द्युभ्वाद्यधिकरणम्
दिखावट
द्युभ्वाद्यायतनं स्वशब्दात्।१.३.१
पूर्वपक्ष:- द्युभ्वाद्यायतनमत्र प्रधानं ग्रहीतव्यम्,तस्य कारणत्वादायतनप्रसिद्धे:।
वेदान्ती- नात्र प्रधानं ग्रहीतव्यम्, स्वशब्दात्।स्वशब्द: इत्युक्ते आत्मशब्द:।‘तमेवैकं जानथ आत्मानम्’ इति आत्मशब्देन उल्लेखात्।
पू.-मुण्ड.२.२.५ इत्यत्र द्युप्रभृतीनामायतनं श्रूयते, तद् न ब्रह्म।अमृतस्यैष सेतु: (मु.२.२.५) इति श्रवणात्।सेतु: पारवान् भवति, ब्रह्म तु अपारम् (बृ.२.४.१२)।
पू.- षिञ् बन्धनकर्मणि इत्यस्माद् धातो: सेतुशब्दो व्युत्पन्न:।तस्माद् विधरणमात्रमत्र सेतुश्रुत्या विवक्षितं न पारवत्त्वादि।न हि मृद्दारुमय: सेतुर्लोके दृष्ट: इति अत्रापि मृद्दारुमय: सेतु: अभ्युपगम्यते।
ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् प्रथमाध्याये तृतीय: पाद: