न...

विकिपुस्तकानि तः
Jump to navigation Jump to search

नाम =
वस्तुप्रतिपादकशब्दः।
वायुः इति महाभूतविशेषस्य नाम, महाभूतविशेषप्रतिपादकशब्दः वा।
वातः इति दोषविशेषस्य नाम, दोषविशेषप्रतिपादकशब्दः वा

नाशः =
ध्वंसः। निवृत्तिः। प्रध्वंसाभावः। विनाशः।
यथा दण्डाघाताद् घटस्य नाशः, ध्वंसः, निवृत्तिः, प्रध्वंसाभावः, विनाशः वा।
यथा उष्णेन कफस्य नाशः,ध्वंसः, निवृत्तिः, प्रध्वंसाभावः, विनाशः वा।

नाशप्रतियोगित्वम् =
सान्तत्वम्।नाशवत्त्वम्।ध्वंसवत्त्वम्।ध्वंसप्रतियोगित्वम्।
यथा घटे नाशप्रतियोगित्वं,सान्तत्वं, नाशवत्त्वं, ध्वंसवत्त्वं,ध्वंसप्रतियोगित्वं वा विद्यते।
यथा शरीरे नाशप्रतियोगित्वं, सान्तत्वं, नाशवत्त्वं, ध्वंसवत्त्वं, ध्वंसप्रतियोगित्वं वा विद्यते।

नाशवत्त्वम् =
सान्तत्वम्।नाशप्रतियोगित्वम्।ध्वंसवत्त्वम्।ध्वंसप्रतियोगित्वम् ।
यथा घटे नाशवत्त्वं,सान्तत्वं,नाशप्रतियोगित्वं, ध्वंसवत्त्वं,ध्वंसप्रतियोगित्वं वा विद्यते। यथा शरीरे नाशवत्त्वं, सान्तत्वं, नाशप्रतियोगित्वं, ध्वंसवत्त्वं, ध्वंसप्रतियोगित्वं वा विद्यते।

नाशशून्यत्वम् =
अनन्तत्वम्।ध्वंसाप्रतियोगित्वम्।नाशाप्रतियोगित्वम्।ध्वंसशून्यत्वम् ।
यथा आत्मनि नाशशून्यत्वम्, अनन्तत्वं, ध्वंसाप्रतियोगित्वं, नाशाप्रतियोगित्वं, ध्वंसशून्यत्वं वा विद्यते

नाशाप्रतियोगित्वम् =
अनन्तत्वम्।ध्वंसाप्रतियोगित्वम्।ध्वंसशून्यत्वम्।नाशशून्यत्वम्।
यथा आत्मनि नाशाप्रतियोगित्वम्, अनन्तत्वं ध्वंसाप्रतियोगित्वं,ध्वंसशून्यत्वं नाशशून्यत्वं वा विद्यते।

नित्यत्वम् =
ध्वंसाप्रतियोगित्वे सति प्रागभावाप्रतियोगित्वम्।
यथा आत्मनि नित्यत्वं, ध्वंसाप्रतियोगित्वे सति प्रागभावाप्रतियोगित्वं वा विद्यते।

नियतत्वम् =
व्यापकत्वम्।
यथा धूमनियतत्वं, धूमव्यापकत्वं वा वह्नौ।
यथा स्वास्थ्यनियतत्वं, स्वास्थ्य-व्यापकत्वं वा दोषसाम्ये।

निरूपितत्वम् =
निरूप्यत्वम्।
भूतले घटः इत्यत्र घटनिष्ठाधेयतानिरूपिताधिकरणता, घटनिष्ठाधेयता-निरूप्याधिकरणता, वा भूतले।
रक्ताश्रितं पित्तमित्यत्र पित्तनिष्ठवृत्तितानिरूपिताश्रयिता पित्तनिष्ठवृत्तितानिरुप्य-आश्रयिता वा रक्ते।

निरूप्यत्वम् =
निरूपितत्वम्।
भूतले घटः इत्यत्र घटनिष्ठाधेयतानिरूपित-अधिकरणता, घटनिष्ठाधेयता-निरूप्याधिकरणता, वा भूतले।
रक्ताश्रितं पित्तमित्यत्र पित्तनिष्ठवृत्तितानिरुप्य-आश्रयिता , पित्तनिष्ठवृत्तिता-निरूपिताश्रयिता वा रक्ते।

निर्णयः =
निश्चयः।
घटोऽयम् इति निर्णयः निश्चयः,वा।
ज्वरोऽयम् इति निर्णयः निश्चयः, वा।

निवारणम् =
वारणम्
‘स्पर्शवान् वायुः’ इति लक्षणे तेजोजलपृथिविषु अतिव्याप्तिः समभवति। तस्याः निवारणं, वारणं, वा रूपरहितः इति विशेषणेन क्रियते।
स्नेहपाने आरब्धे सम्भाव्यामदोषस्य निवारणं, वारणं वा उष्णोदकानुपानेन क्रियते।

निवृत्तिः =
ध्वंसः। नाशः। प्रध्वंसाभावः। विनाशः।
यथा दण्डाघाताद् घटस्य निवृत्तिः, ध्वंसः, नाशः, प्रध्वंसाभावः, विनाशः वा।
यथा उष्णेन कफस्य निवृत्तिः ध्वंसः, नाशः, , प्रध्वंसाभावः, विनाशः वा।

निश्चयः =
निर्णयः।
घटोऽयम् इति निश्चयः, निर्णयः वा।
ज्वरोऽयम् इति निश्चयः, निर्णयः वा।

निष्कर्षः =
परिष्कारः।
यथा ‘भूतले घटः’ इत्यस्य निष्कर्षः, परिष्कारः वा ‘भूतलनिष्ठाधिकरणता-निरूपकाधेयतावान् घटः’ इति ।
यथा ‘रक्ते पित्तम्’ इत्यस्य निष्कर्षः परिष्कारः वा ‘रक्तनिष्ठाधिकरणतानिरूपकाधेयतावत् पित्तम्’ इति।

न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः

"https://sa.wikibooks.org/w/index.php?title=न...&oldid=6462" इत्यस्माद् प्रतिप्राप्तम्