न्यायपदार्थदीपिका

विकिपुस्तकानि तः
कौण्डभट्टविरचिता न्यायपदार्थदीपिका
श्रीमत्सिद्धिकरं कान्तं रमोरमणात्मकम्।
दयासिन्धुं चिदानन्दं सितासितमुपास्महे॥ 1॥

इह खलु चतुर्थपुरुषार्थहेतुभूतमात्मतत्वं ज्ञानमामनन्ति॥ तच्च पदार्थतात्वनिर्णयाधीनमिति पदार्थतात्वमत्र विविच्यते॥ तत्र प्रमितिविषयः पदार्थः। स द्विधा भावोऽभावश्च भावाः षडेव द्रव्यगुणकर्मसामान्यविशेषसमवायभेदात्। तत्र द्रव्यत्व जातिमद्गुणाश्रयो वा द्रव्यं तच्च पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनोभेदान्नवधा॥ तत्रपृथिवीत्व जातिमती गन्धवती वा पृथिवी मणिमुक्तावज्रादावप्यनुद्भूतो गन्धोऽस्त्येवेति न तत्राव्याप्तिः। तद्भस्मनिगन्धोपलम्भेन तत्रापि गन्ध कल्पनात्। अथवा गन्धवत्त्वं गन्धसमानाधिकरणजलावृत्ति जातिमत्त्वम्। गन्धसमानाधिकरणद्रव्यत्वादिकमादाय जलादावतिव्याप्तिवारणाय जलावृत्तीति। एतेन नाना गन्धवदारब्धपदार्थस्य निर्गन्धत्वपक्षेऽपि न तत्राव्याप्तिः। (तादृश) तत्र पृथिवीत्वसत्त्वात्। सा च पृथिवी द्विधा। नित्याऽनित्या च। परमाणुरूपा नित्या। कार्यरूपा त्वनित्या। यदिदं जालसूर्यमरीचिस्थं सर्वतः सूक्ष्ममुपलभ्यते र्तत्र्यणुकम्। तस्य षष्ठोंऽशः परमाणुः तद्धि त्रिभिर्द्व्याणुकैरारभ्यते द्वाभ्यां परमाणुभ्यां च द्व्याणुकमिति स्वीकारात्। कार्यरूपा च त्रिधा। शरीरेन्द्रियविषयभेदात्। शरीरं तु अंत्यावयविभोगायतनम् भोगनियामकमिति यावत्। तत् पञ्चधा। शुक्लशोणिताभ्यां विनैवादृष्टविशेषोपगृहीत पृथिवी जन्यं जरायुजमण्डजं स्वेदजमुद्भिज्जञ्च। आद्यं वसिष्ठादेः। गर्भावरकश्चर्मविशेषोजरायुः तज्जं मानुषादिः अण्डजं पक्ष्यादिः। स्वेदजं लिक्षायूकादिः। पृथिवीं भित्वा जायमानं वृक्षाद्युद्भिज्जम् इन्द्रियं घ्राणम्। तच्च गन्धतद्गतजाति तदभावानामेव ग्राहकम् नासाग्रवृत्तिः तत्पार्थिवमेव। रूपादिषु पञ्च सुगन्धस्यैवाभिव्यञ्जकत्वात्। कुङ्कुमगन्धाद्यभिव्यञ्जकतैलवत्। सक्तुरसनवशरावगन्धाभिव्यञ्जकजलेऽतिव्याप्तिवारणाय एवकारः। विषयाः पुष्पादयः।

अप्त्वजातिमत्यः शीतस्पर्शवत्यो वाऽऽपाः ता अपि द्विविधाः। नित्या अनित्याश्च। परमाणुरूपा नित्याः। कार्यरूपा अनित्याः। ता अपि शरीरेन्द्रियविषयभेदात् त्रिधा। शरीरं वरुणलोके। तत्तु पार्थिवावयवमेलनात्करकावत् अदृष्टविशेषाद्वा घनीभूतं दृढं सद्भोगोपयोगि इन्द्रियं रसनम्। तच्च रसतद्गतजातितदभावानामेव ग्राहकम् जिह्नाग्रवृत्तिः तदाप्यमेव। रूपादिषु पञ्चसु रसस्यैवाभिसञ्ज्ञकं लालावत् रसस्यैवाभिव्यञ्जकत्वात् जलमाधुर्यव्यञ्जकंहारीतक्यामलकादौ व्यभिचारवारणाय एवकारः। तयोः कषायाम्लतया पटरञ्जकद्रव्यरूपविशेषाभिव्यञ्जकत्वात्। विषया गङ्गाद्याः।

तेजस्त्वजातिमदुष्णस्पर्शवद् वा परप्रकाशकरूपवद्वा तेजः। नित्यमनित्यञ्च, परमाणुरूपं नित्यम्। कार्यरूपमनित्यम्। तदपि त्रिधा। शरीरेन्द्रियविषयभेदात्। शरीरमादित्यलोके। इन्द्रियं चक्षुः। तच्च रूपतज्जातितद्वद्द्रव्यतद्गतजातिगुणकर्मणां ग्राहकम्। कृष्णताराग्रवृत्तिः तत्तैजसमेव। रूपादिषु पञ्चसु रूपस्यैव अभिव्यञ्जकत्वात् आलोकवत्। पूर्ववद्रीतक्यामलकादौ व्यभिचारनिराकरणार्थम् एवकारः। ननु रूपवान्परमाणुश्चक्षुषा कुतो न गृह्यते। चाक्षुषप्रत्यक्षे विषयद्रव्यगतं महत्त्वं हेतुः। परमाणौ तन्नास्तीति चेत्तर्ह्याकाशादयः कुतो न गृह्यन्ते। विषयगतं रूपं महत्त्वं चेति द्वयम्।

तप्तवारिस्थं तेज उष्मा वा कुतो न गृह्यते। उच्यते द्रव्यचाक्षुषप्रत्यक्षे विषयगत-उद्भूतरूपं महत्त्वं च कारणम्। परमाणुर्न महान् आकाशो न रूपवान्, तप्तवारिस्थं तेजश्च, नोद्भूतरूपवत्। तद्रूपस्यानुद्भूतत्वात्। एवं चाक्षुषप्रत्यक्षे विषयगत उद्भूतस्पर्शोपि हेतुः। बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे एव महत्त्वरूपस्पर्शानां लाघवाद्धेतुत्वात्। तथा प्रदीपादिप्रभायां रूपमात्रं गृह्यते। तेन तदाश्रयद्रव्यमनुमीयत इति सिद्धान्तः। प्रभाशब्दोपि तद्रूपवाचक एवेत्याहुः। नन्वेवमपि अन्धकारस्थो घटोऽपि गृह्यते। द्रव्यचाक्षुषे आलोकसंयोगोऽपि हेतुरिति चेन्न। चक्षुरूपस्य सुवर्णरूपस्य वा अन्धकारेऽपि संयोगसत्वादिति चेन्न। द्रव्यप्रत्यक्षे उद्भूतानभिभूतरूपवदालोकसंयोगस्यापि हेतुत्वात्। चक्षुरूपस्योद्भूताभावात्। सुवर्णरूपस्याभिभूतत्वात् तत्संयोगेऽपि न प्रत्यक्षम्। विषयश्चतुर्धा भौमदिव्यमौदर्यमाकरजञ्च। पार्थिवमात्रेन्धनं तेजो भौममग्न्यादिः। अविन्धनं तेजो दिव्यं विद्युदादिः। उभयेन्धनमौदर्यम्। भक्षितान्नस्य पीतजलस्य च पचनात्। प्रखानिजमाकरजम् सुवर्णादिः।

ननु सुवर्णं न तेजः परप्रकाशकरूपविरहात् उष्णस्पर्शाभावाच्चेति चेन्न। अभिभूतरूपस्पर्शयोस्तत्र स्वीकारात्। पीतरूपवन्तः पार्थिवभागास्तत्र मिलिताः सन्तीति तदीयरूपस्पर्शाभ्यां तयोरभिभवः सम्भवत्येव। सजातीयग्रहणकृतमग्रहणं ह्यभिभवः। तारशब्दान्मन्दस्येव॥

मीमांसकास्तु। पीतरूपवद् द्रव्यान्तरमेवमूचिरे। तन्न द्रव्यान्तरकल्पने गौरवात्। अन्ये तु हरिद्रादिवत्पीतरूपवत्वात्पृथिव्येव सुवर्णमित्याहुः। तन्न अत्यन्तानलसंयोगाद्भस्मापत्तेः। वायुत्ववान्नीरूपस्पर्शवान्वा वायुः। सोऽपिद्विधा। नित्योऽनित्यश्च। परमाणुरूपो नित्यः। कार्यरूपोऽनित्यः। सोऽपि शरीरेन्द्रियविषयप्राणभेदाच्चतुर्धा। शरीरं वायुलोके पिशाचादीनाञ्च। इन्द्रियं त्वक् सकलशरीरव्यापकम्। मिडानाड्यां तत् सत्वेपि तन्मनोयोगस्य स्वप्नजनकत्वात्तदा स्वप्नज्ञानमेव न त्वाचादिः। पुरीतत्येव परं नास्ति। अतः तस्यां मनः प्रवेशे ज्ञानशून्या सुषुप्तिर्भवति ज्ञानमात्रे त्वङ्मनोयोगस्य हेतुत्वेन तदानीं तदभावाज्ज्ञानाभावोपपत्तेः। तत्तु वायवीयमेव। रूपादिषु पञ्चस्विति। अङ्गसङ्गसलिलशैत्याभिव्यञ्जकपवनवत्। ए लादौ जलस्पर्शव्यञ्जकेव्यभिचारवारणाय एवकारः। तच्चोद्भूतस्पर्शतज्जातितद्भावोद्भूतरूपस्पर्शवद्द्रव्यतद्गतगुणतज्जातितदभावानां ग्राहकम्। अत उद्भूतरूपाभावात् तप्तवारिस्थं तेजो रूपाभावाद्वायुश्च त्वचा न गृह्येते। किन्तु तत्स्पर्शमात्रं गृह्यते तदाश्रयत्वेन वायुरनुमीयत इति सिद्धान्तः। एवं प्रदीपवज्रचन्द्रादिप्रभापि न त्वचा गृह्यते। उद्भूतस्पर्शाभावात्।

मीमांसकास्तु उद्भूतस्पर्शवद्द्रव्यं त्वचो ग्राह्यं लाघवात् न तु रूपमपि तत्र प्रवेश्यं गौरवात्। अतो वायुरपि स्पार्शनप्रत्यक्ष एव। अत एव वायुं स्पृशामीत्यनुभवः। अन्यथा घटादेः स्पर्शो गृह्यते तेन द्रव्यमनुमीयत इति वक्तुं शक्यत्वात्किमपि द्रव्यं स्पार्शनप्रत्यक्षं न स्यात्। किञ्च चक्षुषा रूपं गृह्यते घटादितदाश्रयत्वेनानुमीयत इत्यपि स्यात्। तथा च द्रव्यमतीन्द्रियमेव स्यात्। एवं महदुद्भूतरूपवद्द्रव्यं चक्षुर्योग्यम्। अतः प्रदीपचन्द्रादिप्रभापि चक्षुर्ग्राह्यैवेत्याहुः। विषयस्तु वृक्षादिकम्पजनकः। प्राण पञ्चधा। प्राणापानव्यानोदानसमानभेदात्। शब्दाश्रय आकाशः। स च तत्कार्यस्य शब्दस्य सर्वत्रोपलम्भात् विभुः। लाघवादेकोनित्यश्च। श्रोत्रं तदीयमिन्द्रियम्। अदृष्टविशेषोपगृहीतकर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रम्। बधिरस्यादृष्टविशेषाभावान्न श्रोत्रमस्ति। कालिक परत्वानुमेयः काल। स चैकोऽपि वर्तमानातीतभविष्यक्रियोपाधिवशाद्वर्त्तमानादिसंज्ञां लभते। पाकपठनादिक्रियावशात्पाचकपाठकादिव्यपदेशवत्।

दिगेका नित्या दैशिकपरत्वापरत्वासाधारणं कारणम्। स चेन्द्राग्नियमनिऋृर्तिवरुणवायुकुबेरेशानब्रह्मानन्तरूपोपाधिवशात् पूर्वादिभेदेन दशसंज्ञां लभते। एतौ दिक्कालौ जगद्धेतूजगदाधारौ च। इहेदानीं करोमीत्यनुभवात्।

आत्मत्वसामान्यवान् ज्ञानाश्रयो वा आत्मा। विभुर्नित्यश्च। स द्विधा। जीवेश्वरभेदात्। सुखाद्याश्रयोऽहं प्रत्ययवेद्यो जीवः। नन्वहं गौरः अहं जानामीति समानोपलम्भाद् गौरादिरूपवति ज्ञानसुखाश्रयतासिध्यतीति देह एवात्मा स्यात्। न च शरीरं नात्माज्ञानशून्यत्वात् तदपि शरीरं ज्ञानं शून्यं पार्थिवत्वाद् घटवदित्यनुमानात्सिध्यतीति वाच्यम्। घटस्य केवलपार्थिवत्वाज्ज्ञानशून्यत्वेऽपि भूतसमुदायात्मकत्वाच्छरीरस्य ज्ञानवत्त्वसम्भवात्। केवलचूर्णादौ रागाभावेऽपि चूर्णपर्णादिसमुदाये ताम्बूले रागोत्पत्तिवत्। अहं ज्ञानवानिति प्रत्यक्षबोधेनानुमानस्य शरीरे ज्ञानाभावासाधकत्वाच्च। वह्निरनुष्णः कृतकत्वात् घटवदित्यनुमानवत् स्वीयचक्षुश्च देह एवात्मेति चार्वाकाः। एवं काणोऽहं बधिरोऽहम् इति इन्द्रियधर्मसामानाधिकरण्यादिन्द्रियाण्येवात्मेति अपरे वदन्ति। तत्कथं नित्यो विभुरात्मेति सङ्गच्छेत इति चेन्न। शरीरेन्द्रियाणामनित्यत्वेनात्मत्वासम्भवात्। न चात्माप्यनित्य एवास्तु। कृतहानाकृताभ्यागमप्रसङ्गाद्धर्माधर्मशास्त्रवैय्यर्थ्यापत्तेः। किञ्च कश्चिदुत्पत्तिमारभ्यैव रूपभाग्यादिमान् नान्य इति नियमायादृष्टविशेषो हेतुर्वाच्यः। स चैतज्जन्मनि न सम्पादित इति तत्सम्पादकजन्मान्तरयोगादात्मसिद्धिः। अनेकजन्मयोगिनश्च नित्यतैव नाशकाभावात्। न च स्वतन्त्र ईश्वर एव स्वेच्छावशात् स्वसृष्टप्राणिष्वेवं करोति कुलाल इव स्वनिर्मितिघटेषु क्वचिद् दुग्धयोगं क्वचिन्मूत्रपुरीषयोगमिति वाच्यम्। अचेतन इव चेतने तथा व्यवहारे वैषम्यनैर्घृण्यप्रसङ्गात्। दृश्यते च कुलालादेरेव घटादिवत्पुत्रेषु न निमित्तक तथा व्यवहारे वैषम्यादिप्रयुक्ता निन्देति। न चायं नित्यः परमाणु रूप एवास्तु। सकलशरीरव्यापिसुखदुःखाननुभवप्रसङ्गात्। परमाणुरूपज्ञानादेस्तद्धर्मस्याप्रत्यक्षत्वापत्तेश्च। स च प्रति शरीरं भिन्नः। सुखदुःखादियौगपद्याद्वैचित्र्याच्च। अन्यथा परकीयसुखदुःखानुन्धानप्रसङ्गाच्च। हस्तपादादिभेदस्येव शरीरभेदस्याप्रयोजकतयाऽननुसन्धानप्रयोजकत्वात्। जातिस्मराणानां जन्मान्तरीयार्थस्मरणा नापत्तेश्चेति दिक्।

दुःखासमानाधिकरणज्ञानवान् नित्यज्ञानाश्रयो वा ईश्वरः। स च सकलकार्यकर्तृत्वेन सिध्यतीति वक्ष्यते। आत्मतद्गुणादिप्रत्यक्षकरणं मनः। तच्च परमाणुपरिमाणं प्रतिपुरुषं भिन्नम्। यत्र यत्रेन्द्रिये संयुज्यते ततस्ततो ज्ञानमुत्पद्यते। अतो युगपदनेकेन्द्रियैर्ज्ञानाभावोपपत्तिः। अन्यथा युगपद्रूपशब्दादिग्रहणोपपत्तौ व्यासङ्गान्न ज्ञानमित्यनुभवानापत्तेः। तथा च गौतमसूत्रम् युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति। अत एव मनो विभु निःस्पर्शद्रव्यत्वात् आकाशवदिति मीमांसकोक्तमपास्तम्। अवधानिनान्तु अभ्यासविशेषात्प्रेरणया झटिति मनसि क्रियया तत्तदिन्द्रियैर्योगाज्ज्ञानक्रमिकत्वेऽपि यौगपद्याभिमानमात्रम्। नन्वन्धकारोऽपि निस्पर्शत्वात् क्रियावत्वाद्विलक्षणरूपवत्वाच्च पृथिव्यादिभ्यो भिन्नं दशमं द्रव्यमस्तीति कथं नवैव द्रव्याणीति चेन्मैवम्। तस्य रूपवद्द्रव्यत्वे चक्षुषाग्रहणं न स्यात्। द्रव्यचाक्षुषमात्रे उद्भूतानभिभूतरूपवदालोकसंयोगस्य हेतुत्वात्। न चक्षुर्गोलकवृत्तितामसेन्द्रियान्तरादन्धकारग्रहः। इन्द्रियान्तरकल्पने गौरवात्। किं चान्धकारसमनियत-आलोकाभावोऽवश्यमभ्युपेयः। तथाच तेनैवारोपितनीलरूपेणान्धकार इति व्यवहारसम्भवान्न द्रव्यान्तरं तमः अतिगौरवात्। तस्मादुद्भूतानभिभूतरूपवदालोकाभावसमूहस्तमः।

गुणत्वजातिमन्तो गुणाः। ते च रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वं गुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारशब्दाश्चतुर्विंशतिरेव। तत्र रूपत्वजातिमद्रूपम्। पृथिव्यादित्रयवृत्तिः। शुक्लपीतहरितरक्तकृष्णकपिलचित्रभेदात्सप्तधा। तदवान्तरजातयस्त्वसंख्याताः। तत्र शुक्लभास्वरं तेजसि। परप्रकाशतावच्छेदकजातिविशेषो भास्वरत्वम् तद्वद्भास्वरं। शुक्लमेवाभास्वरम् अपाकजमप्सु। षड्विधमचित्रं पाकजं पृथिवीपरमाणौ। स सप्तविधमप्यपाकजमेव पृथिवीद्व्याणुकादौ। तत्रावयविरूपं प्रत्यवयवरूपं कारणम् एवं रसादावपि।

मीमांसकास्तु एकैका एव नीलपीतरूपादिव्यक्तयो नित्याश्चोत्पाद्यमानघटादौ घटत्वादिवत्संसृज्यत इति रूपवान् घट इत्यादिप्रतीतिः घटादिनाशे च व्यक्त्यान्तरे घटत्वादिवदेव वर्तत इत्याहुस्तन्न। एवं हि घटत्वादिवज्जातित्वापत्तेः।

नित्यमेकमनेकसमवेतत्वं सामान्यमिति तल्लक्षणयोगात्। इष्टापत्तौ नीलनीलतरादिव्यवहारानापत्तेः। न हि भवति गोतरगोतम इति। किञ्च नीलद्रव्यस्य पाके न रक्ततादर्शनस्थले पूर्वनाशस्याकामेनाप्यभ्युपेयत्वान्न किञ्चदेतत्। रसत्वजातिमद् रसः पृथिवीजलवृत्तिः। मधुराम्लकटुतिक्तकषायलवणभेदाद् षोढा। मधुरोऽपाकजोऽप्सु। षड्विधोऽपि पाकजः पृथिवीपरमाणौ। द्व्याणाकादावपाकजः।

गन्धत्वजातिमान् गन्धः। पृथिवीमात्रवृत्तिः। जलादौ तु उपष्टम्भकभाग एव लोहितस्फटिक इतिवत्प्रतीयते। अत एव पुष्पाद्युपरिसमागतवायुना पुष्पाद्यवयवा एवानीयन्त इति सिद्धान्तः। नन्वेवं पुष्पादेः सछिद्रताकसूर्यादेः परिमाणशून्यता च स्यादिति चेन्न। भोजकादृष्टवशात्पुनर्भागानां पूरणाभ्युपगमात्। क्वचित् कर्पूरादौ तथात्वस्येष्टत्वात्। सुरभिरसुभिश्चेति द्विधा। सोऽपि पाकजः परमाणौ द्व्याणुकादावपाकजः।

स्पर्शत्वजातिमान् स्पर्शः। पृथिव्यादिचतुष्टयवृत्तिः। शीतोष्मानुष्माशीतभेदात् त्रिधा। शीतोऽप्सु। उष्मस्तेजसि। अनुष्माशीतः पृथिवीवाय्वोः। वायावपाकज एव। पृथिवीपरमाणौ पाकजः। पृथिवीद्व्याकादावपाकजः। कोमलकठिनचित्रभेदादनेकधा। ननु कथं रूपस्पर्शावेव चित्रावुदाहृतौ। रसगन्धयोरपि हरीतक्यादौ चित्रयोर्द्दर्शनात्। न च तत्र नानारससमुदाय एव भासते षड् सा हरीतकीति व्यवहारादिति वाच्यम्। रूपस्पर्शयोरप्येवमापत्तेः। चित्ररूपवति अत्र श्याममत्र रक्तमित्याद्यनुभवाद् व्यवहाराच्चेति चेदुच्यते। न तावन्नीलपीतारब्धे नीलं सम्भवति। समवायेन नीलं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन नीलेतरस्य प्रतिबन्धकत्वात्। अन्यथा पीतावच्छेदेनापि नीलापत्तेः। नापि परस्परप्रतिबन्धादुभयोरसम्भवेन नीरूपमेवास्त्विति वाच्यम् अतीन्द्रियतापत्तेः। विषयगतोद्भूतरूपस्य प्रत्यक्षहेतुतायाः प्रागभिहितत्वात्। तस्मान्नीलपीतादिभिर्विलक्षणमेव चित्रं तत्र जन्यत इति युज्यते। एवं स्पर्शोऽप्यवधेयम्। गन्धरसयोस्त्वस्वीकारेऽपि न क्षतिः। तयोः प्रत्यक्षाहेतुत्वात्। केचित्तु चित्ररसगन्धावपीच्छन्ति। तत्तु वर्धमानादिष्वनादृतम्। ननु रूपादयः पृथिवीपरमाणावेव पाकजा इति कथं सङ्गच्छताम्। आपाकनिक्षिप्तघटादावपि पूर्वनाशापरोत्पत्त्योरनुभवसिद्धत्वादिति चेत् सत्यम्। घटमध्येऽपि पाकजरूपाद्यनुभवसिद्धम्। तच्च तत्र अग्निसंयोगं ज्ञापयति। अग्निसंयोगस्यैव पाकत्वात्। तथा च वह्न्ययभिघातात्तत्र परमाणुपर्यन्तं घटावयवतदवयवानां विभागः। ततः परस्परसंयोगनाशः। ततो विशकलितेषु तन्तुषु पटनाशवदसमवायिकारणनाशाद्द्रव्यनाशे स्वतन्त्राः परमाणवः प्रच्यन्ते। तत्र कदाचित् समानादग्निसंयोगादेकजातीयं विलक्षणाच्च परस्परविलक्षणं रूपमुत्पद्यते। पुनर्भोगादृष्टसहकृत ईश्वर एव सृष्ट्यादाविव द्व्याणुकादिक्रमेण पूर्ववदेव तादृशरेखोपरेखासंस्थानवत् करोति। तथा च परमाणुरूपात् द्व्याणुके ततस्त्र्यणुक इति क्रमेण कुलालनिर्मित घट इव तत्रापि रूपाद्युत्पत्तिरिति भवति। परमाणावेव पाकजरूपं रसगन्धस्पर्शा न द्व्याणुकादाविति। घटादावेव पाकाभ्युपगमे कठिनघटादिमध्यभागे वह्न्यप्रवेशान्मध्ये पूर्वरूपादिनाशः नवीनोत्पत्तिर्न स्यातामिति काणादाः। नैयायिकास्तु घटादयः सछिद्राण्येव द्रव्याणि। कथमन्यथा भाण्डान्तर्गतोदनादिपाकः कथं वा तन्मध्यवर्त्तिजलस्पन्दनश्रवणे तथा च तद् द्वारा प्रविष्टवह्निना मध्येऽपि पाकसम्भवाद् गौरवग्रस्तनिष्प्रमाणकपूर्वनाशनबीनोत्पत्तिकल्पनं तदुत्पादनायेश्वरे भारं च न सहते। तथा च तन्मते घटादावपि पाकजं सिद्ध्याति। ननु संयोगस्योभयनिष्ठत्वाद् घटादावपि वह्नावपि रूपरसादयः कुतो न भवन्तीति चेत् सत्यम्। समवायेन पाकजरूपं प्रति पृथिवीत्वेन हेतुत्वात् वह्नेस्तेजस्त्वात्। ननु मतद्वयेप्यग्निसंयोगादेकस्माद्विलक्षणाभिन्नाश्च रूपादयः कथम्। प्रागभावभेदादिति चेन्न। तस्य वैलक्षण्याप्रयोजकत्वात्। अन्यथा घटानामपि पटादिवत्परस्परवैलक्ष्यण्यानापत्तिरिति चेन्न। रूपवति घटे रूपान्तरानुत्पत्तेः रूपं प्रति रूपं प्रतिबन्धकमिति सर्वसिद्धम्। एवं रसादावपि। तथा च प्रतिबन्धकाभावरूपतत्तदभावकारणभेदवैलक्षण्याभ्यां भेदवैलक्ष्ण्ये द्वित्वत्रित्वादिजद्व्याणुकत्र्यणुकाणुत्वहस्वत्वदीर्घत्वमहत्वेष्वप्येवमेव भेदादिः। केचित्वग्निसंयोगभेदमाहुः। तेषामणुत्वादौ गतिश्चिन्त्या। इदमेव पृथिवीत्वजातौ प्रमाणम्। ननु स्पर्शपाकजत्वे किं मानम्। नहि रूपरसादिवत्पाकोत्तरस्पर्शान्तरमनुभूयते। न च चाण्डालस्पर्शनिषेधगोब्राह्मणस्पर्शविहितविध्यनुपपत्त्या तत्सिद्धिरित्याचार्यैरूक्तं युक्तम्। तत्र स्पर्शपदस्य संयोगपरत्वात्। अन्यथा गङ्गास्पर्शविधिकर्मनाशाजलस्पर्शनिषेधानुरोधाज्जलेऽपि दीपाग्निस्पर्शनिषेधपरमेश्वरार्त्तिक्यादीपस्पर्शविधेरनुरोधात्तेजसि तत्सिद्ध्यापत्तेरिति चेन्न। पूर्वं कठिनस्य पाकेन कोमलतायाः पूर्वं कोमलस्य पाकेन काठिन्यस्य चानुभवसिद्धत्वेन रूपादिवत् पाकजत्वसिद्धेः। न च काठिन्यकोमलत्वे संयोगविशेषौ चाक्षुषत्वापत्तेः। एते रूपरसगन्धस्पर्शा उद्भूतानुद्भूतभेदाद द्विधा उद्भूतत्वं जातिस्तदभावोनुद्भूतत्वमिति प्राञ्चः। अनुद्भूतत्वं जातिस्तद्भावोद्भूतत्वमिति मणिकारः।

संख्यात्वजातिमती संख्या। एकत्वद्वित्वबहुत्वभेदात्त्रिधा। सकलद्रव्यवृत्तिः। तत्रावयवगतैकत्वेनावयविन्येकत्वं जन्यते। द्वित्वादौ तु विशेषः घटद्वये चक्षुरादिसंयोगे सति तत्रायमेकोऽयमेक इति अपेक्षाबुद्ध्या द्वित्वोत्पत्तिरनन्तरं द्वित्वद्वित्वत्वनिर्विकल्पकं ततः सविकल्पकमनन्तरमिमौद्वाविति प्रतीतिर्भवति। तत्र घटद्वयं वृत्त्येकत्वद्वयसमवायिकारणम्। अपेक्षाबुद्धिर्निमित्तकारणम्। द्वौ घटौ समवायिकारणे एवं बहुत्वेऽपि अपेक्षाबुद्धिनाशाद् द्वित्वादिनाशः। अत एवापेक्षाबुद्धिः क्षणत्रयस्थायिनी। अन्यथा द्वित्वविशिष्टप्रत्यक्षायोगात्। तद्भिन्नज्ञानेच्छाप्रत्यत्नादयस्तु द्विक्षणस्थायिन एवेति सिद्धान्तः। परमाणुद्व्याणुकादिगतद्वित्वत्रित्वादेर्भगवदपेक्षाबुद्ध्यात्पन्नस्य च निमित्तकारणादृष्टनाशान्नाशः। नन्वयमेक इत्यादित्रयादिविषयापेक्षाद्वयोः द्वित्वं त्रिषु त्रित्वमित्यादिनियमः कुतस्तद्वैपरीत्यस्य दुर्वारत्वात् समवायिकारणादिसाम्ये कार्यं वैलक्षण्यं वा कथम्। न चैकत्वे द्वयं द्वित्वे त्रयं त्रित्वे हेतुरिति वाच्यम्। एकत्वे द्वित्वाद्यभावाद् द्वित्वोत्पत्तेः प्राग् द्रव्येऽपि तदभावात् द्वित्वे द्रव्यद्वयं हेतुरित्यस्याप्यसम्भवात्। न च प्रागभावादेस्तदुपपत्तिरिति आचार्योक्तं युक्तम्। तस्य वैलक्षण्याप्रयोजकत्वात् अन्यथा कार्यं वैलक्षण्यात् कारणवैजात्यकल्पनोच्छेदापत्तिरिति चेत्। उच्यते केवलापेक्षाबुद्ध्या द्वित्वं द्वित्वसहितायाः त्रित्वं तत्सहितया च चतुष्ट्वमित्यभ्युपगमात्। द्वित्वं द्वयोरेव कुत इति चेत्। तत्रैव तत्प्रागभावसत्वादिति गृहाणु परिमाणत्ववत्परिमाणम्। सकलद्रव्यवृत्ति तच्चतुर्विधम्। अणुमहद्दीर्घह्रस्वभेदात्। तत्रोत्कृष्टाणुत्वह्रस्वत्वे परमाणुमनसोर्नित्ये अपकृष्टे द्व्याणुके एव महत्वदीर्घत्वे उत्कृष्टे नित्ये आकाशादौ विभुत्व शब्दवाच्ये। अपकृष्टे जन्येतरतमभावेन त्र्यणुकादौ स्तः विल्वादामलकमण्विति व्यवहारस्तु अपकृष्टमहत्त्वात् गौणः। एवं प्रांशोर्वा मनो ह्रस्व इत्यपि अपकृष्टदीर्घत्वाद् गौणः।

तत्र द्व्याणुकपरिमाणं परमाणुद्वित्वसंख्यायोनिः। द्व्याणुकगतबहुत्वात्त्र्यणुके महत्वम्। घटादौ च कपालमहत्वं क्वचित् क्वचिद् बहुत्वसंख्याविलक्षणमहत्वे हेतुः। तूलपिण्डपरिमाणविशेषे अवयवप्रचयः कारणम्। स च प्रशिथिलः संयोगः। घटः पटात्पृथगिति अनुभवसिद्ध पृथक्त्वत्वजातिमत्पृथक्त्वम्। तदपि संख्यावदेव सर्वद्रव्यवृत्तिः, एक पृथक्त्वद्विपृथक्त्वादिभेदेनानेकधा। अवयवगतैकपृथक्त्वादवयविन्येकपृथक्त्वमुत्पद्यते रूपं रसात् पृथगिति तु भिन्नत्वात् गौणः प्रयोगः। ननु भेदेनैव घटः पटात्पृथगिति व्यवहारोपपत्तौ पृथक्त्वाख्यगुणे किं मानमिति चेत्। अत्राचार्याः अन्यारादितरर्त्ते इति व्याकरणसूत्रेण पृथक्त्ववाचकपदयोगे विधीयमानपञ्चम्यनुरोधेन तत्स्वीकारात्। महाभाष्ये अन्य इत्यर्थग्रहणमभ्युपेत्य तदर्थवाचकेतरादिपदयोगेऽपि पञ्चमीसिद्धेस्तस्य सूत्रे प्रत्याख्यातत्वात्। भेदस्यान्यपदार्थत्वेन विवक्षणे च तद्वाचकपदयोगाद् विशेषाद् घटादन्यो विलक्षण इत्यादाविव घटो नेत्यत्रापि पञ्चम्यापत्तेः।

संयुक्तावित्यनुभवसिद्धसंयोगत्वजातिमान्संयोगः। सर्वद्रव्यवृत्तिः स त्रिविधः। अन्यतरकर्मजः उभयकर्मजः संयोगजश्च निष्क्रियस्य स्थाणोः क्रियावता पक्षिणा सह आद्यः, मल्लयोर्मेषयोर्वा द्वितीयः। अङ्गुलितरूसंयोगात्कायतरूसंयोगोऽन्त्यः। सोऽयं संयोगो द्विनिष्ठः घटपटौ संयुक्ताविति प्रत्ययात्। घटे पटस्य पटे घटस्यान्य एव संयोगः॥

अन्यथा घटः पटसंयुक्त इतिवत् घटो घट संयुक्त इत्यपि प्रतीत्यापत्तेः। तथाचैकवृत्येव संयोग इति मीमांसकाः।

घटपटौ विभक्ताविति प्रतीतिसिद्धविभागत्वजातिमान् विभागः। सकलद्रव्यवृत्तिः। संयोगजः हिमवद्विध्यौ विभक्ताविति प्रयोगस्तु संयोगाभावयोगाद् गौणः। शेषं पूर्ववत् परत्वजातिमत्परत्वम् तद् द्विविधम्। कालिकं दैशिकं च। आद्यं जन्यद्रव्ये एव द्वितीयं मूर्त्त एव। इयत्तावछिन्नपरिमाणं मूर्त्तत्वमुच्यते तदाश्रयो मूर्त्तम्। तथाहि युवस्थविरपिण्डयोरयमस्माद्बहुतरतप नपरिस्पन्दाश्रयः। अयमस्मादल्पतपनपरिस्पन्दाश्रय इति बुद्ध्या परत्वापरत्वे जन्येते। तयैव अयमस्मात् पर इति।

अयमस्मादपर इति धीरुत्पद्यते एतदेव ज्येष्ठत्वम्। कनिष्ठत्वञ्च तत्र तपनक्रियायाः पुरूषे सम्बन्धघटको महाकालोऽभ्युपेयते। एवं व्यवहितसन्निकृष्टयोः पिण्डयोरयमस्मात् स्वल्पतरसंयुक्तः संयोगवान्। अयमस्माद्बहुतरसंयुक्तसंयोगवानिति ज्ञानाद्दैशिके परत्वापरत्वे जन्येते। तयोरेवायमपरोऽयं पर इति धीरुत्पद्यते तत्र तावद्देशसंयोगसंक्रामिका महादिगभ्युपेयते।

गुरुत्वत्वजातिमद् गुरुत्वम्। प्रथमपतनासाधारणकारणम्। पृथिवीजलवृत्तिः। अतीन्द्रियं पतनानुमेयमित्युदयनाचार्याः। अधोदेशावच्छेदेनप्रत्यक्षमेव तदिति लीलावतीकारः। द्रवत्वत्वजातिमत्त्वं द्रवत्वम्। पृथिव्यादित्रयवृत्तिः। तद् द्विविधम् सांसिद्धिकं नैमित्तिकं च। तत्र स्वाभाविकं जले करकादौ चादृष्टविशेषात् घनीभावात् प्रतिबन्धकमात्रम्। वस्तुतोऽस्त्येव क्षणोत्तरमुपलम्भात्। लाक्षासुवर्णादावग्निसंयोगनिमित्ताज्जायमानमन्त्यम्।

स्नेहः संग्रहरूपकार्यानुमेयो गुणः जलमात्रवृत्तिः। घृततैलादावुपष्टम्भकजलभागगतः।

बुद्धित्वजातिमती बुद्धिः। सा द्विधा स्मृतिरनुभवश्च। स्मरामीत्यनुभवसिद्धिजातिमती स्मृतिः। सा च पूर्वानुभवजन्यसंस्कारजेति वक्ष्यते। अनुभवामीत्यनुभवसिद्धजातिविशेषोऽनुभवत्वम् इत्येके। अनुमित्यादावनुभवामीत्यप्रतीतेः प्रत्यक्ष एव तथानुभवाच्चानुभवसिद्धम् अनुभवत्वं प्रत्यक्षमेव। प्रकृते तु स्मृतिभिन्नज्ञानत्वमेवानुभवत्वम् इत्यपरे सेयं बुद्धिर्द्विधा। मिथ्या प्रमा च। असद्विषयिणी मिथ्या। शुक्ताविदं रजतमिति बुद्धौ शुक्तिरजतत्वयोः प्रसिद्धयोरलीकस्यैव समवायस्य विषयीकरणादिति वाचस्पतिमिश्राः। आचार्यादयस्तु असतोभानासम्भवाच्छुक्तौ प्रसिद्धरजतत्वस्येव तत्समवायस्यरोप एव मली मिथ्यात्वम्। घटे रूपमित्यस्य वारणाय विशेष्यावृत्तीति नोक्तम्। असम्बद्धत्वं तु तत्र नास्तीति नातिव्याप्तिः। सा त्रिधा संशयविपर्ययतर्कभेदात्। एकस्मिन् धर्मिणि विरोधविषयकनानार्थावमर्शः संशयः। यथास्थाणौ स्थाणुर्वा पुरुषो वायमिति। अत्र पुरुषत्वं तत्सम्बन्धश्च तत्र नास्तीति भवत्यसद्विषयत्वम्। स चायं त्रिधा साधारणधर्मदर्शनजोऽसाधारणधर्म्मजोविप्रतिपत्तिजश्च स्थाणुपुरुषसाधारणोत्वदर्शनज आद्यः। नित्यानित्येभ्योव्यावृत्तं शब्दत्वादिदर्शनजः शब्दो नित्योऽनित्यो वेति द्वितीयः। वादिविरुद्धवाक्याज्जायमानस्ततो द्रव्यं वेत्यादितृतीयं प्रतियोगिव्यधिकरणतदभाववति तत्प्रकारको निर्णयो विपर्ययः यथा शुक्ताविदं रजतमिति।

रजतत्वाभाववत्यां शुक्तौ तन्निर्णयोऽयं भवत्येव। व्याप्यारोपप्रयुक्तोव्यापकारोपस्तर्कः। यथा यदि निर्वह्नि स्यान्निर्धूमं स्यादित्यादिः। वह्नियभावो व्याप्यस्तदारोपप्रयुक्तोव्यापकधूमाभावारोपो नास्ति। स्वप्नस्तु संशयविपर्ययात्मकं स्मरणमेव। दोषवशात्तदिति स्थाने इदमिति ग्रहणमिति नैयायिकाः। वैशेषिकास्तु तर्कस्याहार्यविपर्ययत्वात्तं पृथग्गणयन्तः संशयविपर्यय स्वप्नानध्यवसायभेदेनाविद्याचतुर्धेत्याहुः। मनः संयोगजं ज्ञानं स्वप्नः। अविदितवरपदार्थदर्शनात्किमेतदिति धीरनध्यवसायः। न चायं संशयः नानाकोट्यानुल्लेखात्। प्रमा च यथार्थानुभवः। अबाधितार्थविषयं ज्ञानं यथार्थम्। स्वविषयसम्बन्धेन विशेषणवद्विशेष्यविषयकत्वमित्यर्थः। तथा च रक्तः पट इति परम्परया प्रमा न समवायेन। सा च प्रमाप्रत्यक्षात्मिकैवेति चार्वाकाः। अनुमितिरपीति कणादाप्तसुगता उपमितिरपीति न्यायैकदेशिनः। शाब्दपीति नैयायिकाः॥ अर्थापत्तिरपीति प्राभाकराः। अनुपलब्धिरपीति भाट्टाः। सांभवैतिह्यरूपापीति पौराणिकाः। एतादृशप्रमाकरणं च प्रमाणम्। करणत्वं चासाधारणकारणत्वम्। असाधारणत्वं च व्यापारवत्त्वम्। तथा च चक्षुरादिकमेव प्रत्यक्षादिकरणम् इत्येके। आचार्यास्तु अव्यवधानेन कार्योत्पादकत्वमसाधारणत्वं तथा च चक्षुःसंयोगादिकं प्रत्यक्षे करणम्। लिङ्गपरामर्शरूपं तृतीयं ज्ञानमेवानुमितावित्याहुः। कारणत्वं चानन्यथासिद्धनियत पूर्ववृत्तित्वम्। यथा घटे दण्डत्वादेः दैवादागतरासभस्य तन्तुरूपस्य च वारणाय क्रमेण पदत्रयमिति प्राञ्चः। वस्तुतस्तु नियतपदं न देयमेव रूपवद्रासभस्यान्यथासिद्धत्वेनैव वारणात् अन्यथासिद्धत्वं चावश्यकल्प्यमानपूर्ववर्त्तिन एव कार्यसम्भवे तत्सहचरितत्वं रासभसत्वेऽपि दण्डचक्रादेरावश्यकत्वात्तैरयमन्यथासिद्ध एवेति तत्वम्। तथा च प्रमाकरणं चार्वाकमते एकं निर्विकल्पकं च वैशेषिकाणां द्वयमित्यादिः सिद्ध्याति। तथा हि साक्षात्करोमीति प्रतीतिसाक्षिकजातिविशेषवज्ज्ञानं प्रत्यक्षम्। तद्द्विधा नित्यमनित्यं च। नित्यं भगवतः तत्सर्वविषयं प्रमा च। अनित्यं जीवानां तद्द्विधा। सविकल्पकम् निर्विकल्पकं च। घटोऽयं दण्डीत्यादिशब्दाभिलापयोग्यं विशेषणविशेष्यवैशिष्ट्यावगाहि वा सविकल्पकम्। तत्कारणत्वेन कल्प्यमतीन्द्रियं विशिष्यशब्दाभिलापयोग्यं वैशिष्ट्यानवगाह्यम्। तद्यथा दण्डीपुरुष इति ज्ञाने दण्डो विशेषणं पुरूषो विशेष्यः संयोगः सम्बन्ध इति तदवगाहितज्ज्ञानं सविकल्पकम्। तद्दण्डज्ञानमन्तरेण नोत्पद्यत इति दण्डज्ञानजन्यम्। यथा सुप्तोत्थितस्य जायमाने घट इति ज्ञाने घटत्वं विशेषणं घटो विशेष्यः समवायः सम्बन्ध इति तदवगाहितत्सविकल्पकघटत्वं ज्ञानजन्यं वाच्यम्। तत्कारणीभूतं ज्ञानं चानुभवानास्पन्दत्वादतीन्द्रियं निर्विकल्पकमभिधीयत इति। नास्तिकास्तु निर्विकल्पकमेव प्रमा स्वलक्षणवस्तुविषयत्वात्। तच्च सूर्यादिवत्स्वप्रकाशं न तु घटादिवत्परं प्रकाश्यम्।

सविकल्पकं न प्रमा। अलीकघटत्वाद्यवगाहित्वात् बन्ध्या पुत्र इति ज्ञानवदित्याहुः। तन्नेति वक्ष्यते। तच्च प्रत्यक्षं पश्यामि जिघ्रामि आस्वादे स्पृशामि शृणोमि मनसा सुखं साक्षात्करोमीति प्रतीतिसाक्षिकचाक्षुषत्वादिजातिषट्कभेदात्षोढा। तत्करणं चक्षुरादिः तैर्विषये गृह्यमाणे विषयेण सह सन्निकर्षावान्तरव्यापाराः। ते च संयोगसंयुक्तसमवायसंयुक्तसमवेतसमवायसमवायसमवेतसमवायविशेषणताज्ञानलक्षणासामान्यलक्षणायोगजधर्मलक्षणा चेति नव। षडाद्याः लौकिकाः। अन्ये त्रयोऽलौकिकाः। तत्र मनसा जायमाने अहमित्यात्मप्रत्यक्षे मनः करणम्। आत्मप्रत्यक्षं फलम् आत्ममनः संयोगो वान्तरव्यापारः। सम्बन्ध इति यावत् अन्ये तु तज्जन्यस्तज्जन्यजनकोऽवान्तरव्यापारः। भवति चात्ममनः संयोगो मनोजन्यस्तज्जन्यज्ञानजनकश्चेति व्यापारः। न चाजन्ये शब्दसमवाये अव्याप्तिः। तस्य व्यापारत्वास्वीकारात्। शब्दस्यैव स्व प्रत्यक्षे व्यापारत्वात्। यद्वा श्रोत्रमनः संयोग एव शब्दस्य तदत्यन्ताभावादेश्च प्रत्यक्षे व्यापारः। तस्य श्रोत्रजन्यत्वात् प्रत्यक्षजनकत्वाच्चेति वदन्ति। सुखादिग्रहे संयुक्तसमवायः मनः संयुक्ते आत्मनि सुखस्य समवायात् सुखसमवेतसुखत्वादिग्रहे संयुक्तसमवेतसमवायः। एवं घटादिग्रहे चक्षुषः स्पर्शनस्य वा संयोगः। रूपादौ संयुक्तसमवायः। रूपत्वादौ संयुक्तसमवेतसमवायो द्रष्टव्यः। द्रव्यप्रत्यक्षमात्रे इन्द्रियसंयोगस्य शब्देतरद्रव्यसमवेतग्रहे संयुक्तसमवायस्य तत्समवेतग्रहे तृतीयस्य हेतुत्वस्य सामान्यतः स्वीकारात्।

ननु चक्षुषो गोलकविशेषरूपस्य घटादिसंयोगः प्रत्यक्षबाधितः। कथमासत्तिरिति चेन्न। तत्तञ्ोलकाधिष्ठितानामिन्द्रियाणामतीन्द्रियाणामभ्युपगमात्। गोलकादिरूपत्वे चासम्बन्धग्राहकत्वमभ्युपेयम्। तथा च पृष्ठभागीयाः पुरोवर्तिनो भित्यादिव्यवहिताश्च पदार्था गृह्येरन् व्यवधानं प्रतिबन्धकमिति चेन्न। भित्यादिपरभागस्थितानां पदार्थानां परावृत्यदर्शने पृष्ठदेशे स्वस्य च प्रत्यक्षं न स्यात्। तत्पुरुषीयतत्कालीनप्रत्यक्षं प्रत्येव प्रतिबन्धकत्वकल्पने चातिगौरवम्। तस्मादावश्यकमतीन्द्रियमिन्द्रियम्। नन्वेवं शाखाचन्द्रमसोस्तुल्यकालग्रहणं न स्यात्। किञ्च नेत्रोन्मीलने प्रहराद्यवधिसूर्यचन्द्रग्रहणार्थं विलम्बापत्तिःं चक्षुषस्तावद्दूरंगमनकल्पनादिति चेन्न। अतिलाघवादतिशीघ्रं तावद्दूरगमनाद्विशेष्याग्रहस्याश्रुतद्रव्यादप्रतीतेश्चोपपत्तेः। तदुक्तम् अचिन्त्यो हि तेजसो लाघवातिशयेन वेगातिशयः। यत् प्राचीनाचलचूडावलंम्बिन्येव भगवतिमयूषमालिनि भवनोदरेष्वालोक इत्यभिमानो लोकानामिति दिक्।

समवायेन शब्दग्रहः, श्रोत्रसमवायस्य शब्दे सत्वात्। शब्दत्वकत्वादिग्रहे समवेतसमवायः। विशेषणतयाऽभावग्रहः। शब्दो नास्तीति श्रोत्रे शब्दाभावस्य विशेषणतास्त्येव। भूतलरूपादौ घटाभावग्रहे चक्षुःसंयुक्तविशेषणतासंयुक्तसमवेतविशेषणतेत्यादिः द्रष्टव्यम्। कवेः काव्यरचनामूलभूते विशिष्टज्ञाने मनसा जायमाने विशकलितपदार्थस्मरणरूपं न सन्निकर्षः। अन्यथा तत्र सन्निकर्षाभावेनातीन्द्रियातीतानागतपदार्थवैशिष्ट्याज्ञानासम्भवात्। घटत्वसामान्यलक्षणप्रत्यासत्यप्यनागतव्यवहितसकलज्ञानोत्पत्तौ सामान्यं प्रत्यासत्तिः। अन्यथा एतादृशो घटपदवाच्य इत्येकत्र बोधिते सर्वत्र घटे तद्ग्रहो न स्यात्। क्षणमात्रम् ऋषिस्तस्थौ सुप्तमीन इव ह्रद इत्याद्यभियुक्तोत्त्या योगिभिः सर्व साक्षात्कारात्तत्रान्त्या। योगाभ्यासेन जातौ दृष्टविशेषयोगजधर्म इत्युच्यते॥

॥ अथानुमानं निरूप्यते। अनुमिनोमीत्यनुभवत्वजातिविशेषवत्यनुमितिः॥

तत्कारणमनुमानम्। तच्च ज्ञायमानं लिङ्गमिति प्राञ्चः। तथाहि यद्धर्मावच्छिन्नसमानाधिकरणा यावन्तो यत्साध्यतावच्छेदकविशिष्टसमानाधिकरणास्तत्साध्यसामानाधिकरण्यविशिष्टधर्मत्वं व्याप्तिः। तदाश्रयोधूमादिर्लिङ्गम्। तस्मिल्लिङ्गे यत्र धूमस्तत्र सर्वत्र वह्निरिति भूयोदर्शनात् धूमत्वावच्छिन्नधूमसमानाधिकरणाः सर्वे महानसत्वादयो वह्नित्वावच्छिन्नवह्निसमानाधिकरणास्तादृशवह्निसामानाधिकरण्यविशिष्टधूमत्ववान्धूम इति व्याप्तिज्ञानम्प्रथमञ्जायते। ततोऽपूर्वपर्वतादौ धूमदर्शनन्द्वितीयञ्ज्ञानं जायते। ततो वह्निव्याप्यधूमवानयमिति तृतीयज्ञानमुत्पद्यते। तदेव लिङ्गपरामर्शः। तत्र लिङ्गपरामर्शत्वेन परामृश्यमानलिङ्गत्वेन वा कारणतेत्यत्र विनिगमकाभावादुभयमपि द्वारद्वारिभावेन हेतुः। लिङ्गङ्करणम्परामर्शो द्वारं व्याप्तिज्ञानन्तु परामर्शे विशेषणज्ञानत्वेनोपयुज्यते। ततो यम्पर्वतो वह्निमानिति साध्यवह्निविशिष्टज्ञानरूपानुमिति र्भवतीति। मणिकारास्तु अतीतानागतलिङ्गेनापि अनुमितिदर्शनान्न लिङ्गस्य करणत्विङ्कन्तु व्याप्तिज्ञानङ्करणम्परामर्शो व्यापार इत्याहुः। स्मरणात्मकपरामर्शादसन्निकर्षहेतुकेप्यनुमितौ तत्र व्याप्तिज्ञानस्य पूर्वपरामर्शतज्जन्यसंस्कारैर्व्यवधानान्न करणत्वं सम्भवतीति संस्कारसाधारणपरामर्शजनकत्वेनैवानुमितिकरणमिति नव्याः। जनकत्वं हि कारणत्वं तच्चान्यथासिद्धनियतपूर्ववृत्तित्त्वं पूर्ववर्त्तित्वञ्च प्रागभावावच्छिन्न समयवृत्तित्वम्। अतिगौरवग्रस्तमिति नैतेन रूपेण कारणता। किन्तु मन एवानुमितिकरणम् परामर्शो व्यापारः। उक्तञ्च प्रमेयभाष्ये स्मृत्यनुमित्यादिकरणत्वेन मनः साधितमिति नव्याः। ज्ञानत्वेनैवानुमितिकरणता। परामर्शविशेषकारणमिति नातिप्रसङ्ग इत्यपि केचित्। न च व्याप्तिग्रहे सति महानस एवानुमीयतां वह्निव्याप्यधूमवानयमिति परामर्शस्य तत्रापि सम्भवादिति वाच्यम्। पक्षताया अस्यानुमितिहेतुत्वात्। अनुमितीच्छाभावविशिष्टसाध्यनिर्णयाभावो हि पक्षता। महानसादौ चानुमितीच्छाविरहसहित एव साध्यनिर्णयोस्तीति न पक्षता। तत्रैवानुमितिर्भवत्विति इच्छायां पक्षतासम्पत्तये अनुमितीच्छाभावविशिष्टेति विशेषणम्। तथा च पुरुषे सत्यपि दण्डाभावान् दण्डिपुरुषाभाववत् साध्यनिर्णये सत्यपि इच्छाविरहरूपविशेषणाभावात्तादृशनिर्णयाभावरूपा पक्षता भवति। साध्यसंदेहः पक्षता तदुक्तं भाष्येनानुपलब्धेन निर्णीतेऽर्थे न्यायः प्रवर्त्तते अपि तु संदिग्धेऽर्थे इति मते च तत्रानुमितिर्न्न स्यादिति। तन्न युक्तं किन्तु धूमो वह्नि व्याप्यो धूमवान् पर्वत इति ज्ञानद्वयमेव हेतुरस्तु। कुतः परामर्शोऽपीति मीमांसककन्दलिकारयोर्मतम्। धूमो वह्निव्याप्यः आलोकवान् पर्वत इति ज्ञानादप्यनुमानापत्तेः धूमे व्याप्तेः आलोके पक्षधर्मतायाश्च ज्ञानसत्वात्। न चैकत्र हेतौ तदुभयावगाहिज्ञानं करणमिति वाच्यम्। धूमो वह्निव्याप्यः द्रव्यवान् पर्वत इति ज्ञानादप्यनुमित्यापत्तेः द्रव्यत्वेन धूमस्यैव पक्षवृत्तित्वाभावात् न चैकेन धूमत्वेन रूपेण व्याप्तिपक्षधर्मताज्ञाने हेतूवह्निव्याप्यवान्पर्वत इति आप्तवाक्यजपरामर्शादनुमित्यनापत्तेः। तस्मात्परामर्श एवावश्यकः। सोऽयं परामर्शाव्याप्तिज्ञानक्रमेण स्वस्यैव यत्रोत्पन्न अनुमितिरपि स्वस्यैव तच्चार्थानुमानम्। यत्र तु स्वयंबुध्वा शब्देन परं बोधयति तत्परार्थानुमानम्। तत्र प्रतिज्ञाहेतूदाहरणोपनयनिगमनाख्याः पञ्चावयवाः। तत्र पर्वतो वह्निमानिति साध्यविशिष्टपक्षबोधकं वचनं प्रतिज्ञा कुत इत्याकांक्षाशमकं धूमादिति पञ्चम्यन्तं लिङ्गवचनं हेतुः। धूमोऽस्तु वह्निर्मास्तु इत्याशंकाशमकं यत्र धूमस्तत्रवह्निर्यथा महानस इत्यादिसव्याप्तिकं दृष्टान्तवचनमुदाहरणम्। हेतूदाहरणाभ्यां पर्यवसितव्याप्तिविशिष्टपरामर्शजनकं तथा चायं वह्निव्याप्यधूमवानयमिति पक्षे साध्योपसंहाररूपं तस्मात्तथेति वाक्यं निगमनम्। एतदेव प्रतिज्ञोपदेशनिदर्शनानुसन्धानप्रत्याम्नायशब्देन वैशेषिकैरूच्यन्ते। अपदेशे हेतुः। शेषं क्रमेण ज्ञेयम्। मीमांसकास्तु त्रय एवावयवाः प्रयोज्याः। उदाहरणं तास्तदाद्या इत्याहुः। न च परार्थानुमाने शाब्दबोधात्मक एव साध्यनिर्णयो नानुमितिरिति वाच्यम्। वादिवाक्यस्याप्रामाण्यशंकास्कन्दितत्वेन निर्णयाजनकत्वात्। पञ्चावयवपूर्त्यनन्तरं मनसा बाधकाभावप्रतिसन्धाने सति वादिकारित व्याप्तिज्ञानादिवशान्मानस परामशोत्ररमनुमित्यभ्युपगमादिति दिक्। तदिदं लिङ्गत्रिविधम्। केवलान्वयिकेवलव्यतिरेकि-अन्वयव्यतिरेकिभेदात्। तत्र वृत्तिमदत्यन्ताभावाप्रतियोगी साध्यसाधको हेतुः केवलान्वयी। यथेदं वाच्यं ज्ञेयत्वाद्दव्यत्वादित्यादिः। अनवगतसाध्यसाधनसहचारो हेतुः केवलव्यतिरेकि यथा आकाशः पृथिव्यादिसर्वेभ्यो भिद्यते शब्दवत्त्वादिति अत्र शब्दस्य पृथिव्यादिभेदे साहचर्यं न क्वापि दृष्टं किन्तु यत्रेतरत्वं तत्र शब्दो नास्तीति इतरभेदाभावशब्दाभावयोरेव सामानाधिकरण्यमवगतम्। अतो व्यतिरेकयोः साध् याभावहेत्वभावयोरेव व्याप्तिग्रहात्केवलव्यतिरेकि। न च शब्दे हेतौ व्याप्त्यग्रहादितरभेदव्याप्यशब्दवानयमिति परामर्शासम्भवेन कथमत्रानुमितिरिति वाच्यम्। ययोरभावयोर्व्याप्तिर्विना बाधकं तयोरपीति तर्कसहकृतमनसा हेतावपि साध्यव्याप्तिग्रहणं परामर्शसम्भवात्। यद्वा साध्याभावव्यापकाभाव प्रतियोगि हेतुमानयमित्येव व्यतिरेकिणि परामर्शः। ततोऽनुमितिं यत्र साध्यहेत्वोस्तदभावयोश्च व्याप्तिर्गृह्यते सोऽह्यन्वयव्यतिरेकी। यथा यत्र धूमस्तत्र वह्निर्यत्र वह्न्याभावस्तत्र धूमाभाव इति उभयत्र सहचारग्रहाद्धूमसहचरिताः सर्वे वह्निसहचरिता वह्न्याभावसहवरिताः सर्वे धूमाभावसहचरिता इति ग्रहाद्धूमादिः तद् व्याप्तिबोधनप्रकारस्तु प्राचीनैरुक्तः

अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते।
साध्याभावोन्यथा व्याप्यो व्यापकसाधनात्ययः।
व्याप्यस्य वचनं पूर्वं व्यापकस्य तत् परम्।
एवं परीक्षिता व्याप्तिः स्फूटीभवति तत्त्वत॥

इति तत्रान्वयव्यतिरेकिणि पक्षधर्मत्वं सपक्षे सत्वं विपक्षाद्यावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वञ्चेति पञ्चरूपाणि अपेक्षितानि। केवलव्यतिरेकिणि सपक्षाभावात्तद्भिन्नानि चत्वारि। केवलान्वयिनि विपक्षाभावाद्विपक्षव्यावृत्तिभिन्नानि चत्वारि तत्र प्रागुक्तपक्षतावान्पक्षः पर्वतादिः। निर्णीतसाध्यहेतुसहचारकः सपक्षः निर्णीतसाध्याभावको विपक्षः। विषयः साध्यं तस्या बाधितत्वं बाधाभावो यस्य हेत्वोस्तत्त्वम्। सत्प्रतिपक्षः साध्याभावसाधको हेतुस्तदभावोऽसत्प्रतिपक्षत्वम्। एतादृशरूपशून्या हेतुवद्भासमानत्वाद् हेत्वाभासाः स चासिद्धविरुद्धानैकान्तिकप्रकरणसमबाधिताः पञ्च। तत्रासिद्धस्त्रिधा। आश्रायासिद्धः स्वरूपसिद्धो व्याप्यत्वासिद्धश्चः। यत्र पक्षतावच्छेदकं पक्षे नास्ति स आद्यः यथा गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत्। अत्र पक्षतावच्छेदकं गमनीयत्वं प्रसिद्धे अरविन्दे तन्नास्तीत्याश्रयासिद्धत्वम्। पक्षे हेतु स्व रूपाभावः स्वरूपासिद्धः। यथा जलं रसवत् गन्धवत्वादिति। व्याप्त्याभाववान् व्याप्यत्वासिद्धः। यथा पर्वतो वह्निमान्नीलधूमादिति। अत्र नीलत्वस्य व्यर्थत्वं न व्यर्थविशेषणत्वात् तदवछेदेन व्याप्त्यभावाद्व्याप्यत्वासिद्धेः। साध्य व्यापकाभावप्रतियोगी हेतुर्विरुद्धः। वह्निमान् ह्नदत्वात् गगनाद्वेति यथा। व्यभिचार्यनैकान्तिकः। प्रतियोगिव्यधिकरणसाध्याभाववद्वृत्तित्वम्। साध्यासमानाधिकरणधर्मसमानाधिकरणत्वम्। वा व्यभिचारः। तद्वान् व्यभिचारी। स त्रिधा। साधारणो असाधारणोऽनुपसंहारी च। विपक्षवृत्तिः साधारणः। यथा पर्वतो धूमवार्न्वैंरिति। विपक्षे अयः पिण्डे वह्निरस्त्येव। सपक्षविपक्ष व्यावृत्तोऽसाधारणः यथा शब्दो नित्य शब्दत्वादिति। सपक्षे गगने विपक्षे घटादौ च हेतुर्नास्त्येव। अतो व्यतिरेकव्याप्त्या साध्यतदभावसाधनत्वाविशेषात्संदेहोपादकत्वात् दूषणमयम्। अवृत्तिसाध्यसाधकोऽनुपसंहारी। आकाशवान्धूमादिति यथा। तुल्यबलसाध्याभावसाधकहेत्वन्तरसहितः सत्प्रतिपक्षः। यथा शब्दो अनित्यः कृतकत्वात् घटवत्। शब्दो नित्यो व्योमैक गुणत्वात् परिमाणादित्यत्र पक्षे साध्याभावनिर्णयोबाधस्तथाविधो बाधितः। उत्पत्तिकालीनो घटो गन्धवान् पृथिवीत्वादिति। तत्र प्रमाणान्तरेण गन्धाभावनिर्णयाद्बाधितः॥ एतेषां सत्प्रतिपक्षासाधारणौ विशेषाग्रहणदशायामेव हेतोराभासत्वापादकत्वादनित्यदोषौ। साक्षादनुमितिप्रतिबन्धकौ स्तः। यदा तु तर्कादिना प्रमाणान्तरेण व्याप्त्याद्ये कत्र निर्णीतं बाधाभावश्चास्ति तदा दोषज्ञापनाच्च। शेषास्तु नित्यदोषाःबाधान्ये व्याप्त्यादिविघटकाश्चेति तज्जनकज्ञानविघटकत्वेन दोषा इति नैयायिकाः। वैशेषिकास्तु विरुद्धासिद्ध संदिग्धास्त्रयो हेत्वाभासाः। विरुद्धासिद्धसंदिग्धमलिङ्गकाश्यपो ब्रवीदिति भाष्यात्। अनेनासिद्धविरुद्धसंदिग्धानध्यवसितानामनपदेशत्वमुक्तं भवतीत्यपि भाष्याच्चत्वारो वा। तत्रासिद्धश्चतुर्धा। उभयासिद्धोन्यतरासिद्धः स्वरूपासिद्धोऽनुमेयासिद्धश्चशब्दः नित्यः सावयवत्वादित्यादाः। कार्यत्वादिति द्वितीयः। बाधितः तृतीयः। विरुद्धः प्रागुक्त एव साधारणोप्यनैकान्तिकः साध्यतदभावसहचारेणोभयसंदेहजनकत्वात् संदिग्धः। शब्दो नित्यः शब्दत्वादित्यनध्यवसितः साधारणधर्मदर्शनविप्रतित्योरेव संशयजनकत्वेनास्य प्राचीनेनान्तर्भावादित्याहुः। हेत्वाभासानामेकज्ञानेऽन्यस्याज्ञानेऽनुमान दूषणसम्भवात्। सर्वेऽपि स्वान्तंत्र्येण दूषणानि तेन क्वचित् क्वचित् सम्मीलनेऽपि नैकेनापरान्यथासिद्धः शंक्या व्यभिचारोन्नायकत्वेन परम्परोपयोगान्न हेत्वाभासान्तरमुपाधिः यद्धर्मविशिष्टसाध्यव्यापकत्वं तद्धर्मविशिष्टसाधनाव्यापकत्वं च तदत्र क्षणम्। अस्तीदं धूमवार्न्वैंरित्यत्राद्रेंधने भवति हि द्रव्यत्वविशिष्टो यत्र धूमस्तत्रार्द्रेन्धनम्। द्रव्यत्वविशिष्टो यत्र यत्र वह्निस्तत्रतन्नास्तीति द्रव्यत्वविशिष्टसाध्यव्यापकं तद्विशिष्टसाधनाव्यापकं च। एवं गर्भस्थो मित्रातनयः श्यामः मित्रातनयत्वात्पूर्वोत्पन्नवदित्यत्र शाकपाकजत्वमुपाधिः। अत्रापि मनुष्यत्वावछिन्नं यत्र यत्र श्यामत्वं तत्र शाक पाकत्वं मनुष्यत्वावछिन्नं यत्र यत्र मित्रातनयत्वं तत्र तत्र शाकपाकजत्वं च नास्तीति भवति लक्षणसमन्वयः। एवं वायुः प्रत्यक्षः प्रमेयत्वादित्यत्रापि वह्निर्द्रव्यत्वावछिन्नसाध्यव्यापकं तदवछिन्नसाधनाव्यापकमुद्भूतरूपवत्त्वमुपाधिरित्यलं पल्लवेन। ननु अनुमानं न प्रमाणम्। नाप्यनुमितिः प्रमान्तरा यत्र धूमस्तत्र वह्निरिति बहुशो दर्शनाद् धूमवतानेन पर्वतेन प्रीयेण वह्निमता भाव्यमिति सम्भावनात एवानुमितिकार्यनिर्वाहादिति चेन्न।

वह्निमनुमिनोमीत्यनुभूयमानजातिविशेषस्य तदाश्रयानुमितेस्तत् कारणत्वेनानुभूयमानपरामर्शस्य चापलपितुमशक्यत्वात्। तत्रैव प्रवृत्या विषयलाभे सति जातं ज्ञानं प्रमेति प्रमात्वग्रहाच्च। विना बाधकं तदन्यथात्वस्य कल्पयितुमशक्यत्वादिति दिक्। उपमिनोमीत्यनुभवसिद्धजातिविशेषवत्युपमितिस्तत्करणमुपमानम्। तत्त्रिधा। सादृश्यविशिष्टपिण्डज्ञानं वैधर्म्यविशिष्टपिण्डज्ञानमसाधारणधर्मविशिष्टपिण्डज्ञानञ्च। तद्यथा गवयादिशब्दः क्वचित् शक्त इति जानता कीदृग्गवय इत्यारण्यके पृष्टे गोसदृशो गवय इति तेन निवेदिते कालान्तरे अरण्यं गतस्य तत्पिण्डदर्शनाद् सदृशोऽयं पिण्डः। एतादृशश्च गवयशब्दार्थ इत्याप्तेनोक्तं तस्मादयं गवयशब्दवाच्य इत्युपमितिर्जायते। तत्र गोसदृशोऽयं पिण्ड इति सादृश्यविशिष्टपिण्डज्ञानं करणम्। वाक्यार्थस्मरणमवान्तव्यापारः। उपमितिः फलम्। एवं कीदृशोऽश्व इति पृष्टे गवादिश्च द्विशफः स्वल्पपुछश्चनेति आप्तोत्कानन्तरं तत् पिण्डदर्शनादयं द्विशफः स्वल्पपुछवदिति ज्ञानादाप्तवाक्यार्थस्मरणोत्तरमयमश्वशब्दवाच्य इत्युपमितिज्ञानम् उत्पद्यते। तत्र वैधर्म्यविशिष्टपिण्डज्ञानं करणं वाक्यार्थस्मरणं व्यापारः शक्तिज्ञानं फलम्। एवं कीदृश उष्ट्र इति प्रश्ने कण्टकाशी अतिदीर्घग्रीव इत्याप्तवाक्यस्मरणोत्तरं कालान्तरे तद्धर्मविशिष्टपिण्डदर्शनाद्वाक्यार्थस्मरणे सति उष्ट्र शब्द वाच्योऽयमिति वाच्यवाचकभावग्रहो भवति। सोऽयमुपमितिफलम्। तद्धर्मविशिष्टधर्मिप्रत्यक्षं करणम्। वाक्यार्थस्मरणं व्यापारः। एवं कीदृशौषधी सर्पविषहन्त्रीति प्रश्ने नकुलदंष्ट्राधृतेत्याद्युत्तरिते कालान्तरे नकुलदंष्ट्रायामोषधिविशेषदर्शने सति एतादृशी सर्पविषहन्त्रीति ज्ञानमुत्पद्यते। तत्रैतादृशविषहन्त्रीति ज्ञानं फलं वाक्यार्थस्मरणमवान्तरव्यापारः। नकुलदंष्ट्राधरणरूपासाधारणधर्मविशिष्टपिण्डज्ञानं करणमित्यूत्ह्यम्। एवं चोपमानत्वावच्छेदेन शक्तिग्राहकत्वमिति प्रतारणं परास्तम्। न चाप्तवाक्यस्मरणाच्छाब्दबोध एवास्तु कुतः पृथगुपमानाभ्युपगम इति वाच्यम्। शरीरवृत्यश्वत्वोष्ट्रत्वादिजातिविशेषरूपेण शब्दाच्छक्तिबोधासम्भवात्। सादृश्यमवच्छेदकीकृत्य वाक्यास्य बोधकत्वात्। उपमिनोमीत्यनुव्यवसायाच्चेति नैयायिकाः। वैशेषिकास्तु अयं गवयशब्दो वाच्यः गोसदृशत्वादित्यनुमानात्तद्ग्रहः। आप्तवचनाच्च तथा व्याप्तिग्रहात्। उपमिनोमीत्यनुव्यवसायश्च संदिग्धः। सत्वे वा अनुमितित्वव्याप्यमेव तदस्तु तथा च न पृथक् प्रमाणमित्याहुः।

शब्दात्प्रत्यमीत्येनुभवसिद्धशाब्दत्वजातिमती शाब्दी। तत्करणं शब्दप्रमाणं तथाहि। घटं नय पटमानयेत्यादि प्रयोज्यप्रयोजकं वाक्यं श्रुत्वा एव बालस्यावापोद्वापाभ्यां घटपटादिव्यवहारं पश्यतस्तद्व्यवहारेण तदीयं ज्ञानमनुमितस्तज्जनकत्वेनान्वयव्यतिरेकाभ्यां शब्दमवगच्छतोऽसम्बद्धस्याबोधकत्वात् सम्बन्धोऽस्तीत्यनुमितिर्भवति स च सम्बन्धः शक्तिरुच्यते। एवमुपमानात्कोषादिभ्यस्तदनन्तरमन्यत्रापि तद्ग्रहः एवं घटादिपदग्रहे सति गृहीतशक्तिकपदात्पदार्थोपस्थितावाकांक्षायोग्यतादिसहकारिवशाच्छाब्दप्रमा जायते। सा फलम्। पदान्येव ज्ञायमानातिकरणानि पदज्ञानं वा करणं पूर्ववत्। पदजन्यपदार्थोपस्थितिरवान्तरव्यापार इति ज्ञातव्यम्। ननु गवादिपदानां वृद्धव्यवहारेण सन्निहितगवि शक्तिग्रहेऽपि देशान्तरीयापूर्वगोबोधः कथम्। तत्र शक्त्याग्रहात्। शक्तिग्रहस्य कारणत्वाभावेऽन्यथागोशब्दादश्वबोधापत्तिरिति चेन्न। सामान्यलक्षणप्रत्यासत्त्या सकलगोव्यक्तेः शक्तिग्रहसमय एवोपस्थितौ सर्वत्रैव जात्यादिविशिष्टे तद्ग्रहेणादोषात्। तथा चन्यायसूत्रम् व्यक्त्याकृतिजातयस्तु पदार्थ इति। एकवचनेन विशिष्टे शक्तैक्यं सूचयति।

मीमांसकास्तु गोत्व एव शक्तिः तदाश्रयत्वेन लक्षणया व्यक्तिबोध इत्याहुः। गव्येव शक्तिर्न तु गौरवात्। नापि गोत्वे एव शक्तिर्गविगोत्वेऽपि लक्षणेति युक्तम्। गामानयेत्यत्रैव वृत्तिद्वयकल्पने गौरवात्। न चैवं गोपदाद् गोत्वबोधो न स्यादिति शक्यम्। अकार्यत्वेऽपि घटत्वस्य कार्यतावच्छेदकत्वात्कार्यत्वसम्बन्धेन दण्डात् घटोपस्थितौ घटत्वभानवदशक्यत्वेऽपि शक्यतावच्छेदकत्वाच्छब्दादुपस्थितिसम्भवादिति वैयाकरणाः। नन्वेवमपि गौः शुक्लेत्यादौ पदार्थयोरभेदरूपोऽन्वयो न बुध्यते तत्र शक्त्यभावात् अशक्यास्याप्युपस्थितौ घटादिरपि तत्र बुध्येतेति चेत् सत्यम्। अशक्यास्याप्यन्वयस्याकांक्षायोग्यतावशात् भानसम्भवात् तथाहि यत्पदं यत्पदार्थेन सह यादृशान्वयबोधजनकं तत्पदस्य तेन समभिव्याहारस्ततो बोधे आकाङ्क्षा। घटादिपदं विरुद्धविभक्तिरहितप्रातिपदिकार्थेन सहाभेदान्वयमेव बोधयति। द्वितीयाद्यर्थकर्मत्वादिभिः सह निरूपकत्वमाश्रयाश्रयिभावं वा अतस्तादृशपदसमभिव्याहारो भवत्याकाङ्क्षा एतज्ज्ञानं च कारणम्। घटपदं द्वितीयाद्यर्थेन सहस्वार्थाभेदान्वयबोधकमिति ज्ञानवतो वैयाकरणस्य तथान्वयबोधात्। अन्यस्याभावाच्च एवं योग्यता एकपदार्थे अपरपदार्थस्य प्रकृतसंसर्गवत्त्वम्। तेन पयसा सिञ्चतीति योग्यम्। पयसि सेककरणतासत्त्वात्। वह्निना सिञ्चतीति न योग्यं तत्र सेककरणत्वाभावात्। देवदत्तो गौरित्यत्र देवदत्ते स्वामित्वरूपसम्बन्धसत्वाद्योग्यतापत्तेः प्रकृतेत्युक्तम्।

तथा च प्रकृतवाक्ये यः प्रतिपाद्यः सम्बन्धस्तद्वत्त्वमित्यर्थः स चात्राभेदः स च नास्तीति न तद्योग्यम्। एवमासत्तिः पदजन्यपदार्थोपस्थितिरेव अतः प्रत्यक्षेण तण्डुलदर्शनात् पचतीत्येवोक्ते तण्डुलं पचतीति न बोधः। पदाव्यवधानमासत्तिरिति प्राचीनमतं न युक्तम् गिरिर्भुक्तमाग्निमान् देवदत्तेनेत्यत्र योजनयान्वयबोधानापत्तेः। योजनावाक्यादेवान्वयबोध इति चेन्न। प्रथमवाक्यास्य काव्यादौ योजनासापेक्षस्या बोधकत्वप्रसङ्गात्। योजनावाक्यं च तात्पर्यग्राहकत्वेन प्रकरणादिवदुपयुज्यते। एवं चाकाङ्क्षा योग्यतासत्तिवशात् पदार्थानां परस्परविशेषणविशेष्यावगाहिविशिष्टशाब्दबोधसम्भवान्नानुपपत्तिरितिदिक।

मीमांसकास्तु कार्यान्विते पदानां शक्तिः। तथाहि प्रयोज्यप्रयोजकयोरानयननयनादिव्यवहारं पश्यतो बालस्यानयननयनादिकार्यत्वेन ज्ञात्वाहं प्रवर्त्ते। एवमभयमपि तथात्वेन ज्ञात्वा प्रवृत्तस्तज्ज्ञानं च शब्दादिति शब्दस्तद्विशिष्टे शक्त इति प्रथमं शक्तिग्रहात्। तथा च कार्यतासामान्यस्य सर्वशब्दादवगमेऽपि विशेषतस्तदुपस्थितिं विना बोधपर्यवसानाभावादबोधकत्वमेव तच्छून्यानामर्थवादवाक्यवेदान्तवाक्यानामित्याहुः।

वेदान्तितस्तु अन्विते पदानां शक्तिरित्यन्वयांशे बोधोपपत्तिः न तु कार्यत्वांशे सर्वपदानां शक्तिः तस्य विशेषतस्तद्बोधकपदादेवोपस्थितिसम्भवेन व्यर्थगौरवग्रासात्। अतः कार्यत्वांशं विनापि मोक्षरूपमहाप्रयोजनवदात्मस्वरूपबोधकत्वाद्वेदान्ताः प्रमाणमेवेत्याहुः। पदानां पदार्थेष्विव वाक्यास्य संसर्गरूपेऽन्वये शक्तिः। अत एव तस्य वाक्यार्थ इति किं वदन्ती संगछत इति वैयाकरणाः। व्युत्पादितं चास्माभिर्मतान्तरनिराकरणपूर्वकमेतन्मतं वैयाकरणभूषणे। नन्वेवमपि गङ्गायां घोष इत्यत्र गङ्गापदात्तीरप्रत्ययः कथम्। तत्र गङ्गापदशक्त्यभावादिति चेत् सत्यम्। लक्षणरूपवृत्त्यन्तरात्तदुपस्थितेः। अथ केयं लक्षणा उच्यते शक्यसम्बन्धो लक्षणा गङ्गापदशक्त्या गङ्गाप्रवाहः तत्सम्बन्धस्तीरेऽस्त्येव तथा च स्वशक्यप्रवाहसंयोगरूपसम्बन्धेन गङ्गा पदात्तीरोपस्थितिः। स्वशक्येन सहनियमरूपा व्याप्तिरेव लक्षणा। तदुक्तम् अभिधेया विना भूते प्रवृत्तिर्लक्षणोच्यत इति मीमांसकाः। तन्न मञ्चाः क्रोशंतीत्यत्र मञ्चपदस्य मञ्चस्थपुरुषे लक्षणा न स्यात्। मञ्चपुरुषयोर्व्याप्त्यभावात्। एवं यष्टीः प्रवेशयेत्यत्रापि द्रष्टव्यम्।

वैयाकरणास्तु गङ्गादिपदानां तीरादौ शक्तिरेव सर्वेषां पदानां प्रायः सर्वत्रैव शक्तेः। लक्षणा च स्वतन्त्रवृत्तिर्नाभ्युपैयेत्याहुः। प्रपिञ्चतं चैतद्वैयाकरणभूषणे ननु केयं शक्तिः। अभिधानामकं पदार्थान्त्तरं सङ्केतग्राह्यमिति मीमांसकाः। सिद्धान्तस्तु घटपदाद् घटो बोद्धव्य इति ईश्वरेच्छारूपः सङ्केतः शक्तिः सा च पूर्वाक्तरीत्या वृद्धव्यवहाराद् ग्राह्यवृद्धानां तद्वृद्धेभ्य इति सृष्ट्यादौ ईश्वरात्तद्ग्रह इति। आधुनिकपुत्रादिषु सङ्केतितदेवदत्तादिपदे च पित्रादिसङ्केतात् ग्राह्या। द्वादर्शेैं पितानाम कुर्यादिति शास्त्रसिद्धत्वात्तत्रापि सास्त्येवेति दिक्। एवं शब्दाच्छाब्दबोधे तात्पर्यज्ञानमपि हेतुः। अन्यथा सैन्धवमानयेत्यत्र भोजनप्रकरणे लवणतात्पर्यग्रहे सति अश्वबोधप्रसङ्गात् न च शुकबालादीनां तात्पर्याभावेन तदुच्चरितशब्दाद् बोधो न स्यादिति वाच्यं तत्रापीश्वरतात्पर्यसत्त्वात्। तच्च तात्पर्यं वेदे मीमांसान्यायगम्यं नियतम्। लोके तु वक्तुरिच्छाधीनमनियतम् तदा कस्मादेव शब्दात् श्लेषादिवाक्येष्वनेकार्थबोधः यथा श्वेतो धावतीत्यादौ। नन्वेवमपि

गच्छ गच्छत्वितिवेत्कान्तपन्थानः सन्तु ते शिवाः।
ममापि जन्म तत्रैव भूयार्यत्रगतोभवान्॥

इत्यत्र त्वद्गमने सति वियोगान्मे प्राणहानिरिति प्रतीतिः कथमिति चेत्। व्यञ्जनाख्यवृत्यन्तरात्तद्बोध इत्यालङ्कारिकाः। एवं गतोस्तमर्क इत्युदासीनवाक्येपि नानाविधास्तत्तत्पुरुषीयबोधा एवमेव सङ्गच्छन्तेति।

दार्शनिकास्तु अनुमितिरूपाः लक्षणया शब्दाद्वा ते बोधो सम्भवतीति व्यजनारव्यवृत्यन्तरकल्पनां न सहन्ते। नन्वेवमपि भाषाशब्देभ्यः कथमर्थबोधः तत्र शक्तिलक्षणयोरभावादिति चेन्न तैः संस्कृतस्मरणं ततो बोध इत्यभ्युपगमात् इति केचित् संस्कृतस्मरणं ततो बोध इत्यभ्युपगमात् इति केचित् संस्कृतकथमप्यविदुषां बोधान्नैवम्। किन्तु तेष्वेव शक्तिभ्रमाद् बोध इति नव्याः। संस्कृतवद्भाषा शब्दा वाचका एवेति वैयाकरणमतं तु भूषणेऽस्माभिः प्रपिञ्चतम्। एवं च भाषाव्यावृत्तं वृत्तिमत्त्वमेव साध्यक्त्वमिति मीमांसकादिमतम्। अर्थविशेषे व्याकरणव्युत्पाद्यत्वं तदिति तु नैयायिकाः साधनेव प्रयुञ्जीतेति वचनसिद्धं पुण्यजनकत्वं तदिति वैयाकरणा इत्यलम्पल्लवेन। नन्वेवमपि पदज्ञानमेव न सम्भवति। वर्णसमूहः पदं वर्णाश्च क्रमिकाद्विक्षणिकाश्च तथा च द्वितीयवर्णोच्चारणसमये पूर्वनष्ट इति कथं समुदायज्ञानम्। यत्तु प्रत्येकं तत्तद्वणैऽर्नुभवोत्तरम् ते समूहालम्बनरूपं सकलवर्णस्मरणमेव पदज्ञानमिति। तन्न एवं सति तत्र क्रमाभावात् सरोरसः जराराजनदीदीनेत्यादावविशेषप्रसङ्गादिति चेत्। उच्यते प्रथमं श्रोत्रे द्यकारज्ञाने सति तदुत्तरमकारज्ञाने जायमाने स्वाव्यवहितोत्तरत्वसम्बन्धेन पूर्वो वर्णो विशेषणतया भासते ततष्टकारे द्यकारविशिष्टोऽकारो विशेषणम्। सोऽपि पूर्वद्वय विशिष्टः स्वोत्तरस्मिन्निति भवति पदज्ञानम्। तस्मात्पदार्थोपस्थितिस्तत उक्तप्रकारेण पुनः पदान्तरज्ञानं ततस्तदर्थोपस्थितौ तयोः परस्परम् अन्वयबोधः। पुनः पदान्तरज्ञानं ततः पदार्थोपस्थितौ तस्याप्यन्वयबोध इत्येवं क्रमेण अवान्त्तरवाक्यार्थज्ञानपूर्वको महावाक्यार्थबोध इति राजपुरप्रवेशन्यायेन केचनाहुः। तदुक्तम् तद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते तेन तेनान्वितः स्वार्थः पदैरेवावधार्यत इति तु बोध्यम् (इदं तु बोध्यं लाक्षणिकं नानुभावकं तत्तदर्थविषयकशाब्दबोधं प्रति वृत्या तदुपस्थापकपदज्ञानत्वेन हेतुगौरवाच्छक्तिलक्षणान्यतरस्य वृत्तित्वात् शक्त्यातदुपस्थापकपदज्ञानत्वेन हेतुत्वे लाक्षणिकपदजबोधव्यभिचारः स्यादिति तत्तदर्थविषयकशाब्देतरान्वयप्रतियोग्युपस्थापकपदज्ञानत्वे हेतुत्वं वाच्यम्। उपस्थापकत्वं च शक्त्या इत्थं च गङ्गायां घोष इत्यत्र तीर बोधस्तीरान्वयप्रतियोग्युपस्थापकाधारत्ववाचकसप्तमीज्ञानादेवेति निष्कर्षः।) अन्ये तु सर्वेषां पदानां प्रथमं प्रत्यक्षं ज्ञानात् सर्वपदानां समूहालम्बनस्मरणं ततस्तदर्थानामपि समूहालम्बनरूपोपस्थितौ सत्यां पुनः प्रथममेव महावाक्यार्थबोधः। खले कपोतन्यायेवेत्याहुः। सोऽयं शाब्दबोधश्चतुर्धा विशेष्ये विशेषणं तत्र विशेषणान्तरमित्येकः। रक्तदण्डवानिति यथा पुरुषे दण्डः तत्र रूपं विशेषणं। विशिष्टस्य वैशिष्ट्यावगाह्यन्यः यथा रक्तदण्डवानित्यत्रैव रक्तत्वविशिष्टस्य दण्डस्य वैशिष्ट्याबोधे एकत्र द्वयमिति न्यायेनान्यः। दण्डी कुण्डलीदेवदत्त इति यथा। एकविशेषणविशिष्टे विशेषणान्तरवैशिष्ट्यावगाह्यपरः। खङ्गीशूर इति यथेति विस्तरस्तु गाथान्तरादवधेयः॥

॥ अर्थापपमीत्यनुभवसिद्धजातिविशेषवत्यर्थापत्तिस्तत्कारणमर्थापत्तिप्रमाणम्। तच्चानुपपत्तिज्ञानम्। तथाहि देवदत्ते पीनत्वं दिवा भोजनाभावं च जानतो रात्रिभोजनज्ञानं जायते। तन्न प्रत्यक्षात् सन्निकर्षाद्यभावेनानुपलम्भात्। नानुमानात् तस्या सम्भवात् अयं रात्रि भोजी पीनत्वादित्यस्यादि वा मात्रभुञ्जानेऽपि व्यभिचारित्वात् दिवा अभुञ्जानत्वे सति पीनत्वादित्यत्र दृष्टान्ताभावेन व्याप्त्यग्रहादनुमित्ययोगात् तस्माद्दिवा अभुञ्जानस्य पीनत्वान्यथानुपपत्या रात्रिभोजनज्ञानं जायते सेयमर्थापत्तिरिति प्राभाकराः। देवदत्तो रात्रि भोजी दिवा अभुञ्जानत्वे सति पीनत्वात् यत्र रात्रिभोजनाभावस्तत्र दिवा अभुञ्जानत्वे सति पीनत्वाभाव इति व्यतिरेकिणैव निर्वाहान्न पृथगर्थापत्तिः प्रमाणमिति वैशेषिकनैयायिकादयः॥ ॥ अनुपलब्ध्या जानामीत्यनुभवसिद्धजातिविशेषवत्यनुपलब्धिकरणमनुपलब्धिः। सा चोपलब्धेर्निर्णयात्मकज्ञानस्याभावः। तथाहि वस्तुतो घटाभाववति घटोऽस्तीति भ्रमसमये घटाभावेन सह सन्निकर्षे सत्यपि तज्ज्ञानं नोत्पद्यते। अतस्तत्र घटानुपलब्धिः करणं तदभावान्न तत्र ज्ञानम्। चक्षुरादिकं चाधिकरणादिग्रहणार्थमनुपलब्धेर्योग्यतासम्पादनार्थं चोपयुज्यते योग्यता च यद्यत्र घटः स्यात् उपलभ्येतेति तर्कसम्पतिरेवेति भाट्टाः। एतादृश्यनुपलब्धिः प्रत्यक्षसहकारिण्येवातो नानुपलब्धिः प्रमाणान्तरम्। पृथक् प्रमाणान्तरकल्पने गौरवादिति नैयायिकादयः। वस्तुतो घटवति घटाभावनिर्णये सति घटचक्षुःसंयोगे सत्यपि घटज्ञानानुत्पत्तेरभावानुपलब्धेरपि भावग्रहहेतुतापत्तिः। न चेष्टापत्तिरपि सिद्धान्तात्। प्रमाणाभावाच्च विवेचितं चैतदन्यत्र तस्मान्नानुपलब्धिः सहकारिणी न वा प्रमाणान्तरमिति तत्त्वम्। सम्भावनया जानामीति प्रतीतिसिद्धजातिमती साम्भवी तत्करणं सम्भवः। यथा ब्राह्मण इति श्रुते विद्यायाः शतं सन्तीत्युक्ते दशादिसंख्यायाः प्रतीतौ (सम्भवः)। अज्ञातकर्तृकं प्रसिद्धं वाक्यमैतिह्यम्। गङ्ग्रेयं मथुरेयं वेदीयति ज्ञानमैतिह्यादेव अन्यस्याप्रसरादिति पौराणिकाः। ब्राह्मणविद्या भविष्यतीति चोत्कटकोटिकः संशय एव शते दशे इति त्वनुमानम्।

तथा व्याप्तिज्ञानवतामेव ज्ञायमानत्वात् ऐतिह्यं च प्रमाणं च शब्द एव। अन्यथा प्रमाणमेव नेति दार्शनिकाः। एतादृशचेष्टयेत्थमर्थो बोद्धव्य इति सङ्केतित चेष्टातो बोधस्थले च तथा शब्दोपस्थितिस्ततो बोधः शाब्द एव। अन्यथात्वेतादृश्या चेष्ट्यानुमानमेवेति न हस्तनेत्रादिचेष्टातो बोधानुरोधाच्चेष्टाया अपि पृथकप्रमाणत्वमपीति तान्त्रिकाः॥ तदेतैः प्रमाणैर्जायमाना बुद्धिरनित्यैव मानसप्रत्यक्षा च जानामीति मनसानुभवात् प्राभाकरास्तु सर्वा बुद्धिः स्वप्रकाशत्रितयविषयिणी च आत्मा स्वात्माविषयश्चेति त्रयं घटमहं जानामीति सर्वज्ञानानुभवात्। ज्ञानस्य परप्रकाश्यत्वे तदपि परप्रकाश्यं तदपि परप्रकाश्यमित्यज्ञायमानज्ञानस्वीकारादन्धपरं परानिद्राद्यभावो वा स्यादित्याहुः। भाट्टास्तु ज्ञानेन विषये ज्ञातता जन्यते, ज्ञातो घट इत्यनुभवात्, धात्वर्थक्रियाजन्यफलशालित्वेन घटं जानातीत्यादौ कर्मत्वमप्येवमेव सङ्गच्छते, तथा च तया ज्ञानमनुमीयते घटो ज्ञानविषयो ज्ञाततावत्त्वादिति, एवं चातीन्द्रियं ज्ञानमित्याहुः। एवं स्वप्रकाशविधया ज्ञाततया वा ज्ञाने गृह्यमाणे तद्गतं याथार्थ्यरूपप्रामाण्यमपि गृह्यते, ज्ञानग्राहकसामग्री ग्राह्यत्वरूपस्वतस्त्वस्य तत्राभ्युपगमात् इति। मीमांसकाः। नैयायिकास्तु एवं सति जातं मे ज्ञानं प्रमा नवेति संशयानुपपत्तेर्नेदं युक्तं, किन्तु मनसा ज्ञानं गृह्यते पुनर्विषयलाभोत्तरं जातं ज्ञानं प्रमाफलवत्प्रवृत्तिजनकत्वादित्यनुमानात्तद्ग्रहं मीमांसकानामर्थविसम्वादप्रयुक्ता प्रामाण्यग्रहवत् अन्यथा तस्यापि स्वतो ग्राह्यत्वापत्तिश्च इति ज्ञानग्राहकविशेषग्राह्यत्वरूपं परतः प्रामाण्यमाहुः। भक्तिश्रद्धादयोऽपि बुद्धिभेदाः। तत्राराध्यत्वेन ज्ञानं भक्तिः। वेदबोधितफलावश्यं भावनिर्णयः श्रद्धेत्यन्यत्र विस्तरः। सुखत्वजातिमद्धर्म्ममात्रजन्यतावच्छेदकजातिमद्वान्निरूपाधिप्रेमास्पदं वा सुखं तच्चतुर्विधम्। वैषयिकं मानोरथिकमाभ्यासिकाभिमानिकं च विषयसाक्षात्कारजमाद्यं विषयध्यानजं मानोरथिकं, सूर्यनमस्काराद्यभ्यासाज्जायमानं शरीरलाघवादिरूपं तृतीयं, द्रव्यपाण्डित्यगर्वजमन्त्यम्। एवं दुःखेऽपि द्रष्टव्यम्। दुखत्वजातिमतनिरूपाधिद्वेषास्पदं वा दुखम्। इच्छामीत्यनुभवसिद्धेच्छात्वजातिमती इच्छा, सा च सुखमोक्षयोः सुखदुःखाभावत्वप्रकारज्ञानादुत्पद्यते। तत्साधने सुखदुःखाभावसाधनताज्ञानादेव स्त्रीपुत्रादौ सन्यासादौ च यथा, द्वेष्मीत्यनुभवसिद्धजातिमान् क्रोधापरपर्यायको द्वेषः। यते इत्यनुभवसिद्धयत्नत्वजातिमान् यत्नः। स द्विधा, जीवनयोनिरन्यश्च, जीवनादृष्टं योनिः कारणं यस्य स आद्यः। सर्वदा प्राणसञ्चारकारी, गुरुभारोत्तोलनधावनादौ प्रयत्नविशेषाश्वास क्रियाविशेषदर्शनाद्यविशेषयोः कार्यकारणा भावो बाधकं विना तत्सामान्ययोरपीति न्यायेन प्राणक्रियासामान्ये यत्नसामान्यजन्यं त्वद्वितीयो द्विधा, एको द्वेषजः सर्पादिभ्योः निवृत्तिलक्षणः शत्रुवधादौ प्रवृत्तिरूपस्तु न द्वेष किन्तु तन्मरणेच्छाजः इच्छाजन्यान्यः तन्निद्रादिसकलकालिकस्य तस्यावश्यकत्वात् स चातीन्द्रियः। इच्छाजन्योऽन्यः एतौ प्रत्यक्षौ। एते बुद्धीच्छाप्रयत्ना ईश्वरीया नित्याः जीवानामनित्याः। विहितयज्ञादिजन्यतावच्छेदकजातिमान् धर्मः। ताश्च ज्योतिष्टोमयज्ञादिजन्यतावच्छेदिकाविलक्षणस्वर्गादिजनकतावछेदिकाश्च तत्तददृष्टे विलक्षणाः न तु धर्मत्वमेका जातिर्मानाभावात्। धर्मत्वेन सुखत्वेन कार्यकारणभावे मानाभावादिति अत एव बाधकाभावात् विज्ञानमानन्दं ब्रह्मेति श्रुतेश्चेश्वेरे नित्यं सुखमस्तीति वेदान्तिनः। निषिद्धपरदारगमनादिजन्यतावच्छेदकजातिमान्धर्मः। धर्मत्ववदेता अपि नाना तत्तदुःखजनकतावच्छेदिकाश्च। ननु यज्ञादिजन्यातीन्द्रियधर्माधर्मयोः किं मानम्। उच्यते इष्टसाधनत्ववाचिना विधिना अनिष्टसाधनत्वबोधकनिषेधेन यागपरदारगमनादेस्तथात्वं बोध्यते। न च चिरनष्टस्य कालान्तरभाविस्वर्गादिसाधनत्वं साक्षाद्युक्तमतो व्यापारत्वेन अभ्युपेयौ न च यागादिध्वंस एव व्यापारोऽस्त्विति वाच्यम् एवं हि कारणीभूताभावप्रतियोगित्वेन यागादेः प्रतिबन्धकत्वापत्तेः। किञ्च कीर्त्तितधर्मादपि फलापत्तिः। व्यापारसत्वात् अकीर्त्तितयागत्वेन कारणतेति न कीर्त्तितात्फलमिति चेत् न। फलोन्तरकीर्त्तितादपि फलानापत्तेरिति दिक्।

एतौ धर्माधर्मौ त्रिविधौ सिञ्चतौ क्रियमाणौ प्रारब्धसंज्ञौ। तत्रैतच्छरीरारम्भकं प्रारब्धं कर्मतद्भोगैकनाश्यं जीवन्मुक्तिशास्त्रानुरोधात् आद्यं ज्ञाननाश्यं ‘‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरूते तथेति शास्त्रात् इति वेदान्तिनः। सिद्धान्तस्तु

नाभुक्तं क्षीयते कर्मकल्पकोटिशतैरपि।
अवश्यमेव भोक्तव्यंकृतं कर्मशुभाशुभमि॥

ति वचनस्य प्रायश्चित्तनाश्यव्यतिरेकेण सङ्कोचे प्रमाणाभावात् सिञ्चतस्यापि कायव्यूहेन भोगादेव नाशः। भस्मसात्पदं तुलाक्षणिकं शीघ्रमेव भोगान्नांशं लक्षयतीति दिक्।

क्रियमाणं च ज्ञानिनो नोत्पद्यते लिप्यतेन सपापेन पझपत्रमिवांभसेति वचनात्।

नन्वेवं योगिभिः क्रियमाणकर्मणो वैयर्थ्यापत्तिरिति चेन्न।

तस्य लोकसंग्रहमात्रार्थत्वात्। वस्तुतस्तु तस्य पुत्रादायमुपयन्ति सुहृदः। साधुकृत्यां द्विषतः पापकृत्यामिति भूतौ तस्य परार्थत्वं स्फुटमित्यवधेयम्॥ ॥ संस्कारस्त्वजातिमान् संस्कारः स त्रिधा वेगो भावना स्थितिस्थापकश्च। वेगेन गच्छतीति प्रत्यक्षसिद्धवेगत्वजातिमान् वेगः। मूर्त्तमात्रवृत्तिः। भावना च स्मृतिजनकः स्वजन्यस्मृतिनाश्यश्च संस्कारः आत्मवृत्तिरतीन्द्रियः पूर्वज्ञानजन्यः तत्र ज्ञानस्यानुभवत्वेनैव करणतेति प्राञ्चः। नव्यास्तु सकृदनुभूतस्य स्मरणोत्तरं संस्कारनाशेन पुनर्विनानुभवमस्मरणप्रसङ्गात् पुनः पुनः स्मरणादृढतरसंस्कारोत्पत्तेरनुभवसिद्धत्वात्। अनुमितिशाब्दबोधे सत्यपि स्वर्गं नरकं चानुभवामीत्यप्रतीतेरनुभवत्वजातौ प्रमाणाभावेन स्मृत्यन्यज्ञानस्य रूपस्यानुभवत्वस्य कारणतावच्छेदकत्वे गौरवापत्तेस्ततोपि लाघवाच्च ज्ञानत्वेनैव तत्कारणतेत्याहुः। तथा च पुनः पुनः स्मरणस्थले स्मरणादेव दृढतरसंस्कारोत्पत्तिरिति, एतेषां पूर्वानुभवतज्जन्यसंस्कार तज्जन्यस्मृतीनां समानविषयत्वमतो न घटः ज्ञानात्पटः स्मृतिः। स्थितिस्थापकश्च यथास्थितवस्तुस्थित्यानुमेयः पृथिवीवृत्तिरतीन्द्रियश्च। शब्दं शृणोमीत्यनुभवसिद्धशब्दत्वजातिमान् शब्दः स द्विधा, ध्वनिर्वर्णश्च। तत्र ध्वनिः सङ्गीतशास्त्रसिद्धानेक भेदवान् तत्कारणं मुखवीणादिवर्णः ककाराकारादिः उभयत्राप्याकाशः समवायिकारणम्। भेर्याकाशसंयोगस्ताल्वोष्ठाकाशसंयोगवंशदलाकाशविभागादिरसमवायिकारणम्। जिह्नाताल्वादिसंयोगवंशदलविभागादिनिमित्तकारणम्। क्वचिच्छब्दोऽपि शब्दासमवायिकारणम्। दूरभेरीताडनस्थले, तत्र भेर्याकाशसंयोगादुत्पन्नस्तारतारोनदूरस्थपुरुषीयश्रवणगोचरः। तस्य मन्दत्वेनानुभवात् किन्तु भेरीशब्दाद्वीचीतरङ्गन्यायेन कदंबमुकुलन्यायेन वा शब्दस्तस्मादन्य इत्येवं मन्दादिभावेन जायमानेषु स्वश्रोत्रावच्छिन्नोत्पन्नः स्वयं गृह्यते तेषु पूर्वशब्दो असमवायिकारणम्। स च स्ववृत्तिभेर्यादिप्रयोज्यजातिमन्तं जनयतीति भेरीशब्दो मया श्रुत इति धीर्न विरुध्यते, तथा चासमवायिकारणं त्रैविध्यात् द्विविधोऽपि त्रिधेति फलितम्। उक्तञ्च संयोगाद्विभागाच्छब्दाच्चशब्दनिष्पत्तिरिति, सोऽयं शब्दो द्विक्षणस्थायी क्षणोत्तरमनुपलम्भात्, नाशकानुरोधाच्च, स्वजन्यः शब्द एव स्वनाशकः। स चोत्पत्तिद्वितीयक्षणो पूर्वनाशयतीति सर्वे द्विक्षणस्थायिनः। अन्त्यस्य च जनकशब्दो नाशकः सुन्दोपसुन्दन्यायेनेत्यतः क्षणिक एवान्त्यशब्द इत्येके अन्त्यशब्दः उपान्त्यशब्दनाशनाश्य इति सोऽपि द्विक्षणस्थाय्येवेत्यन्ये। सर्वासाधारण्यान्निमित्तवायुसंयोगनाश एव शब्दनाशकः। तथा च वायुसंयोगस्ततः पूर्वक्रियानाशशब्दोत्पत्ती ततः क्रियापूर्वदेशविभागसंयोगनाशशब्दनाशा इति क्रमेण नाशाच्छब्दः चतुःक्षणस्थायीति नव्याः। सोऽयं शब्दो नित्य एव। सोऽयं गकारः शिवेनोक्तः स एव विष्णुनोच्यते, प्रहरात्पूर्वमुक्त एवेदानीमुच्यते इति प्रत्यभिज्ञानात् विभुश्च। योऽयं काश्यां हकारः श्रुतः स एव सीतावने नोच्यते इति प्रतीतिः सर्वदेशव्यापिनस्तस्यानुभवात्। विभुत्वाच्च द्रव्यमेव सः योऽयं तारो मया श्रुतः स एव मन्दः श्रूयत इति प्रतीतेस्तारत्वादिकमपि तत्र न विरुध्यत इतिमीमांसकाः।

उत्पन्नो गकारो नष्टो गकार इति प्रतीतेरुत्पत्तिनाशवानेव शब्दः। सोऽयमित्यत्र तज्जातीयोऽयमिति भासत इति नैयायिकाः। तत्त्वं वैयाकरणभूषणेऽस्माभिः प्रपिञ्चतम्। संयोगविभागयोरनपेक्षकारणं कर्म, स्वोत्तरभाविभावाजन्यसंयोगविभागजनकमित्यर्थः। तेन कर्मणा संयोगे जननीये सोत्तरमुत्पद्यमानस्य विभागस्य प्रतिबन्धकीभूतपूर्वसंयोगध्वंसस्य चापेक्षायामपि न क्षतिः। विभागस्य प्रतिबन्धकाभावसम्पादकत्वनान्यथासिद्धत्वेनाजनकत्वात्, संयोगध्वंसस्य भावत्वाभावात्। न वा समवायिकारणादेश्च पूर्वोत्पन्नस्यापेक्षितत्वे दोषः। संयोगजसंयोगे पूर्वसंयोगस्य विभागजविभागे पूर्वविभागस्य तथा प्रत्येकजनकत्वसत्वात् संयोगविभागेत्युभयमुपात्तम्। उभयजनकत्वं कर्मण एव न संयोगादिति नातिव्याप्तिः। तच्चोत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनभेदात् पञ्चधा, भ्रमणादयस्तु गमनभेदा एव, तच्च मूर्त्तमात्रवृत्तिः, मूर्त्तत्वेनैवत्तत्कारणत्वा। अत एव कर्म समवायिकारणतावच्छेदकतया मूर्त्तत्वं जातिरेवेति नव्याः। इयत्तावच्छिन्न परिमाणवत्त्वमुपाधिरेवेति प्राञ्चः। (तच्च समानानां भावः सामान्यम्। अनेकानुगतो धर्म इति यावत् कञ्च समवायेन शब्दाद्येवेति न सामान्यम्। तद् द्विधा। जातिरूपाधिश्च, तत्राद्यलक्षणं प्राञ्च आहुः।)

तच्च संयेगवेगप्रयत्नगुरुत्वद्रवत्वस्थितस्थापकासमवायिकारणकम्। धनुसंयोगादिषौ प्रथमं कर्म ततो वेगः कर्मजः ततः पुनः कर्मद्वितीयं, प्राणिगमनं तृतीयं, पतनं चतुर्थं स्पन्दनं पञ्चमं पर्णादौ द्विगुणिते यथा स्थानहेतुषष्ठं स्वजन्यसंयोगनाश्यम्। अत एव क्षणचतुष्टयस्थायिव्याप्यवृत्येवेति प्रपिञ्चतमन्यत्र।

नित्यमेकमनेकसमवेतं सामान्यम्। यथा घटत्वादिः, घटत्वं नित्यमेकमनेकघटेषु समवेतं चेति लक्षणसमन्वयः। तद्विधा जातिरूपमुपाधिरूपञ्च, तत्र जातिः समवायेनैव वर्तते। उपाधिरनेकपदार्थघटितो धर्मः। यथाकारणत्वान्यथासिद्धत्वादिः। अन्यथासिद्धत्वं चावश्यकल्प्यमानपूर्ववर्त्तिन एव कार्यसम्भवे तत्सहभूतत्वं निष्कृष्टप्रागुक्तम्। प्राञ्चस्त्वन्यथाप्याहुः। यथा अन्यत्र क्लृप्तनियतपूर्ववर्त्तिन एव कार्यसम्भवे तत्सहभूतत्वं यथा रासभतन्तुरूपादेः। अन्यं प्रति पूर्ववत्तित्वे गृहीते एवान्यं प्रति पूर्ववर्तितया गृह्यमाणत्वं वा। यथा कुलालपित्रादेः। एवं भावत्वाभावत्वेन्द्रियत्वविषयत्वादिकमपि। तत्र समवायैकार्थसमवायान्यतरसम्बन्धेन सत्तावत्वं भावत्वम्। उक्तसम्बन्धेन सत्ताभाव एवाभावत्वम्। ज्ञानजनकमनः संयोगाश्रयातीन्द्रियत्वमिन्द्रियत्वं इन्द्रियमनोयोगस्य ज्ञानजनकत्वाल्लक्षणसमन्वयः। आत्ममनो योगस्य ज्ञानहेतुत्वादात्मन्यतिव्याप्तिर्वारणाय तीन्द्रियमिति, विषयतासम्बन्धेन साक्षात्कारवत्त्वं विषयत्वं। शरीरादौ तत्सत्वेपि न दोषः। उपधेयसंकरेऽप्युपाधेरसंस्कारात्। एवं कारणत्वावान्तरं समवायिकारणत्वमसमवायिकारणत्वं निमित्तं कारणत्वं च, समवायेन कार्याधारत्वमाद्यम्। तच्च द्रव्यमात्रवृत्तिः, द्रव्यत्वस्यैव कार्यसमवायिकारणतावच्छेदकत्वात् समवायैकार्थं समवायप्रत्त्यासत्याकारणत्वमसमवायिकारणत्वम्। यथा पटे तन्तुसंयोगस्य पटरूपे तन्तुरूपस्य वा उभयान्यकारणत्वं निमित्तकारणत्वम् यथा घटे दण्डादेः। एवं रूपरसगन्धस्पर्शस्नेहबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मशब्देषु विशेषगुणत्वम्। तच्च स्वाश्रयव्यावृत्त्यौपयिकावान्तरसामान्यवत्त्वम्। पृथिवीजलादिभ्यो भिद्यते पाकजरूपात् तेजः इतरेभ्यो भिद्यते शुक्लभास्वररूपात् उष्णस्पर्शाद् वा इत्यादिस्वाश्रयस्य व्यावर्त्तकतावच्छेदकत्वेनोपयुक्तमवान्तरजातिमत्वमस्तीति लक्षणसमन्वयः। एवं निरुच्यमानव्याप्त्याद्यपीहोदाहरणम्। नन्वेवं पृथुबुध्नोदराकारवत्त्वगन्धवत्त्वगुणाश्रयत्वसास्नादिमत्वाद्युपाधिरेव घटः पृथिवीद्रव्यमित्यादि प्रतीत्युपपत्तेर्घटत्वादि जातौ किं मानमिति चेत्। उच्यते, कारणत्वकार्यत्वादयस्तावत्सावच्छिन्नाः तथा च चक्रकार्यतावच्छेदकतया गन्धस्य कार्यमात्रस्य च कारणतावच्छेदकतया दानहननादिभिः पुण्यपापोत्पत्तेस्तत्कारणतावच्छेदककोटिप्रविष्टतया च घटत्वपृथिवीत्वद्रव्यत्वगोत्वादिकमावश्यकम्। उपाधेः क्लृप्तत्वेपि गौरवेणावच्छेदकत्वासम्भवात् बाधकाभावेऽवच्छेदकत्वं लघुधर्मे एव वर्तते इति सिद्धान्तात्। एवं बाधकाभावेऽनुगतप्रतीत्यापि तत्सिद्धिः। स च बाधकसंग्रहः प्राचीनैरुक्तः।

व्यक्तेरभेदस्तुल्यत्वं सङ्करोथानवस्थितिः।
रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रह इति।

घटत्वात् कलशत्वं न पृथक्जातिः तद् व्यत्त्याभेदात्। द्रव्यत्वाद् गुणाश्रयत्वं न पृथक्जातिः तुल्यव्यक्तिकत्वात्। शरीरत्वं न जातिः पृथिवीत्वादिना सङ्करप्रसङ्गात्। परस्परात्यन्ताभावसमानाधिकरणयोरेकत्र समावेशः सङ्करः। पृथिवीत्वं विना तैजसादिशरीरत्वं वर्तते, शरीरत्वं विना च घटादौ पृथिवीत्वम्। तदुभयमस्मदादिशरीरे सामान्यत्वं जातिः। तत्रापि सामान्यस्वीकारेऽनवस्थाऽत्माश्रयान्यतरापत्तेः। आकाशत्वं घटो वा न जातिः नित्यमेकमनेकसमवेतं सामान्यमिति रूपहानात्। अत एवाभावः सास्नादिमत्वं वा न जातिः। समवाय उक्त लक्षणाक्रान्तोऽपि न जातिः सम्बन्धविरहात् सम्बन्धिभिन्नत्वे सति सम्बन्ध्याश्रयत्वस्यैव सम्बन्धत्वेन स्वरूपसम्बन्धे सम्बन्धव्यवहारस्य गौणत्वात् च स्वरूपसमवायेन वृत्तित्वाभ्युपगमेऽपि न क्षतिः इति। तच्च सामान्यं त्रिविधम्। परमपरं, परापरञ्च सकलसामान्यव्यापकपरा सत्ता यथा सामान्यान्तराव्यापकमपरम्। परिमाणभेदेन भिन्नेषु बाल्यकौमारादियुक्तशरीरेषु देवदत्तत्वादिः यथा कस्यचित्सामान्यस्य व्यापकं कस्यचिद्व्याप्यं चान्त्यम्। द्रव्यत्वादिः यथा पृथिवीत्वादेर्घटत्वादेर्व्यापकं सत्ताव्याप्यं च तत् इत्यन्यत्र विस्तरः॥

॥ नित्यद्रव्यवृत्तयोन्त्या विशेषाः समानजातीयरूपरसादिमत्परमा एवादीनां परस्परं भेदकं विनाभेदनिर्णयासम्भवाद्भेदकत्वेन विशेषा अनुमीयन्ते अनित्य द्रव्येऽष्वाश्रायेणैव। भेदसम्भवात् तत्र तेषु प्रमाणाभावान्नित्यद्रव्यमात्रवृत्तित्वं तेषाम्। व्यावर्त्तकान्तराभावे सत्यं ते व्यावर्त्तकत्वेन स्वीक्रियमाणत्वादन्त्यत्वं चेति लक्षणसमन्वयः। यथा प्रजारक्षकत्वेन महाराज आवश्यकः। स च स्वत एव स्वरक्षणसमर्थः एवं विशेषाः स्वत एव व्यावृत्ता इति नानवस्था, शब्दसमवायिकारणतावच्छेदकतया चाकाशे तत्सिद्धिः। अष्टद्रव्यातिरिक्तद्रव्यत्वादिराकाशमात्रवृत्तित्वेऽपि गौरवेण कारणतावच्छेदकत्वासम्भवेन द्रव्यत्वादि जातिवत्तस्यावश्यकत्वादिति दिक्।

अयुतसिद्धानां सम्बन्धः समवायः विशेषणतान्यसम्बन्धेन यावदुभयसत्वं ययोराश्रयाश्रयिभावस्तावयुतसिद्धौ, यथा गुणगुणिनौ। पटोत्पत्तेः पूर्वं तन्तुसत्वादव्याप्तेर्वारणायोभयेति। वायुरूपाभावकालघटादेरयुतसिद्धत्ववारणाय विशेषतान्येति। अभावस्य च विशेषणतैव सम्बन्ध इत्युक्तकालोऽपि विशेषण त यैव जगदाधार इति स्पष्टमन्यत्र। प्राञ्चस्तु विनाशक्षणपर्यन्तं ययोराश्रयाश्रयिभावस्तावयुतसिद्धौ तदुक्तम्। तावेवायुतसिद्धौ द्वौ विज्ञातव्यौ ययोर्द्वयोः अनश्यदेकमपराश्रितमेवावतिष्ठते। ते चावयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति। तन्तुपटादयः। अवयवावयविनः आश्रयनाशजन्यघटादिनाशस्थले नाशसमये घटादेरनाश्रितत्वाभ्युपगमाद्विनाशक्षणपर्यन्तमिति, तन्न। नित्यगुणतदाश्रययोरात्मात्मत्वजात्योः विशेषनित्यद्रव्ययोरव्याप्तेः अयं समवायस्तन्तुषु पटः समवेत इत्यादि प्रत्यक्षसिद्ध इति नैयायिकाः। वैशेषिकास्तु समवायो न प्रत्यक्षः यावदाश्रयप्रत्यक्षं विना सम्बन्धप्रत्यक्षासम्भवात्, सम्बन्धप्रत्यक्षे यावदाश्रयं प्रत्यक्षस्य हेतुत्वात् अन्यथा घटो संयुक्तावितिवत् घटाकाशौ संयुक्ताविति, घटे रूपसमवाय इतिवदाकाशे शब्दसमवाय इत्यपि प्रत्यक्षापत्तेः। एतेन संयोगप्रत्यक्षे एव यावदाश्रयप्रत्यक्षं हेतुलाघवात् न तु सम्बन्धप्रत्यक्षमात्रे, संयोगसमवायान्यतरत्वरूपसम्बन्धत्वस्य कार्यतावच्छेदककोटिप्रवेशे गौरवादिति निरस्तम्। उक्तप्रत्यक्षापत्तेर्वारणाय तस्यावश्यकत्वात्। किन्तु रूपादिघटादिसम्बन्धवत्तदाश्रितत्वादित्याद्यनुमानात् तत्सिद्धिः। न चाधाराधेयभावादिरेव रूपघटयोः सम्बन्धोऽस्त्विति शंक्यम्। घटनाशाद् घटवृत्तिरूपरसादिनाशवत्तद्वृत्तिपटादेरभावस्य च नाशप्रसङ्गात्, घटध्वंसकालिकघटवृत्तिनाशत्वस्य घटनाशकार्यतावच्छेदकत्वपर्यवसानात्, समवायाभ्युपगमे च पटसमवेत नाशत्वमेवावच्छेदकमतो न दोषः। न च तवापि घटनाशात् घटत्वनाशापत्तिः भावनाशं प्रति जन्यत्वेन कारणत्वात्, एतेन सम्बन्धतया समवायकल्पने भूतलघटाभावादेरपि वैशिष्ट्याख्यसम्बन्धस्वीकारापत्तिरित्यपरास्तम्। तत्र तर्काभावादिति। रूपवान् घट इत्यादिविशिष्टप्रत्यक्षं तु सम्बन्धाविषयत्वेऽपि तन्नियम्यत्वमात्रेण सङ्गच्छते अहं शरीरीत्यदृष्टदृष्टसंसर्गकप्रत्ययवदित्याहुः। मीमांसकास्तु गुणगुण्यादीनां तादात्म्यमेव, नीलो घटश्च पृथक् मृद्घट इत्याद्यभेदानुभवाद् वा समवायो निष्प्रमाणक इत्याहुः। ननु शक्तिसादृश्यादयोऽपि पदार्थान्तराणि सन्तीति कथं षडेव भावा इति मैवम्। अभिधारूपा वाचकत्वशक्तिस्तावदीश्वरेच्छारूपेत्युक्तम्। वह्ने दाहानुकूला शक्तिस्तु कारणता रूपं सामान्यमेव, न च मण्यादिप्रतिबन्धकसत्वे दाहापत्तिवारणाय प्रतिबन्कापनोद्यशक्तिस्वीकार आवश्यक इति वाच्यम्। मण्यभावादेरपि कारणत्वकल्पनया तन्निरासात्, नानृतं वदेदिति विधेयस्यानृतवदननिषेधरूपस्याभावस्य कत्वंगत्वस्य पूर्वमीमांसायां कत्वाधिकरणे व्युत्पादितत्वात्, सादृश्यं च तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वरूपं सामान्येमेवेति दिक्॥

॥ अभावो द्विधा, संसर्गाभावो भेदश्च, संसर्गारोपजन्यप्रतीतिविषयाभाव आद्यः। भूतले घटो नेत्याराप्येव निषेधप्रतीतेः स त्रिधा प्रागभावो ध्वंसोऽत्यन्ताभावश्च भविष्यतीति प्रतीतिविषयोर्विनाश्यभावः प्रागभावः। तस्य ध्वंसः प्रतियोगी तध्वं सश्च, उभयकाले घटप्रागभावो नष्ट इति प्रतीतेः। उत्पत्तिमान्भावो ध्वंसः। घटध्वंस जात इति प्रतीतेः। तत्प्रागभावश्च घटस्तत्प्रागभावश्च उभयत्रापि ध्वंसो भविष्यतीतिप्रतीतेः। स च न विनाशी, ध्वंसो नष्ट इति प्रतीत्यभावात्, व्यर्थध्वंसधाराकल्पनायां प्रमाणाभावाच्च, उत्पत्तिविनाशशून्यः संसर्गाभावोऽत्यन्ताभावः। ह्रदे वह्निर्नास्तीति भूतलादौ घटापसरणोत्तरं तदानयनात् पूर्वं च प्रतीतस्य घटकाले सत्वेपि न प्रतीतिः घटज्ञानेन प्रतिबन्धात् प्रतियोगिदेशान्यदेशत्वस्यानतिप्रसंजकसम्बन्धत्वाद्वेत्याचार्याः, उत्पत्तिविनाशशीलः प्रतियोगिसमानाधिकरणस्तुरीय एव तत्र संसर्गाभाव इत्यन्ये। स द्विधा, एकमात्रपर्याप्तधर्मावच्छिन्नप्रतियोगिताकः, अनेकपर्याप्तधर्मावच्छिन्नप्रतियोगिताकश्च, घटत्वादिप्रत्येकपर्याप्तम्। एकस्मिन्नपि घट इति प्रतीतेः। तदवच्छिन्नः आद्यः। द्वित्वाद्यनेकपर्याप्तम्। घटौ द्वाविति वदेको द्वावित्यप्रतीतेः। तदवच्छिन्न एकघटवति घटौ न स्त इति प्रतीतिविषयोऽन्त्यः। न च प्रतियोगिमति कथमभाव इति वाच्यम्। पुरुषमात्रवति दण्डीपुरुषो नास्तीति प्रतीतेर्दण्डविशिष्टपुरुषाभावस्वीकारेण प्रतियोगितावच्छेदकविशिष्टस्यैवाभावविरोधित्वात्, न चेयं प्रतीतिर्दण्डाभावं पुरुषाभावं संयोगाभावं वा अवगाहते। केवलदण्डपुरुषवति तत्संयोगवति पुरुषे दण्डे च दण्डी पुरुषो नास्तीत्यनुगतप्रतीतेरिति दिक्। तादात्म्यारोपजन्यप्रतीतिविषयाभावो भेदः। घटः पटो नेत्यारोप्येव तन्निषेधात्, सोऽपि घटः पटो न घटो न घटपटाविति प्रतीतेः पूर्ववद्विधा, न च घटवति घटाभावो नास्ति घटो न घटभिन्न इति प्रतीतेरभावाभावोऽपि सिद्ध्योत्, एवं सोऽपि नास्तीति प्रतीत्या तदभावेऽपीत्यनवस्थेति शंक्याम्। अत्यन्ताभावाभावः प्रतियोग्येव घटादिः। अन्योन्याभावाभावः प्रतियोगितावच्छेदकघटत्वादि रूप इति स्वीकारात्। ततोऽतिरेके प्रमाणाभावादिति प्राञ्चः। नव्यास्त्वभावत्वेन प्रतीतेर्घटादिप्रतियोगितदवच्छेदकयोः समानवृत्तिकोऽतिरिक्त एवात्यन्ताभावभेदयोरभावः तदभावस्तु घटाभाव एवेति नानवस्था एवं ध्वंसस्य प्रागभावः प्रागभावस्य ध्वंसश्चातिरिक्त एवेत्याहुः। नन्वधिकरणमेवाभावोऽस्तु। कुतोऽतिरिक्त स्वीकारः कुतो वा तद्ग्रहणाय विशेषणता स्वीकारः भूतले घटो नास्तीत्याधाराधेयभावस्याभेदेऽपि घटाभावे घटो नास्तीतिवदुपपत्तेः। अत्यन्ताभावे नित्यत्ववादिना घटशून्यभूतले घटानयनोत्तरं तत्सम्बन्धाभावमात्रस्वीकारवदस्माभिस्तदा तदधिकरणे घटाभावत्वसम्बन्धो नास्तीत्यभ्युपेयम् अतस्तदधिकरणं घटाभावो न वा आद्ये घटकालेऽपि घटो नास्तीत्यापत्ति अन्त्ये घटनयनात् प्राङ्नास्तीत्यनापत्तिरिति परास्तम्। तस्मान्नतिरिक्तभावे प्रमाणम् इति चेत्, उच्यते, तत्त्वज्ञानिना क्रियमाणकर्मभिर्धर्माधर्मौनोत्पद्येते इति सर्वसिद्धतत्कस्य हेतोः। मिथ्याज्ञानवासनारूपकारणाभावादिति चेन्न। अनन्तमिथ्याज्ञानवासनानां हेतुतामपेक्ष्य प्राथमिकतत्त्वज्ञानव्यक्तिप्रागभावस्यैव हेतुत्वकल्पने लाघवात् तथा च लाघवात्कारणत्वेन प्रागभावसिद्धिः। किञ्च अन्यतरकर्मजसंयोगे कर्मणः संयोगं प्रति न समवायेन हेतुता कर्मशून्ये तदुत्पत्तेर्व्यभिचारात् नापि कालिकसम्बन्धेन घटकर्मणास्तम्भाकाशसंयोगापत्तेः। तस्मात् स्वजन्यसंयोगप्रागभाववत्ता संसर्गेण कर्मणः कारणता वाच्येति प्रागभावसिद्धिः। एवमनेकतन्तुकपटादिस्थले तत्तत्तन्तुसंयोगानामपि न समवायेन हेतुता। संयोगेभ्यो द्विमात्रनिष्ठेभ्यः पटस्याधिकेषूत्पत्तेर्व्यभिचारात्। कालिकेन हेतुत्वे तूक्तातिप्रसङ्ग इत्युक्त रीत्या स्वजन्यपटप्रागभाववत्ता संसर्गेण हेतुता वाच्येति तत्सिद्धिः। एवं दाहमण्यभावः प्रतिबन्धकाभावतया कारणम्। तस्याधिकरणस्वरूपत्वे तावदधिकरणानां कारणत्वे गौरवात्, अभावव्यत्तिरेकेण कारणतावच्छेदकस्याधिकरणे दुर्वचत्वेन तदयोगाच्चात्यन्ताभावोऽपि लाघवादिभिर्भिन्न आवश्यकः। एवमतिरिक्तध्वंसमन्तरेण मोक्षस्येव दुर्वचत्वात् ध्वंसो आवश्यकस्तथाहि, न तावन्नित्यसुखाभि व्यक्तिर्मुक्तिः। सुखवदभिव्यक्तेर्नित्यत्वे इदानीमपि सत्त्वेन मुक्तिसंसारयोरविशेषप्रसङ्गात्। न च नित्यसुखाभिव्यक्तिर्मुक्तिसमये जायते मनसेति मतं साधु। जन्यभावस्य विनाशित्वनियमेनैक ज्ञानव्यक्तेर्नाशे मुक्तिहानापत्तेः। अभिव्यक्तिपरम्परा च जन्यज्ञानावच्छिन्ने शरीरस्य हेतुत्वेन तदभावान्न युक्ता तस्मादात्यन्तिको दुःखध्वंसो मुक्तिः। आत्यन्तिकत्वं च स्वसमानाधिकरणदुःखतत्प्रागभावासमानकालिकत्वम् तदानीं सुखदुःखध्वंसस्यास्मदीय दुःखप्रागभावसमानकालिकत्वात् स्वेत्यादि इदानीमस्मदीयदुःखध्वंसस्य सुषुप्तिकाले दुःखासमानकालिकत्वसत्वात् प्रागभावेति उपान्त्यदुःखध्वंसस्य तत्प्रागभावासमानकालिकत्वात् दुःखेति। तादृशश्च मोक्षस्तत्त्वज्ञानेनात्मनि जन्यते। तद्यथा तत्वज्ञानान्मिथ्याज्ञानवासनानिवृत्तौ रागद्वेषमोहानां निवृत्त्या कर्मान्तरे प्रवृत्तिरेव न पूर्वसंस्कारात् प्रवृत्या कर्मोत्पत्तावपि नादृष्टोत्पत्तिः अदृष्टहेतुमिथ्याज्ञानस्य तत्त्वज्ञानप्रागभावस्य वा अभावात्॥ तथा चोक्तं वाचस्पतिमिश्रः। मिथ्याज्ञानसलिलावसिक्तायामात्मभूमौ धर्माधर्मावङ्कुरं जनयत इत्यादिना प्राचीना दृष्टं च ज्ञानाग्निसहकृतयोगवशात्कायव्यूहेनयुगपत्सर्वभोगान्नश्यति। तथा च पूर्वकर्मसमाप्तौ भोक्तव्यकर्मान्तराभावाज्जन्माभावे सिद्धे वर्त्तमानशरीरभोग्यसर्वदुःखनाशे सिद्धे वात्यन्तिकदुःखनिवृत्तिरिति तथा चाक्षपादीयं सूत्रम्। दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग इति॥ ॥ ननु किं तत्तत्त्वज्ञानं किं वा मिथ्याज्ञानं कथं वा तयोर्निवर्त्यनिवर्तकभावः। उच्यते देहेन्द्रियादावनात्मन्यात्मत्वबुद्धिरेव मिथ्याज्ञानं, तत्तु संसारिणामनादिप्रवाहागतं दुर्बुद्धिकल्पितकुतर्का दृढतरं जायते यथा लोकायतिकोक्तयुत्त्या देहात्मवादे नित्यात्मवादसाधकयुक्तिभिर्नित्याणु मन एवात्मपक्षे सकलशरीरव्यापि दुःखाद्युपलब्धिहेतुभिः सकलदेहव्यापकत्वयदीन्द्रियसमुदायात्मपक्षे इन्द्रिययौगपद्येऽपि बुद्धिसत्वमात्रेण सुखाद्युपलब्धेः बुध्यात्मवादे, तदभावेऽपि सुषुप्तौ सात्मकत्वव्यवहारात्प्राणात्मवादे ततश्च तन्निरासार्थं पञ्चानां तेषामात्मत्वे युगपदेव कस्यचिदिष्टार्थं परस्य तद्विरोधात्तन्नाशाय च प्रकृत्यापत्या प्रवृत्तिनिवृत्त्योः सङ्करापत्तिरित्यादिः को देहाद्यतिरिक्तव्यापकात्मनिर्णायक इतरेषां पक्षाणामाभासत्वनिर्णायकः श्रुतिस्मृतीतिहासानां तादृगात्मप्रतिपादकानां तादृगात्मप्रतिपादने तात्पर्यनिर्णायकश्च न्यायसमूहोऽनुसन्धेयः तदनुसन्धानमेव च विचारः। स द्विधा श्रवणमननभेदात् तत्र न्यायैर्न्निर्णीततात्पर्यकश्रुत्यादिभिरात्मनिर्णयः श्रवणं ततोप्युक्तवादिदुस्तर्कजालैरसम्भावनाविपरीतभावनोत्पत्तेस्तन्निवारकन्यायानुसन्धानं मननम्। ततश्च व्यासङ्गत्यागेव देहाद्यतिरिक्तात्माकारमनोऽनुसन्धानं निदिध्यासनम्। ततो यथा भूहाद्यतिरिक्तात्मसाक्षात्कारस्तत्त्वज्ञानात्मको जायते, यः समूलं मिथ्याज्ञानमुन्मूलयति, विशेषदर्शनजन्यलौकिकसाक्षात्कारत्वेन भ्रमनिवतर्कत्वदर्शनात् श्रुतिरप्येवमाह, तरति शोकमात्मवित्, आत्मा वाऽरे द्रष्टव्यः श्रोतव्योमन्तयो निदिध्यासितव्य इति मिथ्याज्ञाननाशः शोकतरणम्।

तद्धेतुरात्मदर्शनम्। तद्धेतूनिश्रवणादीनि त्रीणि इति विवेकः। नन्वात्मतत्त्वसाक्षात्कारस्यैव मिथ्याज्ञाननाशकत्वे द्रव्यादिसर्वपदार्थप्रतिपादनं व्यर्थमिति चेन्न। तत्तत्त्वज्ञानमन्तरेण तद्भिन्नत्वेनात्मज्ञानासम्भवात् परम्परयोपयोगेन सार्थक्यात् न्यायव्युत्पादकत्वेनाप्युपयोगाच्च तच्चात्मज्ञानं भगवत्प्रसादमन्तरेण न भवतीति सोऽपितत्त्वतो ज्ञेय उपास्यश्च तथा च श्रुतिः। यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः। तदाशिवमविज्ञायदुःखस्यान्तो भविष्यतीति आचार्यैरप्युक्तं, स हि तत्त्वतो ज्ञात आत्मसाक्षात्कारस्योपकरोतीति। नन्वीश्वरे किं मानं न प्रत्यक्षं तस्य परोक्षत्वात्। नापि क्षितिः सकर्तृका कार्यत्वात् घटवदित्यनुमानं मानं परमाणावंशतो बाधात् घटादावंशतः सिद्धसाधनाच्च अदृष्टद्वाराजीवकर्तृकत्वेन सिद्धसाधनाच्च, उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्व रूपकर्तृत्वेन कुलालादेर्हेतुताया असिद्धेश्च अनेकज्ञानादौ कारणावच्छेदकत्वकल्पने गौरवापत्तेः। कृतिमत्त्वस्यैव कर्तृपदार्थत्वाच्च कृधातूत्तरतृचस्तदर्थाश्रयवाचकत्वात्। अस्तु तर्हि कृतिमत्त्वेनैव हेतुतेति चेन्न। अनेककृतिषु कारणतावच्छेदकत्वे गौरवात्तेन रूपेणापि हेतुत्वासिद्धेः। किं चैवमीश्वरे ज्ञानेच्छयोरसिद्ध्यापत्तिः। श्रुतेस्तत्सिद्धिरिति चेत् न सुखस्यापि स्वीकारापत्तेः। आनन्दं ब्रह्मणो विद्वानिति श्रूतेः। न च वेदकर्तृत्वेनेश्वरसिद्धिः। तस्यानादित्वात् शिवाद्या ऋृषिपर्यन्ताः स्मर्तारोऽस्य न कारका इति स्मृतेरिति चेत्। अत्रोच्यते कुलालादिचेतनासम्वलितमृदादिभिर्घटाद्यजननात्तत्र कुलालादेर्हेतुतेति सर्वसिद्धं, तत्र कारणतावच्छेदकं न कुलालत्वादिजातिः। कुशलब्राह्मणादिभिरपि तज्जननात्तत्र तत्सत्त्वे सङ्करापत्तेः। नोपाधिरनिर्वचनात्, घटजनकत्वस्य च दण्डादिसाधारणत्वात् घटजनकत्वेन घटहेतुताया असम्भवाच्च। कृतिमत्त्वेन हेतुतायाश्च त्वयैव निरासात्। तस्मादात्मत्वमेव कारणतावच्छेदकं परन्तु अनेनेदमेतदर्थमहङ्करिष्यामीत्याद्यालोचनरूपज्ञानतादृशेच्छाप्रयत्नास्तद्व्यापारा अन्वयव्यतिरेकसिद्धाः। तान्विना कुलालादेर्घटाद्यनुत्पत्तेः। अतो द्व्याणुकाद्युपादानगोचरपरमाणुभिर्द्व्याणुकं करिष्यामि आकाशेन शब्दं करिष्यामीत्यादिकज्ञानादिमानात्मा तत्कर्ता वाच्यः। स च सृष्ट्यादौ शरीराद्यभावात्तादृशजन्यज्ञानासम्भवान्नित्यज्ञानवान् सिध्यन्नीश्वर इत्युच्यते। एवं च कार्यमात्रकारणतावच्छेकत्वेनैव जीवेश्वरसाधारणात्मत्वजातिसिद्धिरिति विभावयामः। तथा च जन्यकृत्यजन्यं कार्यम्, आत्मजन्यं कार्यत्वात्, घटवदित्यनुमानमेव तत्र प्रमाणं घटादावंशतः सिद्धसाधनवारणाय जन्यान्तं पक्षे विशेषणम्। पक्षतावच्छेदकावच्छेदेन साध्यसिद्धानुद्देश्यायामस्या दूषणत्वे च तन्नोपादेयमेव। एवञ्चेश्वरस्य सर्वज्ञतापि सिध्यति। केषाञ्चत् पदार्थानां फलत्वेन केषाञ्चत् सृज्यत्वेन केषाञ्चद्धेतुत्वेन केषाञ्चदवच्छेदकत्वेन विषयीकरणादिति निरूपितमस्माभिस्तर्करत्ने। एवं वेदकर्तृत्वेनापि तत्सिद्धिः तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे इति श्रुतेः। वेदः सकर्तृकः वाक्यत्वात् भारतादिवदित्यनुमानाच्च वेदस्य सकर्तृकत्वावगमात्। स्मर्तार इति स्मृतिः सदृशपरा, स्मृतिर्यथा स्वसमानविषयावाक्यापेक्षा तथा वेदः कल्पान्तरीयानुपूर्वी वा नित्यस्यान्यत्र निर्णीतत्वादित्यलं विस्तरः। तस्य चेश्वरस्योपासना श्रुतिस्मृत्याद्यनुसारेणानेकधा महद्भ्याऽवगन्तव्येति पल्लवेनालम्॥ ॥

बालबुद्धिप्रकाशार्थं पदार्थानां प्रदीपिका।
रङ्गोजीभट्टपुत्रेण कोण्डभट्टेन निर्मिता॥

इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणरङ्गोजिभटात्मजकोण्डभट्टकृता पदार्थदीपिका सम्पूर्णा॥ ॥ श्री लक्ष्मीनारायणाय नमः।

यत्तादात्म्यस्फुटपरिचयोत्पादना यार्द्धदेहं।
गौरी हरिरपि यदीयार्द्धदेहं जहार॥
अत्युदामापरिमितगुणग्राममीशंतमाद्यम्।
वन्दे यस्मादमलमतिभितेमोक्षलक्ष्मीः॥

रघुवीरकृतद्रव्यसारसङ्ग्रह, लोकनैः॥ सन्तःश्चरन्तु निशंकं सिद्धान्त सिद्धवर्त्मसु। अत्रसकल शिष्टैर्ग्रन्थादौ मङ्गलस्यापनिबद्धत्वादादौ मङ्गलफलविचार्य्यते॥ अत्र केचिन्मङ्गलं समाप्ति फलकं समाप्तन्याफलकत्वे सति सफलत्वादित्यनुमानात् मङ्गले समाप्तिफलकत्वसिद्धिरिति समाप्तिरेव मङ्गलस्य फलम्। न चोपदर्शितानुमाने हेतु विशेषणासिद्ध्या न किञ्चदेवदिति वाच्यम्। मङ्गलं समाप्त्यन्याफलकं समाप्ति फलभिन्नत्वे सति या शिष्टैः कर्तव्यत्वादित्यनुमानान्मङ्गले समाप्त्यन्याफलकत्वसिद्धौ उपदर्शितहेतुविशेषणासिद्ध्याभावात्।

॥ इति॥

स्रोतः[सम्पाद्यताम्]

"https://sa.wikibooks.org/w/index.php?title=न्यायपदार्थदीपिका&oldid=5994" इत्यस्माद् प्रतिप्राप्तम्