पञ्चमलक्षणे अंशत: सिद्धसाधनदोष: ?

विकिपुस्तकानि तः

प्र.- सत्त्वेन प्रतीयमानत्वे सति सद्विविक्तत्वम् इत्यस्मिन् लक्षणे अंशत: सिद्धसाधनदोष: इत्यस्मिन् विषये चर्चां कुरुत।
उ.- सत्त्वेन प्रतीयमानत्वे सति सद्विविक्तत्वम् इति एतद् अद्वैतसिद्धिकारेण मिथ्यात्वस्य पञ्चमं निर्धारणं कृतम्।तत्र सत्त्वेन प्रतीयमानत्वम् इति विशेषणांश:।घटादिप्रपञ्चे सत्त्वेन प्रतीयमानत्वं सर्वेषां सिद्धमेव।अत: तादृशप्रकारक-सद्विविक्तत्वसाधने अंशत: सिद्धसाधनदोष:।
समाधानम्-
अत्र अद्वैतसिद्धिकारेण अतिदेशेन समाधानमुक्तम्- ‘‘सदसद्विलक्षणपक्षोक्तयुक्तयश्चात्र अनुसन्धेया:’’ इति।ता: युक्तय: एवम्-
मीमांसका: ‘गुणादिकं गुण्यादिना भिन्नाभिन्नम्’ इति एतां प्रतिज्ञां साधयन्ति। नैयायिकानां मते ‘गुणादिकं गुण्यादिना भिन्नम्’ अस्ति एव।अत: यदा मीमांसका: भिन्नत्वविशिष्टम् अभिन्नत्वं साधयन्ति, तदा नैयायिकानां मते तत्रत्य: विशेषणांश: सिद्ध: एव।अत: नैयायिका: अत्र ‘अंशत: सिद्धसाधनदोषम्’ उद्भावयन्ति।
अत्र मीमांसकानामुत्तरमेवम्-
यद्यपि न्यायमते गुणादिकं गुण्यादिना भिन्नमिति सिद्धं तथापि अत्र ‘भिन्नाभिन्नम्’ इति मिलितं साध्यम् उद्दिष्टम्।अत: नात्र अंशत: सिद्धसाधनदोष: भवति।
एतदुदाहरणमत्र अनुसर्तव्यमिति अद्वैतसिद्धिकार: भाषते।सत्त्वेन प्रतीयमानत्वे सति सद्विविक्तत्वं मिथ्यात्वम्।तच्च अस्माकमनुमाने (प्रपञ्चो मिथ्या, दृश्यत्वात्...) साध्यम्।सत्त्वेन प्रतीयमानत्वम् इति साध्ये विशेषणांश:।स: यद्यपि घटादिप्रपञ्चे सिद्ध:, तथापि सत्त्वेन प्रतीयमानत्वमिलितसद्विविक्तत्वस्य सिद्धि: उद्देश्या।अतो न अंशत: सिद्धसाधनदोष: भवति।

लघूत्तरप्रश्ना:   दीर्घोत्तरप्रश्ना: