पञ्चमं मिथ्यात्वम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्र.-सद्विविक्तत्वं मिथ्यात्वम्। स्पष्टीकुरुत ।
उ.-विविक्तत्वमिति भिन्नत्वम्-
∴ मिथ्यात्वम् = सद्भिन्नत्वं ।
भिन्नत्वं भेदवत्त्वम्।
∴ सद्भिन्नत्वं नाम सत्प्रतियोगिताकभेदवत्त्वम्।
सत्त्वं प्रमाणसिद्धत्वम् –
∴ मिथ्यात्वम् = प्रमाणसिद्धप्रतियोगिताकभेदवत्त्वम्।
प्रमाणत्वं नाम दोषासहकृतज्ञानकरणत्वम्।
प्रमाणसिद्धत्वं नाम दोषासहकृतकरणजन्यज्ञानविषयत्वम्=सत्त्वम्।
∴ मिथ्यात्वम् = दोषासहकृतकरणजन्यज्ञानविषयभिन्नत्वम् ।
= दोषासहकृतकरणजन्यज्ञानविषयप्रतियोगिकभेदवत्त्वम्।
लक्ष्ये लक्षणसमन्वय:
लक्ष्यमत्र दृष्टान्ते शुक्तिरजतम्।दोष: प्रकाशाधिक्यम्। करणमत्र चक्षु:। प्रकाशाधिक्यासहकृतं नाम प्रकाशाधिक्यसाहाय्यरहितम्। तादृशचक्षुजन्यं ज्ञानं शुक्तिज्ञानम्।तस्य ज्ञानस्य विषय: शुक्ति:। शुक्तिप्रतियोगिकभेदवत्त्वं शुक्तिरजते। अत: शुक्तिरजतं मिथ्या इति लक्ष्ये लक्षणसमन्वय:। अथवा सिद्धान्ते लक्ष्यं वियदादिप्रपञ्च:।तत्र सद्विविक्तत्वं विद्यते।विविक्तत्वम् इति भेद:।सत् इति ब्रह्म।अत: सद्विविक्तत्वं नाम ब्रह्मप्रतियोगिकभेद:।तादृश: भेद: प्रपञ्चे वर्तते इति लक्ष्ये लक्षणसमन्वय:।
आक्षेप:-
१ असति अतिव्याप्ति:
२ निर्धर्मके ब्रह्मणि अतिव्याप्ति:
१ शशशृङ्गमसत् (तुच्छम्)।तत्र दोषासहकृतकरणजन्यज्ञानविषयभिन्नत्वम् इति लक्षणं सम्भवति।
२ ब्रह्म निर्धर्मकम्।प्रमाणसिद्धत्वमिति धर्म:।अत: ब्रह्मणि स: भवितुं नार्हति।अत: तत्रातिव्याप्ति:।
समाधानम् – अत्र ‘सत्त्वेन प्रतीयमानत्वम्’ इति विशेषणं देयम्।तेनोभयत्र अतिव्याप्तिदोषपरिहारो भविष्यति।सत्त्वप्रकारकप्रतीतिविषयत्वम् उभयत्र नास्ति।
आक्षेप:-घटादय: सत्त्वेन प्रतीयन्ते।तत्र मिथ्यात्वलक्षणं न घटते।अत: अव्याप्ति:।
समाधानम्-प्रमाणसिद्धत्वम् अबाध्यत्वव्याप्यम्।यत्र प्रमाणसिद्धत्वं तत्र अबाध्यत्वम्।घटादीनां ब्रह्मज्ञानेन बाध: भवति।अत: तेषु अबाध्यत्वं नास्ति। व्यापकाभावाद् व्याप्याभाव:। अत: तेषु प्रमाणसिद्धत्वमपि नास्ति। अविद्यादोषसहकृतकरणजन्यज्ञानविषया: घटादय:।अत: मिथ्या।
आक्षेप:- सद्रूपब्रह्मण: प्रपञ्चो भिद्यते इति द्वैतिभिरपि अभ्युपगम्यते।सद्विविक्तत्वं मिथ्यात्वमिति मिथ्यात्वसाधने सिद्धसाधनदोष:।
समाधानम्- न।अस्मन्मते ‘सद्भिन्नत्वम्’ इत्यत्र भेदप्रतियोगिता सति। भेदप्रतियोगितावच्छेदकं यत् ‘सत्त्वं’ तत् प्रमाणसिद्धत्वम्।द्वैतिनां मते प्रपञ्च: अपि प्रमाणजन्यज्ञानस्य विषय: (=प्रमाणसिद्ध:)।अस्मदभिलषितं यत् सद्विविक्तत्वं (प्रमाणसिद्धविषयाद् भिन्नत्वम्)तत् तै: न अभ्युपगम्यते अत: न सिद्धसाधनदोष:।
आक्षेप:- एवं चेत् प्रमाणसिद्धत्वावच्छिनप्रतियोगिताकभेद: वियदादिप्रपञ्चे न सिद्ध्यति, यतो हि वियदादिप्रपञ्च: प्रत्यक्षादिप्रमाणसिद्ध:।अत: अस्मिन् मिथ्यात्वलक्षणे अव्याप्तिदोष: ।
समाधानम्- प्रमाणत्वं नाम दोषासहकृतज्ञान-करणत्वम्।दोषासहकृतं (निर्दोषं)ज्ञानं प्रमा।तत्करणं प्रमाणम्।दोषासहकृतप्रमाणजन्यम् इति निर्दोषप्रमाणजन्यम्। वियदादिप्रपञ्चे एतादृशं निर्दोषकरणजन्यज्ञानविषयत्वं नास्ति।अत: प्रत्यक्षादि-गम्योऽपि प्रपञ्च: निर्दोषप्रत्याक्षादिप्रमाणस्य विषयो न भवति।अत: दोषासहकृत-ज्ञानकरणजन्यज्ञानविषयप्रतियोगिताकभेद: वियदादिप्रपञ्चे सुस्थ:। तेन न अव्याप्तिदोष: सम्भवति।
आक्षेप:- शुक्तिरजतादिपदार्था: सदोषज्ञानकरणजन्यज्ञानस्य विषया: इति मान्यम्। परं घटादय: पदार्था: तु न तथा।न तत्र सदोषज्ञानकरणजन्यज्ञानविषयत्वं दृश्यते।
समाधानम्- घटादिषु अविद्यादोषसहकृत(=सदोष-)ज्ञानकरणजन्यज्ञानविषयत्वम् अस्ति।
आक्षेप:-एवं तर्हि ब्रह्म अपि महावाक्यजन्यान्त:करणवृत्ते: विषय: अस्ति। अन्त:करणं च अविद्यापरिणामरूपम्।अविद्या यदि करणदोष:, तर्हि ब्रह्मज्ञानमपि दोषसहकृतज्ञानकरणजन्यम्।एवं च दोषासहकृतज्ञानकरणजन्यं ज्ञानमेव न सिद्ध्यति।
समाधानम्- नैवम्।दोषासहकृतं नाम दोषविधया दोषासहकृतम्।दोष: दोषत्वेन तत्र न स्यादित्यर्थ:।अन्त:करणवृत्तौ अविद्या न दोषत्वेन वर्तते।दोष: सदैव तटस्थकारणं भवति, न तूपादानम्।
महावाक्यजन्यान्त:करणवृत्तौ अविद्या उपादानभूता, न तु दोषभूता।अत: दोषासहकृतज्ञानकरणजन्यज्ञानस्य असिद्धि: न शङ्कनीया।प्रपञचज्ञाने अविद्या वृत्ते: उपादानत्वेन अस्ति, दोषविधया अप्यस्ति अत: तत्र दोषासहकृत-ज्ञानकरणजन्यज्ञानविषयत्वं नास्ति।

अद्वैतसिद्धिप्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=पञ्चमं_मिथ्यात्वम्&oldid=5245" इत्यस्माद् प्रतिप्राप्तम्