न चात्यन्ताभावस्य प्रामाणिकत्वाप्रामाणिकत्वविकल्पावकाश:...

विकिपुस्तकानि तः

प्र.- स्पष्टीकुरुत- न चात्यन्ताभावस्य प्रामाणिकत्वाप्रामाणिकत्वविकल्पावकाश:, तस्य प्रागेव निरस्तत्वात्।
उत्तरम्- सन्दर्भ:-
अंशित्वहेतूपपत्तिप्रकरणस्या आदौ ग्रन्थकारेण चित्सुखाचार्यस्य एकमनुमानं पुरस्कृतम्-
अयं पट: , एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, अंशित्वात् इतरांशिवत् इति।अस्मिन् अनुमाने पूर्वपक्षस्याशङ्काम् उद्धृत्य अतिदेशेन तस्या: निराकरणं प्रकृतवचने ग्रन्थकारेण कृतम्।

स्पष्टीकरणम्-
पूर्वपक्षस्य आशङ्का इयम्-प्रकृतानुमाने ‘अत्यन्ताभाव:’इति पदं साध्यघटकरूपेण वर्तते।किमयमभाव: प्रमाणसिद्ध: अस्ति अथवा नास्ति?यदि अयमत्यन्ताभाव: प्रमाणसिद्ध: तर्हि स: तात्त्विक: (पारमार्थिक:)भविष्यति।तत: अद्वैतहानिप्रसङ्ग:।ब्रह्म पारमार्थिकं, पटाभाव: अपि पारमार्थिक: इति अद्वैतहानि: ध्रुवा।
अथ यदि अयमत्यन्ताभाव: न पारमार्थिक:, तर्हि सिद्धसाधनदोष:।अपारमार्थिकस्य पटाभावस्य अङ्गीकारं सर्वे एव द्वैतिन: कुर्वन्ति।पटस्य अत्यन्ताभाव: अपारमार्थिक: इति सर्वे एव प्रपञ्चसत्यत्ववादिन: अनुमन्यन्ते।अत: अत्र सिद्धसाधनदोष: भवति।
समाधानम्-
ग्रन्थकार: अतिदेशेन समाधानं करोति- ‘तस्य प्रागेव निरस्तत्वात्’ इति। प्राग् इति द्वितीयमिथ्यात्वसाधनप्रसङ्गे।तत्र प्रपञ्चनिषेध: तात्त्विको वा अतात्त्विको वेति प्रश्न: पूर्वपक्षेण कृत: आसीत्।तत्र यत्समाधानम् उक्तं तदेवात्र वाचकै: अनुसन्धेयम्।तच्च समाधानमेवमुक्तम्- ‘प्रपञ्चनिषेधाधिकरणीभूत-ब्रह्म-अभिन्नत्वात्, निषेधस्य तात्त्विकत्वेऽपि नाद्वैतहानिकरत्वम्’
एतद् वचनम् अत्र एवम् अनुसन्धीयते –
पटस्यात्यन्ताभाव: प्रामाणिक: (पारमार्थिक:) एव। तथापि न अद्वैतहानि: सम्भवति।यतो हि अद्वैतमते अत्यन्ताभावोऽधिकरणस्वरूप:।अत: पटात्यन्ताभाव: तन्तुरूप: एव।एवमेव प्रपञ्चाभाव: ब्रह्मस्वरूप: एव, नान्य:।तेन न अद्वैतहानिप्रसङ्ग:



लघूत्तरप्रश्ना: