देवताधिकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

तदुपर्यपि बादरायण: सम्भवात्।१.३.२६
वे.- शास्त्रं मनुष्यानधिकरोति, तथा तदुपरि वर्तमानान् ऋषीन् देवांश्चापि अधिकरोति ।तेषामपि अर्थित्वादिकम् अधिकारनिमित्तं सम्भवति अत:।
पू.- न देवानां देवतान्तराभावात्।जै.६.१.६
वे.- तद् विद्यासु नास्ति, यतो हि अत्र इन्द्रादीनाम् इन्द्राद्युद्देशेन किमपि कृत्यं नास्ति।
पू.- ऋषीणामार्षेयान्तराभावात्।(जै.६.१.७)शास्त्रेऽधिकारो न।
वे.- तद् विद्यासु नास्ति।भृग्वादीनां भृग्वादिसगोत्रतयात्र किमपि कृत्यं नास्ति।अत: देवानामृषीणामपि विद्यते विद्यासु अधिकार:।तेषां स्वाङ्गुष्ठापेक्षया अङ्गुष्ठमात्रश्रुतिर्योजनीया।

मध्वादिष्वसम्भवादनधिकारं जैमिनि:।1.३.३१
पू.- ब्रह्मविद्यायां देवानामनधिकार इति मन्यते जैमिनि: यतो हि मध्वादिविद्यासु देवानामधिकारस्य असम्भव:।
यदि ब्रह्मविद्यायां देवानामधिकारोऽङ्गीकृत: तर्हि मध्वादिविद्यासु अपि तेषामधिकारोऽङ्गीकर्तव्य:,विद्यात्वसामान्यात्।मधुविद्यायाम् ‘असौ वादित्यो देवमधु-(छा.३.१.१)इति मनुष्या: आदित्यं मध्वाध्यासेनोपासन्ते।यदि देवानामप्यत्र अधिकार: स्वीक्रियते तर्हि आदित्य: कं वोपासीत?
आदित्यो ब्रह्मेत्यादेश:।(छा.३.११.१)इत्यादिषु देवतात्मोपासनेषु न तासामेव देवतानामधिकार: सम्भवति।
‘इमावेव गोतमभरद्वाजावयमेव गोतमोऽयं भरद्वाज:’।(बृ.२.२.४) इति ऋषिसम्बन्धिषु उपासनेषु तेषां तेषामृषीणामधिकारो न सम्भवति।


ज्योतिषि भावाच्च। १.३.३२ पू.- आदित्य:, सूर्य:, चन्द्र:, इत्यादीनां शब्दानां ज्योति:पिण्डेषु प्रयोगस्य भावात्(सत्वात्) तत्तत्संज्ञक: कश्चिद्देवो विद्यते इति न। एतेषां देवानां चेतनत्वाभावात् न अर्थित्वम्।अर्थित्वाभावान्न ब्रह्मविद्यायामधिकार:।
वे.- देवादीनां विग्रहवत्त्वे मन्त्र-अर्थवाद-इतिहास-पुराण-लोकरूपाणि प्रमाणानि सन्ति।
पू.-न।
१ प्रत्यक्षादिप्रमाणातिरिक्तं लोको नाम किमपि स्वतन्त्रं प्रमाणं नास्ति।
२ इतिहासपुराणमपि पौरुषेयत्वात्प्रमाणान्तरमपेक्षते।अतो न तत्प्रमाणम्।
३ अर्थवादानां स्वार्थे तात्पर्यं नास्ति।विधिनैकवाक्यत्वात् स्तुत्यर्था: अर्थवादा:।अत: देवानां विग्रहसद्भावे ते प्रमाणं भवितुं नार्हन्ति।
४ मन्त्रा: प्रयोगसमकालीनार्थस्मारका:।अतो तेऽपि कस्यचिदर्थस्य प्रमाणं भवन्ति।
अत: देवानां ब्रह्मविद्यायामधिकारस्याभाव:।

भावं तु बादरायणोऽस्ति हि।१.३.३३
वे.-तु-शब्द: पूर्वपक्षव्यावर्तनाय।बादरायण: देवादीनामपि ब्रह्मविद्याधिकारस्य भावं मन्यते।
मध्वादिविद्यासु तेषां तेषां देवानामधिकारो नास्तीति सत्यं, तथापि यत्र तेषामधिकार: सम्भवति तत्र तु न वार्यते।न च क्वचिदसम्भव इति एतावता सम्भवनीयस्थलेऽपि अधिकारनिषेध उचित:।
श्रुतावपि देवानां ब्रह्मविद्याधिकारो निर्दिष्ट:- ‘तद् यो यो देवानां प्रत्यबुध्यत, स एव तदभवत्, तथर्षीणां तथा मनुष्याणाम्’। (बृ. १.४.१०) गन्धर्वयाज्ञवल्क्यसंवादादि अपि स्मर्यते।
ज्योतिरादिविषया: शब्दा: देवतावचना अपि सन्ति।ते चेतनावन्तमैश्वर्याद्युपेतं तं तं देवं समर्पयन्ति।मन्त्रार्थवादादिषु तथा व्यवहारात्। देवादीनां च सामर्थ्यमस्ति ज्योतिराद्यात्मभि: स्थातुं, नाना विग्रहान्ग्रहीतुं च।
अत्रेयं श्रुति: प्रमाणम्-‘मेधातिथिं ह काण्वायनमिन्द्रो मेषो भूत्वा जहार’।(षड्विंशब्राह्मण. १.१)
अत्रेयं स्मृतिरपि विद्यते- ‘आदित्य: पुरुषो भूत्वा कुन्तीमुपजगाम ह॥इति
मन्त्रार्थवादयोरन्यार्थत्वेऽपि देवताविग्रहप्रकाशनसामर्थ्यमस्ति।प्रत्ययाप्रत्ययौ हि सद्भावासद्भावयो: कारणम्, न अन्यार्थत्वमनन्यार्थत्वं ।अन्यार्थं प्रस्थितो यात्रिक: मार्गे पतितं तृणादिकमस्तीति प्रतिपद्यते एव।
अपि च देवतानां विग्रहवत्त्वे इदं प्रमाणम्-
न हि स्वरूपरहिता इन्द्रादिदेवता: चेतसि आरूढा: भवन्ति।चेतसि देवता नारूढा चेत् , हविरर्पणं न शक्यम् यतो हि श्रुतिरेवमस्ति- ‘यस्यै देवतायै हविर्गृहीतं स्यात्. तां ध्यायेद्वषट्करिष्यन्’।(ऐ.ब्रा. ३.८.१)
इदमपरं प्रमाणं प्रत्यक्षम्।व्यासादयो देवादिभि: प्रत्यक्षं व्यवहरन्तीति स्मर्यते।
स्वाध्यायादिष्टदेवतासम्प्रयोग:।-(यो.सू. २.४४) इति योगोऽपि देवानां विग्रहवत्त्वे प्रमाणम्। एवं देवतानां विग्रहवत्त्वे सिद्धे अर्थित्वादिसम्भवादुपपन्न: तेषां ब्रह्मविद्यास्वधिकार:।
पू.- विषमोऽयं दृष्टान्त:।अन्यार्थं प्रस्थितो यात्रिक: पथि पतितं तृणादिकं प्रत्यक्षप्रमाणेन प्रतिपद्यते। न तथार्थवादं शृण्वन् जन:।स्तुत्यर्थं प्रवृत्ताद्, विधिवाक्येन सह एकवाक्यतामापन्नाद् अर्थवादवाक्यात् पृथक्तया वृत्तान्तप्रकाशनं न शक्यम्।महावाक्येऽर्थप्रत्यायकत्वे सति अवान्तरवाक्यस्य पृथग् अर्थप्रत्यायकत्वं नास्ति।न सुरां पिबेत् इत्यत्र पदत्रयान्वयात् निषेध:।तत: एव नञ्विरहितात् पदद्वयात् पुन: विधिरिति न क्वापि अवगम्यते।
वे.- विषम उपन्यास:।सुरापानविषये पदत्रयस्य एव एकत्रान्वय: कार्य इति मान्यम्।परं विध्युद्देशवाक्यं तथा अर्थवादवाक्यमिति एतयो: तादृशो बोधो नास्ति।तत्रादौ अर्थवादवाक्यस्य पृथगन्वयो भवति, तत: वृत्तान्तविषये प्रतिपत्ति: भवति,अनन्तरं कैमर्थ्यवशात् ‘विधेयस्तुत्यर्थम्’ इति प्रतिपद्यते।
यस्मिन् अर्थवादे प्रमाणान्तरविरोधोऽपि नास्ति, प्रमाणान्तरगोचरत्वमपि नास्ति ,तत्र विद्यमानवाद एवाश्रयणीय:।


ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   प्रथमाध्याये तृतीय: पाद:
"https://sa.wikibooks.org/w/index.php?title=देवताधिकरणम्&oldid=5521" इत्यस्माद् प्रतिप्राप्तम्