द...
दुष्टहेतुः = ।
असद्धेतुः।हेत्वाभासः।
यथा ‘पर्वतो वह्निमान् पार्थिवत्वात्’ इत्यनुमाने पार्थिवत्वमिति दुष्टहेतुः असद्धेतुः, हेत्वाभासः वा।
यथा ‘देवदत्तः तीक्ष्णाग्निः बहुभोजनत्वात् इति अनुमाने बहुभोजनत्वम् इति दुष्टहेतुः,असद्धेतुः, हेत्वाभासः वा।
देशिकविशेषणतासम्बन्धः =
देशिकसम्बन्धः।
यथा घटः देशिक-विशेषणतासम्बन्धेन, देशिक-सम्बन्धेन वा देशे वर्तते ।
यथा देहः देशिकविशेषणतासम्बन्धेन, देशिक-सम्बन्धेन वा देशे वर्तते
देशिकसम्बन्धः =
देशिकविशेषणतासम्बन्धः।
यथा घटः देशिकसम्बन्धेन देशिकविशेषणतासम्बन्धेन,वा देशे वर्तते ।
यथा देहः देशिकसम्बन्धेन देशिकविशेषणतासम्बन्धेन, वा देशे वर्तते
अभावीयदैशिकविशेषणतासम्बन्धः=
अभावीयदैशिकस्वरूपसम्बन्धः।
यथा भूतले घटाभावः इत्यत्र भूतलाभावयोः सम्बन्धः अभावीयदैशिकविशेषणता-सम्बन्धः, अभावीयदैशिकस्वरूपसम्बन्धः वा।
यथा पुरुषे स्तन्याभावः इत्यत्र पुरुषाभावयोः सम्बन्धः अभावीयदैशिकविशेषणता-सम्बन्धः, अभावीयदैशिकस्वरूपसम्बन्धः वा।
द्रव्यम् =
कर्मवान्। क्रियावान्। गुणवान्। गुणी।
यथा घटः द्रव्यं क्रियावान् कर्मवान् गुणवान् गुणी वा।
यथा कफः कर्मवान् क्रियावान् गुणवान् गुणी द्रव्यं वा।
द्वारम् =
व्यापारः।
यथा देवदत्तः परशुसमवेतेन उद्यमननिपतनरूपेण द्वारेण व्यापारेण वा काष्ठं छिनत्ति।
यथा हेतुः सम्प्राप्तिरूपेण द्वारेण व्यापारेण वा रोगं करोति।
द्विष्टम् =
द्वेषविषयः।
जीवस्य दुःखजनकः विषयः द्विष्टः, द्वेषविषयः वा।
शीतोदकम् इति कफरोगिणः द्विष्टं, द्वेषविषयः वा।
द्वेषः =
क्रोधः ।
क्रोधः, द्वेषः वा आत्मगुणः।
वृद्धिहेतुविषयकः द्वेषः, क्रोधः वा दोषचयस्य लक्षणम्।
द्वेषविषयः =
द्विष्टम् ।
यथा जीवस्य दुःखजनकः विषयः द्वेषविषयः द्विष्टः, वा।
यथा शीतोदकम् इति कफरोगिणः द्विष्टं, द्वेषविषयः वा