नीतिद्विषष्टिका

Wikibooks तः
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

---Proof Reading has not yet been done--- (source : http://srivaishnavism.yuku.com/reply/385#.TrwSePTTqud)

श्रीमान् सुन्दरपाण्डयः श्रृतिस्मृति प्रसृत सत्पदार्थज्ञः। कृतवानार्यां सम्यक् श्रोतॄणां बुद्धिवृद्धिकरिम्॥ १॥

शृणुत श्रुतिजलधौतैः कर्णैः सुश्लिष्ट संधि संबन्धाम्। श्रुत्वावधारयध्वं दोषान् सन्तो नुदन्त्वत्र॥ २॥

सद्भाषित रत्नानां रत्नानामिव सुदोशजातानाम्। हृदि निचयः कर्तव्यः सज्जनसंमानकामेन॥ ३॥

परपरिवादः परिषदि न कथंचन पण्डितेन कर्तव्यः। सत्यमपि तन्न वाच्यं यदुक्तमसुखावहं भवति॥ ४॥

भुमिपतावर्थपतौ विद्यावृद्धे तपोऽधिके बहुषु। मुर्खेष्वरिषुच गुरुषु च विदुषा नैवोत्तरं वाच्यम्॥ ५॥

स्वाधीने माधुर्ये मधुराक्षर संहितेषु वाक्येषु। किं नाम सत्त्ववन्तः पुरुषाः परुषाणि भाषन्ते॥ ६॥

अप्रियमुक्ताः पुरुषाः प्रयतन्ते द्विगुणमप्रियं वक्तुम्। तस्माद वाच्यमप्रियमप्रियमश्रोतुकामेन॥ ७॥

अल्पाक्षररमणीयं यःकथयति निस्चितं स खलु वाग्मी। बहुवचनमल्पसारं यः कथयति विप्रलापी सः॥ ८॥

शब्दार्थसूक्ष्मवसना सत्याभरणा विचित्रहेत्वङ्गी। विद्वन्मुखनिष्क्रान्ता सुस्त्रीव विराजति वाणी॥ ९॥

दुर्जनवदनविनिर्गत वचनभुजङ्गेन सज्जनो दष्टः। औषधशतैरसाध्यश्चिकित्स्यति क्षान्तिमन्त्रेण॥ १०॥

अवमानारणिमथितं दुर्वागिन्धन विवर्धितज्वालम्। सत्पुरुषाः कोपाग्निं ज्ञानाम्बुघटैः प्रशमयन्ति॥ ११॥

न तथा शशी न सलिलं न चन्दनरसो न शीतलच्छाया। प्रस्लादयति च पुरुषं यथा मधुरभाषिणी वाणी॥ १२॥

न तथा रिपुर्न शस्त्रं नाग्निर्न विषं न दारुणो व्याधिः। परितापयति च पुरुषं यथा कटुक भाषिणी वाणी॥ १३॥

रजनिकरः किल शीतो रजनिकराच्चन्दनो महाशीतः। रजनिकरचन्दनाभ्यां सज्जन्वचनानि शीतानि॥ १४॥

दिवसकरः किल तीक्ष्णो दिवसकरात् पावको महातोक्ष्णः। दिवसकरपावकाभ्यां दुर्जनवचनानि तीक्ष्णनि॥ १५॥

इक्षोरग्रात् क्रमशः पर्वणि पर्वणि यथा रसविशेषः। तद्वत्सज्जनमैत्री विपरीतानां तु विपरीता॥ १६ ॥

पुरुषा नृतप्रगल्भा दुर्जनवदनात् प्रवृत्त वागुल्का। कुगृहादिव दुष्टस्त्री त्वरितगतिर्निःसरति वाणी॥ १७ ॥

मूर्खेषु कुशलमानिषु विजानताप्यकुशलेन भवितव्यम्। विमलमपि कथितमर्थं मूर्खा मोहादपहसन्ति॥ १८ ॥

मूर्खा न द्रष्टव्या द्रष्टव्याश्चेन्न तैस्तु सह तिष्ठेत्। यदि तष्ठेन्न तु कथतेद् यदि कथयेन्मूर्खवत् कथयेत्॥ १९ ॥

न तथा भवति भयं मे व्याघ्रं दृष्ट्वा वने पिशचं वा। मूर्ख दृष्ट्वाभिमुखं यथा भयं मां समाविशति॥ २० ॥

कान्तारपादपानां यथा फलं मानुषैरनुपभोग्यम्। एवमनार्येष्वर्थाः मनसाप्यार्यैर्नुपभोग्याः॥ २१ ॥

उपभोगकातराणां पुरुषाणामर्थसंचयपराणाम्। कन्यारत्नमिव गृहे तिष्ठन्त्यर्य्थाः परस्यार्थ॥ २२ ॥

कस्तस्य गीवितार्थः सति विभवे कश्च तस्य पुरुषार्थः। योऽर्थिनमभिमुखमागतमनभिमुखः सन्विसर्जयति॥ २३ ॥

चारित्रनिर्मलजलः सत्पुरुषनदोऽक्षयो भवतु नित्यम्। यस्य विभवारविन्दे विद्वद्भ्रमराः कृतविनोदाः॥ २४ ॥

जीवति सजीवलोके सुजीवितं नष्टयन्त्रणैः प्रणयात्। यस्योद्यानतरोरिव सुहृद्‌भिरुपभुज्यते लक्ष्मीः॥ २५ ॥

यस्मिन् जीवति जीवति महाजनस्तय जीवितं नाम। जीवन्नपि न स जीवति नजीवति यमाश्रितः पुरुषः॥ २६ ॥

ज्ञानवतामतिथीनां लोकज्ञानां प्रकाशवंशानाम्। प्रणयाद् गृहे निवसतां शेषभुजः सन्तु नः सुहृदः॥ २७ ॥

सत्मारपूर्वमार्यः प्रयच्छतिच्छन्नमर्थमर्थिभ्यः यद्यपि निचो यच्छति तत् कारणवच्च जनवच्च॥ २८ ॥

शीलं शौचं क्षान्तिर्दाक्षिण्यं मधुरता कुले जन्म। न विराजन्ते सर्वाण्यर्थविहीनस्य पुरुषस्य॥ २९ ॥

मानो वा दर्पो वा विज्ञानं विक्रमः सुबुद्धिर्वा। सर्वं प्रणश्यति समं विभव विहीनस्य पुरुषस्य॥ ३० ॥

हेतुप्रमाणयुक्तं वाक्यं न श्रूयते दरिद्रस्य। अप्यस्पष्टं वक्यमनर्थं पूज्यं समृद्धस्य॥ ३१ ॥

ख्यातेऽपि कुले जातः स्रग्वी वाग्मी सुदर्शनीयश्च। आर्यैर्गुणैर्वियुक्तः पलाश इव पुष्पितो भवति॥ ३२ ॥

वयसा वृद्धतरा अपि विद्या वृद्धं मनुष्यमुपगम्य। उपचारानतदेहा गुरुमिव पृच्छन्ति संदेहम्॥ ३३ ॥

परगुणतत्त्वग्रहणं स्वगुणनिरोधः परव्यसनमौनम्। मधुरमशठं च वाक्यं केनाप्युपदिष्टमार्याणाम्॥ ३४ ॥

किं क्रव्यैः किं वेभवैः किं सारैर्विस्तरैर्नृणां तेषाम्। यैर्नियमभाजनस्थं संतोषरसायनं पीतम्॥ ३५ ॥

त्रुटिमात्रं त्रुटिमात्रं मधुसंभ्रियते यथा मधुकरीभिः। सततं सम्भ्रियमाणं तत् कुम्भशतानि पूरयति॥ ३६ ॥

एवमुपचीयमानं स्तोकं स्तोकं विचिन्वतः पुण्यं। संपद्यते विशालं श्रुतमप्येवं तपोऽप्येवं॥ ३७ ॥

विद्या श्रुतं तपो वाप्यैश्वर्यं वा यशः प्रकाशो वा। शीलरहितस्य सर्वं द्विरदस्नानोपमं भवति॥ ३८ ॥

तीर्थाभिषेकगमनैर्निदाघ सूर्यानुवर्तन स्थानैः। शिशिरेष्वप्सु निवासैर्नाशीलः स्वर्गमाप्नोति॥ ३९ ॥

गन्धैर्वा माल्यैर्वा किं शीलवतो मुहूर्तरमणीयैः। दिशि दिशि यस्य प्रसृतो गुणाधिवासो यशोगन्धः॥ ४० ॥

भवतु च न भवतु च धनं कुलीनता दुर्लभा मनुष्यस्य। प्राप्य च कुलपुत्रत्वं चारित्राढ्येन भवितव्यं॥ ४१ ॥

शीलमपि रक्षमाणाः कुलजाः श्रुतशौर्यवीर्यसंपन्नाः। नीचैस्तथा क्रियन्ते यथा वशा विक्रियां यान्ति॥ ४२ ॥

मानी दम्भी द्रोही परापवादी विकत्थनः पिशुनः। ब्राह्मणकुलेऽपि जातः श्वपाक इव नीचतां याति॥ ४३ ॥

मलिना अपि तेऽमलिना येषां हृदयानि नित्यशुद्धानि। तेऽमलिना अपि मलिना येषां हृदयानि कलुषाणि॥ ४४ ॥

सत्यार्जवहृदयानां किं खलु कर्तव्यमस्ति साधूनां। ये स्वहृदयानुमानात् परहृदये यान्ति विश्वासं॥ ४५ ॥

मर्मान्तः परिहासो यावत्क्रियमाणभद्रकत्वं च। स्मरणं च दुष्कृतानां त्रीणि कुमुत्रस्य चिह्नानि॥ ४६ ॥

बन्धुरिव भवति पूर्वं मध्ये मित्रमिव शत्रुरिव चान्ते। कृकलास इव दुरात्मा त्रीन् वर्णान् दर्शयति नीचः॥ ४७ ॥

गुणवन्तः समशीला विस्रम्भसुखोपचार संभोगाः। समदुःखसुखाः सुहृदो रसायनं जीवलोकस्य॥ ४८ ॥

भिन्न्श्लिष्टा प्रीतिर्यद्यप्युपचार बहुगुणा भवति। छिन्नविरुढेव लता पूर्वच्छायां न पूरयति॥ ४९ ॥

स्निग्धानामशठानां स्थिर बुद्धीनां परैरहार्याणां। व्यसनेषु सहायाणां भद्रं कल्याणमित्राणां॥ ५० ॥

वाङ्‌मात्र वत्सलानां शस्त्राशीविषसमान हृदयानां। अर्थार्थमाश्रितानां धिगस्तु बत पाप्मित्राणां॥ ५१ ॥

सवजन इव भवति नीचस्तावद् यावद् स्वकार्यनिष्पत्ति। कृतकृत्यस्त्व पवृत्तः प्रतिकारभयाद् भवति शत्रुः॥ ५२ ॥

उपचारः कर्तव्यो यावदनुत्पन्न्सौहृदो भवति। उत्पन्न्सौहृदानामुपचारः कैतवं भवति॥ ५३ ॥

धिग् धिक् सज्जनमैत्रीं दुर्जन संसर्ग एव नो भवतु। सज्जनवियोगकाले भवन्ति तीव्राणि दुःखानि॥ ५४ ॥

अल्पाश्च गुणाः स्फीता भवन्ति गुणसमुच्छ्रितेषु पुरुषेषु। श्वेतगिरि शिखरकेष्विव निशासु चन्द्रांशवः पतिताः॥ ५५ ॥

शतमप्यपराधानां सुकृतेनैकेन नाशय त्यार्यः। नाशयति कृतशतान्यपि नीचस्त्वेकापराधेन॥ ५६ ॥

एकसुकृतेन दुष्कृतशतानि ये नाशयन्ति ते सेव्याः। न त्वेकदोषजनितो येषां कोपः कृतशतघ्नः॥ ५७ ॥

समरसमविषममकुटिलं अवस्थितं तुल्यशील सामर्थ्यं। एकमपि मित्रमचलितमुदारमार्यस्य पर्याप्तं॥ ५८ ॥

विद्वानृजुरभिगम्यो विदुषि शठे चाप्रमादिना भाव्यं। मूर्ख ऋजवोऽनुकम्प्या मूर्खशठाः सर्वदा वर्ज्याः॥ ५९ ॥

चिरजीवित्वमनर्थं कामेर्ष्यासक्तचेतसां पुंसां। कर्मण्यसमर्थानां परिभवदुःखाग्नि तप्तानां॥ ६० ॥

त्यक्तव्यास्ते सुहृदः ये भाग्यविपर्ययागतं मित्रं। व्यसनार्णवे निमग्नं स्वस्था जनवन्निरीक्षन्ते॥ ६१ ॥

नातः कल्याण करं जिरेन्त्रियत्वं च यदि भवेत्पुंसः। इह च मनो निर्वेण्णं परत्र चाप्यतिसुखं भवति॥ ६२ ॥

हिमवति तिष्ठत्यौषधमुदधौ रत्नं विभावसौ तेजः। वैरमसज्जनहृदये सज्जनहृदये सदा क्षान्तिः॥ ६३ ॥

पाषाणेष्विव रेखा मूर्ख वैरं दृढं चिरं भवति। जलमध्येष्विव रेखा प्राज्ञे न चिरं भवति वैरं॥ ६४ ॥

परपरिवादे मूकाः परदारनिरीक्षणेषु जात्यन्धाः। ये पररहस्यबधिरास्ते पुरुषा देवतासदृशाः॥ ६५ ॥

यदि तत्त्वेनाक्रोशति सोढव्यं भवति तत्त्वमाहेति। अथ चेन्मिथ्याभिहितं क्षन्तव्यं नैतदस्तीति॥ ६६ ॥

मर्माणि घट्टयित्वा सुप्रीतमनास्तु दुर्जनो भवति। अप्रिय मुक्त्वातिभृशं पश्चात्तपतीह् खल्वार्यः॥ ६७ ॥

श्वा यदि दशति मनुष्यान्न ते जनास्तं पुनः प्रतिदशन्ति। यद्याक्रोशति नीचो न् सज्जनस्तं वदति किंचित्॥ ६८ ॥

श्रेष्ठं च भयात् क्षमते समं तु लोकापवाद जननभयात्। हीनं यस्तु क्षमते स महर्षिसमो नरो ज्ञेयः॥ ६९ ॥

पुरुषैरपि वाक्छल्यैर्मर्मघ्नैः कोपिता महात्मानः। सलिलमिव शरत्काले स्वयमेवार्याः प्रसीदन्ति॥ ७० ॥

आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या। यदि सत्यं कः कोपः स्याद नृतं किं नु कोपेन॥ ७१ ॥

पनसाम्रपाटलसमाः स्युरिहोत्तम मध्यमाधमाः पुरुषाः। फलपुष्पफलैः पुष्पैः कर्मवचः कर्मवाग्भिरिव॥ ७२ ॥

न भवति भवति च न चिरं भवति चिरं चेत् फले चिसंवदति। कोपः सत्पुरुषाणां तुल्यः स्नेहेन नीचानां॥ ७३॥

नीचजन्जनितमन्युः क्रुद्धोऽपि न विप्रियं वदत्यार्यः। नहि राहुवदनदष्टश्चन्द्रः शैत्यं परित्यजति॥ ७४॥

यत्कुपिताः खलभुजगाः परमर्मघ्नं क्षरन्ति वाक्यविषं। तत् क्षान्तिमयैरगदैर्विषमिव सन्तः प्रशमयन्ति॥ ७५ ॥

आलस्यं त्यक्तव्यं लौल्यं लोभः परापवादश्च। अस्थानेषु च कोपस्तथात्मानश्च पुरुषेण॥ ७६ ॥

विद्वानृजुः प्रधानो विद्वांश्च् शठश्च मध्यमः पुरुषः। मूर्ख ऋजुस्तु तृतीयः सर्वजघन्यस्तु मूर्खशठः॥ ७७ ॥

सुजनो न याति वैरं परहित बुद्धिर्विनाशकालेऽपि। छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य॥ ७८ ॥

अभिमुख मधुरतरेभ्यः पराङ्मुखा क्रोशनार्थशीलेभ्यः। अभ्यन्तरकलुषेभ्यो भेतव्यं मित्रशत्रुभ्यः॥ ७९ ॥

न च हसति नाभ्यसूयति न परान् परिभवति नानृतं वदति। नाक्षिप्य कथां कथयति ल्क्षणमेतत् कुलीनस्य॥ ८० ॥

पश्यति दीर्घं कृत्यं पीडां सहते परं न पीडयति। अवमन्यते न कंचिल्लक्षणमेतत् कुलीनस्य॥ ८१ ॥

कुलशील वृत्तदोषान् विद्यादोषांश्च कर्मदोषांश्च। कथयति परस्य नीचो न तु स्मरत्यात्मनो दोषान्॥ ८२ ॥

चिरजीवित्वमनर्थं पुरुषस्याधर्मचारिणो भवति। चिरजीवित्वं सफलं भवति हि धर्मैकनिष्ठस्य॥ ८३ ॥

ज्ञानाढ्यम लोकज्ञं कृपणं धनिनं दरिद्रमभिजातम्। गृणवन्तं श्रुतहीनं कस्मात् कृतवान् कृतान्त सः॥ ८४ ॥

एतावदेव हि फलं पर्याप्तं ज्ञानसत्त्वयुक्तस्य। यस्त्वापत्सु न मुह्यति नाभ्युदये विस्मितो भवति॥ ८५ ॥

नीचेषु कार्ययुक्ति साधुष्वनयादपक्रियापत्तिः। सहवासश्चानार्यैरार्यस्य गुरुणि दुःखानि॥ ८६ ॥

यः खलु बहुविधदोषं मित्रं पालयति स खलु पालयति। न हि परिपालनकृत्यं गुणवति मित्रे भवति किंचित्॥ ८७ ॥

कृत्वा जगत्प्रकाशां प्रीतिं सर्वार्मना मनुष्येण। विषमरसान्यपि सुहृदां शीलान्यनुवर्तितव्यानि॥ ८८ ॥

अभिगम्यास्ते सद्भिर्व्यपगतमानावमानदोषाश्च। ये स्वगृहमुपगतानां श्रममुपुचारैर्व्यपनयन्ति॥ ८९ ॥

ऐश्वर्यं अल्पमेत्य् प्रायेण हि दुर्जनो भवति मानी। सुमहत् प्राप्यैश्वर्यं प्रशमं प्रतिपद्यते सुजनः॥ ९० ॥

सत्यवचन व्रतानां शीलजटा शौचवल्कलधराणां। सन्तोषाभिरतानां किमाश्रमैः कार्यमार्याणां॥ ९१ ॥

विद्वत्त्वे यतितव्यं नार्थेष्वेवादरः सदा कार्यः। अर्थः सर्वजनगतो विद्वत्ता दुर्लभा लोके॥ ९२ ॥

यस्मिन् न बाष्पमोक्षो नापि रहस्यं न च प्रणयजातं। तन्मित्रं त्यक्तव्यं श्रमेण किं न्वर्थहीनेन॥ ९३ ॥

दारैश्च संनिकर्षो हतदोषतया गृहप्रवेशश्च। यस्य त्वशङ्कनीयौ पर्याप्तं भवति तन्मित्रं॥ ९४ ॥

पक्षद्वयशशिसदृशान्यनिशं हार्दानि सदसतां लोके। आप्यायन्ते तु सतामसतां च परिक्षयं यान्ति॥ ९५ ॥

सत्सङ्गमस्य नार्घः कर्तुं शक्यमिति मे मतिर्भवति। यत् तद्वियोगदुःखं तदेव मुल्यं भवति तस्य॥ ९६ ॥

ते मूर्खा मूर्खतमा येषां धनमस्ति नास्ति च त्यागः।

केवलमार्जनरक्षणवियोगदुःखान्यनु भवन्ति॥ ९७ ॥

गुणकलशैः स्नातानां विनयविलेपनविलिप्तगात्राणां। विद्याविभूषितानां किमलं कारैः कुलिनानां॥ ९८ ॥

बह्वपि तत्त्वं ज्ञात्वा नृषु बहुमाने प्रवर्तमानेन। बलवत्तरेण विदुषा लोकज्ञाने प्रयतितव्यं॥ ९९ ॥

तत् कष्टं यद् विद्वाण् विद्यापारंगतोऽपि यत्नेन। विज्ञातारमविन्दन् भवति समः प्राकृतजनेन॥ १०० ॥

नहि वक्ता मृदुवक्ता विमृस्यवक्ता न चापि बहुवक्ता। ऋतवक्ता गुणवक्ता हितवक्ता दुर्लभः पुरुषः॥ १०१ ॥

प्रतिवादिनी च भार्या परगृहसेवा च परगृहे भुक्तिः। क्षिप्रं जरयति पुरुषं निचैर्वासः प्रवासश्च॥ १०२ ॥

उपकृतवताप्यनार्ये नाश्वसितव्यं कृतप्रियोऽस्मीति। पयसापि सिक्त मूलो न भवति मधुरो हि पिचुमन्दः॥ १०३ ॥

यो न ददाति न भुङ्क्ते विभवे सति नैव तस्य तद् द्रव्यं। तृणकृतकृत्रिमपुरुषो रक्षति सस्यं परस्यार्थे॥ १०४ ॥

स्वल्पापि साधुसम्पद् भोग्या महतां न पृथ्व्यपि खलश्रीः। सारसमेव पयस्तृषमपनयति न यादसां पत्युः॥ १०५ ॥

अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः। हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानां॥ १०६ ॥

कोषमपि गुणवति जने दृष्ट्वा गुणरागिणो न खिद्यन्ते। प्रीत्यैव शशिनि प्तितं पश्यति लोकः कलङ्कमपि॥ १०७ ॥

कुणिनि गुणज्ञो रमते नो गुणहीनस्य गुणिनि परितोषः। अलिरेति वनात् कमलं न दर्दुरस्त्वे कवासोऽपि॥ १०८ ॥

अण्वपि गुणाय गुणिनां महदपि दोषाय दोषिणां सुकृतं। तृणमपि दुग्धाय गवां दुग्धमपि विषाय सर्पाणां॥ १०९ ॥

उपकृतिरेव खलानां दोषस्य गरियसो भवति हेतुः। अनुकूलाचरितेन हि कुप्यन्ति व्याधयोऽत्यर्थं॥ ११० ॥

परवादे दशवदनः पररन्ध्रनिरीक्षणे सहस्राक्षः। सद्वृत्त वित्तहरणे बाहुसहस्रार्जुनो नीचः॥ १११ ॥

लब्धोदयः खलजनः प्रथमं स्वजने करोति सन्तापं। उद्गच्छन् दवदहनः स्वजन्मदं दारु निर्दहति॥ ११२ ॥

सहवसतामप्यसतां जलरुहजलवद् भवत्यसंश्लेषः। दूरेऽपि सतां वसतां प्रीति कुमुदेन्दुवद् भवति॥ ११३ ॥

अतिसत्कृता अपि शठाः सहभुव मुज्झन्ति जातु न प्रकृतिं। शिरसा महेश्वरेणाप्य निशधृतो वक्त्र एव शशी॥ ११४ ॥

अफलं श्राद्धमभुक्तं धनमफलं यन्न दत्तमर्थिभ्यः। यौवनमफलं यमिनः श्रुतमफलं दुर्विनीतस्य॥ ११५ ॥

निर्गुणमप्यनुरक्तं प्रायो न समाश्रितं जहति सन्तः। सहवृद्धिक्षयभाजं वहति शशाङ्कः कलङ्कमपि॥ ११६ ॥

परमर्मघट्टनादौ खलस्य यत् कौशलं न तत् साधोः। छिद्रं करोति सूची तदनु पिधत्ते सपदि तन्तुः॥ १०७ ॥

कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यतस्तस्मात्। अपसरणमेव युक्तं मौनं वा राजहंसस्य॥ १०८ ॥

आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म। स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः॥ १०९ ॥

यः पठति लिखति सुकृतिं परिपृच्छति पण्डिता नुपास्ते च। तस्य दिवाकरकिरणैर्नलिनीव विबोध्यते बुद्धिः॥ १२० ॥

इमां काञ्चनपीठस्थां समेत्य कवयो भुवि। आर्यां सुन्दरपाण्ड्यस्य स्नापयन्तु वधूमिव॥ १२१ ॥

इति श्रीसुन्दरपाण्ड्यकृता नीतिद्विषष्टिका

"http://sa.wikibooks.org/w/index.php?title=नीतिद्विषष्टिका&oldid=4368" इत्यस्माद् पुनः प्राप्तिः