दीक्षा दानं...

विकिपुस्तकानि तः

मूलम्
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः।
महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम्।। ३६।।

पदच्छेदः-
दीक्षा, दानं, तपः, तीर्थं, ज्ञानं, यागादिकाः क्रियाः,महिम्नस्तव-पाठस्य कलां न अर्हन्ति षोडशीम् ।।

अन्वयः-
दीक्षा, दानं, तपः, तीर्थं, ज्ञानं, यागादिकाः क्रियाः, महिम्नस्तव-पाठस्य षोडशीं कलाम् (अपि) न अर्हन्ति ।। ३६।।

सरलार्थः -
दीक्षा, दानं, तपः, तीर्थं, ज्ञानं, यागादिकाः क्रियाः, महिम्नस्तव-पाठस्य षोडशेन अंशेन अपि तुल्याः न सन्ति।। ३६।।


शिवस्तोत्राणि     शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=दीक्षा_दानं...&oldid=6188" इत्यस्माद् प्रतिप्राप्तम्