दहराधिकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

दहर उत्तरेभ्य:।१.३.१४
पूर्वपक्ष:-अथ यदिदमस्मिन् ब्रह्मपुरे छा.१.३.१४ इत्यत्र दहरशब्द: भूताकाशे वर्तते।तत्रैव रूढत्वात्।
वेदान्ती.-न।‘स ब्रूयात् छा. ८.१.३ इति बाह्याकाशस्य उपमा दहरस्य कृते प्रयुक्ता , सा नोपपद्यते यदि दहरशब्देन भूताकाशस्य ग्रहणं क्रियते।
पू. – ननु एकस्यापि आकाशस्य बाह्याभ्यन्तरत्वकल्पितेन भेदेन उपमानोपमेयभाव: शक्य:।
वे.- १ न।अगतिका गतिरियं यत् काल्पनिकभेदाश्रयणम्।
२ यथाकथञ्चित् कल्पितं चेदपि आभ्यन्तराकाशस्य परिमितस्य बाह्याकाशपरिमाणं नोपपद्यते।
३ कल्पितेऽपि भेदे पुण्डरीकवेष्टिते आकाशैकदेशे ‘हृदय आकाशे उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते (छा.८.१.३)इति वचनं न सङ्गच्छते।
४ एष आत्मा अपहतपाप्मा विजरो ... इत्यत्र निर्दिष्टा धर्मा भूताकाशे न सम्भवति।अत: दहरशब्दोऽत्र न भूताकाशबोधक:।
पू.- तर्हि जीवो दहर:।
वे.- भूताकाशस्य दहरत्वनिरासाय ये हेतव: उक्ता: तैरेव जीवस्य दहरत्वं निवर्त्यते।
पू.- जीवो दहर:।
१ जीवस्य ब्रह्मशब्देन निर्देशो भक्तिवशात्।जीवोऽयं मनउपाधिक:।मनश्च प्रायेण हृदये प्रतिष्ठितम्। अत: हृदयमिति जीवस्यैव स्थानमुच्यते।
२ जीव आराग्रोपमित: अत: तस्य दहरत्वमुपपन्नम्।
वे.- यद्यपि आत्मशब्दो जीवे सम्भवति तथापि इतरेभ्य: कारणेभ्य: जीवाशङ्का निवर्त्यते।
पू.- जीवो दहर:, जीवस्य आकाशोपमितत्वादि ब्रह्माभेदविवक्षया।
वे.- यदि ब्रह्मणा सह जीवस्य अभेद: अस्तीति जीवो बाह्याकाशेनोपमीयते, तर्हि ब्रह्म एवात्र बाह्याकाशेनोपमितं मन्तव्यम्, लाघवात्।
पू.- तर्हि जीवो दहर:, ब्रह्मपुरशब्दात्।
१ जीवस्य पुरं ब्रह्मपुरं, शरीरमिति यावत्।जीवेन स्वस्य धर्माधर्माभ्यामिदं शरीरमर्जितमत: ब्रह्मपुरं नाम जीवस्य पुरम्।
वे.- ब्रह्मपुरं नाम जीवस्य पुरमिति यदुक्तं तदपि न युक्तम्।ब्रह्मशब्दस्य ब्रह्मणि एव मुख्यवृत्ते:।
पू.- ब्रह्मणः पुरमित्यत्र स्वस्वामिभावसम्बन्धोऽस्ति।परब्रह्मणः शरीरेण सह तादृश: सम्बन्ध: नास्ति। कथं तर्हि ब्रह्मपुरं नाम परब्रह्मण: पुरमिति अर्थ: उपपद्येत?
वे.- ब्रह्मण: पुरेण (शरीरेण) सह सम्बन्धो विद्यते, उपलब्ध्यधिष्ठानत्वात्।..... (प्र.५.५)...... (बृ. २.५.१८) इत्यादय: श्रुतयोऽत्र प्रमाणम्।
दहरविज्ञानस्य अनन्तफलत्वं सूचितम् – ‘अथ य इह आत्मानमनुविद्य .... कामचारो भवति।’ अनेनापि दहरस्य परमात्मत्वं सूच्यते।
पू.- अत्र दहर: अन्वेष्टव्यत्वेन विजिज्ञासितव्यत्वेन वा नोक्त: अत: दहरो ब्रह्म भवितुं नार्हति।
वे.- अत्र दहर: अन्वेष्टव्यत्वेन विजिज्ञासितव्यत्वेन वा यदि नोक्त: स्यात्, तर्हि ‘यावान्वा ... तावानेषोऽन्तर्हृदय:’ इति तस्य स्वरूपप्रदर्शनं नोक्तं स्यात्।
पू.- नैतत् स्वरूपप्रदर्शनाय। एतत्तु अन्तर्वर्तिवस्तुसद्भावप्रदर्शनायोक्तम्। यतो हि ‘ किं तदत्र (दहराकाशे ) विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम्’ इति प्रश्नं पुरस्कृत्य तत्परिहारे एतदुक्तम्।
वे.- एवं हि सति यदन्त: समाविष्टं; तदन्वेष्टव्यं विजिज्ञासितव्यं च स्यात्।तथा सति वाक्यशेषस्योपपत्तिर्न भवति। वाक्यशेषश्चायम्-
‘अस्मिन्कामा: समाहिता:’
‘एष आत्मानुपहतपाप्मा’
‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्’ इति।
अत्र कामाधारमात्मानं तथा तदाश्रितान् कामान् विज्ञेयत्वेन दर्शयति।अत: उपक्रमवाक्ये दहर आकाश एव अन्त:स्थै: द्यावापृथिव्यादिभि: सह सत्यै: कामै: सह विज्ञेय: इत्युक्तं भवति।

गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च। १.३.१५
वे.- ‘इमा: सर्वा: प्रजा: अहरहर्गच्छन्त्य: एतं ब्रह्मलोकं न विन्दन्ति’ (छा. ८.३.२)।प्रकृतं दहरम्।तदत्र ब्रह्मलोकशब्देनोक्तम्।प्रजानां (जीवानां) तद्विषया गतिरुक्ता।एताभ्यां गतिशब्दाभ्यां दहरस्य ब्रह्मता गम्यते।
जीवा: अहरह: ब्रह्म गच्छन्ति सुषुप्तौ।सता सोम्य तदा सम्पन्नो भवति’ (छा.६.८.१) इति श्रुते:।गाढ: सुप्त: ब्रहमीभूत: इति लोकव्यवहाराच्च।अत: दहरे ब्रह्मलोकशब्द: प्रयुक्त: दहरस्य जीवाशङ्कां भूताकाशशङ्कां निवारयति।

धृतेश्च महिम्नोऽस्यास्मिन् उपलब्धे:।१.३.१६
अस्य परमेश्वरस्य धृतिरूपमहिमा अस्मिन् दहरे उपलभ्यते अत: हेतो: परमेश्वर एवायं दहर:।‘अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय’(छा. ८.४.१) अत्र आत्मसमानाधिकरण: विधृतिशब्द:।अन्यत्र निश्चिते परमेश्वरपरवाक्ये परमेश्वरस्य विधरणत्वं श्रूयते –
‘एष सर्वेश्वर एष भूताधिपति:, एष सेतु:, विधरणमेषां लोकानामसम्भेदाय।’

प्रसिद्धेश्च।१.३.१७
वे.- आकाशशब्द: परमेश्वरे प्रसिद्ध:।अत: ‘दहरोऽस्मिन् अन्तराकाश:’ इत्यत्र आकाशशब्देन परमेश्वर उच्यते, यथा -
१ आकाशो वै नाम नामरूपयोर्निर्वहिता (छा.८.१४)
२ सर्वाणि ह वेमानि भूतानि आकाशादेव समुत्पद्यन्ते।(छा.१.९.१)
जीवे एवमाकाशशब्दस्य प्रयोग: न क्वापि दृश्यते।
पू.- ननु आकाशशब्द: भूताकाशे प्रसिद्ध:।
वे.-सत्यम्।तथापि अत्र श्रुत: उपमानोपमेयभाव: भूताकाशार्थेन न उपपद्यते अत: स न स्वीक्रियते।

इतरपरामर्शात् स इति चेत् न, असम्भवात्।१.३.१८
पू. वाक्यशेषबलेन ‘दहर: परमात्मा’ इति गृह्यते चेत्, जीवस्यापि (इतरस्य) परामर्श: वाक्यशेषे अस्ति – ‘अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यते, एष आत्मेति होवाच।(छा. ८.६.४)
सम्प्रसादशब्द: श्रुत्यन्तरे सुषुप्तावस्थाबोधक:।अतोऽत्र तदवस्थावान् जीवो बुद्ध्यते, नेश्वर:।शरीरात्समुत्थानं जीवस्यैव सम्भवति, नेश्वरस्य।
वे.-परम् आकाशशब्द: जीवे नोपपद्यते।
पू.- आकाशशब्द: तथा परमेश्वरेऽपि न दृश्यते लोके।तथापि परमेश्वरधर्मसमभिव्याहारात् परमेश्वरविषयोऽभ्युपगत:।तथैव जीवेऽप्यभ्युपगन्तव्य:।
वे.- न, असम्भवात्।बुद्ध्याद्युपाधिपरिच्छेदाभिमानिन: जीवस्य आकाशेनोपमा न सम्भवति। उपाधिधर्माभिमानिन: अपहतपाप्मत्वादयो धर्मा अपि न सम्भवन्ति।

उत्तराच्चेद्, आविर्भूतस्वरूपस्तु।१.३.१९
पू.- अस्ति सम्भवो जीवे पारमेश्वराणां धर्माणां यतो हि-
१ य एष अक्षिणि पुरुषो दृश्यते एष आत्मा(छा.८.७.४)इति जीव: निर्दिष्ट:।अग्रे
२ एतं त्वेव ते भूयोऽनुव्याख्यास्यामि(छा. ८.९.३) इति परामृष्ट: पुन:पुन:।
३ तस्यैव अपहतपाप्मत्वादि दर्शयति- ‘एतदमृतमभयमेतद्ब्रह्म’ इति।
वे.- आविर्भूतस्वरूपस्तु जीवो विवक्ष्यते तत्र।आविर्भूतं स्वरूपं यस्य स आविर्भूतस्वरूप:।भूतपूर्वगत्या जीवत्वेन निर्देश:।अत: अक्षिपुरुषत्वेन द्रष्टा निर्दिष्ट:।तं शरीरात्मताया: व्युत्थाप्य ‘परं ज्योतिरुपसम्पद्य’ इति यदस्य पारमार्थिकं स्वरूपं परं ब्रह्म तद्रूपतयैव जीवं व्याचष्टे, न जैवेन रूपेण। विवेकविज्ञानाभावाद् अनाविर्भूतस्वरूप: सन् विज्ञानादाविर्भूतस्वरूप उच्यते।

अन्यार्थश्च परामर्श:।१.३.२०
पू.-ननु ब्रह्म चेदत्र वक्तव्यं, कृतं जीवपरामर्शेन।
वे.- अन्यार्थश्च जीवस्य परामर्श: ‘अथ य एष सम्प्रसाद: इति वाक्यशेषे कृत:।जीवस्य उपाधिकल्पितस्य ब्रह्मभाव उपदेष्टव्य:।न चासौ जीवमपरामृश्य शक्य: उपदेष्टुम्।अत: तिसृष्ववस्थासु जीव: परामृष्ट:।तद्भावप्रविलयनं तस्य पारमार्थिकं ब्रह्मभावं दर्शयितुम्।

अल्पश्रुतेरिति चेत्तदुक्तम्। १.३.२१
पू. दहरोऽस्मिन् अन्तराकाश: इति आकाशस्य अल्पत्वं श्रूयते।अत: स: परमेश्वरस्य निर्देशो न स्यात्। जीवस्य तु आराग्रोपमितस्य अल्पत्वं कल्प्यते।
वे.- तद् उत्तरम् उक्तम्।परमेश्वरस्य आपेक्षिकमल्पत्वमवकल्पते।१.२.७इत्यत्र तदुक्तम् एतदल्पत्वं श्रुत्या एव निराकृतम्- ‘यावान्वा आकाशस्तावानेषोऽन्तर्हृदय आकाश:’ इति।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   प्रथमाध्याये तृतीय: पाद:
"https://sa.wikibooks.org/w/index.php?title=दहराधिकरणम्&oldid=5533" इत्यस्माद् प्रतिप्राप्तम्