यक्षः शक्ष्यत्यग्रतः स्थितये ।
स्थिरतरनिहितस्नेहशृङ्खलानिगडितं च कन्यकाहृदयं क्षणेनैकेनासहनीयदर्शनान्तरायं स्यात् ।
अस्याश्च धराङ्गनाया नात्यादृतनिराकृतारिचक्रं चक्रं करतलगतं चिन्तनीयं न तत्र संशयः ।
तच्चेदिच्छस्यनेकशास्त्रज्ञानधीरधिषणैरधिकृतैरितरैश्च हितैषिगणैराकलय्य जालिकशतं चानाय्य, अन्तरङ्गनरशतैर्यथेष्टदृष्टान्तरालं सरः क्रियेत, रक्षा च तीरात्र्रिंशद्दण्डान्तराले सैनिकजनेन सादरं रचनीया ।
कस्तत्र तज्जानाति यच्छिद्रेणारयश्चिकीर्षन्तिऽ इति ।
तत्त्वस्य हृदयहारि जातम्, तदधिकृतैश्च तत्र कृत्ये रन्ध्रदर्शनासहेरिच्छां च राज्ञा कन्यकातिरागजनितां नितान्तनिश्चलां निश्चित्यार्थ एष न निषिद्धः ।
तथास्थितश्च तदासादनदृढतराशयश्च स आख्यायत-"राजन्, अत्र ते जनान्ते चिरं स्थितम्, न चैकत्र चिरस्थानं नः शस्तम् ।
कृतकृत्यश्चेह न द्रष्टासि ।
यस्य ते राष्ट्रे ग्रासाद्यासादितं तस्य ते किञ्चिदनाचर्य कार्यं गतिरार्यगर्ह्याऽ इति ।
तत्रैतच्चिरस्थानस्य कारणम् ।
तच्चाद्य सिद्धम् ।
गच्छ गृहान् ।
यथार्हजलेन हृद्यगन्धेन स्नातः सितस्रगङ्गरागः शक्तिसदृशेन दानेनाराधितधरणितलतैतिलगणस्तिलस्नेहसिक्तयष्ट्यग्रग्रथितवर्तिकाग्निशिखासहस्रग्रस्तनैशान्धकारराशिरागत्यार्थसिद्धये यतेथाःऽ इति ।
स किल कृतज्ञतां दर्शयन्-"असिद्धिरेषा सिद्धिः, यदसंनिधिरिहार्याणाम् ।
कष्टा चेयं निःसङ्गता, या निरागसं दासजनं त्याजयति ।
न च निषेधनीया गरीयसां गिरःऽ इति स्नानाय गृहानयासीत् ।
अहं च निर्गत्य निर्जने निशीथे सरस्तीररन्ध्रनिलीनः सन्नीषच्छिद्रदत्तकर्णः स्थितः ।
स्थिते चार्धरात्रे कृतयथादिष्टक्रियः स्थानस्थानरचितरक्षः स राजा जालिकजनानानीय निराकृतान्तःशल्यं शङ्काहीनः सरःसलिलं सलीलगतिरगाहत ।
गतं च कीर्णकेशं संहतकर्णनासं सरसस्तलं हास्तिनं नक्रलीलया नीरातिनिलीनतया तं तथा शयानं कन्धरायां कन्यता व्यग्रहीषम् ।
खरतरकालदण्डघट्टनातिचण्डैश्च करचरणघातैर्निर्दयदत्तनिग्रहः क्षणेनैकेनाजहात्स चेष्टाम् ।
ततश्चा कृष्य तच्छरीरं छिद्रे निधाय नीरान्निरयासिषम् ।
सङ्गतानां च सैनिकानां तदत्यचित्रीयताकारान्तरग्रहणम् ।
गजस्कन्धगतः सितच्छत्रादिसकलराजचिह्नराजितश्चण्डतरदण्डिदण्डताडनत्रस्तजनदत्तान्तरालया राजवीथ्या यातस्तां निशां रसनयननिरस्तनिद्रारतिरनैषम् ।
नीते च जनाक्षिलक्ष्यतां लाक्षारसदिग्धधिग्गजशिरःसदृक्षे शक्रदिगङ्गनारत्नादर्शेर्ऽकचक्रे कृतकरणीयः किरणजालकरालरत्नराजिराजितराजार्हासनाध्यासी यथासदृशाचारदर्शिनः शङ्कायन्त्रिताङ्गान्संनिधिनिषादिनः सहायानगाहिषम्-"दृश्यतां शक्तिरार्षी, यत्तस्य यतेरजेयरयेन्द्रियाणां संस्कारेण नीरजसा नीरजसांनिध्यशालिनि सहर्षालिनि सरसि सरसिजदलसंनिकाशच्छायस्याधिकतरदर्शनयिन्याकारान्तरस्य सिद्धिरासीत् ।
अद्य सकलनास्तिकानां जायेत लज्जानतं शिरः ।
तदिदानीं चन्द्रशेखरनरकशासनसरसिजासनादीनां त्रिदशेशानां स्थानान्यादररचितनृत्यगीताराधनानि क्रियन्ताम् ।
ह्नियन्तां च गृहादितः क्लेशनिरसनसहान्यर्थिसार्थैर्धनानिऽ इति ।
आश्चर्यरसीतिरेकहृष्टदृष्टयस्ते जय जगदीश, जयेन सातिशयं दश दिशः स्थगयन्निजेन यशसादिराजयशांसिऽ इत्यसकृदाशास्यारचयन्यथादिष्टाः क्रियाः ।
स चाहं दयितायाः सखीं हृदयस्थानीयां शशाङ्कसेनां कन्यकां कदाचित्कार्यान्तरागतां रहस्याचक्षि-"कच्चिदयं जनः कदाचिदासीद्दृष्टःऽ इति ।
अथ सा हर्षकाष्ठां गतेन हृदयेनेषदालक्ष्य दशनदीधितिलतां लीलालसं लासयन्ती, ललिताञ्चितकरशाखान्तरितदन्तच्छदकिसलया, हर्षजलक्लेदजर्जरनिरञ्जनेक्षणा, रचिताञ्जलिः "नितरां जाने यदि न स्यादैन्द्रजालिकस्य जालं किञ्चिदेतादृशम् ।
कथं चैतत् ।
कथय, इति स्नेहनिर्यन्त्रणं शनैरगादीत् ।
अहं चास्यै कार्त्स्न्येनाख्याय, तदाननसंक्रान्तेन संदेशेन संजनय्यसहचर्या निरतिशयं हृदयाह्लादम्, ततश्चैतया दयितया निरर्गलीकृतातिसत्कृतकलिङ्गनाथन्यायदत्तया संगत्यान्ध्रकलिङ्गराजराज्यशासी तस्यास्यारिणा लिलङ्खयिषितस्याङ्गराजस्य साहाय्यकायालघीयसा साधनेनागत्यात्र ते सखिजनसंगतस्य यादृच्छिकदर्शनानन्दराशिलङ्घितचेता जातःऽ इति ।
तस्य तत्कौशलं स्मितज्योत्स्नाभिषिक्तदन्तच्छदः सह सुहृद्भिरभिनन्द्य "चित्रमिदं महामुनेर्वृत्तम् ।
अत्रैव खलु फलितमतिकष्टं तपः तिष्ठतु तावन्नर्म ।
हर्षप्रकर्षस्पृशोः प्रज्ञासत्त्वयोर्दृष्टमिह स्वरूपम्ऽ इत्यभिधाय, पुनः "अवतरतु भवान्ऽ इति बहुश्रुते विश्रुते विकचराजीवसदृशं दृशं चिक्षेप देवो राजवाहनः ।। दकुच_२,७ ।।


इति श्रीदण्डिनः कृतौ दशकुमारचरिते मन्त्रगुप्तचरितं नाम सप्तम उच्छ्वासः



अष्टमोच्छ्वासः[सम्पाद्यताम्]

दकुच २,८

अथ सो ऽप्याचचक्षे-"देव, मयापि परिभ्रमता विन्ध्याटव्यां को ऽपि कुमारः क्षुधा तृषा च क्लिश्यन्नक्लेशार्हः क्वचित्कूपाभ्याशे ऽष्टवर्षदेशीयो दृष्टः ।
स च त्रासगद्गदमगदत्-"महाभाग, क्लिष्टस्य मे क्रियतामार्य, साहाय्यकम् ।
अस्य मे प्राणापहारिणीं पिपासां प्रतिकर्तुमुदकमुदञ्चन्निह कूपे को ऽपि निष्कलो ममैकशरणभूतः पतितः ।
तमलमस्मि नाहमुद्धर्तुम्, ।
इति अथाहमभ्येत्य व्रतत्या कयापि वृद्धमुत्तार्य, तं च बालं वंशनालीमुकोद्धृताभिरद्भिः फलैश्च पञ्चपैः शरक्षेपोच्छ्रितस्य लकुचवृक्षस्य शिखरात्पाषाणपातितैः प्रात्यानीतप्राणवृत्तिमापाद्य, तरुतलनिषण्णस्तं जरन्तमब्रवम्-"तात, क एष बालः, को वा भवानन्, कथं चेयमापदापन्नाऽ इति ।
सो ऽश्रुगद्गदमगदत्-"श्रूयतां महाभाग विदर्भो नाम जनपदः तस्मिन्भोजवंशभूषणम्, अंशावतार इव धर्मस्य, अतिसत्त्वः, सत्यवादी, वदान्यः, विनीतः, निनेता प्रजानाम्, रञ्जितभृत्यः, कीर्तिमान्, उदग्रः, बुद्धिमूर्तिभ्यामुत्थानशीलः, शास्त्रप्रमाणकः, शक्यभव्यकल्पारम्भी, संभावयिता बुदान् प्रभावयिता सेवकान्, उद्भावयिता बन्धून्, न्यग्भावयिता शत्रून्, असंबद्धप्रलापेष्वदत्तकर्णः, कदाचिदप्यवितृष्णो गुणेषु, अतिनदीष्णः कलासु, नेदिष्टो धर्मार्थसंहितासु, स्वल्पे ऽपि सुकृते सुतरां प्रत्युपकर्ता, प्रत्यवेक्षिता कोशवाहनयोः, यत्नेन परीक्षिता सर्वाध्यक्षाणाम्, षाड्गुण्योपयोगनिपुणः मनुमार्गेण प्रणेता चातुर्वर्ण्यस्य, पुण्यश्लोकः, पुण्यवर्मा नामासीत् ।
स पुण्यैः कर्मभिः प्राण्य पुरुषायुषम्, पुनरपुण्येन प्राजानामगण्यतामरेषु ।
तदनन्तरमनन्तवर्मा नाम तदायतिरवनिमध्यतिष्ठत् ।
स सर्वगुणैः समृद्धो ऽपि दैवाद्दण्ढनीत्यां नात्यादृतो ऽभूत् ।
तमेकदा रहसि वसुरक्षितो नाम मन्त्रिवृद्धः पितुरस्य बहुमतः प्रगल्भवागभाषत-"तात, सर्वैवात्मसंपदभिजनात्प्रभृत्यन्यूनैवात्रभवति लक्ष्यते ।
बुद्धिश्च निसर्गपट्वी, कलासु नृत्यगीतादिषु चित्रेषु च काव्यविस्तरेषु प्राप्तविस्तरा तवेतरेभ्यः प्रतिविशिष्यते ।
तथाप्यसावप्रतिपद्यात्मसंस्कारमर्थशास्त्रेषु, अनग्निसंशोधितेन हेमजातिर्नातिभाति बुद्धिः ।
बुद्धिहीनो हि भूभृदत्युच्छ्रितो ऽपि परैरध्यारुह्यमाणमात्मानं न चेतयते ।
न च शक्तः साध्यं साधनं वा विभ्ज्य वर्तितुम् ।
अयथावृत्तश्च कर्मसु प्रतिहन्यमानः स्वैः परैश्च परिभूयते ।
न चावज्ञातस्याज्ञा प्रभवति प्रजानां योगक्षेमाराधनाय ।
अतिक्रान्तशासनाश्च प्रजा यत्किञ्चनवादिन्यो यताकथञ्चिद्वर्तिन्यः सर्वाः स्थितीः संकिरेयुः निर्मर्यादश्च लोको लोकादितो ऽमुतश्च स्वामिनमात्मानं च भ्रंशयेत ।
आगमदीपदृष्टेन खल्वध्वना सुखेन वर्तते लोकयात्रा ।
दिव्यं हि चक्षुर्भूतभवद्भविष्यत्सु व्यवहितविप्रकृष्टादिषु च विषयेषु शास्त्रं नामाप्रतिहतवृत्ति ।
तेन हीनः सतोरप्यायतविशालयोर्लोचनयोरन्ध एव जन्तुरर्थदर्शनेष्वसामर्थ्यात्ऽ अतो विहाय बाह्मविद्यास्वभिषङ्गमागमय दण्डनीतिं कुलविद्याम् ।
तदर्थानुष्ठानन चावर्जितशक्तिसिद्धिरस्खलितशासनः शाधि चिरमुदधिमेखलामुर्वीम् इति ।
एतदाकर्ण्य स्थान एव गुरुभिरनुशिष्ठम् ।
तथा क्रियतेऽ इत्यन्तःपुरमविशत् ।
तां च वार्तां पार्थिवेन प्रमदासंनिधौ प्रसङ्गेनोदीरितामुपनिशम्य समीपोपविष्टश्चित्तानुवृत्तिकुशलः प्रसादवित्तो गीतनृत्यवाद्यादिष्वबाह्मो बाह्मनारीपरायणः पटुरयन्त्रितमुखो बहुभङ्गिविशारदः परमर्मान्वेषणपरः परिहासयिता परिवादरुचिः पैशुन्यपण्ढितः सचिवमण्डलादप्युत्कोचहारी सकलदुर्नयोपाध्यायः कामतन्त्रकर्णधारः कुमारसेवको विहारभद्रो नाम स्मितपूर्वं व्यज्ञपयत्-"देव, दैवानुग्रहेण यदि कश्चिद्भाजनं भवति विभूतेः, तमकस्मादुच्चावचैरुपप्रलोभनैः कदर्थयन्तः स्वार्थं साधयन्ति शिरः, बद्ध्वा द--भिः, अजिनेनाच्छाद्य, नवनीतेनोपलिप्य, अनशनं च शाययित्वा, सर्वस्वं स्वीकरिष्यन्ति ।
तेभ्यो ऽपि घोरतराः पाषण्ढिनः पुत्रदारशरीरजीवितान्यपि मोचयन्ति ।
यदि कश्चित्पटुजातीयो नास्यै मृगतृष्णिकायै हस्तगतं त्यक्तुमिच्छेत् ।
तमन्ये परिवार्याहुः--"एकामपि काकिणीं कार्षापणलक्षमापादयेम, शस्त्रादृते सर्वशत्रुन् घातयेम्, एकशरीरिणमपि मर्त्यं चक्रवर्तिनं विदधीमहि, यद्यस्मदुद्दिष्टेन मार्गेणाचर्यतेऽ इति ।
स पुनरिमान्प्रत्याह-"को ऽसौ मार्गःऽ इति ।
पुनरिमे ब्रुवते-"ननु चतस्रो राजविद्यास्त्रयी वार्तान्वीक्षिकी दण्डनीतिरिति ।
तासु तिस्रस्त्रयीवार्तान्वीक्षिक्यो महत्यो मन्दफलाश्च, तास्तावदासताम् ।
अधीष्व तावदृण्डनीतिम् ।
इयमिदानीमाचार्यविष्णुगुप्तेन मौर्यार्थे षडूभिः श्लोकसहस्रैः संक्षिप्ता ।
सैवेयमधीत्य सम्यगनुष्ठीयमाना यथोक्तकर्मक्षमाऽ इति ।
स "तथाऽ इत्यधीते ।
शृणोति च ।
तत्रैव जरां गच्छति ।
तत्तु किल शास्त्रं शास्त्रान्तरानुबन्धि ।
सर्वमेव वाङ्मयमविदित्वा न तत्त्वतो ऽधिगंस्यते ।
भवतु कालेन बहुनाल्पेन वा तदर्थाधिगतिः ।
अधिगतशास्त्रेण चादावेव पुत्रदारमपि न विश्वास्यम् ।
आत्मकृक्षेरपि कृते तण्डुलैरियद्भिरियानोदनः संपद्यते ।
इयत ओदनस्य पाकायेतावदिन्धनं पर्याप्तमिति मानोन्मानपूर्वकं देयम् ।
उत्थितेन च राज्ञा क्षालिताक्षालिते मुखे मुष्टिमर्धमुष्टिं वाभ्यन्तरीकृत्य कृत्स्नमायव्ययजातमह्नः प्रथमे ऽष्टमे वा भागे श्रोतव्यम् ।
शृण्वत एवास्य द्विगुणमपहरन्ति ते ऽध्यक्षधूर्ताश्चत्वारिंशतं चाक्योपदिष्टानाहरणोपायान्सहस्रधात्मबुद्ध्यैव ते विकल्पयितारः ।
द्वितीये ऽन्योन्यं विवदमानानां जनानामाक्रोशाद्दह्यमानकर्णः कष्टं जीवतिः तत्रारि प्राड्विवाकादयः स्वेच्छया जयपरौजया विदधानाः पापेनाकीर्त्या च भर्तारमात्मनश्चार्थैर्योजयन्ति ।
तृतीये स्नातुं च लभते ।
भुक्तस्य यावदन्धःपरिणआमस्तावदस्य विषभयं न शाम्यत्येव ।
चतुर्थे हिरण्यप्रतिहाय हस्तं प्रसारयन्नेवोत्तिष्ठति ।
पञ्चमे मन्त्रचिन्तया महान्तमायासमनुभवति ।
तत्रापि मन्त्रिणो मध्यस्था इवान्योन्यं मिथः संभूय दोषगुणौ दूतचारहवाक्यानि शक्याशक्यतां देशकालकार्यावस्थाश्च स्वेच्छया विपरिवर्तयन्तः, स्वपरिमित्रमण्डलान्युपजीवन्ति ।
बाह्माभ्यन्तरांश्च कोपान् गूढमुत्पाद्य प्रकाशं प्रशमयन्त इव स्वामिनमवशमवगृह्णन्ति ।
षष्ठे स्वैरविहारो मन्त्रो वा सेव्यः ।। सो ऽस्यैतावान्स्वैरविहारकालो यस्य तिस्रस्त्रिपादोत्तरा नाडीकाः ।
सप्तमे चतुरङ्गबलप्रत्यवेक्षणप्रयासः ।
अष्टमे ऽस्य सेनापतिसखस्य विक्रमचिन्ताक्लेशः ।
पुनरुपास्यैव संध्याम्, प्रथमे रात्रिभागे गूढपुरुषा द्रष्टव्याः ।
तन्मुखेन चातिनृशंसाः शस्त्राग्निरसप्रणिधयो ऽनुष्ठेयाः ।
द्वितीये भोजनानन्तरं श्रोत्रिय इव स्वाध्यायमारभेत ।
तृतीये तूर्यघोषेण संविष्टश्चतुर्थपञ्चमौ शयीत किल ।
कथमिवास्याजस्रचिन्तायासविह्वलमनसो वराकस्य निद्रासुखमुपनमेत् ।
पुनः षष्ठे शास्त्रचिन्ताकार्यचिन्तारम्भः ।
सप्तमे तु मन्त्रग्रहो दूताभिप्रेषणानि च ।
दूताश्च नामोभयत्र प्रियाख्यानलब्धानर्थान्वीतशुल्कबाधवर्त्मनि वाणिज्यया वर्धयन्तः, कार्यमविद्यामानमपि लेशेनोत्पाद्यानवरतं भ्रमन्ति ।
अष्टमे पुरोहितादयो ऽभ्येतद्यैनमाहुः-"अद्य दृष्टो दुःस्वप्नः ।
दुःस्था ग्रहाः शकुनानि चाशुभानि ।
शान्तयः क्रियन्ताम् ।
सर्वमस्तु सौवर्णमेव होमसाधनम् ।
एवं सति कर्म गुणवद्भवति ।
ब्रह्मकल्पा इमे ब्राह्माणाः ।
कृतमेभिः स्वस्त्ययनं कल्याणतरं भवति ।
ते चामी कष्टद्र्या बह्वपत्या यज्वानो वीर्यवन्तश्चाद्याप्यप्राप्तप्रतिग्रहाः ।
दत्तं चैभ्यः स्वर्ग्यमायुष्यमरिष्टनाशनं च भवतिऽ इति बहु बहु दापयित्वा तन्मुखेन स्वयमुपांशु भक्षयन्ति ।
तदेवमहर्निशमविहितसुखलेशमायासबहुलमविरलकदर्थनं च नयतो ऽनयज्ञस्यास्तां चक्रवार्तिता स्वमण्डलमात्रमपि दुरारक्ष्यं भवेत् ।
शास्त्रज्ञसमाज्ञातो हि यद्ददाति, यन्मानयति, यत्प्रियं ब्रवीति, तत्सर्वमतिसंधातुमित्यविश्वासः ।
अविश्वासता हि जन्मभूमिरलक्ष्म्याः ।
यावता च नयेन विना न लोकयात्रा स लोक एव सिद्धः नात्र शास्त्रेणार्थः स्तनन्धयो ऽपि हि तैस्तैरुपायैः स्तनपानं जनन्या लिप्सते तदपास्यातियन्त्रणामनुभूयन्तां यथेष्टमिन्द्रियसुखानि ।
यऽप्युपदिशन्ति "एवमिन्द्रियाणि जेतव्यानि, एवमरिषड्वर्गस्त्याज्यः, सामादिरुपायवर्गः स्वेषु परेषु चाजस्रं प्रयोज्यः, संधिविग्रहचिन्तयैव नेयः कालः, स्वल्पो ऽपि सुखस्यावकाशो न देयःऽ इति, तैरप्येभिर्मन्त्रिबकैर्युष्मत्त्श्चौर्यार्जितं धनं दासीगृहेष्वेव भुज्यते ।
के चैते वराकाः ।
ये ऽपि मन्त्रकर्कशास्तन्त्रकर्तारः शुक्राङ्गिरसविशालाक्षबाहुदन्तिपुत्रपराशरप्रभृतयस्तैः-किमरिषड्वर्गो जितः, कृतं वा तैः शास्त्रानुष्ठानम् ।
तैरपि हि प्रारब्धेषु कार्येषु दृष्टे सिद्ध्यसिद्धी ।
पठन्तश्चापठद्भिरतिसंधीयमाना बहवः ।
नन्विदमुपपन्नं देवस्य, यदुत सर्वलोकस्य वन्द्या जातिः, अयातयामं वयः, दर्शनीयं वपुः, अपरिमाणा विभूतिः ।
तत्सर्वं सर्वाविश्वासहेतुना सुखोपभोगप्रतिबन्धिना बहुमार्गविकल्पनात्सर्वकार्येष्वमुक्तसंशयेन तन्त्रावापेन मा कृथा वृक्षा ।
सन्ति हि ते दन्तिनां दशसहस्राणि, हयानां लक्षत्रयम्, अनन्तं च पादातम् ।
अपि च पूर्णान्येव हैमरत्नैः कोशगृहाणि ।
सर्वश्चैष जीवलोकः समग्रमपि युगसहस्रं भुञ्जानो न ते कोष्ठागाराणि रेचयिष्यति ।
किमिदमपर्याप्तं यदन्यायार्जितायासः क्रियते ।
जीवितं हि नाम जन्मवतां चतुःपञ्चान्यहानि ।
तत्रापि भोगयोग्यमल्पाल्पं वयः-खण्डम् ।
अपण्डिताः पुनरर्जयन्त एव ध्वंसन्ते ।
नार्जितस्य वस्तुनो लवमप्यास्वादयितुमीहन्ते ।
किं बहुना राज्यभारं भारक्षमेष्वन्तरङ्गेषु भक्तिमत्सु समर्प्य, अप्सरःप्रतिरूपाभिरन्तःपुरिकाभी रममाणो गीतसंगीतपानगोष्ठीश्च यथर्तु बध्नन्यथार्हं कुरु शरीरलाभम्ऽ इति पञ्चाङ्गीस्पृष्टभूमिरञ्जलिचुम्बितचूडश्चिरमशेत ।
प्राहसीच्च प्रीतिफुल्ललोचनो ऽन्तःपुरप्रमदाजनः ।
जननाथश्च सस्मितम् "उत्तिष्ठ, ननु हितोपदेशाद्गुरवो भवन्तः ।
किमिति गुरुत्वविपरीतमनुष्ठितम्ऽ इति तमुत्थाप्य क्रीडीनिर्भरमतिष्ठत् ।
अथैषु दिनेषु भूयोभूयः प्रस्तुतेर्ऽथे प्रेर्यमाणो मन्त्रिवृद्धेन, वचसाभ्युपेप्य मनसैवाचित्तज्ञ इत्यवज्ञातवान् ।
अथैवं मन्त्रिणो मनस्यभूत्--"अहो मे मोहाद्बालिश्यम् ।
अरुचितेर्ऽथे चोदयन्नर्थीवाक्षिगतो ऽहमस्य हास्यो जातः ।
स्पष्टमस्य चेष्टानामायथापूर्व्यम् ।
तथा हि ।
न मां स्निग्धं पश्यति, न स्मितपूर्वं भाषते, न रहस्यानि विवृणोति, न हस्ते स्पृशति, न व्यसनेष्वनुकम्पते, नोत्सवेष्वनुगृह्णाति, न विलोभनवस्तु प्रेषयति, न मत्सुकृतानि प्रगणयति, न मे ग-हवार्तां पृच्छति, न मत्पक्षान्प्रत्यवेक्षते, न मामासन्नकार्येष्वभ्यन्तरीकरोति, न मामन्तःपुरं प्रवेशयति ।
अपि च मामनर्हेषु कर्मसु नियुङ्क्ते, मदासनमन्यैरवष्टभ्यमानमनुजानाति, मद्वैरिषु विश्रम्भं दर्शयति, मदुक्तस्योत्तरं न ददाति, मत्समानदोषान्वगर्हति, मर्मणि मामुपहसति, स्वमतमपि मया वर्ण्यमानं प्रतिक्षिपति, महार्हाणि वस्तूनि मत्प्रहितानि नाभिनन्दति, नयज्ञानां स्खलितानि मत्समक्षं मूर्खैरुद्धोषयति, सत्यमाहचाणक्यः-"चित्तज्ञानानुवर्तिनो ऽनर्था अप प्रियाः स्युः ।
दक्षिणा अप तद्भावबहिष्कृता द्वेष्या भवेयुःऽ इति ।
तथापि का गतिः ।
अविनीतो ऽपि न परित्याज्यः पितृपितामहानुयातैरस्मादृशैरयमधिपतिः ।
अपरित्यजन्तो ऽपि कमुपकारमश्रूयमाणवाचः कुर्मः ।
सर्वथा नयज्ञस्य वसन्तभानोरश्मकेन्द्रस्य हस्ते राज्यमिदं पतितम् ।
अपि नामापदो भाविन्यः प्रकृतिस्थमेनमापादयेयुः ।
अनर्थेषु सुलभव्यलीकेषु क्वचिदुत्पन्नो ऽपि द्वेषः सद्वृत्तमस्मैरोचयेत् ।
भवतु भविता तावदनर्थः ।
स्तम्भितपिशुनजिह्वो यथाकथञ्चिदभ्रष्टपदस्तिष्ठेयम्ऽ इति ।
एवं गते मन्त्रिणि, राजनि च कामवृत्ते, चन्द्रपालितो नामाश्वकेन्द्रामात्यस्येन्द्रपालितस्य सूनुः, असद्वृत्तः पितृनिर्वासितो नाम भूत्वा, बहुभिश्चारणगणैर्बह्वीभिरनल्पकौशलाभिः शिल्पकारिणीभिरनेकच्छन्नकिङ्करैश्च परिवृतो ऽब्येत्य विविधाभिः क्रीडाभिर्विहारभद्रमात्मसादकरोत् ।
अमुना चैव संक्रमेण राजन्यास्पदमलभत ।
लब्धरन्ध्रश्च स यद्यद्वय्यसनमारभते तत्तथेत्यवर्णयत्--"देव, यथा मृगया ह्यौपकारिकी न तथान्यत् ।
अत्र हि व्यायामोत्कर्षादापत्सूपकर्ता दीर्घाध्वलङ्घनक्षमो जङ्घाजवः, कफापचयादारोग्यैकमूलमाशयाग्निदीप्तिः, मेदोपकर्षादङ्गानां स्थैर्यकार्कश्यातिलाघवादीनि, शीतोष्णवातवर्षक्षुत्पिपासासहत्वम्, सत्त्वानामवस्थान्तरेषु चित्तचेष्टितज्ञानम्, हरिणगवलगवयादिवधेन सस्यलोपप्रतिक्रिया, वृकव्याघ्नादिघातेन स्थलपथशल्यशोधनम्, शैलाटवीप्रदेशानां विविधकर्मक्षमाणामालोचनम्, आटविकवर्गविश्रम्भणम्, उत्साहशक्तिसंधुक्षणेन प्रत्यनीकवित्रासनमिति बहुतमा गुणाः ।
द्यूते ऽपि द्रव्यराशेस्तृणवत्त्यागादनुपमानमाशयौदार्यम्, जयपराजयानवस्थानाद्धर्षविवादयोरविवेयत्वम्, पौरुषैकनिमित्तस्यामर्षस्य वृद्धिः, अक्षहस्तभूम्यादिगोचराणामत्यन्तदुरुपलक्ष्याणां कूटकर्मणामुपलक्षणादनन्तबुद्धिनैपुण्यम्, एकविषयोपसंहाराच्चित्तस्यातिचित्रमैकाग्र्यम्, अध्यवसायसहचरेषु साहसेष्वतिरतिः, अतिकर्कशपुरुषप्रतिसंसर्गादनन्यधर्षणीयता, मानावधारणम्, अकृपणं च शरीरयापनमिति ।
उत्तमाङ्गनोपभोगे ऽप्यरह्थधर्मयोः सफलीकरणम्, फुष्कलः पुरुषाभिमानः भावज्ञानकौशलम्, अलोभक्लिष्टमाचेष्टितम्, अखिलासु कलासु वैचक्षण्यम्, अलब्धोपलब्धिलब्धानुरक्षणरक्षितोपभोगभुक्तानुसंधानरुष्टानुनयादि ष्वजस्रमभ्युपायरचनया बुद्धिवाचोः पाटवम्, उत्कृष्टशरीरसंस्कारात्सुभगवेषतया लोकसंभावनीयता, परं सुहृत्प्रियत्वम्, गरीयसी परिजनव्यपेक्षा, स्मितपूर्वाभिभाषित्वम्, उद्रिक्तसत्त्वता, दाक्षिण्यानुवर्तनम् ।
अपत्योत्पादनेनोभयलोकश्रेयस्करत्वमिति ।
पाने ऽपि नानाविधरागभङ्गपटीयसामासवानामासेवनात्स्पृहणीयवयोव्यवस्थापनम्, अहङ्कारप्रकर्षादशेषदुः-खतिरस्करणम्, अङ्गजरागदीपनादङ्गनोपभोगशक्तिसंधुक्षणम्, अपराधप्रमार्जनान्मनःशल्योन्मार्जनम्, अङ्गजरागदीपनादङ्गनोपभोगशक्तिसंधुक्षणम्, अपराधप्रमार्जनान्मनःशल्योन्मार्जनम्, अश्राव्यशंसिभिरनर्गलप्रलापैर्विश्वासोपबृंहणम्, मत्सराननुबन्धादानन्दैकतानता, शब्दादीनामिन्द्रियार्थानां सातत्येनानुभवः, संविभागशीलतया सुहृद्वर्गसंवर्गणम्, अनुपमानमङ्गलावण्यम्, अनुत्तराणि विलसितानिं, भयार्तिहरणाच्च साङ्ग्रमिकत्वमिति ।
वाक्पारुष्यं दण्डो दारुणो दूषणानि चार्थानामेव यथावकाशमौपकारिकाणि ।
नहि मुनिरिव नरपतिरुपशमरतिरभिभवितुमरिकुलमलम्, अबलम्बितुं च लोकतन्त्रम्ऽ इति ।
असावपि गुरुपदेशमिवात्यादरेण तस्य मतमन्ववर्तत ।
तच्छीलानुसारिण्यश्च प्रकृतयो विशृङ्खलमसेवन्त व्यसनानि ।
सर्वश्च समानदोषतया न कस्यचिच्छिद्रान्वेषणायायतिष्ट ।
समानभर्तृप्रकृतयस्तन्त्राध्यक्षाः स्वानि कर्मफलान्यभक्षयन् ।
ततः क्रमादायद्वाराणि व्यशीर्यन्त ।
व्ययमुखानि विटविधेयतया विभोरहरहर्व्यवर्धन्त ।
सामन्तपौरजानपदमुख्याश्च समानशीलतयोपारूढविश्रम्भेण राज्ञा सजानयः पानगोष्ठीष्वभ्यन्तरीकृताः स्वंस्वमाचारमत्याचारिषुः ।
तदङ्गानासु चानेकापदेशपूर्वमपाचरन्नरेन्द्रः ।
तदन्तःपुरेषु चामी भिन्नवृत्तेषु मन्द्रत्रासा बहुसुखैरवर्तन्त ।
सर्वश्च कुलाङ्गनाजनः सुलभभङ्गिभाषणरतो भग्नचारित्रयन्त्रणस्तृणायापि न गणयित्वा भर्तॄन्धातृणमन्त्रणान्यशृणोत् ।
तन्मूलाश्च कलहाः सामर्षाणामुदभवन् ।
अहन्यन्त दुर्बला बलिभिः ।
अपहृतानि धनवतां धनानि तस्करादिभिः ।
अपहृतपरिभूतयः प्रहताश्च पातकपथाः ।
हतबान्धवा हृतवित्ता बधबन्धातुराश्च मुक्तकण्ठमाक्रोशन्नश्रुकण्ठ्यः प्रजाः ।
दण्डश्चायथाप्रणीतो भयक्रोधावजनयत् ।
कृशकुटुम्बेषु लोभः पदमधत्तः विमानिताश्च तेजस्विनो ऽमानेनादह्यन्त ।
तेषु तेषु चाकृत्येषु प्रासरन्परोषजापाः ।
तदा च मृगयुवेषमृगबाहुल्यवर्णनेनाद्रिद्रोणीरनपसारमार्गाः सुष्कतृणवंशगुल्माः प्रवेश्य द्वारतो ऽग्निविसर्गैः, व्याघ्रादिवधे प्रोत्साह्य तन्मुखपातनैः, इष्टकूपतृष्णोत्पादनेनातिदूरहारितानां प्राणहारिभिः क्षुत्पिपासाभिवर्धनैः, तृणगुल्मगूढतटप्रदरपातहेतुभिर्विषममार्गप्रधावनैः, विषमुखीभिः क्षुरिकाभिश्चरणकण्टकोद्धरणैः विष्वग्विसरविच्छिन्नानुयातृतयैकाकीकृतानां यथेष्टघातनैः, मृगदेहापराद्धैर्नामेषुमोक्षणैः, सपणबन्धमधिरुह्याद्रिशृङ्गाणि दुरधिरोहाण्यनन्यलक्ष्यैः प्रभ्रंशनैः, आटविकच्छद्मना विपिनेषु विरलसैनिकानां प्रतिरोधनैः, अक्षद्यूतपक्षियुद्धयात्रोत्सवादिसंकुलेषु बलबदनुप्रवेशनैः, इतरेषां हिंसोत्पादनैः, गूढोत्पादितव्यलीकेभ्यो ऽप्रियाणि प्रकाशं लब्ध्वा साक्षिषु तद्विख्याप्याकीर्तिगुप्तिहेतुभिः पराक्रमैः, परकलत्रेषु सुहृत्तेवनाभियोज्य जारान्भर्तॄनुमयं वा प्रहृत्य तत्साहसोपन्यासैः, योग्यनारीहारितानां संकेतेषु प्रागुपनिलीय पश्चादभिदुत्याकीर्तनीयैः प्रमापणैः, उपप्रलोभ्य बिलप्रवेशेषु निधानखननेषु मन्त्रसाधनेषु च विघ्नव्याजसाध्यैर्व्यापादनैः, मत्तगजाधिरोहणाय प्रेय प्रत्यपायनिवर्तनैः, व्यालहस्तिनं कोषयित्वा लक्ष्यीकृतमुक्यमण्डलेष्वपक्रमणैः, योग्याङ्गनाभिरहर्निशमभिरमय्य राजयक्ष्मोत्पादनैः, वस्त्राभरणमाल्याङ्गरागादिषु रसविधानकौशलैः, चिकित्सामुखेनामयोपबर्हणैरन्यैश्चाभ्युपायेरश्मकेन्द्रप्रयुक्तास्तीक्ष्णरसदादयः प्रक्षपितप्रवीरमनन्तवर्मकटकं जर्जरमकुर्वन् ।
अथ वसन्तभानुर्भानुवर्माणं नाम वानवास्यं प्रोत्साह्यानन्तवर्मणा व्यग्राहयत् ।
तत्परामृष्टराष्ट्रपर्यन्तश्चानन्तवर्मा तमभियोक्तुं बलसमुत्थानमकरोत् ।
सर्वसामन्तेभ्यश्चाश्मकेन्द्रः प्रागुपेत्यास्य प्रियतरो ऽभूत् ।
अपरे ऽपि सामान्ताः ससगंसत ।
गत्वा चाभ्यर्णे नर्मदारोधसि न्यविशन ।
तस्मिंश्चावसरे महासामन्तस्य कुन्तलपतेरवन्तिदेवस्यात्मनाटकीयां क्ष्मातलोर्वशीं नाम चन्द्रपालितादिभिरतिप्रशस्तनृत्यकौशलामाहूयान्तवर्मा नृत्यमद्राक्षीत् ।
आतिरक्तश्च भुक्तवानिमां मधुमत्ताम् ।
अश्मकेन्द्रस्तु कुन्तलपतिमेकान्ते समभ्यधत्त-"प्रमत्त एष राजा कलत्राणि नः परामृशति ।
कियत्यवज्ञा सोढव्या ।
मम शतमस्ति हस्तिनाम्, पञ्चशतानि च ते ।
तदावां संबूय मुरलेशं वीरसेनमृचीकेशमेकवीरं कोङ्कणपतिं कुमारगुप्तं सासिक्यनाथं च नागपालमुपजपाव ।
ते चावश्यमस्याविनयमसहमाना अस्मन्मतेनैवोपावर्तेरन् ।
अयं च वानवास्यः प्रियं मे मित्रम् ।
अमुनैनं दुर्विनीतमग्रतो व्यतिपक्तं पृष्टतः प्राहरेम ।
कोशवाहनं च विभज्य गृह्णीमःऽ इति ।
हृष्टेन चामुनाभ्युपेते, विंशतिं वशरांशुकानाम्, पञ्चविंशतिं काञ्जनकुङ्कुमपलानाम्, प्राभृतीकृत्याप्तमुखेन तैः सामन्तैः संमन्त्र्य तानपि स्वमतावस्थापयत् ।
उत्तरेद्युस्तेषां सामन्तानां वानवास्यस्य च अनन्तवर्मा नयद्वेषादामिपत्वमगमत् ।
वसन्तभानुश्च तत्कोशवाहनमवशीर्णमात्माधिष्टितमेव कृत्वा यथाप्रयासं यथाबलं च विभज्य गृह्णीत ।
युष्मदनुज्ञया येनकेनचिदंशेनाहं तुष्यामिऽ इति शाठ्यात्सर्वानुवर्त्ती, तेनैवामिषेण निमित्तीकृतेनोत्पादितकलहः सर्वसामन्तानध्वंसयत् ।
तदीयं च सर्वस्वं स्वयमेवाग्रसत् ।
वानवाम्यं केनचिदंशेनानुगृह्य प्रत्यावृत्य सर्वमनन्तवर्मराज्यमात्मसादकरोत् ।
अस्मिंश्चान्तेर मन्त्रिवृद्धो वसुरक्षितः कैश्चिन्मौलैः संभूय बालमेनं भास्करवर्माणम्, अस्यैव ज्यायसीं बगिनीं त्रयोदशवर्षां मञ्जुवादिनीम्, अनयोश्च मातरं महादेवीं वसुंधरामादायापसर्पन्नापदो ऽस्या भावितया दाहज्वरेण देहमजहात् ।
अस्मादृशैर्मित्रैस्तु नीत्वा माहिष्मतीं भर्तृद्वैमातुराय भ्रात्रे मित्रवर्मणे सापत्या देवी दर्शिताभूत् ।
तां चार्यामनार्यो ऽसावन्यथाभ्यमन्यत ।
निर्भर्त्सितश्च तया "सुतमियमखण्डचारित्रा राज्यर्हिं चिकीर्षतिऽ इति नैर्घृण्यात्तमेनं बालमजिघांसीत् ।
इदं तु ज्ञात्वा देव्याहमाज्ञप्तः-"तात, नालीजङ्गः, जीवतानेनार्भकेण यत्र क्वचिदवधाय जीव ।
जीवेयं चेदहमप्येनमनुसरिष्यामि ।
ज्ञापय मां क्षेमप्रवृत्तः व्यगाहिषि ।
पादचारिणं चैनमाश्वासयितुं घोषे क्वचिदहानि कानिचिद्विश्रमय्य, तत्रापि राजपुरुषसंपातभीतो दुरध्वमपासरम् ।
तत्रास्य दारुणपिपासापीडितस्य वारि दातुकामः कूपे ऽस्मिन्नपभ्रश्य पतितस्त्वयैवमनुगृहीतः ।
स्वमेवास्यातः शरणमेधि विशरणस्य राजसूनोःऽ इत्यञ्जलिमबध्नात् ।
"किमीया जात्यास्य माताऽ इत्यनुयुक्ते मयामुनोक्तम्-"इत्यञ्जलिमबध्नात् ।
"किमीया जात्यास्य माताऽ इत्यनुयुक्ते मयामुनोक्तम्-"पाटलिपुत्रस्य वणिजो वैश्रवणस्य दुहितरि सागरदत्तायां कोसलेन्द्रात्कुसुमधन्वनो ऽस्य माता जाताऽ इति ।
"यद्येवमेतन्मातुर्मत्पितुश्चैको मातामहःऽ इति सस्नेहं तमहं सस्वजे ।
वृद्धेनोक्तम्-"सिन्धुदत्तपुत्राणां कतमस्ते पिताऽ इति ।
"सुश्रुतःऽ इत्युक्ते सो ऽत्यहृष्यत् ।
अहं तु "तपनयावलिप्तमश्मकनयेनैवोन्मूल्य बालमेनं पित्र्ये पदे प्रतिष्ठापयेयम्ऽ इति प्रतिज्ञाय कथमस्यैनां क्षुधं क्षपयेयम्ऽ इत्यचिन्तयम् ।
तावदापतितौ च कस्यापि व्याधस्य त्रीनिपूनतीत्य द्वौ मृगौ स च व्याधः ।
तस्य हस्तादवशिष्टमिषुद्वयं कोदण्डं चाक्षिष्यावधिषम् ।
एकश्च सपत्राकृतो ऽन्यश्च निष्पत्राकृतो ऽपतत् ।
तं चैकं मृगं दत्त्वा मृगयवे, अन्यस्यापलोमत्वचः क्लोमापाह्ये, निष्कुलाकृत्य विकृत्योर्वङ्घ्रिग्रीवादीनि शूलाकृत्य दावाङ्गारषुष तप्तेनामिषेण तयोरात्मनश्च क्षुधमतार्षम् ।
एतस्मिन्कर्मणि मत्सौष्ठवेनातिहृष्टं किरातमस्मि पृष्टवान्-"अपि जानासि माहिष्मतीवृत्तान्तम्ऽ इति ।
असावाचष्ट-" तत्र व्याघ्रत्वचो दृतश्चि विक्रीयादैवागतः किं न जानामि ।
प्रचण्डवर्मा नाम चण्डवर्मानुजो मित्रवर्मदुहितरं मञ्जुवादिनीं विलिप्सुरभ्येतीति तेनोत्सवोत्तरा पुरीऽ इति ।
अथ कर्णे जीर्णमब्रवम्-"धूर्तो मित्रवर्मा दुहितरि सम्यक्प्रतिपत्त्या मातरं विश्वास्य तन्मुखेन प्रत्याकृष्य बालकं जिघांसति ।
तत्प्रतिगत्यं कुशलमस्य मद्वार्ता च देव्यै रहो निवेद्य पुनः कुमारः शार्दूलभक्षित इति प्रकाशमाक्रोशनं कार्यम् ।
स दुर्मतिरन्तःप्रीतो बहिर्दुःखं दर्शयन्देवीमनुनेष्यति ।
पुनस्तया त्वन्मुखेन स वाच्यः-"यदपेक्षया त्वन्मतमत्यक्रमिषं सो ऽपि बालः पापेन मे परलोकमगात् ।
अद्य तु त्वदादेशकारिण्येवाहम्ऽ इति ।
स तयोक्तः प्रीतिं प्रतिपद्याभिपत्स्यति ।
पुनरनेन वत्सनाभनाम्ना महाविषेण संनीय तोयं तत्र मालां मज्जयित्वा तया स वक्षसि मुखे च हन्तव्यः ।
"स एवायमसिप्रहारः पापीयसस्तव भवतु यद्यस्मि पतिव्रताऽ ।
पुनरनेनागदेन संगमिते ऽम्भसि तां मालां मज्जयित्वा स्वदुहित्रे देया ।
मृते तु तस्मिंस्तस्यां च निर्विकारायां सत्याम्, सतीत्येवैनां प्रकृतयो ऽनुवर्तिष्यन्ते ।
पुनः प्रचण्डवर्मणे संदेश्यम्-"अनायकमिदं राज्यम् ।
अनेनैव सह वालिकेयं स्वीकर्तव्याऽ इति ।
तावदावां कापालिकवेपच्छन्नौ देव्यैव दीयमानभिक्षौ पुरो वहिरुपश्मशानं वत्स्यावः ।
पुनरार्यप्रायान्पौरवृद्धानाप्तांश्च मन्त्रिवृद्धानेकान्ते ब्रवीतु देवी-"स्वप्ने ऽद्य मे देव्या विन्ध्यवासिन्या कृतः प्रसादः ।
अद्य चतुर्थे ऽहनि प्रचण्डवर्मा मरिष्यति ।
पञ्चमे ऽहनि रेवातटवर्तिनि मद्भवने परीक्ष्य वैजन्यम्, जनेषु निर्गतेषु कपाटमुद्धाट्य त्वत्सुतेन सह को ऽपि द्विजकुमारो निर्यास्यति ।
स राज्यमिदमनुपाल्य बालं ते प्रतिष्ठापयिष्यति ।
स खलु बालो मया व्याघ्रीरूपया तिरस्कृत्य स्थापितः ।
सा चेयं वत्सा मञ्जुवादिनी तस्य द्विजातिदारकस्य दारत्वेनैव कल्पिताऽ इति ।
तदेतदतिरहस्यं युष्मास्वेव गुप्तं तिष्ठतु यावदेतदुपपत्स्यतेऽ इति ।
स सांप्रतमतिप्रीतः प्रयातोर्ऽथश्चयायं यथाचिन्तितमनुष्ठितो ऽभूत् ।
प्रतिदिशं च लोकवादः प्रासर्पत्-"अहो माहात्म्यं पतिव्रतानाम् ।
असिप्रहार एव हि स मालाप्रहारस्तस्मै जातः ।
न शक्यमुपधियुक्तमेतत्कर्मेति वक्तुम् ।
यतस्तदेव दत्तं दाम दुहित्रे स्तनमण्डनमेव तस्यै जातं न मृत्युः ।
यो ऽस्याः पतिव्रतायाः शासनमतिवर्तते स भस्मैव भवेत्ऽ इति ।
अथ महाव्रतिवेषेण मां च पुत्रं च भिक्षायै प्रविष्टौ दृष्ट्वा प्रस्नुतस्तनी प्रत्युत्थाय हर्षाकुलमब्रवीत्-"भगवन्, अयमञ्जलिः अनाथो ऽयं जनो ऽनुगृह्यताम् ।
असति ममैकः स्वप्नः स किं सत्यो न वाऽ ति ।
मयोक्तम्-"फलमस्याद्यैव द्रक्ष्यसिऽ इति ।
"यद्येवं बहु भागधेयमस्या वो दास्याः ।
स खल्वस्याः सानाथ्यशंसी स्वप्नःऽ इति मद्दर्शनरागबद्धसाध्वसां मञ्जुवादिनीं प्रणमय्य, भूयो ऽपि सा हर्षगर्भमब्रूत-"तच्चेन्मिथ्या सो ऽयं युष्मदीयो बालकपाली श्वो मया निरोद्धव्यःऽ इति ।
मयापि सस्मितं मञ्जुवादिनीरागलीनदृष्टिलीढधैर्येण "एवमस्तुऽ इति लब्धभैक्षः, नालीजङ्घमाकार्य निर्गम्य ततश्च तं चानुयान्तं शनैरपृच्छम्-"क्वासावल्यायुः प्रथितः प्रचण्डवर्माऽ इति ।
सो ऽब्रूत-"राज्यमिदं ममेत्यपास्तशङ्को राजास्थानमण्डप एव तिष्ठत्युपास्यमानः कुशीलवैःऽ इति ।
"यद्येवमुद्याने तिष्ठऽ इति तं जरन्तमादिश्य तत्प्रकारैकपार्श्वैक्वचिच्छून्यमठिकायां मात्राः समवतार्य, तद्रक्षणनियुक्तराजपुत्रः, कृतकुशीलववेषलीलः प्रचण्डवर्माणमेत्यान्वरञ्जयम् ।
अनुरञ्जितातपे तु समये, जनसमाजज्ञानोपयोगीनि संहृत्य नृत्यगीतनानारुदितादिहस्तचङ्क्रमणमूर्ध्वपादालातपादपीठवृश्चिकमकरलङ्घनादीनि मस्त्योद्वर्तनादीनि च करणानि, पुनरादायादायासन्नवर्तिनां क्षुरिकाः ताभिरुपाहितवर्ष्मा चित्रदुष्कराणि करणानि श्येनपातोत्क्रोशपातादीनि दर्शयन्, विंशतिचापान्तरालावस्थितस्य प्रचण्डवर्मणश्छुरिकयैकया प्रत्युरसं प्रहृत्य, "जीव्याद्वर्षसहस्रं वसन्तभानुःऽ इत्यभिगर्जन्, मद्गात्रमरुकर्तुमुद्यतासेः कस्यापि चारभटस्य पीवरांसबाहुशिखरमाक्रम्य, तावतैव तं विचेताकुर्वन्, साकुलं च लोकमुच्चक्षूकुर्वन्, द्विपुरुषोच्छ्रितं प्राकारमत्यलङ्घयम् ।
अवप्लुत्य चोपवने "मदनुपातिनामेष पन्था दृश्यतेऽ इति ब्रुवाण एव नालीजङ्घसमीकृतसैकतस्पृष्टपादन्यासया तमालवीथ्या चानुप्राकारं प्रचा प्रतिप्रधावितः॑ पुनरवाचोच्चितेष्टकचितत्वादलक्ष्यपातेन प्रद्रुत्य, लङ्घितप्राकारवप्रखातवलयः, तस्यां शन्यमठिकायां तूर्णमेव प्रविश्य, प्रतिमुक्तपूर्ववेषः सह कुमारेण मत्कर्मतुमुलराजद्वारदुःखलब्धवर्तमा श्मशानोद्देशमभ्यगाम् ।
प्रागेव तस्मिन्दुर्गागृहे प्रातिमाधिष्ठान एव मया कृतं भग्रपार्श्वस्थैर्यस्थूलप्रस्तरस्थगितबाह्मद्वारं बिलम् ।
अथ गलति मध्यरात्रे वर्षवरोपनीतमहार्हरत्नभूषणपट्टनिवसनौ तद्बिलमावां प्रविश्य तूष्णीमतिष्ठाव ।
देवी तु पूर्वेद्युरेव यथार्हमग्निसंस्कारं मालवाय दत्त्वा प्रचण्डवर्मणे चण्डवर्मणे च तामवस्थामश्मकेन्द्रोपधिकृतामेव संदिश्य, उत्तरेद्युः प्रत्युषस्येव पूर्वसंकेतितपौरामात्यसामन्तवृद्धैः सहाभ्यत्य भगवतीमर्चयित्वा समर्चनप्रत्यक्षं परीक्षितकुक्षिवैजन्यं तद्भवनं पिधाय दत्तदृष्टिः सह जनेन स्थित्वा, पटीयांसं पटहशब्दमकारयत् ।
अणुतररन्ध्रप्रविष्टेन तेन नादेनाहं दत्तसंज्ञः शिरसैवोत्क्षिप्य सप्रतिमं लोहपादपीठमंसलपुरुषप्रयत्नदुश्चलमुभयकरविधृतमेकपाश्व्रमेकतो निवेश्य निरगमम् ।
निरगमयं च कुमारम् ।
अथ यथापूर्वमर्चयित्वा दुर्गामुद्धाटितकपाटः प्रत्यक्षीभूय प्रत्ययहृष्टदृष्टि ।
स्पष्टरोमाञ्चमुद्यताञ्जलिरूढविस्मयं च प्रणिपतन्तीः प्रकृतीरभ्यधाम्-"इत्थं देवी विन्ध्यवासिनी मन्मुखेन युष्मानाज्ञापयति-मया सकृषया शार्दूलरूपैण तिरस्कृत्याद्य वो दत्तमेनमद्यप्रभृति मत्पुत्रतया मन्दमातृपक्ष इति परिगृह्णन्तु भवन्तः ।
अपि च दुर्घटकूटकोटिघटनापाटवप्रकटशाठ्यनिष्ठुराश्मकघटघट्टनात्मानं मां मन्यध्वमस्य रक्षितारम् ।
रक्षानिर्वेशश्चास्य स्वसेयं सुभ्रूरभ्यनुज्ञाता मह्यमार्ययाऽ इति ।
श्रुत्वैतत् "अहो भाग्यवान्भोजवंशः, यस्य त्वमार्यादत्तो नाथःऽ इत्यप्रीयन्त प्रकृतयः ।
सा तु वाचामगोचरां हर्षावस्थामस्पृशन्मे श्वश्रूः ।
तदहरेव च यथावदग्राहयन्मञ्जुवादिनीपाणिपल्लवम् ।
प्रपन्नायां च यामिन्यां सम्यगेव बिलप्रत्यपूरयम् ।
अलब्धरन्ध्रश्च लोको नष्टमुष्टिचिन्तादिकथनैरभ्युपायान्तरप्रयुक्तैर्द्विव्यांशतामेव मम समर्थयमानः, मदाज्ञां नात्यवर्तत ।
राजपुत्रस्यार्यापुत्र इति प्रभावहेतुः प्रसिद्धिरासीत् ।
तं च गुणवत्यहनि भद्राकृतमुपनाय्य पुरोहितेन पाठयन्नीतिं राजकार्याण्यन्वतिष्ठम् ।
अचिन्तयं च-"राज्यं नाम शक्तित्रयायत्तम, शक्तयश्च मन्त्रप्रभावोत्साहाः परस्परानुगृहीताः कृत्येषु क्रमन्ते ।
मन्त्रेण हि विनिश्चयोर्ऽथानाम्, प्रभावेण प्रारम्भः, उत्साहेन निर्वहणम् ।
अतः पञ्चाङ्गमन्त्रमूलः, द्विरूपप्रभावस्कन्धः, चतुर्गणोत्साहविटपः, द्विसप्ततिप्रकृतिपत्रः, षड्गुणकिसलयः, शक्तिसिद्धिपुष्पफलश्च, नयवनस्पतिर्नेतुरुपकरोति ।
स चायमनेकाधिकरणत्वादसहायेन दुरुपजीव्यः ।
यस्त्वयमार्यकेतुर्नाम मित्रवर्ममन्त्री स कोसलाभिजनत्वात्कुमारमातृपक्षो मन्त्रिगुणैश्च युक्तः तन्मतिमवमत्यैव ध्वस्तो मित्रवर्मा, स चेल्लब्धः पेशलम्ऽ इति ।
अथ नालीजङ्घं रहस्यशिक्षयम्-"तात, आर्यमार्यकेतुमेकान्ते ब्रूहि-"को मायापुरुषो य इमां राज्यलक्ष्मीमनुभवति, स चायमस्मद्बालो भुजङ्गेनामुना परिगृहीतः ।
किमुद्गीर्येत ग्रस्येत वाऽ इति ।
स यद्वदिष्यति "तदस्मि बोध्यःऽ इति ।
सो ऽन्यदैवं मामावेदयत्-"मुहुरुपास्य प्राभृतैः प्रवर्त्य चित्राः कथाः, संवाह्य पाणिपादम्, अति विस्रम्भदत्तक्षणं तमप्राक्षं त्वदुपदिष्टेन नयेन ।
साप्येवमकथयत्-"भद्र, मैवं वादीः ।
अबिजनस्य शुद्धिदर्शनम्, असाधारणं बुद्धिनैपुणम्, अतिमानुषं प्राणबलम्, अपरिमाणमौदार्यम्, अत्याश्चर्यमस्त्रकौशलम्, अनल्पं शिल्पज्ञानम्, अनुग्रहार्द्रं चेतः, तेजश्चाप्यविषह्यमभ्यमित्रीणम् ।
इत्यस्मिन्नेव संनिपातिनो गुणाः ये ऽन्यत्रैकैकशो ऽपि दुर्लभाः ।
द्विषतामेष चिरबिल्वद्रुमः, प्रह्वाणां तु चन्दनतरुः, तमुद्धृत्य नीतिज्ञंमन्यमश्मकमिमं च राजपुत्रं पित्र्ये पदे प्रतिष्ठितमेव विद्धि ।
नात्र संशयः कार्यःऽ इति ।
तच्चापि श्रुत्वा भूयोभूयश्चोपदाभिर्विशोध्य तं मे मतिसहायमकरवम् ।
तत्सखश्च सत्यशौचयुक्तानमात्यान्विविधव्यञ्जनांश्च गूढपुरुषानुदपादयम् ।
तेभ्यश्चोपलभ्य लुब्धसमृद्धमत्युत्सिक्तमविधेयप्रायं च प्रकृतिमण्डलमलुब्धतामभिख्यापयन्, धार्मिकत्वमुद्भावयन, नास्तिकान्कदर्थयन्, कण्टकान्विशोधयन्, अमित्रोपधीनपघ्नन्, चातुर्वर्ण्यं च स्वधर्मकर्मसु स्थापयन्, अभिसमाहरेयमर्थानर्थमूला हि दण्डविशिष्टकर्मारम्भा न चान्यदस्ति पापिष्ठं तत्र दौर्बल्यात्, इत्याकलय्य योगानन्वतिष्ठम् ।
व्यचिन्तयं च--सर्वो ऽप्यतिशूरः सेवकवर्गो मयि तथानुरक्तो यथाज्ञया जीवितमपि तृणाय मन्यते ।
राज्यद्वितयसैन्यसामग्र्या च नाहमश्मकेशाद्वसन्तभानोर्न्यूनो नीत्याविष्टश्च ।
अतो वसन्तभानु पराजित्य विदर्भाधिपतेरनन्तवर्मणस्तनयं भास्करवर्माणं पित्र्ये पदे स्थापयितुमलमस्मि ।
अयं च राजसूनुर्भवान्या पुत्रत्वेन परिकस्पितः ।
अहं चास्य साहाय्ये नियुक्त इति सर्वत्र किंवदन्ती संजातास्ति ।
अद्यापि चैतन्मत्कपटकृत्यं न केनापि विदितम्, ।
अत्रस्थाश्चास्मिन्भास्करवर्मणि राजतनये "अयमस्मत्स्वामिनो ऽनन्तवर्मणः पुत्रो भवान्याः प्रसादादेतद्राज्यमवाप्स्यतिऽ इति बद्धाशा वर्तन्ते ।
अश्मकेशसैन्यं च राजसूनोर्भवानीसाहाय्यं विदित्वा "दव्याः शक्तेः पुरो न बलवती मानवी शक्तिःऽ इत्यस्माभिर्विग्रहे चलचित्तमिवोपलक्ष्यते ।
अत्रत्याश्च मौलाः प्रकृतयः प्रथममेव राजसुताभ्युदयाभिलाषिण्य इदानीं च पुनर्मया दानमानाद्यावजर्नन विश्वासिता विशेषेण राजपुत्रमेवाभिकाङ्क्षन्ति ।
अश्मकेन्द्रान्तरङ्गाश्च भृत्या मदीयैर्विश्वास्यतमैः पुरुषैः प्रभूतां प्रीतिमुत्पाद्य मदाज्ञया रहसीत्युपजप्ताः--"यूयमस्मन्मित्राणि, अतो ऽस्माकं शुभोदर्कं वचो वाच्यमव ।
अत्र भवान्या राजसूनोःसाहाय्यकाय विश्रुतं विश्रुतं मां नियुज्य तद्धस्तेनाश्मकेन्द्रस्य वसन्तभानोस्तत्पक्षेस्थित्वा ये चानेन सह योस्त्यन्ति तेषामप्यन्तकातिथिभवनं विहितम् ।
यावदश्मकेन्द्रेण स जन्यवृत्तिर्न जातस्तावदेनमनन्तवर्मतनयं भास्करवर्माणमनुसरिष्यथ ।
स वीतभयो भूयसीं प्रवृत्तमासाद्य सपरिजनः सुखन निवत्स्यति न चेद्भवानीत्रिशूलवश्यो भविष्यति ।
भवान्या च ममेत्याज्ञप्तमस्ति यदेकवरं सर्वेषां कथय ।
अतो मया युष्माभिः संहमैत्रीमवबुध्य सर्वेभ्यो गदितम्ऽ इत्याकर्ण्य ते ऽश्मकेन्द्रान्तरङ्गभृत्या राजसूनोर्भवानीवरं विदित्वा पूर्वमेव भिन्नमनस आसन् ।
विशेषतश्च मदीयमिति वचनं श्रुत्वा ते सर्वे ऽपि मद्वशे समभवन् ।
एन सर्वमपि वृत्तान्तभवबुध्याश्मकेशेन व्यचिन्ति--"यद्राजसूनोर्मौलाः प्रजास्ताः सर्वा अप्येनमेव प्रभुमभिलषन्ति ।
मदीयश्च बाह्म आभ्यन्तरो भृत्यवर्गो भिन्मना इब लक्ष्यते ।
एवं यद्यहं क्षमामवलम्ब्य गृह एव स्थास्यामि तत उत्पन्नोपजापं स्वराज्यमपि परित्रातु न शक्ष्यामि ।
अतो यावता भिन्नचित्तेन मदवबोधकं प्रकटयन्ता मद्बलेन सह मिथोवचनं न संजातं तावतैव तेन साकं विग्रहं रचयामि इत्येवं विहिते सो ऽवश्यं मदग्रे न क्षणमवस्थास्यतेऽ इति निश्चित्यान्यायेन परराज्यक्रमणपापप्रेरितः ससैन्यो मृत्युमुखमिवास्मत्सैन्यमभ्ययात् ।
तमभ्यायान्तं विदित्वा राजपुत्रः पुरो ऽभवत् ।
अतो ऽश्मकेन्द्रमेव तुरगाधिरूढो यान्तमभ्यसरम् ।
तावत् सर्वा एव तत्सेना "यदयमेतावतो ऽपरिमितस्यास्मत्सैन्यस्योपर्येक एवाभ्यागच्छति तत्र भवानीवर एवासाधारणं कारणं नान्यत्ऽ इति निश्चित्यालेख्यालिखिता इवावस्थिताः ।
ततो मयाभिगम्य संगराय समाहूतो वसन्तभानुः समेत्य मामसिप्रहारेण दृढमभ्यहन् ।
अहं च शिक्षाविशेषविफलिततदसिप्रहारः प्रतिप्रहारेण तं प्रहृत्यावकृत्तमश्मकेन्द्रशिरो ऽवनौ विनिपात्य तत्सैनिकानवदम्--"अतः परमपि ये युयुत्सवो भवन्ति ते समेत्य मया युध्यन्ताम् ।
न चेद्राजतनयचरणप्रणामं विधाय तदीयाः सन्तः स्वस्ववृत्त्युपभोगपूर्वकं निजान्निजानधिकारान्निःशङ्कं परिपालयन्तः सुखेनावतिष्ठन्तुऽ इति ।
मद्वचनश्रवणानन्तरं सर्वे ऽप्यश्मकेन्द्रसेवकाः खखवाहनात्सहसावतीर्य राजसूनुमानस्य तद्वशवर्तिनः समभवन् ।
ततो ऽहं तदश्मकेन्द्रराज्यं राजसूनुसाद्विधाय तद्रक्षणार्थं मौलान्त्वानधिकारिणो नियुज्यात्मीभूतेनाश्मकेन्द्रसैन्येन च साकं विदर्भानभ्येत्य राजधान्यां तं राजतनयं भास्करवर्माणमभिषिच्य पित्र्ये पदे न्यवेशयम् ।
एकदा च मात्रा वसुन्धरया सहावस्थितं तं राजानं वप्यजिज्ञपम्--"मयैकस्य कार्यस्यारम्भश्चिकीर्षितो ऽस्ति ।
स यावन्न सिद्ध्यति तानवन्मया न कुत्राप्येकत्रावस्थातुं शक्यम् ।
अत इयं मद्भार्या त्वद्भगिनी मञ्जुवादिनी कियन्त्यहानि युष्मदन्तिकमेव तिष्ठतु ।
अहं च यावदिष्टजनोपलम्भं कियन्तमप्यनेहसं भुवं विभ्रम्यं तमासाद्य पुनरत्र समेष्यामिऽ इत्याकर्ण्य मात्रानुमतेन राज्ञाहमगादि-"यदेतदस्माकमेतदराज्योपलम्भलक्षणस्यैतावतोभ्युदयस्यासाधारणो हेतुर्भवानेव ।
भवन्तं विना क्षणमप्यस्माभिरियं राज्यधूर्न निर्वाह्या ।
अतः किमेवं वक्ति भवान्ऽ इत्याकर्ण्य मया प्रत्यवादि-"युष्माभिरयं चिन्तालवो ऽपि न चित्ते चिन्तनीयः ।
युष्मद्गृहे यः सचिवरत्नमार्यकेतुरस्ति सर् इदृग्विधानामनेकेषां राज्यानां धुरमुद्वोढुं शक्तः ।
ततस्तं तत्र नियुज्याहं गमिष्यामिऽ इत्यादिवचनसंदोहैः प्रलोभितो ऽपि सजननीको नृपो ऽनेकैराग्रहैर्मां कियन्तमपि कालं प्रयाणोपक्रमात् न्यवर्तयत् ।
उत्कलाधिपतेः प्रचण्डवर्मणो राज्यं मह्यं प्रादान् ।
अहं च तद्राज्यमात्मसात्कृत्वा राजानमामन्त्र्य यावत्त्वदन्वेषणाय प्रयाणोपक्रमं करोमि तावदेवाङ्गनाथेन सिंहवर्मणा स्वसाहाय्यायाकारितो ऽत्र समागतः पूर्वपुण्यपरिपाकात्स्वामिना समगंसिऽ इति ।। इति श्रदण्डिनः कृतौ दशकुमारचरिते विश्रुतचरितं नामाष्टम उच्छ्वासः ।। ८. ।। अथ कथोपसंहारः ।
ततस्ते तत्र संगता अपहारवर्मोपहारवर्मार्थपालप्रमतिमित्रगुप्तमन्त्रगुप्तविश्रुताः कुमाराः पाटलिपुरे यौवराज्यमुपभुञ्जानं समाकारणे पूर्वकृतसंकेतं वामलोचनया भार्यया सह कुमारं सोमदत्तं सेवकैरानाय्य सराजवाहनाः संभूयावस्थिता मिथः सप्रमोदसंवलिताः कथा यावद्विदधति तावत्पुष्पपुराद्राज्ञो राजहंसस्याज्ञापत्रमादाय समागता राजपुरुषाः प्रणम्य राजवाहनं व्यजिज्ञपन्-"स्वामिन्, एतज्जनकस्य राजहंसस्याज्ञापत्र गृह्यताम्ऽ इत्याकर्ण्य समुत्थाय भूयोभूयः सादरं प्रणम्य सदसि तदाज्ञापत्रमग्रहीत् ।
शिरसि चाधाय तत उत्तार्योत्कील्य राजा राजवाहनः सर्वेषां शृण्वतामेवावाचयत्-"स्वस्ति श्रीः पुष्पपुरराजधान्याः श्रीराजहंसभूपतिश्चम्पानगरीमधिवसतो राजवाहनप्रमुखान् कुमारानाशास्याज्ञापत्रं प्रेषयति ।
यथा यूयमितो मामामन्त्र्य प्रणम्य प्रस्थिताः पथि कस्मिंश्चिद्वनोद्देश उपशिवालयं स्कन्धावारमवस्थाप्य स्थिताः ।
तत्र राजवाहनं शिवपूजार्थंनिशि शिवालये स्थितं प्रातरनुपलभ्यावशिष्टाः सर्वे ऽपि कुमाराः "सहैव राजवाहनेन राजहंसं प्रणंस्यामो न चेत्प्राणांस्त्यक्ष्यामःऽ इति प्रतिज्ञाय सैन्यं परावर्त्य राजवाहनमन्वेष्टं पृथक्प्रस्थिताः ।
एतं भवद्वृत्तान्तं ततप्रत्यावृत्तानां सैनिकानां मुखादाकर्ण्यासह्यदुःखोदन्वति मग्नमनसावुभावहं युष्मज्जननी च "वामदेवाश्रमं गत्वैतद्वृत्तान्तं तद्विदितं विधाय प्राणपरित्यायं कुर्वःऽ इति निश्चित्य तदाश्रममुपगतौ तं मुनिं प्रणम्य यावत्स्थितौ तावदेव तेन त्रिकालवेदिना मुनिना विदितमेवास्मन्मनीषितम् ।
निश्चयमवबुध्य प्रावाचि-"राजन्, प्रथममेवैतत्सर्वं युष्मन्मनीषितं विज्ञानबलादज्ञायि ।
यदत त्वत्कुमारा राजवाहननिमित्ते कियन्तमनेहसमापदमासाद्य भाग्योदयादसाधारणेन विक्रमेण विहितदिग्विजयाः प्रभूतानि राज्यान्युपलभ्य षोढशाब्दान्ते विजयिनं राजवाहनं पुरस्कृत्य प्रत्येत्य तव वसुमत्याश्च पादानभिवाद्य भवदाज्ञाविधायिनो भविष्यन्ति ।
अतस्तन्निमित्तं किमपि साहसं न विधेयम्ऽ इति ।
तदाकर्ण्य तत्प्रत्ययाद्धैर्यमवलम्ब्याद्यप्रभृत्यहं देवी च प्राणमधारयाव ।
इदानीमासन्नवर्तिन्यवधौ वामदेवाश्रमे गत्वा विज्ञप्तिः कृता-"स्वामिन्, त्वदुक्तावधिः पूर्णप्रायो भवति तत्प्रवृत्तिस्त्वयाद्यापि विज्ञायतेऽ इति ।
श्रुत्वा मुनिरवदत्-"राजन्, राजवाहनप्रमुखाः सर्वे ऽपि कुमारा अनेकान्दुर्जयाञ्शत्रून्विजित्य दिग्विजयं विधाय भूवलयं वशीकृत्य चम्पायामेकत्र स्थिताः ।
तवाज्ञापत्रमादाय तदानयनाय प्रेष्यन्तां शीघ्रमेव सेवकाःऽ इति मुनिवचनमाकर्ण्य भवदाकारणायाज्ञापत्रं प्रेषितमस्ति ।
अतःपरं चेत्क्षणमपि यूयं विलम्बं विधास्यथ ततो मां वसुमतीं च मातरं कथावशेषावेव श्रोष्यथेति ज्ञात्वा पानीयमपि पथि भूत्वा पेयम्ऽ इति ।
एवं पितुराज्ञापत्रं मूर्ध्नि विधृत्य गच्छेमेति निश्चयं चक्रुः ।
अथ वशीकृतराज्यरक्षापर्याप्रानि सैन्यानि समर्थतरान्पुरुषानाप्तान्स्थाने स्थाने नियुज्य कियता सैन्यैन मार्गरक्षां विधाय पूर्ववरिणं मालवेशं मानसार पराजत्य तदपि राज्यं वशीकृत्य पुष्पपुरे राज्ञो राजहंसस्य देव्या वसुमत्याश्च पादान्नमस्यामः ।
एवं निश्चित्य स्वस्वभार्यासंयुताः परिमितेन सैन्यन मालवेशं प्रति प्रस्थिताः ।
प्राप्य चोज्जयिनीं तदैव सहायभूतैस्तैः कुमारैः परिमितेन राजवाहनेनातिबलवानपि मालवेशो मानसारः क्षणेन पराजिग्ये निहतश्च ।
ततस्तद्दहितरमवन्तिसुन्दरीं समादाय चण्जवर्मणा तन्मन्त्रिणा पूर्वं कारागृहे रक्षितं पुष्पोद्भवं कुमारं सकुटुम्बं तत उन्मोचितं सह नीत्वा मालवेन्द्रराज्यं वशीकृत्य तद्रक्षणाय कांश्चित्सैन्यसाहितान्मान्त्रिणो नित्युज्यावशिष्टपरिमितसैन्यसहितास्ते कुमाराः पुष्पपुरं समेत्य राजवाहनं पुरस्कृत्य तस्य राजहंसस्य मातुर्वसुमत्याश्च चरणानभिवन्दितवन्तः ।
तौ च पुत्रसमागमं प्राप्य परमानन्दमधिगतौ ।
ततो राज्ञो वसुमत्याश्च देव्याः ।
समक्षं वामदेवो राजवाहनप्रमुखानां दशानामपि कुमाराणामभिलाषं विज्ञाय तानाज्ञापयत्--भवन्तः सर्वे ऽप्येकवारं गत्वा स्वानि स्वानि राज्यानि न्यायेन परिपालयन्तु ।
पुनर्यदेच्छा भवति तदा पित्रोश्चरणाभिवन्दनायागन्तव्यम्ऽ इति ।
ततस्ते सर्वे ऽपि कुमारास्तन्मुनिवचनं शिरम्याधाया तं प्रणम्य पितरौ च, गत्वा दिग्विजयं विधाय प्रत्यागमनान्तं स्वस्ववृत्तं पृथक्पृथड्मुनिसमक्षं न्यवेदयन् ।
पितरौ च कुमाराणां निजपराक्रमावबोधकान्यतिदुर्घटानि चरितान्याकर्ण्य परमानन्दमाप्नुताम् ।
ततो राजा मुनिं सविनयं व्यजिज्ञपत्--"भगवत्, तव प्रसादादग्माभिर्मनुजमनोरथाधिकमवाङ्मनरसगोचरं सुखमधिगतम् ।
अतःपरं मम स्वाभिचरणसंनिधौ वानप्रस्थाश्रममौ त्यात्मसाधनमेव विधातुमुचितम् ।
अतः पुष्पपुरराझ्ये मानसारराज्ये चराजबाहनमभिषिच्यावशिष्टानिराज्यानि नवभ्यः कुमारेभ्यो यथोचितं सम्प्रदाय ते कुमारा राजवाहनाज्ञाबिधायिनस्तदेकमत्या वर्तमानाश्चतुरुदधिमेखलां वसुंधरां समुद्धृत्य कण्टकानुपभुञ्जन्ति तथा विधेयं स्वामिना इति ।
तेषां तत्पितुर्वानग्रस्थाश्रमप्रहणोपक्रमनिषेधे भूयांसमाग्रहं विलोक्य मुनिस्तानबदत्-"भोः कुमारकाः, अयं युष्मज्जनक एतद्वयःसमुचिते पथि वर्मानः कायक्लेशं विनव मदाश्रमस्थो वानप्रश्थाश्रमाश्रयणं सर्वथा भवद्धर्नि निवारणीयः ।
अत्र स्थितस्त्वयं भङ्गवद्भक्तिमुपलप्स्यते ।
भवन्तश्च पितृसंनिधौ न सुखमवाप्स्थन्तिऽ इति महर्षेराज्ञामधिगम्य ते पितुर्वानप्रस्थाश्रमाधिगमप्रतिषेधाग्रहमत्यजन् ।
राजवाहनं पुष्पपुरे ऽवस्थाप्य तदनुज्ञया सर्वे ऽपि परिजनाः स्वानि स्वानि राज्यानि प्रतिपाल्य स्वेच्छया पित्रो समीप गतागतमकुर्वन् ।
एवमवस्थितास्ते राजवाहनप्रमुखाः सर्वे ऽपि कुमारा राजवाहनाज्ञया सर्वमपि वसुधावलयं न्यायेन परिपालयन्तः परस्परमैकमत्येन वर्तमानाः पुरन्दरप्रभृतिभिरप्यतिदुर्लभानि राज्यसुखान्यन्वभूवन् ।। दकुच_२,८ ।।


इति श्रीदण्डिनः कृतौ दशकुमारचरिते कथोपसंहारः


इति श्रीमहामहोपाध्यायकविकुलसार्वभौमनिखिलविद्याकुमुदिनीशर्वरीश्वरसरस्वतीनिःश्वसितकषिदण्डिपण्डितविरचितं दशकुमारचरितं संपूर्णम्