ध्यात्वा नीलोत्पलश्यामं ...भालं दशरथात्मजः

विकिपुस्तकानि तः

मूलम्
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥२॥
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् । स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥३॥
रामरक्षां पठेत् प्राज्ञः पापघ्नीं सर्वकामदाम् । शिरो मे राघवः पातु भालं दशरथात्मजः ॥४॥

पदच्छेदः
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । जानकी-लक्ष्मण-उपेतं जटामुकुटमण्डितम् ॥२॥
स-असि-तूण-धनुर्-बाण-पाणिं नक्तंचर-अन्तकम् । स्वलीलया जगत् त्रातुम् आविर्भूतम् अजं विभुम् ॥३॥
रामरक्षां पठेत् प्राज्ञः पापघ्नीं सर्वकामदाम् । शिरः मे राघवः पातु भालं दशरथ-आत्मजः ॥४॥

अन्वयः
प्राज्ञः (नरः) नीलोत्पलश्यामं, राजीवलोचनं, जानकी-लक्ष्मण-उपेतं, जटामुकुटमण्डितं, स-असि-तूण-धनुर्-बाण-पाणिं, नक्तंचर-अन्तकम्, स्वलीलया जगत् त्रातुम् आविर्भूतम् अजं, विभुम् रामं ध्यात्वा पापघ्नीं सर्वकामदां रामरक्षां पठेत् ।राघवः मे शिरः पातु। दशरथ-आत्मजः भालं (पातु) ॥२,३,४॥

सरलार्थः
बुद्धिमान् नरः रामस्य ध्यानं कुर्यात् यथा रामः नीलकमलसदृशः श्यामवर्णः अस्ति। सीतया लक्ष्मणेन सह सः वर्तते।जटाभिः तथा मुकुटेन रामः अलङ्कृतः अस्ति।तस्य हस्ते खड्गः, तूणः, धनुः तथा बाणः अस्ति।सः राक्षसानां विनाशं करोति।स्वस्य लीलया सः विश्वस्य रक्षणाय अवतीर्णः।वस्तुतः सः जन्मरहितः।सः व्यापकः अस्ति।एवं ध्यानं कृत्वा नरः रामरक्षां पठेत्।एषा रामरक्षा पापं नाशयति, तथा सर्वकामान् पूरयति। रघुकुलोत्पन्नः रामः मम मस्तकस्य रक्षणं करोतु।दशरथपुत्रः मम भालपट्टं रक्षतु॥२,३,४

सन्धिविग्रहः

सन्धिः विग्रहः सूत्रम्
नीलोत्पल नील-उत्पल आद्गुणः।६.१.८६
लक्ष्मणोपेतं लक्ष्मण-उपेतं आद्गुणः।६.१.८६
सासि स-असि अकः सवर्णे दीर्घः।६.१.९९
धनुर्बाण धनुस् बाण ससजुषो रुः।८.२.६६
नक्तंचरान्तकम् नक्तंचर-अन्तकम् अकः सवर्णे दीर्घः।६.१.९९
शिरो मे शिरस् मे ससजुषो रुः।८.२.६६

हशि च।६.१.११२

दशरथात्मजः दशरथ-आत्मजः अकः सवर्णे दीर्घः।६.१.९९

समासविग्रहः२,३,४
नीलोत्पलश्यामम्
नीलम् उत्पलं नीलोत्पलम्।... विशेषणं विशेष्येण बहुलम्।२.१.५७
नीलोत्पलम् इव श्यामः नीलोत्पलश्यामः, तम्।...उपमानानि सामान्यवचनैः। २.१.५५

राजीवलोचनम्
राजीवम् इव लोचने यस्य सः राजीवलोचनः, तम्।...अनेकमन्यपदार्थे।२.२.२४


जानकीलक्ष्मणोपेतम्
जानकी च लक्ष्मणः च जानकीलक्ष्मणौ। चार्थे द्वन्द्वः।२.२.२९
जानकीलक्ष्मणाभ्याम् उपेतः जानकीलक्ष्मणोपेतः, तम्।...पूर्वसदृश..।२.१.३१

जटामुकुटमण्डितम्
जटाः च मुकुटः च जटामुकुटाः।... चार्थे द्वन्द्वः।२.२.२९
जटामुकुटाभ्यां मण्डितः जटामुकुटमण्डितः, तम्। तृतीया तत्कृतार्थेन गुणवचनेन २.१.३०

सासितूणधनुर्बाणपाणिम्
असिः च तूणः च धनुः च बाणः च असितूणधुर्बाणाः।...चार्थे द्वन्द्वः।२.२.२९
सह असितूणधनुर्बाणैः विद्यते इति सासितूणधनुर्बाणः।... तेन सहेति तुल्ययोगे।२.२.२८
सासितूणधनुर्बाणः पाणिः यस्य सः सासितूणधनुर्बाणपाणिः तम्।...अनेकमन्यपदार्थे।

नक्तंचरान्तकम्
नक्तं चरति इति नक्तंचरः।... उपपदमतिङ्। २.२.१९
नक्तंचराणाम् अन्तकः नक्तंचरान्तकः, तम्।...षष्ठी।२.२.८


स्वलीलया
स्वस्य लीला स्वलीला, तया।...षष्ठी।२.२.८


अजम्
न जायते इति अजः, तम्। ...अन्येष्वपि दृश्यते।३.२.१०१

पापघ्नीम्
पापं हन्ति इति पापघ्नी, ताम्।...उपपदमतिङ्।२.२.१९


सर्वकामदाम्
सर्वे कामाः सर्वकामाः।... विशेषणं विशेष्येण बहुलम्।२.१.५७
सर्वकामान् ददाति इति सर्वकामदा, ताम्।...उपपदमतिङ्।२.२.१९

दशरथात्मजः
आत्मनः जातः आत्मजः।...उपपदमतिङ्।२.२.१९
दशरथस्य आत्मजः दशरथात्मजः।...षष्ठी।२.२.८

रामरक्षास्तोत्रम् - सान्वयं सार्थम्