नमस्ते रुद्र मन्यव उतो त

विकिपुस्तकानि तः

शुक्लयजुर्वेदस्य षोडशतमाध्याये (1-16) रुद्रसूक्तम् वर्तते।[सम्पाद्यताम्]

नमस्ते रुद्र मन्यव उतो त इषवे नमः । बाहुभ्यां उत ते नमः ॥ या ते रुद्र शिवा तनूरघोरापापकाशिनी । तया नस्तन्वा शंतमया गिरिशन्ताभिचाकशीहि ॥ यां इषुं गिरिशन्त हस्ते बिभर्य्शस्तवे । शिवां गिरिश तां कुरु मा हिंसीः पुरुषं जगत् ॥ शिवेन वचसा त्वा गिरिशाछा वदामसि । यथा नः सर्वा इज्जनः संगमे सुमना असत् ॥ अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अहींश्च सर्वान् जम्भयन्त्सर्वाश्च यातुधान्योऽधराचीः परासुव ॥ असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः । ये चेमे अभितो रुद्रा दिक्षु श्रिताः सहस्रशोऽवैषां हेड ईमहे ॥ असौ योऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपा अदृश्रन्नुतैनं उदहार्यः । उतैनं विश्वा भूतानि स दृष्टो मृडयातु नः ॥ नमो नीलकपर्दाय सहस्राक्षाय मीढुषे । अथो ये अस्य सत्वान इदं तेभ्योऽकरं नमः ॥ नमस्ता आयुधायानातताय धृष्णवे । उभाभ्यां उत ते नमो बाहुभ्यां तव धन्वने ॥ प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर् ज्याम् । याश्च ते हस्ता इषवः परा ता भगवो वप ॥ अवतत्य धनुष्ट्वं सहस्राक्ष शतेषुधे । प्रशीर्य शल्यानां मुखं शिवो नः सुमना भव ॥ विज्यं धनुः कपर्दिनो विशल्यो बाणवं उत । अनेशन्नस्य या इषव आभूरस्य निषङ्गथिः ॥ परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः । अथो य इषुधिस्तवारे अस्मिन् निधेहि तं ॥ या ते हेतिर् मीढुष्टम शिवं बभूव ते धनुः । तयास्मान् विश्वतो त्वमयक्ष्मया परिभुज ॥