द्वितीयमिथ्यात्वम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

द्वितीयमिथ्यात्वम् आक्षेपपुरस्सरं स्पष्टीकुरुत।
सन्दर्भ:-
विमतं मिथ्या दृश्यत्वात् शुक्तिरजतवत् इत्यनुमानं ग्रन्थकारेण उक्तम्।तत्र साध्यं मिथ्यात्वम्। तस्य पञ्चधा विवरणम् अग्रे ग्रन्थकारेण कृतम्। तत्र द्वितीयमिथ्यात्वस्य लक्षणमेवम्-
प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं मिथ्यात्वम्।
अस्मिन् लक्षणे पूर्वपक्षेण कृता: आक्षेपा: इत्थम्-
१ निषेधोऽयं तात्त्विक: वा? यदि तात्त्विक:, तर्हि अद्वैतहानि:।यतो हि ब्रह्म तात्त्विकं सत्यं तथा अयं निषेधोऽपि तात्त्विक: सत्य:।
२ निषेधोऽयं प्रातिभासिक: वा? यदि प्रातिभासिक:, तर्हि सिद्धसाधनम्।यतो हि निषेधस्य प्रातिभासिकत्वे प्रपञ्चस्य पारमार्थिकत्वं सिद्ध्यति।तच्चास्माकम् इष्टमेव।
३ निषधेऽयं व्यावहारिक: वा? यदि व्यावहारिक: तर्हि ब्रह्मज्ञानेन स: बाध्यते। निषेध: बाधित: चेत् प्रतियोगिन: प्रपञ्चस्य पारमार्थिकता अक्षुण्णा।
४ प्रपञ्चस्य तात्त्विकसत्त्वेन सह व्यावहारिकनिषेध: अविरुद्ध: तात्त्विकसत्त्वाविरुद्धं मिथ्यात्वं साध्यते इति अर्थान्तराख्यो दोष: ।
५ निषेध: बाधित: चेत् तादृशस्य बाधितार्थस्य प्रतिपादिका (‘नेह नानास्ति किञ्चन’) श्रुति: अप्रमाणा भविष्यति।
समाधानम् –
अस्मन्मते प्रपञ्चनिषेध: अधिकरणभूतब्रह्माभिन्न:।अत: निषेध: पारमार्थिक: अस्ति चेदपि न अद्वैतहानि:।
आक्षेप:-
यदि निषेधस्तात्त्विकस्तर्हि तत्प्रतियोगी प्रपञ्चोऽतात्त्विक: न स्यात्। निषेधप्रतियोगिनो: सत्ता समाना भवतीति नियम:।तस्मात्प्रपञ्चोऽपि तात्त्विक: स्यात्।
समाधानम्-
नायं नियम: ।शुक्तिरजतादौ व्यभिचारदर्शनात्।रजतं प्रातिभासिकं परं तस्य निषेध: पारमार्थिक:।
अथवा
अतात्त्विकोऽयं निषेध:, न तथापि प्रातिभासिक:।व्यावहारिक: अयम्।
आक्षेप:-
व्यावहारिक: चेत् ब्रह्मज्ञानेन बाध्यते।यदि निषेध: बाध्यते, तर्हि स: प्रपञ्चस्य तात्त्विकसत्त्वस्य अविरुद्ध:।तेन अर्थान्तरदोष: भवति।
समाधानम्- स्वाप्नगो: स्वाप्नदण्डेन बाध: भवति इति दृश्यते।अत: बाधितोऽपि निषेध: प्रतियोगिनं बाधते एव।प्रतियोगिसमसत्ताकत्वं तत्र न तन्त्रम् प्रयोजकम्)। प्रतियोगिसमसत्ताया: अपेक्षया न्यूनसत्ताक: निषेध: प्रतियोगिनं न बाधते।
आक्षेप:-
निषेधस्य निषेधे प्रतियोगिसत्त्वापत्ति: यथा

इदं रजतम्(प्रतियोगि)  ×  न इदं रजतम् (निषेध:) 
= अयं रजताभाव: (निषेध:)
× नायं रजताभाव: (निषेधस्य निषेध:)
= इदं रजतम्।(प्रतियोगि)

समाधानम् -
यत्र निषेधस्य निषेधबुद्ध्या प्रतियोगित्वं व्यवस्थाप्यते, तत्रैव निषेधस्य निषेधेन प्रतियोगिसत्त्वम् आपद्यते।
यत्र तु प्रतियोगिनिषेधे निषेधनिषेधे च निषेध्यतावच्छेदकं समानं तत्र निषेधनिषेधेन प्रतियोगिनिषेधोऽपि भवति।

आक्षेप:-
अनधिगताबाधितार्थबोधकत्वं प्रमाणलक्षणं वेदान्ते।नेह नानास्ति किञ्चन इति श्रुति: प्रपञ्चनिषेधं बोधयति।स च निषेध: स्वयं बाधित:, व्यावहारिकत्वात्। अत: श्रुते: अप्रामाण्यापत्ति:।
समाधानम्-
ब्रह्मभिन्नं प्रपञ्चनिषेधादिकम् अतात्त्विकम् इति बोधयन्त्या: श्रुते: प्रामाण्यम् अस्त्येव।
आक्षेप:-
प्रतिपन्नोपाधौ योऽयं त्रैकालिक: निषेध: क्रियते, स: स्वरूपेण अथवा पारमार्थिकत्वेन?
१ यदि स्वरूपेण निषेध: तर्हि तत्त्वज्ञानात् पूर्वं प्रपञ्च: भासते। शुक्तिज्ञानात् पूर्वं रजतं भासते।अत: त्रैकालिकप्रतियोगित्वं तत्र नास्ति।
२ यदि निषेध: पारमार्थिक: तर्हि मिथ्यात्वज्ञानाय पारमार्थिकत्वस्य ज्ञानम् आवश्यकम्।पारमार्थिकस्य (अबाध्यत्वस्य)ज्ञानाय मिथ्यात्वस्य (बाध्यत्वस्य) ज्ञानम् आवश्यकम् इति अन्योन्याश्रय: दोष:।
समाधानम्-
१ स्वरूपेणैव निषेधो विवक्षित:।तथा सति रजतनिषेधकालेऽपि निषेध: सम्भवति। रजतं नासीत्, नास्ति, न भविष्यति इति प्रतीते:।
२ निषेधस्य पारमार्थिकत्वम् अस्माभि: नाङ्गीक्रियते।विवरणकारेण तदङ्गीकृतम् इति यद्यपि भासते, तथापि तस्यापि वचने पारमार्थिक-लौकिकरजत-तादात्म्येन रजतस्य विवक्षा अस्ति।
आक्षेप:-
यदि प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं मिथ्यात्वस्य लक्षणं तर्हि, अत्यन्तासत्त्वापत्ति:।यतो हि एते शुक्तिरजतादय: पदार्था: यदि प्रतिपन्नोपाधौ न सन्ति, तर्हि अन्यत्रापि न सन्ति। असत्पदार्था: वन्ध्यापुत्रादय: एवमेव सन्ति।
समाधानम्-
क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हत्वम् असत्पदार्थानां विलक्षणो धर्म:।अयं शुक्तिरजते नास्ति।बाधात्पूर्वं शुक्तिरजतं सत्त्वेन प्रतीयते।
आक्षेप:-
यावत्सदधिकरणकात्यन्ताभावप्रतियोगित्वं मिथ्यात्वम् इति पर्यवसितम्। तथा सति गगनादिकं प्रति मिथ्यात्वलक्षणं गच्छति।तार्किकमते यावत्सत्वाधिकरणकात्यन्ताभावप्रतियोगित्वं गगनादिषु अस्ति।एवं सिद्धसाधनदोष:। समाधानम्-
यावत्सत्वाधिकरणकात्यन्ताभावप्रतियोगित्वं गगने न सिद्ध्यति अत: सिद्धसाधनदोषो नास्ति।
आक्षेप:-
घटो यत्र संयोगसम्बन्धेन वर्तते, तत्र घटस्य समवायसम्बन्धेन अत्यन्ताभाव:। यथा भूतले।
घटो यत्र समवायसम्बन्धेन वर्तते, तत्र घटस्य संयोगसम्बन्धेन अत्यन्ताभाव: यथा कपाले ।
अत: घटादिषु सिद्धसाधनदोष:।
समाधानम्-
प्रतिपन्नोपाधौ इत्यत्र प्रतिपन्नपदेन सम्बन्धग्रहणं कार्यम्।तेन ‘येन रूपेण यदधिकरणतया यत् प्रतिपन्नं, तेन रूपेण, तन्निष्ठात्यन्ताभावस्य प्रतियोगित्वं’ प्रतिपन्नपदेन सूचितम्।अत: न सिद्धसाधनदोष:।
संयोगसम्बन्धेन भूतलनिष्ठतया प्रतिपन्ने घटे संयोगसम्बन्धेन भूतलनिष्ठात्यन्ताभावस्य(त्रैकालिकनिषेधस्य) प्रतियोगित्वम् अस्तीति घटे मिथ्यात्वलक्षणस्य समन्वय:।
आक्षेप:-
कपिसंयोग: वृक्षे समवायेन वर्तते।कपिसंयोगस्य अभाव: वृक्षे मूलावच्छेदेन वर्तते। अत: संयोगसम्बन्धेन वृक्षनिष्ठतया प्रतिपन्ने कपौ संयोगसम्बन्धेन वृक्षनिष्ठात्यन्ताभावस्य(त्रैकालिकनिषेधस्य) प्रतियोगित्वम् अस्ति इति कपौ मिथ्यात्वलक्षणस्य समन्वय: भवति।तेन सिद्धसाधनं दोष:।
समाधानम्-
येन सम्बन्धविशेषेण येन च अवच्छेदकविशेषेण यदधिकरणतया प्रतीति: यत्र भवितुमर्हति, तेनैव सम्बन्धविशेषेण तेनैव च अवच्छेदकविशेषेण तदधिकरणकात्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वम्। एतेन सिद्धसाधनदोषो निरस्त:।
आक्षेप: -
प्रपञ्चाधारे यदि प्रपञ्चस्य त्रैकालिकनिषेध: सिदध्यति, तर्हि प्रपञ्चसद्भावाभावयो: परस्परविरोधो न स्यात्।तथा सति प्रपञ्चज्ञान-प्रपञ्चाभाज्ञानयो: अपि बाध्यबाधकभाव: न स्यात्।तर्हि नेह नानास्ति किञ्चन इत्यस्मात् शब्दात् जातं प्रपञ्चाभावज्ञानं प्रपञ्चज्ञानस्य बाधकं कथं भवेत्?
समाधानम्-
समानसत्ताकयो: भावाभावयो: विरोधनियम: अस्ति एव।भूतले विद्यमान: प्रातिभासिक: (प्रातीतिक:) घट: भूतलनिष्ठस्य व्यावहारिकघटाभावस्य बाधक: न भवति इति मान्यम्।
शुक्तिरियं, न रजतम् इति बाधज्ञानस्य विषय: रजतम्।स च व्यावहारिकविषय:।तेन शुक्तिरजतस्य व्यावहारिकत्वं बाधितं भवति एव।
आक्षेप: -
तथापि प्रातीतिकं रजतमवशिष्टमेव।
समाधानम्-
तस्य बाध: शुक्तिसाक्षात्कारेण एव भवति। शुक्तिरियम् इति वाक्यात् जातं ज्ञानं परोक्षम्।तेन रजतस्य व्यावहारिकत्वं बाध्यते।
परोक्षज्ञानेन रजतोपादानभूतमज्ञानं न नश्यति।रजतस्य व्यावहारिकत्वं तावद् विनश्यति।प्रातीतिकत्वम् अवशिष्यते।
शुक्तिसाक्षात्कारेण रजतोपादानभूतम् अज्ञानं निवर्तते।तत: रजतस्य प्रातीतिकत्वमपि नश्यति।
एवं ब्रह्मण: परोक्षज्ञानेन प्रपञ्चस्य व्यावहारिकता बाध्यते।तथापि अपरोक्षज्ञानं यावत् प्रतीति: भवति।अपरोक्षज्ञानेन सापि बाध्यते।
वर्ग: अद्वैतसिद्धिप्रश्नोत्तरसङ्ग्रह:
रजतनिषेध:(नेदं रजतम्।)निषेध्यतावच्छेदकं रजतत्वम् प्रपञ्चनिषेध: (न प्रपञ्चोऽस्ति)निषेध्यतावच्छेदकं दृश्यत्वम्
रजताभावस्य निषेध:(नायं रजताभाव:निषेध्यतावच्छेदकं रजतत्वाभाव: प्रपञ्चाभावस्य निषेध:(नास्ति प्रपञ्चाभाव:)निषेध्यतावच्छेदकं दृश्यत्वम्
"https://sa.wikibooks.org/w/index.php?title=द्वितीयमिथ्यात्वम्&oldid=5192" इत्यस्माद् प्रतिप्राप्तम्