न कस्यचित्पटस्य संयोगवृत्त्या...

विकिपुस्तकानि तः

प्र.-स्पष्टीकुरुत- न कस्यचित्पटस्य संयोगवृत्त्या एतत्तन्तुषु सत्त्वेन तत्र व्यभिचार इति वाच्यम्।
उ.-सन्दर्भ:
चित्सुखाचार्यस्य अयं पट: एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी अंशित्वात्, इतरांशिवत् इत्यनुमाने पूर्वपक्षेण नाना आक्षेपा: उक्ता:।तेष्वन्यतम: आक्षेप: ‘कस्यचित्पटस्य संयोगवृत्त्या एतत्तन्तुषु सत्त्वेन तत्र व्यभिचार:’ इति वचने अनूदित:।इति न वाच्यम् इति तस्य परिहार: अपि सिद्धान्तिना उपक्रान्त:।
स्पष्टीकरणम्-
उपर्युक्ते चित्सुखीयानुमाने
पक्ष:-अयं पट:
साध्यम्- एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम्
हेतु:-अंशित्वम् ,
उदाहरणम्-इतरांशिवत्
यत्र साध्याभाव: (एतत्तन्तुनिष्ठात्यन्ताभाव-अप्रतियोगित्वम्),तत्रापि हेतु: (अंशित्वम्) वर्तते इति पूर्वपक्ष: दर्शयितुकाम:।तदेवम्-
अस्मिन् पटे कश्चन अपर: पट: स्थापित:।अधुना अपर: स्थापित: पट: अस्मिन् पटे वर्तते इति साध्याभाव: (साध्यम्- एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम्)। स च अस्मिन् पटे विद्यते। अंशित्वम् इति हेतु: च अस्मिन पटे विद्यते।साध्याभाववद्वृत्ति: अयं हेतु: अत: व्यभिचारदोषग्रस्त:।
अत्र सिद्धान्तिना उक्त: परिहार: एवम्-
अत्र व्यभिचार: नास्ति।एतत्तन्तुसमवेतपटस्य अत्यन्ताभावप्रतियोगित्वम् अस्माकं सिषाधयिषितं तथैव एतत्तन्तुसंयुक्तपटस्य अपि अत्यन्ताभावप्रतियोगित्वं सिषाधयिषितम् एव।अत: तत्र साध्यम् अस्मन्मते वर्तते।अत: साध्याभाववद्वृत्तित्वं अंशित्वहेतौ नास्ति। .................................................... लघूत्तरप्रश्ना: