न वायुक्रियाधिकरणम्

विकिपुस्तकानि तः

न वायुक्रिये पृथगुपदेशात् । ब्रसू-२,४.९ ।
पू.-स मुख्य: प्राण: किंरूप: इति जिज्ञासायाम् उच्यते ‘वायु: प्राण:’ इति। तथा श्रूयते- य: प्राण: स वायु: स एष वायु: पञ्चविध: प्राणोऽपानो व्यान उदान: समान इति।
वे.- न वायु: प्राण:, पृथगुपदेशात्।प्राणस्य वायुभिन्न उपदेश: भवति अत: वायुरेव प्राण: भवितुं नार्हति।
पू.-कुत्रास्ति प्राणस्य वायो: पृथगुपदेश:?
वे.- ‘प्राण एव ब्रह्मण: चतुर्थ: पाद:, स वायुना ज्योतिषा भाति च तपति च।(छा. ३.१८.४) यदि वायु: एव प्राण: स्यात् तर्हि वायो: पृथक् प्राणस्य उल्लेखो न स्यात्।
पू.- तर्हि समस्तकरणवृत्ति: प्राण: स्यात्।अन्यत्र तथा प्रोक्तम्- ‘सामान्या करणवृत्ति: प्राणाद्या वायव: पञ्च’ इति। वे.- न करणव्यापार: प्राण:,पृथगुपदेशात्।प्राणस्य करणभिन्न: उपदेशोऽस्ति अत: प्राण: करणव्यापारो भवितुं नार्हति।
पू.- कुत्र विद्यते करणव्यापारात् पृथक् प्राणोपदेश:?
वे.- वागादीनि करणानि उक्त्वा तत्र तत्र पृथक् प्राणस्यानुक्रमणमुक्तम्।तथा
‘एतस्माज्जायते प्राणो मन: सर्वेन्द्रियाणि च।खं वायु:...॥ (मुण्ड. २.१.३)
इत्यत्र प्रणात् पृथग् वायो: करणानां चोल्लेखो विद्यते।
पू. पञ्जरचालनन्यायेन समस्तानां करणानामेका वृत्ति: प्राणशब्देन उच्यते इति मन्यामहे।यथा एकस्मिन् पञ्जरे स्थिता: एकादश खगा: पृथक् पृथक् चेष्टां कुर्वन्त: अपि सम्भूय पञ्जरं चालयन्ति, तथा एकादश प्राणा: प्रतिनियतव्यापारा: अपि एकत्र प्राणाख्यां वृत्तिं लभन्ते।
वे. दृष्टान्ते प्रतिनियतव्यापारा: खगा: सम्भूय पञ्जरचालनानुरूपव्यापारसहिता: सन्त: पञ्जरं चालयन्तीति युक्तम्। दार्ष्टान्तिके तन्न युज्यते।श्रवणाद्यवान्तरव्यापारोपेता: प्राणा: सम्भूय प्राण्युरिति न सम्भवति, प्रमाणाभावात्।श्रवणादिभ्य: प्राणस्य अत्यन्तविजातीयत्वाच्च।प्राणस्य श्रेष्ठत्वोद्घोषणाच्च।प्राणं प्रति श्रवणादीनां गुणाभाव: तदा एव शक्य:, यदा प्राण: श्रवणादिव्यापारेभ्य: पृथग् अङ्गीक्रियते।अत: वायुक्रियाभ्यामन्य: प्राण:।
पू.- ‘य: प्राण: स: वायु:’ इति श्रुति: वर्तते, तस्या: का गति:?
वे.- वायुरेवायम् अध्यात्ममापन्न: पञ्चव्यूह: विशेषात्मना अवतिष्ठमान: प्राणो नाम भण्यते।न तत्त्वान्तरं, नापि वायुमात्रम्।अतश्च भेदाभेदश्रुती न विरुद्ध्येते।
पू.-यदि प्राण: श्रेष्ठ:, यदि च वागादीनामिन्द्रियाणां तं प्रति गुणभाव:, तर्हि स: अपि जीववत् स्वतन्त्र: मन्तव्य:। तथा श्रुतौ अपि प्राणस्य नैका: विभूतय: प्रोक्ता:।‘सुप्तेषु वागादिषु प्राण: एक: एव जागर्ति, प्राण एको मृत्युनानाप्त:, प्राण: संवर्गो वागादीन् संवृङ्क्ते प्राण इतरान् प्राणान् रक्षति मातेव पुत्रान्’ इति। तस्मात् प्राणोऽपि जीववत् स्वतन्त्र:।

चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः । ब्रसू-२,४.१० ।
वे.- तुशब्द: प्राणस्वातन्त्र्यं निवर्तयति।यथा चक्षुरादीनि इन्द्रियाणि जीवस्य उपकरणानि, तथैव प्राणोऽपि जीवस्य सर्वार्थकरत्वेन उपकरणभूत:, न स्वतन्त्र:।तत्सहशिष्टे:। तै: चक्षुरादिभि: सह एव प्राण: शिष्यते प्राणसंवादादिषु। चक्षुरादिभि: समानधर्मा प्राण:।अत: एव तै: सह शिष्यते। तत्सहशिष्ट्यादिभ्य: इति हेतु:।तत्र आदिपदेन प्राणस्य संहतत्वं तथा अचेतनत्वमपि हेतुत्वेन ग्राह्यम्।
पू.- यदि चक्षुरादिवत् प्राण: अपि जीवं प्रति करणं, तर्हि द्वादश: विषय: अपि कल्पनीय:। रूपाद्यालोचनादिभि: चक्षुरादीनां जीवं प्रति करणत्वम्। तथैव द्वादश: विषय: मन्तव्य:, यदर्थमयं करणभूत: द्वादश: प्राण: प्रतिज्ञायते।

अकरणत्वाच् च न दोषस्तथा हि दर्शयति । ब्रसू-२,४.११ ।
वे.- द्वादशविषयकल्पनारूप: दोष: न सम्भवति, यतो हि चक्षुरादिवत् विषयावच्छेदेन प्राणस्य कारणत्वं न स्वीक्रियते।
पू.- तर्हि प्राणस्य कार्याभाव: आपन्न:।
वे.- न, तथा हि प्राणान्तरेषु असम्भवं मुख्यप्राणस्य विशिष्टं कार्यं श्रुति: दर्शयति प्राणसंवादादिषु।तदेवम्-
छान्दोग्ये प्राण-संवादे ‘अथ ह प्राणा अहंश्रेयसि व्यूदिरे’ इति उपक्रम: कृत:।‘यस्मिन् व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्यते, स व: श्रेष्ठ:।‘(छा. ५.१,६,७) इति उपन्यास: कृत:।प्राणस्य उच्चक्रमिषायां वागादिशैथिल्यं शरीरपातप्रसङ्गश्च दर्शित:।एवं प्राणनिमित्ता एव शरीरेन्द्रियस्थिति: इति श्रुत्या प्रदर्शितम्।
‘तान् वरिष्ठ: प्राण उवाच मा मोहमापद्यत अहमेवैतत् पञ्चधात्मानं प्रविभज्य एतद्बाणमवष्टभ्य विधारयामि।’ ‘प्राणेन रक्षन् अवरं कुलायम्’ (बृ.४.३.१२)।
‘यस्मात् कस्माच्चाङ्गात् प्राण उत्क्रामति, तदेव तच्छुष्यति’ (बृ. १.३.१९)
‘तेन यदश्नाति, यत्पिबति, तेनेतरान्प्राणानवति।’
इति प्राणनिमित्ता इतरेन्द्रियपुष्टि: दर्शिता।
‘कस्मिन्न्वहमुत्क्रान्ते उतक्रान्त भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि’ इति स प्राणमसृजत’ इत्येवं प्राणनिमित्ते उत्क्रान्तिप्रतिष्ठे दर्शिते।अत: प्राणस्य कार्याभावो नापद्यते।

पञ्चवृत्तिर्मनोवत् व्यपदिश्यते । ब्रसू-२,४.१२ ।
वे.- एतदपि प्राणस्य विशेषं कर्मास्ति ।यथा मनस: श्रोत्रादिनिमित्ता: पञ्च वृत्तय: सन्ति, तथा प्राणस्यापि कार्यविशेषनिमित्ता: पञ्च वृत्तय: सन्ति।
पू.- का: प्राणस्य कार्यविशेषनिमित्ता: पञ्च वृत्तय:?
वे.-
१) प्राण: उच्छ्वासादिकर्मा
२) अपान: नि:श्वासादिकर्मा
३) व्यान: बलवत्कर्महेतु:
४) उदान: उत्क्रान्त्यादिहेतु:
५) समान: अन्नरसवहनकर्मा
पू.- काम:, सङ्कल्प: इत्याद्या: मनोवृत्तय: अत्र ग्राह्या: न वा?
वे.- न ग्राह्या:, पञ्चसङ्ख्यातिरेकभयात्।
पू.- श्रोत्रादिनिमित्ता: पञ्च वृत्तय: गृह्यन्ते चेदपि सङ्ख्यातिरेक: भविष्यति एव यतो हि भूतभविष्यादयो वृत्तयोऽप्यत्र सन्ति।
वे.- अस्य समाधानं प्रकारद्वयेन सम्भवति-
१ योगशास्त्रे मनस: पञ्च वृत्तय: उक्ता:- प्रमाणविपर्ययविकल्पनिद्रास्मृतय: इति (१.६)। ता: अत्र ग्राह्या:।
अथवा
२ मनस: बहुवृत्तित्वमादाय तस्य उपमानत्वं वाच्यम् ‘यथा मन: बहुवृत्तिकं तथा प्राण:’ इति।

द्वितीयाध्याये चतुर्थ: पाद:   ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्
"https://sa.wikibooks.org/w/index.php?title=न_वायुक्रियाधिकरणम्&oldid=5647" इत्यस्माद् प्रतिप्राप्तम्