सामग्री पर जाएँ

पदार्थधर्मसंग्रहः

विकिपुस्तकानि तः

प्रशस्तपाद - पदार्थधर्मसंग्रह

०.०. प्रशस्तपादभाष्यम् ।

द्रव्यपदार्थः

[सम्पाद्यताम्]

१.१. प्रणम्य हेतुम् ईश्वरम् मुनिम् कणादम् अन्वतः ।

१.१. पदार्थधर्मसंग्रहः प्रवक्ष्यते महोदयः । ।

२.१.६. द्रव्यगुणकर्मसामान्यविशेषसमवायानाम् षण्णाम् पदार्थानाम् साधर्म्यवैधर्म्यतत्त्वज्ञानम् {५.वैधर्म्याभ्याम् तत्त्व} निह्श्रेयसहेतुः । ।

२.१.७. तच् चेश्वरचोदनाभिव्यक्ताद् धर्माद् एव । ।

२.२.८. अथ के द्रव्यादयः पदार्थाः किम् च तेषाम् साधर्म्यम् वैधर्म्यम् चेति । ।

२.२.८. तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि सामान्यविशेषसंज्ञयोक्तानि {५.संज्ञोक्तानि} नवैवेति {५.नवैव} । तद्व्यतिरेकेणान्यस्य संज्ञान् अभिधानात् {५.तद्व्यतिरेकेण संज्ञान्तरान् अभिधानात्} । ।

२.२.१.) गुणाश् च {५.गुणाः} रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वबुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नाश् चेति कण्ठोक्ताः सप्तदश । चशब्दसमुच्चिताश् च गुरुत्वद्रवत्वस्नेहसंस्काराद् ऊष्टशब्दाः सप्तैवेत्य् एवम् चतुर्विंशतिर् गुणाः {५.चतुर्विंशतिगुणाः} । ।

२.२.१.) उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्चैव कर्माणि । गमनग्रहणाद् भ्रमणरेचनस्यन्दनोर्ध्वज्वलनतिर्यक्पवननमनोन्नमनादयो गमनविशेषा न जात्यन्तराणि । ।

२.२.१.) सामान्यम् द्विविधम् परम् अपरम् चानुवृत्तिप्रत्ययकारणम् । तत्र परम् सत्ता, महाविषयत्वात् सा चानुवृत्तेर् एव हेतुत्वात् सामान्यम् एव । द्रव्यत्वाद्यपरम्, अल्पविषयत्वात् । तच् च व्यावृत्तेर् अपि हेतुत्वात् सामान्यम् सद्विशेषाख्याम् अपि लभते । ।

२.२.१.) नित्यद्रव्यवृत्तयो ऽन्त्या विशेषाः । ते खल्व् अत्यन्तव्यावृत्तिहेतुत्वाद् विशेषा एव । ।

२.२.१.) अयुतसिद्धानाम् आधार्याधारभूतानाम् यः सम्बन्धः ihaऽप्रत्ययहेतुः स समवायः । ।

२.२.१.) एवम् धर्मैर् विना धर्मिणाम् उद्देशः कृतः । ।

२.३.१.) षण्णाम् अपि पदार्थानाम् अस्तित्वाभिधेयत्वज्ञेयत्वानि । ।

२.३.१.) आश्रितत्वम् चान्यत्र नित्यद्रव्येभ्यः । ।

२.३.१.) द्रव्यादीनाम् पञ्चानाम् समवायित्वम् अनेकत्वम् च । ।

२.३.१.) गुणादीनाम् पञ्चानाम् अपि निर्गुणत्वनिष्क्रियत्वे । ।

२.३.१.) द्रव्यादीनाम् त्रयाणाम् अपि सत्तासम्बन्धह्, सामान्यविशेषवत्त्वम्, स्वसमयार्थशब्दाभिधेयत्वम्, धर्माधर्मकर्तृत्वम् च । ।

२.३.१.) कार्यत्वानित्यत्वे कारणवताम् एव । ।

२.३.१.) कारणत्वम् चान्यत्र पारिमाण्डल्यादिभ्यः । ।

२.३.१.) द्रव्याश्रितत्वम् चान्यत्र नित्यद्रव्येभ्यः । ।

२.३.१.) सामान्यादीनाम् त्रयाणाम् स्वात्मसत्त्वम्, बुद्धिलक्षणत्वम्, अकार्यत्वम्, अकारणत्वम्, असामान्यविशेषवत्त्वम्, नित्यत्वम्, अर्थशब्दानभिधेयत्वम् चेति । ।

३.२.) पृथिव्यादीनाम् नवानाम् अपि द्रव्यत्वयोगह्, स्वात्मन्य् आरम्भकत्वम् गुणवत्त्वम्, कार्यकारणविरोधित्वम्, अन्त्यविशेषवत्त्वम् । ।

३.२.) अनाश्रितत्वनित्यत्वे चान्यत्रावयविद्रव्येभ्यः । ।

३.२.) पृथिव्युदकज्वलनपवनात्ममनसाम् अनेकत्वापरजातिमत्त्वे । ।

३.२.) क्षितिजलज्योतिर् अनिलमनसाम् क्रियावत्त्वमूर्तत्वपरत्वापरत्ववेगवत्त्वानि । ।

३.२.) आकाशकालदिगात्मनाम् सर्वगतत्वम्, परममहत्त्वम्, सर्वसम्योगिसमानद्सत्वम् च । ।

३.२.) पृथिव्यादीनाम् पञ्चानाम् अपि भूतत्वेन्द्रियप्रकृतित्वबाह्यैकेन्द्रियग्राह्यविशेषगुणवत्त्वानि । ।

३.२.) चतुर्णाम् द्रव्यारम्भकत्वस्पर्शवत्त्वे । ।

३.२.) त्रयाणाम् प्रत्यक्षत्वरूपवत्त्वद्रवत्वानि । ।

३.२.) द्वयोर् गुरुत्वम् रसवत्त्वम् च । ।

३.२.) भूतात्मनाम् वैशेषिकगुणवत्त्वम् । ।

३.२.) क्षित्युदकात्मनाम् चतुर्दशगुणवत्त्वम् । ।

३.२.) आकाशात्मनाम् क्षणिकैकदेशवृत्तिविशेषगुणवत्त्वम् । ।

३.२.) दिक्कालयोः पञ्चगुणवत्त्वम् सर्वोत्पत्तिमताम् निमित्तकारणत्वम् च । ।

३.२.) क्षितितेजसोर् नैमित्तिकद्रवत्वयोगः । ।

३.२.) एवम् सर्वत्र साधर्म्यम् विपर्ययाद् वैधर्म्यम् च वाच्यम् इति द्रव्यासङ्करः । ।

४.०.२.) इहेदानीम् एकैकशो वैधर्म्यम् उच्यते । ।

४.१.२.) पृथिवीत्वाभिसम्बन्धात् पृथिवी । रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्कारवती ।

४.१.२.) एते च गुणविनिवेशाधिकारे रूपादयो गुणविशेषाः सिद्धाः । chAkShuShaऽवचनात् सप्तसङ्ख्यादयः । पतनोपदेशाद् गुरुत्वम् । adhbhi: सामान्यऽवचनाद् द्रव्यत्वम् । uththarakarmaऽवचनात् संस्कारः ।

४.१.२.) क्षिताव् एव गन्धः । रूपम् अनेकप्रकारम् शुक्लादि । रसः षड्विधो मधुरादिः । गन्धो द्विविधः सुरभिर् असुरबिह्श् च । स्पर्शो ऽस्या अनुष्णाशीतत्वे सति पाकजः ।

४.१.२.) सा तु द्विविधा । नित्या चानित्या च । परमाणुलक्षणा नित्या । कार्यलक्षणा त्व् अनित्या । सा च स्थैर्याद्यवयवसन्निवेशविशिष्टा ऽपरजातिबहुत्वोपेता शयनासनाद्यनेकोपकारकरी च । त्रिविधम् चास्याः कार्यम् । शरीरेन्द्रियविषयसंज्ञकम् । ।

४.१.२.) शरीरम् द्विविधम् । योनिजम् अयोनिजम् च । तत्रायोनिजम् अनपेक्ष्य शुक्रशोणितम् देवर्षीणाम् धर्मविशेषसहितेभ्यो ऽणुभ्यो जायते ।

४.१.२.) क्षुद्रजन्तूनाम् यातनाशरीराण्य् अधर्मविशेषसहितेभ्यो ऽणुभ्यो जायन्ते । शुक्रशोणितसन्निपातजम् योनिजम् । तद् विविधम् जरायुजम् अण्डजम् च । माणुषपशुमृगाणाम् जरायुजम् । पक्षिसरीसृपाणाम् अण्डजम् । ।

४.१.२.) इन्द्रियम् गन्धव्यंजकम् सर्वप्राणिनाम् जलाद्यनभिभूतैः पार्थिवावयवैर् आरब्धम् घ्राणम् ।

४.१.२.) विषयस् तु द्व्यणुकादिक्रमेणारब्धस् त्रिविधो मृत्पाषाणस्थावरलक्षणः । तत्र भूप्रदेशाः प्राकारेष्टकादयः मृत्प्रकाराः । पाषाणा उपलमणिवज्रादयः । स्थावरास् तृणौषधिवृक्षगुल्मलतावतानवनस्पतय इति । ।

४.२.३.) अप्त्वाभिसम्बन्धाद् आपः । रूपरसस्पर्शद्रवत्वस्नेहसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वगुरुत्वसंस्कारवत्यः ।

४.२.३.) पूर्ववद् एषाम् सिद्धिः ।

४.२.३.) शुक्लमधुरशीता एव रूपरसस्पर्शाः । स्नेहो ऽम्भस्य् एव सांसिद्धिकम् च द्रवत्वम् ।

४.२.३.) ताश् च पूर्ववद् द्विविधाः । नित्यानित्यभावात् । तासाम् तु कार्यम् त्रिविधम् । शरीरेन्द्रियविषयसंज्ञकम् ।

४.२.३.) तत्र शरीरम् अयोनिजम् एव वरुणलोके, पार्थिवावयवोपष्टम्भाच् चोपभोगसमर्थम् ।

४.२.३.) इन्द्रियम् सर्वप्राणिनाम् रसव्यंजकम् विजात्यनभिभूतैर् जलावयवैर् आरब्धम् रसनम् ।

४.२.३.) विषयस् तु सरित्समुद्रहिमकरकादिः । ।

४.३.३.) तेजस्त्वाभिसम्बन्धात् तेजः । रूपस्पर्शसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वद्रवत्वसंस्कारवत् ।

४.३.३.) पूर्ववद् एषाम् सिद्धिः ।

४.३.३.) तत्र शुक्लम् भास्वरम् च रूपम् । उष्ण एव स्पर्शः ।

४.३.३.) तद् अपि द्विविधम् अणुकार्यभावात् । कार्यम् च शरीरादित्रयम् ।

४.३.३.) शरीरम् अयोनिजम् आदित्यलोके, पार्थिवावयवोपष्टम्भाच् चोपभोगसमर्थम् ।

४.३.३.) इन्द्रियम् सर्वप्राणिनाम् रूपव्यंजकम् अन्यावयवानभिभूतैस् तेजो ऽवयवैर् आरब्धम् चक्षुः ।

४.३.३.) विषयसंज्ञकम् चतुर्विधम् । भौमम् दिव्यम् उदर्यम् आकरजम् च । तत्र भौमम् काष्ठेन्धनप्रभवम् ऊर्ध्वज्वलनस्वभावम् पचनदहनस्वेदनादिसमर्थम् दिव्यम् अबिन्धनम् सौरविद्युदादि भुक्तस्याहारस्य रसादिपरिणामार्थम् उदर्यम् आकरजम् च सुवर्णादि ।

४.३.३.) तत्र सम्युक्तसमवायाद् रसाद्युपलब्धिर् इति । ।

४.४.४.) वायुत्वाभिसम्बन्धाद् वायुः । स्पर्शसङ्ख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वसंस्कारवान् ।

४.४.४.) स्पर्शो ऽस्यानुष्णाशीतत्वे सत्य् अपाकजः । गुणविनिवेशात् सिद्धः । arUpiShv अचाक्षुषऽवचनात् सप्त सङ्ख्यादयः । तृणकर्मवचनात् संस्कारः ।

४.४.४.) स चायम् द्विविधो ऽणुकार्यभावात् ।

४.४.४.) तत्र कार्यलक्षणश् चतुर्विधः शरीरम् इन्द्रियम् विषयः प्राण इति ।

४.४.४.) तत्रायोनिजम् एव शरीरम् मरुताम् लोके पार्थिवावयवोपष्टम्भाच् चोपभोगसमर्थम् ।

४.४.४.) इन्द्रियम् सर्वप्राणिनाम् स्पर्शोपलम्भकम् पृथिव्याद्यनभिभूतैर् वाय्ववयवैर् आरब्धम् सर्वशरीरव्यापि त्वगिन्द्रियम् ।

४.४.४.) विषयस् तूपलभ्यमानस्पर्शाधिष्ठानभूतः स्पर्शशब्दधृतिकम्पलिङ्गस् तिर्यग्गमनस्वभावो मेघादिप्रेरणधारणादिसमर्थः ।

४.४.४.) तस्याप्रत्यक्षस्यापि नानात्वम् सम्मूर्च्छनेनानुमीयते । सम्मूर्च्छनम् पुनः समानजवयोर् वाय्वोर् विरुद्धदिक्क्रिययोः सन्निपातः । सो ऽपि सावयविनोर् वाय्वोर् ऊर्ध्वगमनेनानुमीयते; तद् अपि तृणादिगमनेनेति । ।

४.४.४.) प्राणो ऽन्तह्सेरीरे रसमलधातूनाम् प्रेरणादिहेतुर् एकः सन् क्रियाभेदाद् अपानादिसंज्ञाम् लभते । ।

५.४. ७. इहेदानीम् चतुर्णाम् महाभूतानाम् सृष्टिसंहारविधिर् उच्यते ।

५.४. ८. ब्राह्मणे मानेन वर्षशतान्ते {५. वर्षशतस्यान्ते} वर्तमानस्य ब्रह्मणो ऽपवर्गकाले संसारखिन्नानाम् {५.संसारे खिन्नानाम्} सर्वप्राणिनाम् निशि विश्रामार्थम् सकलभुवनपतेर् महेश्वरस्य संजिहीर्षासमकालम् शरीरेन्द्रियमहाभूतोपनिबन्धकानाम् सर्वात्मगतानाम् अदृष्टानाम् वृत्तिनिरोधे सति महेश्वरेच्छात्माणुसम्योगजकर्मभ्यः शरीरेन्द्रियकारणाणुविभागेभ्यस् तत्सम्योगनिवृत्तौ तेषाम् आपरमाण्वन्तो विनाशः {किर् । }

५.४. १.) तथा पृथिव्युदकज्वलनपवनानाम् अपि महाभूतानाम् अनेनैव क्रमेणोत्तरस्मिन्न् उत्तरस्मिन् {५.उत्तरस्मिंश् च} सति पूर्वस्य पूर्वस्य {५.पूर्वपूर्वस्य} विनाशः ततः प्रविभक्ताः परमाणवोवतिष्ठन्ते धर्माधर्मसंस्कारानुविद्धा आत्मानस् {५.आत्मानश् च} तावन्तम् एव कालम् ।

५.४. १.) ततः पुनः प्राणिनाम् भोगभूतये महेश्वरसिसृक्षानन्तरम् {५.महेश्वरस्य सिसृक्षानन्तरम्} सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यस् तत्सम्योगेभ्यः पवनपरमाणुषु कर्मोत्पत्तौ तेषाम् परस्परसम्योगेभ्यो द्व्यणुकादिप्रक्रमेण महान् वायुः समुत्पन्नो नभसि दोधूयमानस् तिष्ठति ।

५.४. १. तदनन्तरम् तस्मिन्न् एव वायावाप्य् एभ्यः परमाणुभ्यस् तेनैव क्रमेण महान् सलिलनिधिर् उत्पन्नः पोप्लूयमानस् तिष्ठति तदनन्तरम् तस्मिन्न् एव {५.तस्मिन्न् एव जलनिधो } पार्थिवेभ्यः परमाणुभ्यो {? द्व्याणुकादिप्रक्रमेणोत्पन्न } महापृथिवी {५.अद्द्स् समुत्पन्ना} संहतावतिष्ठते ।

५.४. ५. तदनन्तरम् तस्मिन्न् एव महोदधौ तैजसेभ्यो ऽणुभ्यो द्व्यणुकादिप्रक्रमेणोत्पन्नो महांस् तेजोराशिः केनचिद् अनभिभूतत्वाद् देदीप्यमानस् तिष्ठति ।

५.४. ७. एवम् समुत्पन्नेन्षु चतुर्षु महाभूतेषु महेश्वरस्याभिध्यानमात्रात् तैजसेभ्यो ऽणुभ्यः {१.तैजसाणुभ्यः} पार्थिवपरमाणुसहितेभ्यो {१.पार्थिवादिपरमाणुसहितेभ्यो} महदण्डम् आरभ्यते {५.उत्पद्यते} तस्मिंश् चतुर्वदनकमलम् सर्वलोकपितामहम् ब्रह्माणम् सकलभुवनसहितम् उत्पाद्य प्रजासर्गे विनियुङ्क्ते ।

५.४. १.) स च महेश्वरेण विनियुक्तो ब्रह्मातिशयज्ञानवैराग्यैश्वर्यसम्पन्नः प्राणिनाम् कर्मविपाकम् विदित्वा कर्मानुरूपज्ञानभोगायुषः {६.ज्ञानवैराग्यभोगायुषः} सुतान् प्रजापतीन् मानसान् मौदेवर्षिपितृगणान् मुखबाहूरुपादतश् चतुरो वर्णानन्यानि चोच्चावचानि भूतानि च सृष्ट्वाशयाणुरूपैर् धर्मज्ञानवैराग्यैश्वर्यैः सम्योजयतीति । ।

६.१.५. ५. आकाशकालदिशाम् एकैकत्वाद् परजात्यभावे {६.साजात्यभावे} पारिभाषिक्यस्तिस्रः संज्ञा भवन्ति । आकाशः {५.आकाशम्} कालो दिग् इति । तत्राकाशस्य गुणाः शब्दसंख्यापरिमाणपृथक्त्वसम्योगविभागाः ।

६.१.५.) शब्दः {५.तत्र इत्यधिकम्} प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वाद् अयावद् द्रव्यभावित्वाद् आश्रयाद् अन्यत्रोपलब्धेश् च न स्पर्शवद् विशेषगुणः । बाह्येन्द्रियप्रत्यक्षत्वाद् आत्मान्तरग्राह्यत्वाद् आत्मन्य् असमवायाद् अहङ्कारेण विभक्तग्रहणाच् च नात्मगुणः ।

६.१.५.) श्रोत्रग्राह्यत्वाद् वैशेषिकगुणभावाच् च न दिक्कालमनसाम् । परिशेषाद् {६.४.पारिशेष्यात्} गुणो भूत्वा आकाशस्याधिगमे लिङ्गम् । शब्दलिङ्गाविशेषाद् {१.शब्दलिङ्गाविस्षत्वा} एकत्वम् सिद्धम् ।

६.१.५.) तद् अनुविधानाद् एकपृथक्त्वम् {५.विधानात् पृथक्त्वम्; २.विधानाद् एव पृथक्त्वम्} । विभववचनात् परममहत्परिमाणम् {१.महत्परिमाणम्} । शब्दकारणत्ववचनात् {५.शब्दकारणवचनात्} सम्योगविभागाव् इति ।

६.१.५.) अतो गुणवत्त्वाद् {६.गुणवचनवत्वा} अनाश्रितत्वाच् च द्रव्यम् । समानासमानजातोयकारणाभावाच् च नित्यम् । सर्वप्राणिनाम् च शब्दोपलब्धौ निमित्तम् {५.शब्दोपलम्भेकनिमित्तम्; १.शब्दोपलब्धिनिमित्तम्} श्रोत्रभावेन ।

६.१.५.) श्रोत्रम् पुनः श्रवणविवरसंज्ञको नभोदेशः {६.नभह्प्रदेशः} शब्दनिमित्तोपभोगप्रापकधर्माधर्मोपनिबद्धस् तस्य च नित्यत्वे सत्य् उपनिबन्धकवैकल्याद् बाधिर्यम् इति । ।

६.२.६. १.) कालः परापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रप्रत्ययलिङ्गम् । तेषाम् विषयेषु पूर्वप्रत्ययविलक्षणानाम् {६.प्रत्ययानाम् इत्य् अधिकम्} उत्पत्ताव् अन्यनिमित्ताभावाद् यद् {६.निमित्तासम्भवाद्} अत्र निमित्तम् स कालः ।

६.२.६.) सर्वकार्याणाम् {५.६.सर्वकार्याणाम् उत्पत्ति} चोत्पत्तिस्थितिविनाशहेतुस् तद्व्यपदेशात् । क्षणलवनिमेषकाष्ठाकलामुहूर्तयामाहोरात्रार्धमासमासर्त्वयनसंवत्सरयुगकलपमन्वन्तरप्रलयमहाप्रलयव्यवहारहेतुः {५.हेतुश् च} ।

६.२.६.) तस्य गुणाः संख्यापरिमाणपृथक्त्वसम्योगविभागाः । काललिङ्गाविशेषाद् एकत्वम् सिद्धम् । तद् अनुविधानात् पृथक्त्वम् । कारणे काल इतिवचनात् परममहत्परिमाणम् । कारणपरत्वादिवचनात् {५.कारणमहत्त्वा} सम्योगः ।

६.२.६.) तद्विनाशकत्वाद् विभाग इति । तस्याकाशवद् द्रव्यत्वनित्यत्वे सिद्धे {नोत् सीन् इन् १. काललिङ्गाविशेषाद् अंजसैकत्वे[म् ऽ]पि सर्वकार्याणाम् {५.पूर्वभूतकार्याणाम्} आरम्भक्रियाभिनिर्वृत्तिस्थितिनिरोधोपपाधिभेदान् मणिवत् पाचकवद् वा नानात्वोपचार इति । ।

६.३.६. २.) दिक् पूर्वापरादिप्रत्ययलिङ्गा । मूर्तद्रव्यम् अवधिम् कृत्वा मूर्तेष्व् एव द्रव्येष्व् एतस्माद् इदम् {५.द्रव्येषु तस्माद् इदम्} पूर्वेण दक्षिणेन पश्चिमेनोत्तरेण पूर्वदक्षिणेन दक्षिणापरेण अपरोत्तरेण {५.दक्षिणपश्चिमेन पश्चमोत्तरेण} उत्तरपूर्वेण चाधस्ताद् उपरिष्टाच् चेति {५.उपरिष्टाद् इति} दश प्रत्यया यतो भवन्ति {५.प्रत्ययान् ना? भवति; ६.प्रत्यया भवन्ति यतः} सा दिग् इति ।

६.३.६.) अन्यनिमित्तासम्भवात् ।

६.३.६.) तस्यास् तु गुणाः संख्यायपरिमाणपृथक्त्वसम्योगविभागाः कालवद् एते सिद्धाः । दिग् लिङ्गाविशेषाद् अंजसैकत्वे ऽपि दिशः परममहर्षिभिः {६.परमर्षिभिः } श्रुतिस्मृतिलोकसंव्यवहारार्थम् {५.लोकव्यवहारार्थम्} मेरुम् प्रदक्षिणम् आवर्तमानस्य भगवतः सवितुर् ये सम्योगविशेषाः लोकपालपरिगृहीतदिक्प्रदेशानाम् {५.सम्योगास् तेषाम् लोकपाल} अन्वर्थाः प्राच्यादिभेदेन दशविधाः संज्ञाः कृताः अतो {५.ततो} भक्त्या दश दिशः सिद्धाः ।

६.३.६.) तासाम् एव देवतापरिग्रहात् {६.परिगृहीतत्वात्; ५.परिग्रहवशात्} पुनर् दश संज्ञा भवन्ति । {६.तद्यथा} माहेन्द्री वैश्वानरी याम्या {५.यामो} नैरृती वारुणी वायव्या कौवेरी {५.वायवो चान्द्रमसी} ऐशानी ब्राह्मी नागी चेति ।

६.४.६. ६. आत्मत्वाभिसम्बन्धाद् आत्मा । तस्य सौक्ष्म्याद् अप्रत्यक्षत्वे सति {५.ऽपि} करणैः शब्दाद्युपलब्ध्यनुमितैः श्रोत्रादिभिः समधिगमः क्रियते । वास्यादीनाम् {६.७.वास्यादीनाम् इव} करणानाम् कर्तृप्रयोज्यत्वदर्शनात् {१.प्रयोज्यत्व} शब्दादिषु प्रसिद्ध्या च प्रसाधको ऽनुमीयते ।

६.४.६.) न शरीरेन्द्रियमनसाम् अज्ञत्वात् {५.अज्ञानत्वात्; १.न शरीरेन्द्रियमनसाम् चैतन्यम् अज्ञत्वात्} । न शरीरस्य चैतन्यम् घटादिवद् भूतकार्यत्वात् मृते चासम्भवात् । नेन्द्रियाणाम् करणत्वात् उपहतेषु विषयासान्निध्ये चानुस्मृतिदर्शनात् {१.चात्र स्मृति} ।

६.४.६.) नापि मनसः करणान्तरानपेक्षित्वे युगपदालोचनस्मृतिप्रसङ्गात् {५.युगपदालोचनानुस्मृति} स्वयम् करणभावाच् च । परिशेषाद् {५.६.पारिशेष्याद्} आत्मकार्यत्वात् {६.आत्मकार्यम् ज्ञानम्} तेनात्मा समधिगम्यते शरीरसमवायिनीभ्याम् च हिताहितप्राप्तिपरिहारयोग्याभ्याम् प्रवृत्तिनिवृत्तिभ्याम् {१.प्रवृत्तिनिवृत्तिभ्याम् नोत् सीन्} रथकर्मणा सारथिवत् प्रयत्नवान् विग्रहस्याधिष्ठातानुमीयते प्राणादिभिश् चेति ।

६.४.६.) कथम् शरीरपरिगृहीते {५.विगृहीते} वायौ विकृतकर्मदर्शनाद् भस्त्राध्मापयितेव निमेषोन्मेषकर्मणा नियतेन दारुयन्त्रप्रयोक्तेव देहस्य वृद्धिक्षतभग्नसंरोहणादिनिमित्तत्वात् {६.संरौहणाभ्याम्}

६.४.७.) गृहपतिर् इव अभिमतविषयग्राहककरणसम्बन्धनिमित्तेन मनह्कर्मणा गृहकोणेषु पेलकप्रेरक इव {५.गृह?कोणव्यवस्थितपेलक इव प्रेरक इव} दारकः नयनविषयालोचनानन्तरम् रसानुस्मृतिक्रमेण रसनविक्रियादर्शनाद् अनेकगवाक्षान्तर्गतप्रेक्षकवद् {५.प्रेरक} उभयदर्शी कश्चिद् एको विज्ञायते ।

६.४.७.) सुखदुह्खेच्छाद्वेषप्रयत्नैश् च गुणैर् गुण्यनुमीयते ते च न शरीरेन्द्रियगुणाः {५.विशेषगुणाः} कस्माद् अहङ्कारेणैकवाक्यताभावात् प्रदेशवृत्तित्वाद् अयावद्द्रव्यभावित्वाद् बाह्येन्द्रियाप्रत्यक्षत्वाच् {५.ग्राह्यत्वा} च तथाहंशब्देनापि पृथ्श्श्दिव्यादिशब्दव्यतिरेकाद् इति ।

६.४.७.) तस्य गुणाः बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारसंख्यापरिमाणपृथक्त्वसम्योगविभागाः । आत्मलिङ्गाधिकारे बुद्ध्यादयः प्रयत्नान्ताः सिद्धाः {६.प्रयत्नान्ताश् च प्रसिद्धाः} ।

६.४.७.) धर्माधर्माव् आत्मान्तरगुणानाम् अकारणत्ववचनात् संस्कारः स्मृत्युत्पत्तौ कारणवचनात् । व्यवस्थावचनात् {५.वचनाभिसम्बन्धात्} संख्या पृथक्त्वम् अप्य् अत एव {१.मत एव} तथा चात्मेतिवचनात् परममहत् परिमाणम् ।

६.४.७.) सन्निकर्षजत्वात् सुखादीनाम् सम्योगः । तद्विनाशकत्वाद् विभाग इति । ।

६.५.८. ८. मनस्त्वयोगान् मनः । सत्य् अप्य् आत्मेन्द्रियार्थसान्निध्ये ज्ञानसुखादीनाम् अभूत्वोत्पत्तिदर्शनात् करणान्तरम् अनुमीयते । श्रोत्राद्यव्यापारे स्मृत्युत्पत्तिदर्शनात् बाह्येन्द्रियैर् अगृहीतसुखादिग्राह्यान्तरभावाच् चान्तह्करणम् ।

६.५.८.) तस्य गुणाः संख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वसंस्काराः । प्रयत्नज्ञानायौगपद्यवचनात् प्रतिशरीरम् एकत्वम् सिद्धम् । पृथक्त्वम् अप्य् अत एव । तदभाववचनाद् अणुपरिमाणम् ।

६.५.८.) अपसर्पणोपसर्पणवचनात् सम्योगविभागौ । मूर्तत्वात् परत्वापरत्वे संस्कारश् च । अस्पर्शवत्त्वाद् द्रव्यानारम्भकत्वम् । क्रियावत्त्वान् मूर्तत्वम् । साधारणविग्रहवत्त्वप्रसङ्गाद् अज्ञत्वम् ।

६.५.८.) करणभावात् परार्थम् । गुणवत्त्वाद् द्रव्यम् । प्रयत्नादृष्टपरिग्रहवशाद् आशुसञ्चारि चेति । ।

६.०.८.)इति प्रशस्तपादभाष्ये द्रव्यपदार्थः । ।

गुणपदार्थनिरूपणम्

[सम्पाद्यताम्]

७.०.९. ५. अथ गुणपदार्थनिरूपणम् ।

७.०.९. ६. रूपादीनाम् गुणानाम् सर्वेषाम् गुणत्वाभिसम्बन्धो द्रव्याश्रितत्वम् निर्गुणत्वम् निष्क्रियत्वम् । ।

७.०.९. ३. रूपरसगन्धस्पर्शपरत्वापरत्वगुरुत्वद्रवत्वस्नेहवेगा मूर्तगुणाः । ।

७.०.९. ९. बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा अमूर्तगुणाः । ।

७.०.९. १.) संख्यापरिमाणपृथक्त्वसम्योगविभागा उभयगुणाः । ।

७.०.९. १.) सम्योगविभागद्वित्वद्विपृथक्त्वादयो ऽनेकाश्रिताः । ।

७.०.९. २.) शेषास् त्व् एकैकद्रव्यवृत्तयः । ।

७.०.९. २.) रूपरसगन्धस्पर्शस्नेहसांसिद्धिकद्रवत्वबुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा वैशेषिकगुणाः । ।

७.०.९. ५. संख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वगुरुत्वनैमितिकद्रवत्ववेगाः सामान्यगुणाः । ।

७.०.९. १.) शब्दस्पर्शरूपरसगन्धा बाह्यैकैकेन्द्रियग्राह्याः । ।

७.०.९. १.) संख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वद्रवत्वस्नेहवेगा द्वीन्द्रियग्राह्याः । ।

७.०.९. १.) बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नास् त्व् अन्तह्करणग्राह्याः । ।

७.०.९. ४. गुरुत्वधर्माधर्मभावना ह्य् अतीन्द्रियाः । ।

७.०.९. ७. अपाकजरूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्त्वगुरुत्वद्रवत्वस्नेहवेगाः कारणगुणपूर्वकाः । ।

७.०.९. २.) बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा अकारणगुणपूर्वकाः । ।

७.०.९. २.) बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दतूलपरिमाणोत्तरसम्योगनैमित्तिकद्रवत्वपरत्वापरत्वापाकजाः सम्योगजाः । ।

७.०.९. ६. सम्योगविभागवेगाः कर्मजाः । ।

७.०.९. ८. शब्दोत्तरविभागौ विभागजौ । ।

७.०.९. १.) परत्वापरत्वद्वित्वद्विपृथक्त्वादयो बुद्ध्यपेक्षाः । ।

७.०.९. १.) रूपरसगन्धानुष्णस्पर्शशब्दपरिमाणैकत्वैकपृथक्त्वस्नेहाः समानजात्यारम्भकाः । ।

७.०.९. २.) सुखदूह्खेच्छाद्वेषप्रयत्नाश् चासमानजात्यारम्भकाः । ।

७.०.१.०.३. सम्योगविभागसंख्यागुरुत्वद्रवत्वोष्णस्पर्शज्ञानधर्माधर्मसंस्काराः समानासमानजात्यारम्भकाः । ।

७.०.१.०.१.) बुद्धिसुखदुह्खेच्छाद्वेषभावनाशब्दाः स्वाश्रयसमवेतारम्भकाः । ।

७.०.१.०.१.) रूपरसगन्धस्पर्शपरिमाणस्नेहप्रयत्नाः परत्रारम्भकाः । ।

७.०.१.०.२.) सम्योगविभागसंख्यैकपृथक्त्वगुरुत्वद्रवत्ववेगधर्माधर्मास् तूभयत्रारम्भकाः । ।

७.०.१.१.३. गुरुत्वद्रवत्ववेगप्रयत्नधर्माधर्मसम्योगविशेषाः क्रियाहेतवः । ।

७.०.१.१.९. रूपरसगन्धानुष्णस्पर्शसंख्यापरिमाणैकपृथक्त्वसनेहशब्दानाम् असमवायिकारणत्वम् । ।

७.०.१.२.१. बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मभावनानाम् निमित्तकारणत्वम् । ।

७.०.१.२.४. सम्योगविभागोष्णस्पर्शगुरुत्वद्रवत्ववेगानाम् उभयथा कारणत्वम् । ।

७.०.१.२.१.) परत्वापरत्वद्वित्वद्विपृथक्त्वादीनाम् अकारणत्वम् । ।

७.०.१.२.१.) सम्योगविभागशब्दात्मविशेषगुणानाम् प्रदेशवृत्तित्वम् । ।

७.०.१.३.८. शेषाणाम् आश्रयव्यापित्वम् । ।

७.०.१.३.१.) अपाकजरूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्त्वसांसिद्धिकद्रवत्वगुरुत्वस्नेहानाम् यावद्द्रव्यभावित्वम् । ।

७.०.१.३.१.) शेषाणाम् अयावद्द्रव्यभावित्वम् चेति । ।

८.१.१.३.१.) रूपादीनाम् सर्वेषाम् गुणानाम् प्रत्येकम् अपरसामान्यसम्बन्धाद् रूपादिसंज्ञा भवन्ति । ।

८.१.१.४.१. तत्र रूपम् चक्षुर्ग्राह्यम् । पृथिव्युदकज्वलनवृत्ति द्रव्याद्युपलम्भकम् नयनसहकारि शुक्लाद्यनेकप्रकारम् सलिलादिपरमाणुषु नित्यम् पार्थिवपरमाणुष्व् अग्निसम्योगविरोधि सर्वकार्यद्रव्येषु कारणगुणपूर्वकम् आश्रयविनाशाद् एव विनश्यतीति । ।

८.२.१.५.८. रसो रसनग्राह्यः । पृथिव्युदकवृत्तिः जीवनपुष्टिबलारोग्यनिमित्तम् रसनसहकारी मधुरांललवणतिक्तकटुकषायभेदभिन्नः । अस्यापि नित्यानित्यत्वनिष्पत्तयो रूपवत् । ।

८.३.१.५.२.) गन्धो घ्राणग्राह्यः । पृथिवीवृत्तिः घ्राणसहकारी सुरभिर् असुरभिश् च । अस्यापि पूर्ववद् उत्पत्त्यादयो व्याख्याताः । ।

८.४.१.६.८. स्पर्शस् त्वगिन्द्रियग्राह्यः । क्षित्युदकज्वलनपवनवृत्तिः त्वक्षहकारी रूपानुविधायी शीतोष्णानुष्णाशीतभेदात् त्रिविधः । अस्यापि नित्यानित्यत्वनिष्पत्तयः पूर्ववत् । ।

८.५.१.६.१.) पार्थिवपरमाणुरूपादीनाम् पाकजोत्पत्तिविधानम् । घटादेर् आमद्रव्यस्याग्निना सम्बद्धस्याग्न्यभिघातान् नोदनाद् वा तदारम्भकेष्व् अणुषु कर्माण्य् उत्पद्यन्ते तेभ्यो विभागाः विभागेभ्यः सम्योगविनाशाः सम्योगविनाशेभ्यश् च कार्यद्रव्यम् विनश्यति ।

८.५.१.६. तस्मिन् विनष्टे स्वतन्त्रेषु परमाणुष्व् अग्निसम्योगाद् औष्ण्यापेक्षाच् छ्यामादीनाम् विनाशः पुनर् अन्यस्माद् अग्निसम्योगाद् औष्ण्यापेक्षात् पाकजा जायन्ते ।

८.५.१.७. तदनन्तरम् भोगिनाम् अदृष्तापेक्षाद् आत्माणुसम्योगाद् उत्पन्नपाकजेष्व् अणुषु कर्मोत्पत्तौ तेषाम् परस्परसम्योगाद् द्व्यणुकादिक्रमेण कार्यद्रव्यम् उत्पद्यते । तत्र च कारणगुणप्रक्रमेण रूपाद्युत्पत्तिः ।

८.५.१.७. न च कार्यद्रव्य एव रूपाद्युत्पत्तिर् विनाशो वा सम्भवति सर्वावयवेष्व् अन्तर् बहिश् च वर्तमानस्याग्निना व्याप्त्यभावाद् अणुप्रवेशाद् अपि च व्याप्तिर् न सम्भवति कार्यद्रव्यविनाशाद् इति । ।

८.६.१.१.३. एकादिव्यवहारहेतुः संख्या । सा पुनर् एकद्रव्या चानेकद्रव्या च । तत्रैकद्रव्यायाः सलिलादिपरमाणुरूपदीनाम् इव नित्यानित्यत्वनिष्पत्तयः । अनेकद्रव्या तु द्वित्वादिका परार्धान्ता ।

८.६.१.१. तस्याः खल्व् एकत्वेभ्यो ऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिर् अपेक्षाबुद्धिविनाशाद् विनाश इति । कथम् ।

८.६.१.१. यदा बोद्धुश् चक्षुषा समानासमानजातीययोर् द्रव्ययोः सन्निकर्षे सति तत्सम्युक्तसमवेतसमवेतैकत्वसामान्यज्ञानोत्पत्ताव् एकत्वसामान्यतस् सम्बन्धज्ञानेभ्य एकगुणयोर् अनेकविषयिण्य् एका बुद्धिर् उत्पद्यते तदा ताम् अप्क्ष्यैकत्वाभ्याम् स्वाश्रययोर् द्वित्वम् आरम्भ्यते ततः पुनस् तस्मिन् द्वित्वसामान्यज्ञानम् उत्पद्यते तस्माद् द्वित्वसामान्यज्ञानाद् अपेक्षाबुद्धेर् विनश्यत्ता द्वित्वसामान्यतत्सम्बन्धतज्ज्ञानेभ्यो द्वित्वगुणबुद्धेर् उत्पद्यमानतेत्य् एकः कालः ।

८.६.१.१. तत इदानीम् अपेक्षाबुद्धिविनाशाद् द्वित्वगुणस्य विनश्यत्ता द्वित्वगुणज्ञानम् द्वित्वसामान्यज्ञानस्य विनाशकारणम् द्वित्वगुणतज्ज्ञानसम्बन्धेभ्यो द्वे द्रव्ये इति द्रव्यबुद्धेर् उत्पद्यमानतेत्य् एकः कालः ।

८.६.१.१. तदनन्तरम् द्वे द्रव्ये इति द्रव्यज्ञानस्योत्पादः द्वित्वस्य विनाशः द्वित्वगुणबुद्धेर् विनश्यत् ता द्रव्यज्ञानात् संस्कारस्योत्पद्यमानतेत्य् एकः कालः तदनन्तरम् द्रव्यज्ञानाद् द्वित्वगुणबुद्धेर् विनाशो द्रव्यबुद्धेर् अपि संस्कारात् ।

८.६.१.२. एतेन त्रित्वाद्युत्पत्तिर् अपि व्याख्याता । एकत्वेभ्यो ऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिर् अपेक्षाबुद्धिविनाशाच् च विनाश इति । क्वचिच् चाश्रयविनाशाद् इति । कथम् ।

८.६.१.२. यदैकत्वाधारावयवे कर्मोत्पद्यते तदैवैकत्वसामान्यज्ञानम् उत्पद्यते कर्मणा चावयवान्तराद् विभागः क्रियते अपेक्षाबुद्धेश् चोत्पत्तिः ।

८.६.१.२. ततो यस्मिन्न् एव काले विभागात् सम्योगविनाशस् तस्मिन्न् एव काले द्वित्वम् उत्पद्यते सम्योगविनाशाद् द्रव्यविनाशः सामान्यबुद्धेश् चोत्पत्तिः ।

८.६.१.२. ततो यस्मिन्न् एव काले सामान्यज्ञानाद् अपेक्षाबुद्धेर् विनाशः तस्मिन्न् एव काले आश्रयविनाशाद् द्वित्वविनाश इति शोभनम् एतद्विधानम् बध्यघातकपक्षे सहानवस्थानलक्षणे तु विरोधे द्रव्यज्ञानानुत्पत्तिप्रसङ्गः । कथम् ।

८.६.१.२. गुणबुद्धिसमकालम् अपेक्षाबुद्धिविनाशाद् द्वित्वविनाशे तदपेक्षस्य द्वे द्रव्ये इति द्रव्यज्ञानस्यानुत्पत्तिप्रसङ्ग इति । लैङ्गिकवज् ज्ञानमात्राद् इति चेतस्यान् मतम् यथा ऽभूतम् भूतस्येत्य् अत्र लिङ्गाभावे ऽपि ज्ञानमात्राद् अनुमानम् तथा गुणविनाशे ऽपि गुणबुद्धिमात्राद् द्रव्यप्रत्ययः स्याद् इति ।

८.६.१.२. न । विशेष्यज्ञानत्वात् । नहि विशेष्यज्ञानम् सारूप्याद् विशेषणसम्बन्धम् अन्तरेण भवितुम् अर्हति । तथा चाह सूत्रकारः समवायिनः श्वैत्याच् छ्वैत्यबुद्धेः श्वेते बुद्धिस् ते कार्यकारणभूते इति ।

८.६.१.३.१. न तु लैङ्गिकम् ज्ञानम् अभेदेनोत्पद्यते तस्माद् विषमो ऽयम् उपन्यासः न आशूत्पत्तेः यथा शब्दवद् आकाशम् इति अत्र त्रीणि ज्ञानान्य् आशूत्पद्यन्ते तथा द्वित्वादिज्ञनोत्पत्ताव् इत्य् अदोषः ।

८.६.१.३. बध्यघातकपक्षे ऽपि समानो दोष इति चेत् स्यान् मतम् । ननु बध्यघातकपक्षे ऽपि तर्हि द्रव्यज्ञानानुत्पत्ति प्रसङ्गः । कथम् । द्वित्वसामान्यबुद्धिसमकालम् संस्काराद् अपेक्षाबुद्धिविनाशाद् इति । न ।

८.६.१.३. समूहज्ञानस्य संस्कारहेतुत्वात् समूहज्ञान्म् एव संस्कारकारणम् नालोचनज्ञानम् इत्य् अदोषः । ज्ञानयौगपद्यप्रसङ्ग इति चेत् स्यान् मतम् ननु ज्ञानानाम् बध्यघातकविरोधे ज्ञानयौगपद्यप्रसङ्ग इति । न ।

८.६.१.३. अविनश्यतोर् अवस्थानप्रतिषेधात् ।

८.६.१.३. ज्ञानायौगप्द्यवचनेन ज्ञानयोर् युगपद् उत्पत्तिर् अविनश्यतोश् च युगपदवस्थानम् प्रतिषिध्यते नहि बध्यघातकविरोधे ज्ञानयोर् युगपदुत्पत्तिर् विनश्यतोश् च युगपदवस्थानम् अस्तीति । ।

८.७.१.०.२.) परिमाणम् मानव्यवहारकारणम् । तच् चतुर्विधम् अणु महद् दीर्घम् ह्रस्वम् चेति । तत्र महद् द्विविधम् नित्यम् अनित्यम् च । नित्यम् आकाशकालदिगात्मसु परममहत्त्वम् अनित्यम् त्र्यणुकादाव् एव ।

८.७.१.०. तथा चाण्व् अपि द्विविधम् नित्यम् अनित्यम् च । नित्यम् परमाणुमनस्सु तत् पारिमाण्डलुयम् । अनित्यम् द्व्यणुक एव । कुवलयामलकबिल्वादिषु महत्स्व् अपि तत्प्रकर्षभावाभावम् अपेक्ष्य भाक्तो ऽणुत्वव्यवहारः ।

८.७.१.१.२. दीर्घत्वह्रस्वत्वे चोत्पाद्ये महदणुत्वैकार्थसमवेते । समिदिक्षुवंशादिष्व् अंजसा दीर्घेष्व् अपि तत्प्रकर्षभावाभावम् अपेक्ष्य भाक्तो ह्रस्वत्वव्यवहारः ।

८.७.१.१. अनित्यम् चतुर्विधम् अपि संख्यापरिमाणप्रचययोनि । तत्रेश्वरबुद्धिम् अपेक्ष्योत्पन्ना परमाणुद्व्यणुकेषु बहुत्वसंख्या तैर् आरब्धे कार्यद्रव्ये त्र्यणुकादिलक्षणे रूपाद्युत्पत्तिसमकालम् महत्त्वम् दीर्घत्वम् च करोति ।

८.७.१.१. द्विबहुभिर् महद्भिश् चारब्धे कार्यद्रव्ये कारणमहत्त्वान्य् एव महत्त्वम् आरभन्ते न बहुत्वम् । समानसंख्यैश् चारब्धे ऽतिशयदर्शनात् ।

८.७.१.१. प्रचय तूलपिण्डयोर् वर्तमानः पिण्डारम्भकावयवप्रशिथिलसम्योगान् अपेक्षमाण इतरेतरपिण्डावयवसम्योगापेक्षो वा द्वितूलके महत्त्वम् आरभते न बहुत्वमहत्त्वानि ।

८.७.१.१. समानसंख्यापलपरिमाणैर् आरब्धे ऽतिशयदर्शनात् । द्वित्वसंख्या चाण्वोर् वर्तमाना द्व्यणुके ऽणुत्वम् आरभते । महत्त्ववत् त्र्यणुकादौ कारणबहुत्वमहत्त्वसमानजातीयप्रचयेभ्यो दीर्घत्वस्योपत्तिः ।

८.७.१.१. अणुत्ववद् द्व्यणुके द्वित्वसंख्यातो ह्रस्वत्वस्योत्पत्तिः । अथ त्र्यणुकादिषु वर्तमानयोर् महत्त्वदीर्घत्वयोः पर्स्परतः को विशेषः द्व्यणुकेषु चाणुत्वह्रस्वत्वयोर् इति ।

८.७.१.१. तत्रास्ति महत्त्वदीर्घत्वयोः परस्परतो विशेषह्, महत्सु दीर्घम् आनीयताम् दीर्घेषु च महद् आनीयताम् इति विशिष्टव्यवहारदर्शनाद् इति ।

८.७.१.२.२. अणुत्वह्रस्वत्वयोस् तु परस्परतो विशेषस् तद्दर्शिनाम् प्रत्यक्ष इति । तच् चतुर्विधम् अपि परिमाणम् उत्पाद्यम् आश्रयविनाशाद् एव विनश्यतीति । ।

८.८.१.८.५. पृथक्त्वम् अपोद्धारव्यवहारकारणम् । तत् पुनर् एकद्रव्यम् अनेकद्रव्यम् च । तस्य तु नित्यानित्यत्वनिष्पत्तयः संख्यया व्याख्याताः । एतावांस् तु विशेषः एकत्वादिवद् एकपृथक्त्वादिष्व् अपरसामान्याभावः संख्यया तु विशिष्यते तद्विशिष्टव्यवहारदर्शनाद् इति । ।

८.९.१.९.१.) सम्योगः सम्युक्तप्रत्ययनिमित्तम् । स च द्रव्यगुणकर्महेतुः । द्रव्यारम्भे निरपेक्षस् तथा भवतीति सापेक्षेभ्यो निरपेक्षेभ्यश् चेति वचनात् । गुणकर्मारम्भे तु सापेक्षः सम्युक्तसमवायाद् अग्नेर् वैशेषिकम् इति वचनात् ।

८.९.१.९. अथ कथंलक्षणः कतिविधश् चेति । अप्राप्तयोः प्राप्तिः सम्योगः स च त्रिविधः अन्यतरकर्मजः उभयकर्मजः सम्योगजश् च । तत्रान्यतरकर्मजः क्रियावता निष्क्रियस्य ।

८.९.१.९. यथा स्थाणोः श्येनेन्न विभूनाम् च मूर्त्तैः । उभयकर्मजो विरुद्धदिक्क्रिययोः सन्निपातः । यथा मल्लयोर् मेषायोर् वा ।

८.९.१.९. सम्योगजस् तूत्पन्नमात्रस्य चिरोत्पन्नस्य वा निष्क्रियस्य कारणसम्योगिभिर् अकारणैः कारणाकारणसम्योगपूर्वकः कार्याकार्यगतः सम्योगः ।

८.९.१.०.२. स चैकस्माद् द्वाभ्याम् बहुभ्यश् च भवति । एकस्मात् तावत् तन्तुवीरणसम्योगात् द्वितन्तुकवीरणसम्योगः । द्वाभ्याम् तन्त्वाकाशसम्योगाभ्याम् एको द्वितन्तुकाकाशसम्योगः । बहुभ्यश् च तन्त्तुरीसम्योगेभ्य एकः पटतुरीसम्योगः ।

८.९.१.०. एकस्माच् च द्वयोर् उत्पत्तिः । कथम् । यदा पार्थिवाप्ययोर् अण्वोः सम्योगे सत्य् अन्येन पार्थिवेन पार्थिवस्यान्येनाप्येन चाप्यस्य युगपत्सम्योगौ भवतस् तदा ताभ्याम् सम्योगाभ्याम् पार्ह्तिवाप्ये द्व्यणुके युगपद् आरभ्येते ।

८.९.१.०. ततो यस्मिन् काले द्व्यणुकयोः कारणगुणपूर्वक्रमेण रूपाद्युत्पत्तिः तस्मिन्न् एव काले इतरेतरकारणाकारणगतात् सम्योगाद् इतरेतरकायाकार्यगतौ सम्योगौ युगपद् उत्पद्येते । किम् कारणम् ।

८.९.१.०. कारणसायोगिना ह्य् अकारणेन कार्यम् अवश्यम् सम्युज्यते इति न्यायः अतः पार्थिवम् द्व्यणुकम् कारणसम्योगिनाप्येनाणुना सम्बद्ध्यते आप्यम् अपि द्व्यणुकम् कारण्सम्योगिना पार्थिवेनेति ।

८.९.१.०. अथ द्व्यणुकयोर् इतरेतरकारणाकारणसम्बद्धयोः कथम् परस्परतः सम्बन्ध इति । तयोर् अपि सम्योगजाभ्याम् सम्योगाभ्याम् सम्बन्ध इति । नास्त्यजः सम्योगो नित्यपरिमण्डलवत् पृथगनभिधानात् ।

८.९.१.०. यथा चतुर्विधम् परिमाणम् उत्पाद्यम् उक्त्वाह नित्यम् परिमण्डलम् इत्य् एवम् अन्यतरकर्मजादिसम्योगम् उत्पाद्यम् उक्त्वा पृथङ्नित्यम् ब्रूयान् न त्व् एवम् अब्रवीत् तस्मान् नास्त्यजः सम्योगः ।

८.९.१.१.३. परमाणुभिर् आकाशादीनाम् प्रदेशवृत्तिर् अन्यतरकर्मजः सम्योगः । विभूनाम् तु परस्परतः सम्योगो नास्ति युतसिद्ध्यभावात् ।

८.९.१.१. सा पुनर् द्वयोर् अन्यतरस्य वा पृथग्गतिमत्त्वम् पृथगाश्रयाश्रयित्वम् चेति । विनाशस् तु सर्वस्य सम्योगस्यैकार्थसमवेताद् विभागात् क्वचिद् एस्रयविनाशाद् अपि । कथम् ।

८.९.१.१. यदा तन्त्वोः सम्योगे सत्यन्यतरतन्त्वारम्भके अंशौ कर्मोत्पद्यते तेन कर्मणा अंश्वन्ततराद् विभागः क्रियते विभागाच् च तन्त्वारम्भकसम्योगविनाशः सम्योगविनाशात् तन्तुविनाशस् तद्विनाशे तदाश्रितस्य तन्त्वन्तरसम्योगस्य विनाश इति । ।

८.१.(१.१.४. विभागो विभक्तप्रत्ययनिमित्तम् । शब्दविभागहेतुश् च । प्राप्तिपूर्विका ऽप्राप्तिर् विभागः । स च त्रिविधः । अन्यतरकर्मज उभयकर्मजो विभागजश् च विभाग इति ।

८.१.(१.१. तत्रान्यतरकर्मजोभयकर्मजौ सम्योगवत् । विभागजस् तु द्विविधः कारणविभागात् कारणाकारणविभागाच् च । तत्र कारणविभागात् तावत् कार्याविष्टे कारणे कर्मोत्पन्नम् यदा तस्यावयवान्तराद् विभागम् करोति न तदाकाशादिदेशात् यदा त्व् आकाशादिदेशाद् विभागम् करोति न तदावयवान्तराद् इति स्थितिः ।

८.१.(१.१. अतो ऽवयवकर्मावयवान्तराद् एव विभागम् आरभते ततो विभागाच् च द्रव्यारम्भकसम्योगविनाशः तस्मिन् विनष्टे कारणाभावात् कार्याभाव इत्य् अवयविविनाशः तदा कारणयोर् वर्तमानो विभागः कार्यविनाशविशिष्टम् कालम् स्वतन्त्रम् वावयवम् अपेक्ष्य सक्रियस्यैवावयवस्य कार्यसम्युक्ताद् आकाशादिदेशाद् विभागम् आरभते न निष्क्रियस्य कारणाभावाद् उत्तरसम्योगानुत्पत्ताव् अनुपभोग्यत्वप्रसङ्गः न तु तदवयवकर्माकाशादिदेशाद् विभागम् करोति तदारम्भकालातीतत्वात् प्रदेशान्तरसम्योगम् तु करोत्य् एव अकृतसम्योगस्य कर्मणः कालात्ययाभावाद् इति ।

८.१.(१.१. कारणाकारणविभागाद् अपि कथम् ।

८.१.(१.२.१. यदा हस्ते कर्मोत्पन्नम् अवयवान्तराद् विभागम् अकुर्वदाकाशादिदेशेभ्यो विभागान् आरभ्य प्रदेशान्तरे सम्योगान् आरभते तदा ते कारणाकारणविभागाः कर्म याम् दिशम् प्रति कार्यारम्भाभिमुखम् ताम् अपेक्ष्य कार्याकार्यविभागान् आरभन्ते तदनन्तरम् कारणाकारणसम्योगाच् च कार्याकार्यसम्योगान् इति ।

८.१.(१.२. यदि कारणविभागानन्तरम् कार्यविभागोत्पत्तिः कारणसम्योगानन्तरम् कार्यसम्योगोत्पत्तिः नन्व् एवम् अवयवावयविनोर् युतसिद्धिदोषप्रसङ्गः इति । न ।

८.१.(१.२. युतसिद्ध्यपरिज्ञानात् । सा पुनर् द्वयोर् अन्यतरस्य वा पृथग्गतिमत्त्वम् इयन्तु नित्यानाम् अनित्यानाम् तु युतेष्व् आश्रयेषु समवायो युतसिद्धिर् इति ।

८.१.(१.२. त्वगिन्द्रियशरीरयोः पृथग्गतिमत्त्वम् नास्ति युतेष्व् आश्रयेषु समवायोस्तीति परस्परेण सम्योगः सिद्धः । अण्वाकाशयोस् त्व् आश्रयान्तराभावेप्य् अन्यतरस्य पृथग्गतिमत्त्वात् सम्योगविभागौ सिद्धौ ।

८.१.(१.२. तन्तुपटयोर् अनित्ययोर् आश्रयान्तराभावात् परस्परतः सम्योगविभागाभाव इति । दिगादीनाम् तु पृथग्गतिमत्त्वाभावाद् इति परस्परेण सम्योगविभागाभाव इति ।

८.१.(१.२. विनाशस् तु सर्वस्य विभागस्य क्षणिकत्वाद् उत्तरसम्योगावधिसद्भावाद् क्षणिक इति ।

८.१.(१.२. न तु सम्योगविद्ययोर् एव विभागस् तयोर् एव सम्योगाद् विनाशो भवति कस्मात् सम्युक्तप्रत्ययवद्विभक्तप्रत्ययानुवृत्त्यभावात् तस्माद् उत्तरसम्योगावधिसद्भावात् क्षणिक इति ।

८.१.(१.३.३. क्वचिच् चाश्रयविनाशाद् एव विनश्यतीति । कथम् ।

८.१.(१.३. यदा द्वितन्तुककारणावयवे अंशौ कर्मोत्पन्नम् अंश्वन्तराद् विभागाम् आरभते तदैव तन्त्वन्तरे ऽपि कर्मोत्पद्यते विभागाच् च तन्त्वारम्भकसम्योगविनाशः तन्तुकर्मणा तन्त्वन्तराद् विभागः क्रियते इत्य् एकः कालः ।

८.१.(१.३. ततो यस्मिन्न् एव काले विभागात् तन्तुसम्योगविनाशः तस्मिन्न् एव काले सम्योगविनाशात् तन्तुविनाशस् तस्मिन् विनष्टे तदाश्रितस्य तन्त्वन्तरविभागस्य विनाश इति । एवम् तर्ह्य् उत्तरविभागानुत्पत्तिप्रसङ्गः ।

८.१.(१.३. कारणविभागाभावात् । ततः प्रदेशान्तरसम्योगवति सम्योगाभाव इत्य् अतो विरोधिगुणासम्भवात् कर्मणश् चिरकालावस्थायित्वम् नित्यद्रव्यसमवेतस्य च नित्यत्वम् इति दोषः । कथम् ।

८.१.(१.३. यदाप्यद्व्यणुकारम्भकपरमाणौ कर्मोत्पन्नम् अण्वन्तराद् विभागम् करोति तदैवाण्वन्तरे ऽपि कर्म ततो यस्मिन्न् एव काले विभागाद् द्रव्यारम्भकसम्योगविनाशः तदैवाण्वन्तरकर्मणा द्व्यणुकाण्वोर् विभागः क्रियते ततो यस्मिन्न् एव काले विभागात् द्व्युअणुकाणुसम्योगस्य विनाशः तस्मिन्न् एव काले सम्योगविनाशात् द्व्यणुकस्य विनाशः

८.१.(१.४. तस्मिन् विनष्टे तदाश्रितस्य द्व्यणुकाणुविभागस्य विनाशः ततश् च विरोधिगुणासम्भवान् नित्यद्रव्यसमवेतकर्मणो नित्यत्वम् इति ।

८.१.(१.४. तन्त्वंश्वन्तरविभागाद् विभाग इत्य् अदोषः । आश्रयविनाशात् तन्त्वोर् एव विभागो विनष्टो न तन्त्वंश्वन्तरविभाग इति एतस्माद् उत्तरो विभागो जायते अङ्गुल्याकाशविभागाच् छरीराकाशविभागवत् तस्मिन्न् एव काले कर्म सम्योगम् कृत्वा विनश्यतीत्य् अदोषः ।

८.१.(१.४. अथवा अंश्वन्तरविभागोत्पत्तिसमकालम् तस्मिन्न् एव तन्तौ कर्मोत्पद्यते ततोंश्वन्तरविभागात् तन्त्वारम्भकसम्योगविनाशः तन्तुकर्मणा च तन्त्वन्तराद् विभागः क्रियते इत्य् एकः कालः ।

८.१.(१.४. ततः सम्योगविनाशात् तन्तुविनाशः तद्विनाशाच् च तदाश्रितयोर् विभागकर्मणोर् युगपद्विनाशः । तन्तुवीरणयोर् वा सम्योगे सति द्रव्यानुत्पत्तौ पूर्वोक्तेन विधानेनाश्रयविनाशसम्योगाभ्याम् तन्तुवीरणविभागविनाश इति । ।

८.१.(१.४.३. परत्वम् अपरत्वम् च परापराभिधानप्रत्ययनिमित्तम् । तत् तु द्विविधम् दिक्कृतम् कालकृतम् च । तत्र दिक्कृतम् दिग्विशेषप्रत्यायकम् ।

८.१.(१.४. कालकृतम् च वयोभेदप्रत्यायकम् । तत्र दिक्कृतस्योत्पत्तिर् अभिधीयते । कथम् । एकस्याम् दिश्य् अवस्थितयोः पिण्डयोः सम्युक्तसम्योगबह्वल्पभावे सत्य् एकस्य द्रष्टुः सन्निकृष्टम् अवधिम् कृत्वा एतस्माद् विप्रकृष्टो ऽयम् इति परत्वाधारे ऽसन्निकृष्टा बुद्धिर् उत्पद्यते ।

८.१.(१.४. ततस् ताम् अपेक्ष्य परेण दिक्प्रदेशेन सम्योगात् परत्वस्योत्पत्तिः । तथा विप्रकृष्टम् चावधिम् कृत्वा एतस्मात् सन्निकृष्टोयम् इत्य् अपरत्वाधारे इतरस्मिन् सन्निकृष्टा बुद्धिर् उत्पद्यते ।

८.१.(१.४. ततस् ताम् अपेक्ष्यापरेण दिक्प्रदेशेन सम्योगाद् अपरत्वस्योत्पत्तिः । कालकृतयोर् अपि कथम् ।

८.१.(१.४. वर्तमानकालयोर् अनियतदिग्देशसम्युक्तयोर् युवस्थविरयो रूढश्मश्रुकार्कश्यबलिपलितादिसान्निध्ये सत्य् एकस्य द्रष्टुर् युवानम् अवधिम् कृत्वा स्थिविरे विप्रकृष्टा बुद्धिर् उत्पद्यते ।

८.१.(१.४. ततस् ताम् अपेक्ष्य परेण कालप्रदेशेन सम्योगात् परत्वस्योत्पत्तिः । स्थविरम् चावधिम् कृत्वा यूनि सन्निकृष्टा बुद्धिर् उत्पद्यते । ततस् ताम् अपेक्ष्यापरेण कालप्रदेशेन सम्योगाद् अपरत्वस्योत्पत्तिर् इति ।

८.१.(१.४. विनाशस् त्व् अपेक्षाबुद्धिसम्योगद्रव्यविनाशात् । अपेक्षाबुद्धिविनाशात् तावद् उत्पन्ने परत्वे यस्मिन् काले सामान्यबुद्धिर् उत्पन्ना भवति ततो ऽपेक्षाबुद्धेर् विनश्यत्ता सामान्यज्ञानतत्सम्बन्धेभ्यः परत्वगुणबुद्धेर् उत्पद्यमानतेत्य् एकः कालः ।

८.१.(१.५.४. ततो ऽपेक्षाबुद्धेर् विनाशो गुणबुद्धेश् चोत्पत्तिः ततो ऽपेक्षाबुद्धिविनाशाद् गुणस्य विनश्यत्ता गुणज्ञानतत्सम्बन्धेभ्यो द्रव्यबुद्धेर् उत्पद्यमानतेत्य् एकः कालः । ततो द्रव्यबुद्धेर् उत्पत्तिर् गुणस्य विनाश इति ।

८.१.(१.५. सम्योगविनाशाद् अपि कथम् । अपेक्षाबुद्धिसमकालम् एव परत्वाधारे कर्मोत्पद्यते तेन कर्मणा दिक्पिण्डविभागः क्रियते अपेक्षाबुद्धितः परत्वस्योत्पत्तिर् इत्य् एकः कालः ।

८.१.(१.५. ततः सामान्यबुद्धिएर् उत्पत्तिः दिक्पिण्डसम्योगस्य च विनाशः ततो यस्मिन् काले गुणबुद्धिर् उत्पद्यते तस्मिन्न् एव काले दिक्पिण्डसम्योगविनाशाद् गुणस्य विनाशः । द्रव्यविनाशाद् अपि कथम् ।

८.१.(१.५. परत्वाधारावयवे कर्मोत्पन्नम् यस्मिन्न् एव काले ऽवयवान्तराद् विभागम् करोति तस्मिन्न् एव काले ऽपेक्षाबुद्धिर् उत्पद्यते ततो विभागाद् यस्मिन्न् एव काले सम्योगविनाशः तस्मिन्न् एव काले परत्वम् उत्पद्यते ततः सम्योगविनाशाद् द्रव्यविनाशः तद्विनाशाच् च तदाश्रितस्य गुणस्य विनाशः ।

८.१.(१.५. द्रव्यापेक्षाबुद्धोर् युगपद्विनाशाद् अपि कथम् । यदा परत्वाधारावयवे कर्मोत्पद्यते तदैवापेक्षाबुद्धिर् उत्पद्यते कर्मणा चावयवान्तराद् विभागः क्रियते परत्वस्योत्पत्तिर् इत्य् एकः कालः ।

८.१.(१.६.१. ततो यस्मिन्न् एव काले ऽवयवविभागाद् द्रव्यारम्भकसम्योगविनाशस् तस्मिन्न् एव काले सामान्यबुद्धिर् उत्पद्यते तदनन्तरम् सम्योगविनाशाद् द्रव्यविनाशः सामान्यबुद्धेश् चापेक्षाबुद्धिविनाश इत्य् एकः कालः ।

८.१.(१.६. ततो द्रव्यापेक्षाबुद्धोर् विनाशात् परत्वस्य विनाशः । द्रव्यसम्योगविनाशाद् अपि कथम् ।

८.१.(१.६. यदा परत्वाधारावयवे कर्मोत्पन्नम् अवयवान्तराद् विभागम् करोति तस्मिन्न् एव काले पिण्डकर्मापेक्षाबुद्धोर् युगपद् उत्पत्तिः ततो यस्मिन्न् एव काले परत्वस्योत्पत्तिस् तस्मिन्न् एव काले विभागाद् द्रव्यारम्भकसम्योगविनाशः पिण्डकर्मणा दिक्पिण्डस्य च विभागः क्रियते इत्य् एकः कालः ।

८.१.(१.६. ततो यस्मिन्न् एव काले सामान्यबुद्धिर् उत्पद्यते तस्मिन्न् एव काले द्रव्यारम्भकसम्योगविनाशात् पिण्डविनाशः पिण्डविनाशाच् च पिण्डसम्योगविनाशः ततो गुणबुद्धिसमकालम् पिण्डदिक्पिण्डसम्योगविनाशात् परत्वस्य विनाशः ।

८.१.(१.६. सम्योगापेक्षाबुद्धोर् युगपद्विनाशाद् अपि कथम् । यदा परत्वम् उत्पद्यते तदा परत्वाधारे कर्म ततो यस्मिन्न् एव काले परत्वसामान्यबुद्धिर् उत्पद्यते तस्मिन्न् एव काले पिण्डकर्मणा दिक्पिण्डविभागः क्रियते ततः सामान्यबुद्धितो ऽपेक्षाबुद्धिविनाशो विभागाच् च दिक्पिण्डसम्योगविनाश इत्य् एकः कालः ।

८.१.(१.६. ततः सम्योगापेक्षाबुद्धिविनाशात् परत्वस्य विनाशः ।

८.१.(१.७.१. त्रयाणाम् समवाय्यसमवायिनिमित्तकारणानाम् युगपद् विनाशाद् अपि कथम् । यदापेक्षाबुद्धिर् उत्पद्यते तदा पिण्डावयवे कर्म ततो यस्मिन्न् एव काले कर्मणावयवान्तराद् विभागः क्रियते ऽपेक्षाबुद्धेः परत्वस्य चोत्पत्तिस् तस्मिन्न् एव काले पिण्डे ऽपि कर्म ततो ऽवयवविभागात् पिण्डारम्भकसम्योगविनाशः पिण्डकर्मणा च दिक्पिण्डविभागः क्रियते सामान्यबुद्धेश् चोत्पत्तिर् इत्य् एकः कालः ।

८.१.(१.७. ततः सम्योगविनाशात् पिण्डविनाशः विभागाच् च दिक्पिण्डसम्योगविनाशः सामान्यज्ञानाद् अपेक्षाबुद्धेर् विनाश इत्य् एतत् सर्वम् युगपत् त्रयाणाम् समवाय्यसमवायिनिमित्तकारणानाम् विनाशात् परत्वस्य विनाश इति । ।

८.१.(१.१.१.) बुद्धिर् उपलब्धिर् ज्ञानम् प्रत्यय इति पर्यायाः । ।

८.१.(१.२.१.) सा चानेकप्रकारार्थानन्त्यात् प्रत्यर्थनियतत्वाच् च । ।

८.१.(१.२.१.) तस्याः सत्य् अप्य् अनेकविधत्वे समासतो द्वे विधे विद्या चाविद्या चेति । तत्राविद्या चतुर्विधा संशयविपर्ययानध्यवसायस्वप्नलक्षणा । ।

८.१. १.१.१.४.२.) संशयस् तावत् प्रसिद्धानेकविशेषयोः सादृश्यमात्रदर्शनाद् उभयविशेषानुस्मरणाद् अधर्माच् च किंस्विद् इत्य् उभयावलम्बी विमर्षः संशयः ।

८.१. १.१.१.४. स च द्विविधः अन्तर् बहिश् च । अन्तस् तावत् आदेशिकस्य सम्यङ्मिथ्या चोद्दिश्य पुनर् आदिशतस् त्रिषु कालेषु संशयो भवति किन् नु सम्यङ्मिथ्या वेति ।

८.१. १.१.१.४. बहिर् द्विविधः प्रत्यक्षविषये चाप्रत्यक्षविषये च ।

८.१. १.१.१.५.१. तत्राप्रत्यक्षविषये तावत् साधारणलिङ्गदर्शनाद् उभयविशेषानुस्मरणाद् अधर्माच् च संशयो भवति । यथा ऽटव्याम् विषाणमात्रदर्शनाद् गौर् गवयो वेति ।

८.१. १.१.१.५. प्रत्यक्षाविषये ऽपि स्थाणुपुरुषयोर् ऊर्ध्वतामात्रसादूश्यदर्शनात् वक्रादिविशेषानुपलब्धितः स्थाणुत्वादिसामान्यविशेषानभिव्यक्ताव् उभयविशेषानुस्मरणाद् उभयत्राकृष्यमाणस्यात्मनः प्रत्ययो दोलायते किम् नु खल्व् अयम् स्थाणुः स्यात् पुरुषो वेति । ।

८.१. १.२.१.७.१.) विपर्ययोपि प्रत्यक्षानुमानविषय एव भवति ।

८.१. १.२.१.७. प्रत्यक्षविषये तावत् प्रसिद्धानेकविशेषयोः पित्तकफानिलोपहतेन्द्रियस्यायथार्थालोचनात् असन्निहितविषयज्ञानजसंस्कारापेक्षाद् आत्ममनसोः सम्योगाद् अधर्माच् चातस्मिंस् तद् इति प्रत्ययो विपर्ययः ।

८.१. १.२.१.७. यथा गव्येवाश्व इति । असत्य् अपि प्रत्यक्षे प्रत्यक्षाभिमानो भवति यथा व्यपगतघनपटलमचलजलनिधिसदूशम्बरम् अंजनचूर्णपुंजश्याअम् शार्वरम् तम इति ।

८.१. १.२.१.७. अनुमानविषये ऽपि बाष्पादिभिर् धूमाभिमतैर् वह्यनुमाणम् गवयविषाणदर्शनाच् च गौर् इति ।

८.१. १.२.१.७. त्रयीदर्शनविपरीतेषु शाक्यादिदर्शनेष्व् इदम् श्रेय इति मिथ्याप्रत्ययः विपर्ययः शरीरेन्द्रियमनस् स्वात्माभिमानः कृतकेषु नित्यत्वदर्शनम् कारणवैकल्ये कार्योत्पत्तिज्ञानम् हितम् उपदिशत्स्व् अहितम् इतिज्ञानम् अहितम् उपदिशत्सु हितम् इतिज्ञानम् । ।

८.१. १.३.१.२.१. अनध्यवसायोपि प्रत्यक्षानुमानविषय एव संजायते । तत्र प्रत्यक्षविषये तावत् प्रसिद्धार्थेष्व् अप्रसिद्धार्येषु वा व्यासङ्गाद् अर्ह्तित्वाद् वा किम् इत्य् आलोचनमात्रम् अनध्यवसायः ।

८.१. १.३.१.२. यथा वाहीकस्य पनसादिष्व् अनध्यवसायो भवति । तत्र सत्ताद्रव्यत्वपृथ्वीत्ववृक्षत्वरूपवत्त्वादिशाखाद्यपेक्षो ऽध्यवसायो भवति ।

८.१. १.३.१.२. पनसत्वम् अपि पनसेष्व् अनुवृत्तम् आंरादिभ्यो व्यावृत्तम् प्रत्यक्षम् एव केवलम् तूपदेशाभावाद् विशेषसंज्ञाप्रतिपत्तिर् न भवति ।

८.१. १.३.१.२. अनुमानविषये ऽपि नारिकेलद्वीपवासिनः सास्नामात्रदर्शनात् कोनु खल्व् अयम् प्राणी स्याद् इत्य् अनध्यवसायो भवति । ।

८.१. १.४.१.३.१.) उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्येन्द्रियद्वारेणैव यद् अनुभवनम् मानसम् तत् स्वप्नज्ञानम् । कथम् ।

८.१. १.४.१.३. यदा बुद्धिपूर्वाद् आत्मनः शरीरव्यापाराद् अहनि खिन्नानाम् प्राणिनाम् निशि विश्रमार्थम् आहारपरिणामार्थम् वादृष्टकारितप्रयत्नापेक्षाद् आत्मान्तह्करणसम्बन्धान् मनसि क्रियाप्रबन्धाद् अन्तर्हृदये निरिन्द्रिये आत्मप्रदेशे निश्चलम् मनस् तिष्ठति तदा प्रलीनमनस्क इत्य् आख्यायते

८.१. १.४.१.३. प्रलीने च तस्मिन्न् उपरतेन्द्रियग्रामो भवति तस्यामवस्थायाम् प्रबन्धेन प्राणापानसन्तानप्रवृत्ताव् आत्ममनह्सम्योगविशेषात् स्वापाख्यात् संस्काराच् चेन्द्रियद्वारेणैवासत्सु विषयेषु प्रत्यक्षाकारम् स्वप्नज्ञानम् उत्पद्यते ।

८.१. १.४.१.४.१. तत् तु त्रिविधम् । संस्कारपाटवाद्धातुदोषाद् अदृष्टाच् च ।

८.१. १.४.१.४. तत्र संस्कारपाटवात् तावत् कामी क्रुधो वा यदा यमर्थम् आदूतश् चिन्तयन् स्वपिति तदा सैव चिन्तासन्ततिः प्रत्यक्षाकारा संजायते ।

८.१. १.४.१.४. धातुदोषाद् वातप्रकृतिस् तद्दूषितो वा आकाशगमनादीन् पश्यति । पित्तप्रकृतिः पित्तदूषितो वाग्निप्रवेशकनकपर्वतादीन् पश्यति ।

८.१. १.४.१.४. श्लेष्मप्रकृतिः श्लेष्मदूषितो वा सरित्समुद्रप्रतरणहिमपर्वतादीन् पश्यति ।

८.१. १.४.१.४. यत् स्वयम् अनुभूतेष्व् अननुभूतेषु वा प्रसिद्धार्थेष्व् अप्रसिद्धार्थेषु वा यच् छुभावेदकम् गजारोहणच्छत्त्रलाभादि तत् सर्वम् सांस्काराधर्माभ्याम् भवति विपरीतम् च तैलाभ्यंजनखरोष्टारोहणादि तत् सर्वम् अधर्मसंस्काराभ्याम् भवति ।

८.१. १.४.१.४. अत्यन्ताप्रसिद्धार्थेष्व् अदृष्टाद् एवेति ।

८.१. १.४.१.४. स्वप्नान्तिकम् यद्य् अप्य् उपरतेन्द्रियग्रामस्य भवति तथाप्य् अतीतस्य ज्ञानप्रबन्धस्य प्रत्यवेक्षणात् स्मृतिर् एवेति भवत्य् एषा चतुरिविधा ऽविद्येति । ।

८.१. २.१.६.६. विद्यापि चतुर्विधा । प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा । ।

८.१. २.१.१.६.१.) तत्राक्षम् अक्षम् प्रतीत्योत्पद्यते प्रतक्षम् [ ५. प्रतीत्य यद् उत्पद्यते तत् प्रत्यक्षम् ] ।

८.१. २.१.१.६. अक्षाणीन्द्रियाणि घ्राणरसनचक्षुस्त्वक्छ्रोत्रमनांसि षट् । तद् धि द्रव्यादिषु पदार्थेषूत्पद्यते ।

८.१. २.१.१.६. द्रव्ये तावद् द्विविधे महत्य् अनेकद्रव्यवत्त्वोद्भूतरूपप्रकाशचतुष्टयसन्निकर्षाद् धर्मादिसामग्र्ये च स्वरूपालोचनमात्रम् ।

८.१. २.१.१.६. सामान्यविशेषद्रव्यगुणकर्मविशेषणापेक्षाद् आत्ममनः सन्निकर्षात् प्रत्यक्षम् उत्पद्यते सद् द्रव्यम् पृथिवी विषाणी शुक्लो गौर् गच्छतीति ।

८.१. २.१.१.६. रूपरसगन्धस्पर्शेष्व् अनेकद्रव्यसमवायात् स्वगतविशेषात् स्वाश्रयसन्निकर्षान् नियतेन्द्रियनिमित्तम् उत्पद्यते । तेनैवोपलब्धिः ।

८.१. २.१.१.७.१. संख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वस्नेहद्रवत्ववेगकर्मणाम् प्रत्यक्षद्रव्यसमवायाच् चक्षुः स्पर्शनाभ्याम् ग्रहणम् ।

८.१. २.१.१.७. बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नानाम् द्वयोर् आत्ममनसोः सम्योगाद् उपलब्धिः । भावद्रव्यत्वगुणत्वकर्मत्वादीनाम् उपलभ्याधारसमवेतानाम् आश्रयग्राहकैर् इन्द्रियैर् ग्रहणम् इत्य् एतद् अस्मदादीनाम् प्रत्यक्षम् ।

८.१. २.१.१.७. अस्मद्विशिष्टानाम् तु योगिनाम् युक्तानाम् योगजधर्मानुगृहीतेन मनसा स्वात्मान्तराकाशदिक्कालपरमणुवायुमनसस्सु तत्समवेतगुणकर्मसामान्यविशेषेषु समवाये चावितथम् स्वरूपदर्शनम् उत्पद्यते ।

८.१. २.१.१.७. वियुक्तानाम् पुनश् चतुष्टयसन्निकर्षाद् योगजधर्मानुग्रहसामर्थयात् सूक्ष्मव्यवहितविप्रकृष्टेषु प्रत्यक्षम् उत्पद्यते ।

८.१. २.१.१.७. तत्र सामान्यविशेषेषु स्वरूपालोचनमात्रम् प्रत्यक्षम् प्रमाणम् प्रमेया द्रव्यादयः पदार्थाः प्रमानात्मा प्रमितिर् द्रव्यादिविषयम् ज्ञानम् ।

८.१. २.१.१.७. सामान्यविशेषज्ञानोत्पत्ताव् अविभक्तम् आलोचनमात्रम् प्रत्यक्षम् प्रमाणम् अस्मिन् नान्यत्प्रमाणान्तरम् अस्ति अफलरूपत्वात् ।

८.१. २.१.१.७. अथवा सर्वेषु पदार्थेषु चतुष्टयसन्निकर्षाद् अवितथम् अव्यपदेश्यम् यज्ज्ञानम् उत्पद्यते तत्प्रत्यक्षम् प्रमाणम् प्रमेया द्रव्यादयः पदार्थाः प्रमातात्मा प्रमितिर् गुणदोषमाध्यस्थ्यदर्शनम् इति । ।

८.१. २.२.२.०.४. लिङ्गदर्शनात् संजायमानम् लैङ्गिकम् । ।

८.१. २.२.२.०.१.) लिङ्गम् पुनः

८.१. २.२.२.०. यदनुमेयेन सम्बद्धम् प्रसिद्धम् च तदन्विते ।

८.१. २.२.२.०. तदभावे च नास्त्य् एव तल्लिङ्गम् अनुमापकम् । ।

८.१. २.२.२.०. विपरीतम् अतो यत् स्याद् एकेन द्वितयेन वा ।

८.१. २.२.२.०. विरुद्धासिद्धसन्दिग्धम् अलिङ्गम् काश्यपो ऽब्रवीत् । ।

८.१. २.२.२.१.१.) यदनुमेयेनार्थेन देशविशेषे कालविशेषे वा सहचरितम् अनुमेयधर्मान्विते चान्यत्र सर्वस्मिन्न् एकदेशे वा प्रसिद्धम् अनुमेयविपरीते च सर्वस्मिन् प्रमाणतो ऽसद् एव तदप्रसिद्धार्थस्यानुमापकम् लिङ्गम् भवतीति । ।

८.१. २.२.२.५.१.) विधिस् तु यत्र धूमस् तत्राग्निर् अग्न्यभावे धूमो ऽपि न भवतीति । एवम् प्रसिद्धसमयस्यासन्दिग्धधूमदर्शनात् साहचर्यानुस्मरणात् तदनन्तरम् अग्न्यध्यवसायो भवतीति ।

८.१. २.२.२.५. एवम् सर्वत्र देशकालाविनाभूतम् इतरस्य लिङ्गम् । शास्त्रे कार्यादिग्रहणम् निदर्शनार्थम् कृतम् नावधारणार्थम् कस्माद्यूतिर् एकदर्शनात् ।

८.१. २.२.२.५. तद्यथा अध्वर्युर् ओंश्रावयन् व्यवहितस्य होतुर् लिङ्गम् चन्द्रोदयः समुद्रवृद्धेः कुमुदविकाशस्य च शरदि जलप्रसादो ऽगस्त्योदयस्येति ।

८.१. २.२.२.५. एवमादि तत् सर्वम् अस्येदम् इति सम्बन्धमात्रवचनात् सिद्धम् । तत् तु द्विविधम् । दृष्टम् सामान्यतो दृष्टम् च ।

८.१. २.२.२.५. तत्र दृष्टम् प्रसिद्धसाध्ययोर् अत्यन्तजात्यभेदे ऽनुमानम् । यथा गव्य् एव सास्नामात्रम् उपलभ्य देशान्तरे ऽपि सास्नामात्रदर्शनाद् गवि प्रतिपत्तिः ।

८.१. २.२.२.६.१. प्रसिद्धसाध्ययोर् अत्यन्तजातिभेदे लिङ्गानुमेयधर्मसामान्यानुवृत्तितो ऽनुमानम् सामान्यतो दृष्टम् ।

८.१. २.२.२.६. यथा कर्षकवणिग्राजपुरुषाणाम् च प्रवृत्तेः फलवत्त्वम् उपलभ्य वर्णाश्रमिणाम् अपि दृष्टम् प्रयोजनम् अनुद्दिश्य प्रवर्तमानानाम् फलानुमानम् इति ।

८.१. २.२.२.६. तत्र लिङ्गदर्शनम् प्रमाणम् प्रमितिर् अग्निज्ञानम् । अथवाग्निज्ञानम् एव प्रमाणम् प्रमितिर् अग्नौ गुणदोषमाध्यस्थ्यदर्शनम् इत्य् एतत् स्वनिश्चितार्थम् अनुमानम् ।

८.१. २.२.आ(२.३.१.) शब्दादीनाम् अप्य् अनुमाने ऽन्तर्भावः समानविधित्वात् ।

८.१. २.२.आ(२.३. यथा प्रसिद्धसमयस्यासन्दिग्धलिङ्गदर्शनप्रसिद्ध्यनुस्मरणाभ्याम् अतीन्द्रिये ऽर्थे भवत्य् अनुमानम् एवम् शब्दादिभ्यो ऽपीति ।

८.१. २.२.आ(२.३. श्रुतिस्मृतिलक्षणो ऽप्य् आम्नायोवक्तृप्रामाण्यापेक्षः तद्वचनाद् आम्नायप्रामाण्यम् लिङ्गाच् चानित्यो बुद्धिपूर्वा वाक्यकृतिर् वेदे बुद्धिपूर्वो ददातिर् इत्य् उक्तत्वात् । ।

८.१. २.२.आ(२.०.१.) प्रसिद्धाभिनयस्य चेष्टया प्रतिपत्तिदर्शनात् तद् अप्य् अनुमानम् एव । ।

८.१. २.२.आ(२.०.१.) आप्तेनाप्रसिद्धस्य गवयस्य गवा गवयप्रतिपादनाद् उपमानम् आप्तवचनम् एव । ।

८.१. २.२.आ(२.३.१. दर्शनार्थाद् अर्थापत्तिर् विरोध्य् एव श्रवणाद् अनुमितानुमानम् । ।

८.१. २.२.आ(२.५.१.) सम्भवो ऽप्य् अविनाभावित्वाद् अनुमानम् एव । ।

८.१. २.२.आ(२.५.१.) अभावो ऽप्य् अनुमानम् एव यथोत्पन्नम् कार्यम् कारणसद्भावे लिङ्गम् । एवम् अनुत्पन्नम् कार्यम् कारणासद्भावे लिङ्गम् । ।

८.१. २.२.आ(२.०.२.) तथैवैतिह्यम् अप्य् अवितथम् आप्तोपदेश एवेति । ।

८.१. २.२.B्(२.१.३. पञ्चावयवेन वाक्येन स्वनिश्चितार्थप्रतिपादनाम् परार्थानुमानम् । पञ्चावयवेनैव वाक्येन संशयितविपर्यस् ताव्युत्पन्नानाम् परेषाम् स्वनिश्चितार्थप्रतिपादनम् परार्थानुमानम् विज्ञेयम् । ।

८.१. २.२.B्(२.३.२.) अवयवाः पुनः प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नायाः ।

८.१. २.२.B् १.२.३.२.) तत्रानुमेयोद्देशो ऽविरोधी प्रतिज्ञा ।

८.१. २.२.B् १.२.४.१. प्रतिपिपादयिषितधर्मविशिष्टस्य धर्मिणोपदेशविषयम् आपादयितुम् उद्देशमात्रम् प्रतिज्ञा । यथा द्रव्यम् वायुर् इति ।

८.१. २.२.B् १.२.४. अविरोधिग्रहणात् प्रत्यक्षानुमानाभ्युपगतस्वशास्त्रस्ववचनविरोधिनो निरस्ता भवन्ति ।

८.१. २.२.B् १.२.४. यथा ऽनुष्णो ऽग्निर् इति प्रत्यक्षविरोधी घनम् अम्बरम् इत्य् अनुमानविरोधी ब्राह्मणेन सुरा पेयेत्य् आगमविरोधी वैशेषिकस्य सत्कार्यम् इतिब्रुवतः स्वशास्त्रविरोधी न शब्दो ऽर्थप्रत्यायक इति स्ववचनविरोधी । ।

८.१. २.२.B् २.२.७.१.) लिङ्गवचनम् अपदेशः । यदनुमेयेन सहचरितम् तत्समानजातीये सर्वत्र सामान्येन प्रसिद्धम् तद्विपरीते च सर्वस्मिन्न् असद् एव तल्लिङ्गम् उक्तम् तस्य वचनम् अपदेशः ।

८.१. २.२.B् २.२.७. यथा क्रियावत्त्वाद् गुणवत्त्वाच् च तथा च तदनुमेये ऽस्ति तत्समानजातीये च सर्वस्मिन् गुणवत्त्वम् असार्वस्मिन् क्रियावत्त्वम् ।

८.१. २.२.B् २.२.७. उभयम् अप्य् एतद् अद्रव्ये नास्त्य् एव तस्मात् तस्य वचनम् अपदेश इति सिद्धम् । ।

८.१. २.२.B् २.२.८.९. एतेनासिद्धविरुद्धसन्दिग्धानध्यवसितवचनानाम् अनपदेशत्वम् उक्तम् भवति । तत्रासिद्धश् चतुर्विधः । उभयासिद्धो ऽन्यतरासिद्धः तद्भावासिद्धो ऽनुमेयासिद्धश् चेति ।

८.१. २.२.B् २.२.८. तत्रोभयासिद्धः उभयोर् वादिप्रतिवादिनोर् असिद्धः यथा ऽनित्यः शब्दः सावयवत्वाद् इति ।

८.१. २.२.B् २.२.८. अन्यतरासिद्धः यथा ऽनित्यः शब्दः कार्यत्वाद् इति । तद्भावासिद्धो यथा धूमभावेनाग्न्यधिगतौ कर्तव्यायाम् उपन्यस्यमानो वाष्पे धूमभावेनासिद्ध इति ।

८.१. २.२.B् २.२.८. अनुमेयासिद्धो यथा पार्थिवम् द्रव्यम् तमः कृष्णरूपवत्त्वाद् इति । यो ह्य् अनुमेये ऽविद्यमानो ऽपि तत्समानजातीये सर्वस्मिन् नास्ति तद्विपरीते चास्ति स विपरीतसाधनाद् विरुद्धः यथा यस्माद् विषाणी तस्माद् अश्व इति ।

८.१. २.२.B् २.२.८. यस् तु सन्न् अनुमेये तत्समानासमानजातीययोः साधारणः सन्न् एव स सन्देहजनकत्वात् सन्दिग्धः यथा यस्माद् विषाणी तस्माद् गौर् इति । एकस्मिंश् च द्वयोर् हेत्वोर् यथोक्तलक्षणयोर् विरुद्धयोः सन्निपाते सति संशयदर्शनाद् अयम् अन्यः सन्दिग्ध इति केचित् ।

८.१. २.२.B् २.२.९. यथा मूर्तत्वामूर्तत्वम् प्रति मनसः क्रियावत्त्वास्पर्शवत्त्वयोर् इति ।

८.१. २.२.B् २.२.९. नन्व् अयम् असाधारण एवाचाक्षुषत्वप्रत्यक्षत्ववत् संहतयोर् अन्यतरपक्षासम्भवात् ततश् चानध्यवसित इत् वक्ष्यामः ।

८.१. २.२.B् २.२.९. ननु शास्त्रे तत्रतत्रोभयथा दर्शनम् संशयकारणम् अपदिश्यत इति न संशयो विषयद्वैतदर्शनात् ।

८.१. २.२.B् २.२.९. संशयोत्पत्तौ विषयद्वैतदर्शनम् कारणम् तुल्यबलत्वे च तयोः परस्परविरोधान् निर्णयानुत्पादकत्वम् स्यान् न तु संशयहेतुत्वम् न च तयोस् तुल्यबलवत्त्वम् अस्ति अन्यतरस्यानुमेयोद्देशस्यागमबाधितत्वाद् अयम् तु विरुद्धभेद एव ।

८.१. २.२.B् २.२.९. यश् चानुमेये विद्यमानस् तत्समानासमानजातीययोर् असन्न् एव सो ऽन्यतरासिद्धो ऽनध्यवसायहेतुत्वाद् अनध्यवसितः यथा सत्कार्यम् उत्पत्तेर् इति ।

८.१. २.२.B् २.२.९. अयम् अप्रसिद्धो ऽनपदेश इति वचनाद् अवरुद्धः ।

८.१. २.२.B् २.२.९. ननु चायम् विशेषः संशयहेतुर् अभिहितः शास्त्रे तुल्यजातीयेष्व् अर्थान्तरभूतेषु विशेषस्योभयथा दृष्टत्वाद् इति नान्यार्थत्वाच् छब्दे विशेषदर्शनात् ।

८.१. २.२.B् २.२.९. संशयानुत्पत्तिर् इत्य् उक्ते नायम् द्रव्यादीनाम् अन्यतमस्य विशेषः स्याच् छ्रावणत्वम् किम् तु सामान्यम् एव सम्पद्यते कस्मात् तुल्यजातीयेष्व् अर्थान्तरभूतेषु द्रव्यादिभेदानाम् एकैकशो विशेषस्योभयथा दृष्टत्वाद् इत्य् उक्तम् न संशयकारणम् अन्यथा षट्स्व् अपि पदार्थेषु संशयप्रसङ्गात् तस्मात् सामान्यप्रत्ययाद् एव संशय इति । ।

८.१. २.२.B् ३.२.६.१.) द्विविधम् निदर्शनम् साधर्म्येण वैधर्म्येण च । तत्रानुमेयसामान्येन लिङ्गसामान्यस्यानुविधानदर्शनम् साधर्म्यनिदर्शनम् ।

८.१. २.२.B् ३.२.६. तद्यथा यत् क्रियावत् तद् द्रव्यम् दृष्टम् यथा शर इति । अनुमेयविपर्यये च लिङ्गस्याभावदर्शनम् वैधर्म्यनिदर्शनम् । तद्यथा यद् अद्रव्यम् तत् क्रियावन् न भवति यथा सत्तेति । ।

८.१. २.२.B् ३.२.७.१. अनेन निदर्शनाभासा निरस्ता भवन्ति ।

८.१. २.२.B् ३.२.७. तद्यथा नित्यः शब्दो ऽमूरत्वात् यद् अमूर्तम् दृष्टम् तन् नित्यम् यथा परमाणुर् यथा कर्म यथा स्थाली यथा तमः अम्बरवद् इति यद् द्रव्यम् तत् क्रियावद् दृष्टम् इति च लिङ्गानुमेयोभयाश्रयासिद्धाननुगतविपरीतानुगताः साधर्म्यनिदर्शनाभासाः ।

८.१. २.२.B् ३.२.७. यद् अनित्यम् तन् मूरतम् दृष्टम् यथा कर्म यथा परमाणुर् यथाकाशम् यथा तमः घटवत् यन् निष्क्रियम् तद् अद्रव्यञ् चेति लिङ्गानुमेयोभयाव्यावृत्ताश्रयासिद्धाव्यावृत्तविपरीतव्यावृत्ता वैधर्म्यनिदर्शनाभासा इति । ।

८.१. २.२.B् ४.२.९.७. निदर्शने ऽनुमेयसामान्येन सह दृष्टस्य्स लिङ्गसामान्यस्यानुमेये ऽन्वानयनम् अनुसन्धानम् ।

८.१. २.२.B् ४.२.९. अनुमेयधर्मात्रत्वेनाभितम् लिङ्गसामान्यम् अनुपलब्धशक्तिकम् निदर्शने साध्यधर्मसामान्येन सह दृष्टम् अनुमेये येन वचनेनानुसन्धीयते तदनुसन्धानम् । तथा च वायुः क्रियावान् इति ।

८.१. २.२.B् ४.२.९. अनुमेयाभावे च तस्यासत्त्वम् उपलभ्य न च तथा वायुर् निष्क्रिय इति । ।

८.१. २.२.B् ५.२.०.२.) अनुमेयत्वेनोद्दिष्टे चानिश्चिते च परेषाम् निश्चयापादनार्थम् प्रतिज्ञायाः पुनर् वचनम् प्रप्त्याम्नायः ।

८.१. २.२.B् ५.२.१.२. प्रतिपाद्यत्वेनोद्दिष्टे चानिश्चिते च परेषाम् हेत्वादिभिर् अवयवैर् आहितशक्तीनाम् परिसमाप्तेन वाक्येन निश्चयापादनार्थम् प्रतिज्ञायाः पुनर् वचनम् प्रत्यामनायः । तस्माद् द्रव्यम् एवेति ।

८.१. २.२.B् ५.२.१. न ह्य् एतस्मिन् न सति परेषाम् अवयवानाम् समस्तानाम् व्यस्तानाम् वा तदर्थवाचकत्वम् अस्ति गम्यमानार्थत्वाद् इति चेन् न अतिप्रसङ्गात् ।

८.१. २.२.B् ५.२.१. तथाहि प्रतिज्ञानन्तरम् हेतुमात्राभिधानम् कर्तव्यम् विदुषामन्वयव्यतिरेकस्मरणात् तदर्थावगतिर् भविष्यतीति तस्माद् अत्रैवार्थपरिसमाप्तिः ।

८.१. २.२.B् ५.२.१. कथम् अनित्यः शब्द इत्य् अनेनानिश्चितानित्यत्वमात्रविशिष्टः शब्दः कथ्यते प्रयत्नानन्तरीयकत्वाद् इत्य् अनेनानित्यत्वसाधनधर्ममात्रम् अभिधीयते ।

८.१. २.२.B् ५.२.१. इह यत् प्रयत्नानन्तरीयकम् तदनित्यम् दृष्टम् यथा घट इत्य् अनेन साध्यसामान्येन साधनसामान्यस्यानुगाममात्रम् उच्यते ।

८.१. २.२.B् ५.२.१. नित्यम् अप्रयत्नानन्तरीयकम् दृष्टम् यथाकाशम् इत्य् अनेन साध्याभावेन साधनस्यासत्त्वम् प्रदर्श्यते ।

८.१. २.२.B् ५.२.१. तथा च प्रयत्नानन्तरीयकः शब्दो दृष्टो न च तथाकाशवद् अप्रयत्नानन्तरीयकः शब्द इत्य् अन्वयव्यतिरेकाभ्याम् दृष्टसामर्थ्यस्य साधनसामान्यस्य शब्दे ऽनुसन्धानम् गम्यते तस्माद् अनित्यः शब्द त्य् अनेनानित्य एव शब्द इति प्रतिपिपादयिषितार्थपरिसमाप्तिर् गम्यते तस्मात् पञ्चावयवेनैव वाक्येन परेषाम् स्वनिश्चितार्थप्र्तिपादनम् क्रियते इत्य् एतत् परार्थानुमानम् सिद्धम् इति । ।

८.१. २.२.C(२.५.२.) विशेषदर्शनजम् अवधारणज्ञानम् संशयविरोधी निर्णयः । एतद् एव प्रत्यक्षम् अनुमानम् वा ।

८.१. २.२.C(२.५. यद् विशेषदर्शनात् संशयविरोध्य् उत्पद्यते स प्रत्यक्षनिर्णयः ।

८.१. २.२.C(२.५. यथा स्थाणुपुरुषयोर् ऊर्ध्वतामात्रसादृश्यालोचनाद् विशेषेष्व् अप्रत्यक्षेषूभयविशेषानुस्मरणात् किम् अयम् स्थाणुपुरुषो वेति संशयोत्पत्तौ शिरह्पाण्यादिदर्शनात् पुरुष एवायम् इत्य् अवधारणज्ञानम् प्रत्यक्षनिर्णयः ।

८.१. २.२.C(२.५. विषाणमात्रदर्शनाद् गौर् गवयो वेति संशयोत्पत्तौ सास्नामात्रदर्शनाद् गौरु एवायम् इत्य् अवधारणज्ञानम् अनुमाननिर्णय इति । ।

८.१. २.३.२.६.१.) ल्ङ्गदर्शनेच्छानुस्मरणाद्यपेक्षाद् आत्ममनसोः सम्योगविशेषात् पट्वाभ्यासादरप्रत्ययजनिताच् च संस्काराद् दृष्टश्रुतानुभूतेष्व् अर्थेषु शेषानुव्यवसायेच्छानुस्मरणद्वेषहेतुर् अतीतविषया स्मृतिर् इति । ।

८.१. २.४.२.८.१. आम्नायविधात्क़्णाम् ऋषीणाम् अतीतानागतवर्तमानेष्व् अतीन्द्रियेष्व् अर्थेषु धर्मादिषु ग्रन्थोपनिबद्धेष्व् अनुपनिबद्धेषु चात्ममनसोः सम्योगाद् धर्मविशेषाच् च यत् प्रातिभम् यथार्थनिवेदनम् ज्ञानम् उत्पद्यते तदार्षम् इत्य् आचक्षते ।

८.१. २.४.२.८. तत् तु प्रस्तारेण देवर्षीणाम् कदाचिद् एव लौकिकानाम् यथा कन्यका ब्रवीति श्वो मे भाता ऽऽगन्ति हृदयम् मे कथयतीति । ।

८.१. २.५.२.८.२.) सिद्धदर्शनम् न ज्ञानान्तरम् कस्मात् प्रयत्नपूर्वकम् अंजनपादलोपखड्गगुलिकादिसिद्धानाम् दृश्यद्रष्ट्क़्णाम् सूक्ष्मव्यवहितविप्रकृष्टेष्व् अर्थेषु यद् दर्शनम् तत् प्रत्यक्षम् एव ।

८.१. २.५.२.९.१. अथ दिव्यान्तरिक्षभौमानाम् प्राणिनाम् ग्रहनक्षत्रसञ्वारादिनिमित्तम् धर्माधर्मविपाकदर्शनम् इष्टम् तद् अप्य् अनुमानम् एव ।

८.१. २.५.२.९. अथ लिङ्गानपेक्षम् ध्रमादिषु दर्शनम् इष्टम् तद् अपि प्रत्यक्षार्षयोर् अन्यतरस्मिन्न् अतर्भूतम् इत्य् एवम् बुद्धिर् इति । ।

८.१.(२.९.१.) अनुग्रहलक्षणम् सुखम् । स्रगाद्यभिप्रेतविषयसान्निध्ये सतीष्टोपलब्धीन्द्रियार्थसन्निकर्षाद् धर्माद्यपेक्षाद् आत्ममनसोः सम्योगाद् अनुग्रहाभिष्वङ्गनयनादिप्रसादजनकम् उत्पद्यते तत् सुखम् ।

८.१.(२.९. अतीतेषु विषयेषु स्मृतिजम् । अनागतेषु सङ्कल्पजम् । यत् तु विदुषाम् असतु विषयानुस्मरणेछासङ्कल्पेष्व् आविर्भवति तद् विद्याशमसन्तोषधर्मविशेषनिमित्तम् इति । ।

८.१.(२.०.१.) उपघातलक्षणम् दुह्खम् ।

८.१.(२.०. विषाद्यनभिप्रेतविषयसान्निध्ये सत्यनिष्टोपलब्धीन्द्रियार्थसन्निकर्षाद् अधर्माद्यपेक्षाद् आत्ममनसोः सम्योगाद् यद् अमर्षोपघातदैन्यनिमित्तम् उत्पद्यते तद् दुह्खम् ।

८.१.(२.०. अतीतेषु सर्पव्याघ्राचौरादिषु स्मृतिजम् । अनागतेषु सङ्कल्पजम् इति । ।

८.१.(२.१.६. स्वार्थम् परार्थम् वा ऽप्रप्तप्रार्थनेच्छा । सा चात्ममनसोः सम्योगात् सुखाद्यपेक्षात् स्मृत्यपेक्षाद् वोत्पद्यते ।

८.१.(२.१. प्रयत्नस्मृतिधमाधर्महेतुः । कामो ऽभिलाषः रागः सङ्कल्पः कारुण्यम् वैराग्यम् उपधा भाव इत्य् एवम् आदय इच्छाभेदाः । मैथुनेच्छा कामः ।

८.१.(२.१. अभ्यवहारेच्छाभिलाषः । पुनः पुनर् विषयानुरंजनेच्छा रागः । अनासन्नक्रियेच्छा सङ्कल्पः । स्वार्थम् अनपेक्ष्य परदुह्खप्रहाणेच्छा कारुण्यम् ।

८.१.(२.१. दोषदर्शनाद् विषयत्यागेच्छा वैराग्यम् । परवञ्वनेच्छा उपधा । अन्तर्निगूढेच्छा भावः । चिकीर्षाजिहीर्षेत्य् आदिक्रियाभेदाद् इच्छाभेदा भवन्ति । ।

८.१.(२.२.१.) प्रज्वलनात्मको द्वेषः । यस्मिन् सति प्रज्वलितम् इवात्मानम् मन्यते स द्वेषः । स चातम्मनसोः सम्योगाद् दुह्खापेक्षात् स्मृत्यपेक्षाद् वोत्पद्यते ।

८.१.(२.२. प्रयत्नस्मृतिधर्माधर्महेतुः । क्रोधो द्रोहः मन्युर् अक्षम् आमर्ष इति द्वेषभेदाः । ।

८.१.(२.३.३. प्रयत्नः संरम्भ उत्साह इति प्रयायाः । सद् विविधो जीवनपूर्वः इच्छाद्वेषपूर्वकश् च । तत्र जीवनपूर्वख्; सुप्तस्य प्राणापानसन्तानप्रेरकः प्रबोधकाले चान्तह्करणस्येन्द्रियान्तरप्राप्तिहेतुः ।

८.१.(२.३. अस्य जीवनपूर्वकस्यात्ममनसोः सम्योगाद् धर्माधर्मापेक्षाद् उत्पत्तिः । इतरस् तु हिताहितप्राप्तिपर्हिहारसमर्थस्य व्यापारस्य हेतुः शरीरविधारकश् च ।

८.१.(२.३. स चातम्मनसोः सम्योगाद् इच्छापेक्षाद् द्वेषापेक्षाद् वोत्पद्यते । ।

८.१.(२.३.२.) गुरुत्वम् जलभूम्योः पतनकर्मकारणम् । अप्रत्यक्षम् पतनकर्मानुमेयम् सम्योगप्रयत्नसांस्कारविरोधि । अस्य चाबादिपरमाणुरूपादिवन् नित्यानित्यत्वनिष्पत्तयः । ।

८.१.(२.४.२.) द्रवत्वम् स्यन्दनकर्मकारणम् । त्रिद्रव्यवृत्ति । तत् तु द्विविधम् सांसिद्धकम् नैमित्तिकम् च । सांसिद्धिकम् अपाम् विशेषगुणः । नैमित्तिकम् पृथिवीतेजसोः सामान्यगुणः ।

८.१.(२.४. सांसिद्धिकस्य गुरुत्ववन् नित्यानित्यत्वनिष्पत्तयः । सङ्घातदर्शनात् सांसिद्धिकम् अयुक्तम् इति चेन् न ।

८.१.(२.४. दिव्येन तेजसा सम्युक्तानाम् आप्यानाम् परमाणूनाम् परस्परम् सम्योगो द्रव्यारम्भकः सङ्घाताख्यः तेन परमाणुद्रवत्वप्रतिबन्धात् कार्ये हिमकरकादौ द्रवत्वानुपत्तिः ।

८.१.(२.५.३. नैमित्तिकम् च पृथिवीतेजसोर् अग्निसम्योगजम् ।

८.१.(२.५. कथम् सर्पिर् जतुमधूच्छिष्टादीनाम् कारणेषु परमाणुष्व् अग्निसम्योगाद् वेगापेक्षात् कर्मोत्पत्तौ तज्जेभ्यो विभागेभ्यो द्रव्यारम्भकसम्योगविनाशात् कार्यद्रव्यनिवृत्ताव् अग्निसम्योगादौष्ण्यापेक्षात् स्वतन्त्रेषु परमाणुषु द्रवत्वम् उत्पद्यते ततस् तेषु भोगिनाम् अदृष्टापेक्षाद् आत्माणुसम्योगात् कर्मोत्पत्तौ तज्जेभ्यः सम्योगेभ्यो द्यूणुकादिप्रक्रमेण कार्यद्रव्यम् उत्पद्यते तस्मिंश् च रूपाद्युत्पत्तिसमकालम् कारणगुणप्रक्रमेण द्रवत्वम् उत्पद्यत इति । ।

८.२.(२.६.१.) स्नेहो ऽपाम् विशेषगुणः । उप् तो हेरे संग्रहमृजादिहेतुः । अस्यापि गुरुत्ववन् नित्यानित्यत्वनिष्पत्तयः । ।


८.२.(२.६.२.) संस्कारस् त्रिविधो वेगो भावना स्थितिस्थापकश् च । तत्र वेगो मूर्तिमत्सु पञ्वसु द्रव्येषु निमित्तविशेषापेक्षात् कर्मणो जायते नियतदिक्क्रियाप्रबन्धहेतुः स्पर्शवद् द्रव्यसम्योगविशेषविरोधी क्वचित् कारणगुणपूर्वक्रमेणोत्पद्यते । भावनासंज्ञकस् त्व् आत्मगुणो दृष्टश्रुतानुभूतेष्व् अर्थेषु स्मृतिप्रत्यभिज्ञानहेतुर् भवति ज्ञानमद् अदुह्खादिविरोधी । पट्वभ्यासादरप्रत्ययजः पटुप्रत्ययापेक्षाद् आत्ममनसोः सम्योगाद् आश्चर्ये ऽर्थे पटुः संस्कारातिशयो जायते । यथा दाक्षिणात्य् अस्योष्ट्रदर्शनाद् इति । विद्याशिल्पव्यायामादिष्व् अभ्यस्यमानेषु तस्मिन्न् एवार्थे पूर्वपूर्वसंस्कारम् अपेक्षमाणाद् उत्तरोत्तरस्मात् प्रत्ययाद् आत्ममनसोः सम्योगात् संस्कारातिशयो जायते । प्रयत्नेन मनश् चक्षुषि स्थापयित्वा ऽपूर्वम् अर्थम् दिदूक्षमाणस्य विद्युत् सम्पातदर्शनवद् आदरप्रत्ययः तम् अपेक्षमाणाद् आत्ममनसोः सम्योगात् संस्कारातिशयो जायते । यथा देवह्रदेराजतसौवर्णपद्मदर्शनाद् इति । स्थितिस्थापकस् तु स्पर्शवद् द्रव्येषु वर्तमानो घनावयवसन्निवेशविशिष्टेषु कालान्तरावस्थायिषु स्वाश्रयम् अन्यथाकृतम् यथावस्थितम् स्थापयति । स्थावरजङ्गमविकारेषु धनुह्शाखाशृङ्गदन्तास्थिसूत्रवस्त्रादिषु भुग्नसंवर्तितेषु स्थितिस्थापकस्य कार्यम् संलक्ष्यते । नित्यानित्यत्वनिष्पत्तयोस्यापि गुरुत्ववत् । ।


८.२.(२.२.८. धर्मः पुरुषगुणः । कर्तुः प्रियहितमोक्षहेतुः अतीन्दिर्यो ऽन्त्यसुखसंविज्ञानविरोधी पुरुषान्तह्करणसम्योगविशुद्धाभिसन्धिजः वर्णाश्रमिणाम् प्रतिनियतसाधननिमित्तः । तस्य तु साधनानि श्रुतिस्मृतिविहितानि वर्णाश्रमिणाम् सामान्यविशेषभावेनावस्थितानि द्रव्यगुणकर्माणि । तत्र सामान्यानि धर्मे श्रद्धा अहिंसा भूतहितत्वम् सत्यवचनम् अस्तेयम् ब्रहमचर्यम् अनुपधा क्रोधवर्जनम् अभिषेचनम् शिचिद्रव्यसेवनम् विशिष्टदेवताभक्तिर् उपवासो ऽप्रमादश् च । ब्राह्मणक्षचियवैश्यानामिज्याध्ययनदानानि ब्राह्मणस्य विशिष्टानि प्रतिग्रहाध्यापनयाजनानि स्ववर्णविहिताश् च संस्काराः । क्षत्रियस्य सम्यक् प्रजापालनम् असाधुनिग्रहो युद्धेष्व् अनिवर्तनम् स्वकीयाश् च संस्काराः । वैश्यस्य क्रियविक्रयकृषिपशुपालनानि स्वकीयाश् च संस्काराः । शूद्रस्य पूर्ववर्णपारतन्त्र्यम् अमन्त्रिकाश् च क्रियाः । आश्रमिणाम् तु ब्रह्मचारिणो गुरुकुलनिवासिनः स्वशास्त्रविहितानि गुरुशुश्रूषाग्नीन्धनभैक्ष्याचरणानि मधुमांसदिवास्वप्नांजनाभ्यञजनादिवर्जनम् च ।

८.२.(२.३.१. विद्याव्रतस्नातकस्य कृतदारस्य गृहस्थस्य शालीनयायावरवृत्त्युपार्जितैर् अर्थैर् भूतमनुष्यदेवपितृब्रह्माख्यानाम् पञ्वानाम् महायज्ञानम् सायम्प्रातरनुष्ठानम् एकाग्निविधानेन पाकयज्ञसंस्थानाम् च नित्यानाम् शक्तौ विद्यमानायाम् अग्न्याधेयादीनाम् च हविर्यज्ञसंस्थानाम् अग्निष्टोमादीनाम् सोमयज्ञसंस्थानाम् च । ऋत्वन्तरेषु ब्रह्मचर्यम् अपत्योत्पादनम् च । ब्रह्मचारिणो गृहस्थस्य वा ग्रामान् निर्गतस्य वनवासो वल्ककाजिनकेशश्मश्रुनखरोमधारणम् च । वन्यहुतातिथिशेषभोजनानि वानप्रस्थस्य । त्रयाणाम् अन्यतमस्य श्रद्धावतः सर्वभूतेभ्यो नित्यम् अभयम् दत्त्वा सम्न्यस्य स्वानि कर्माणि यमनियमेष्व् अप्रमत्तस्य षट्पदार्थप्रसंख्यानाद् योगप्रसाधनम् प्रव्रजितस्येति । दृष्टम् प्रयोजनम् अनुद्दिश्यैतानि साधनानि भावप्रसादम् चापेक्ष्यात्ममनसोः सम्योगाद् धर्मोत्पत्तिर् इति । ।


८.२.(२.०.४. अधर्मो ऽप्य् आत्मगुणः । कर्तुर् अहितप्रत्यवायहेतुर् अतीन्द्रियो ऽन्त्यदुह्खसंविज्ञानविरोधी । तस्य तु साधनानि शास्त्रे प्रतिषिद्धानि धर्मसाधनविपरीतानि हिंसानृतस्तेयादीनि विहिताकरणम् प्रमादश् चैतानि दुष्टाभिसन्धिम् चापेक्ष्यात्ममनसोः सम्योगाद् अधर्मस्योत्पत्तिः । ।


८.२.(२.०.२.) अविदुषो रागद्वेषवतः प्रवर्तकाद्धर्मात् प्रकृष्टात् स्वल्पाधर्मसहितात् ब्रह्मेन्द्रप्रजापतिपितृमनुष्यलोकेष्व् आशयानुरूपैर् इष्टशरीरेन्द्रियविषयसुखादिभिर् योगो भवति । तथा प्रकृष्टाद् अधर्मात् स्वल्पधर्मसहितात् प्रेततिर्यग्योनिस्थानेष्व् अनिष्टशरीरेन्द्रियविषयदुह्खाभिर् योगो भवति ।

८.२.(२.१.१. एवम् प्रवृत्तिलक्षणाद् धर्माद् अधर्मसहिताद् देवमनुष्यतिर्यङ्नारकेषु पुनः पुनः संसारबन्धो भवति । ।

८.२.(२.१.१.) ज्ञानपूर्वकात् तु कृताद् असंकल्पितफलाद् विशुद्धे कुले जातस्य दुह्खविगमोपायजिज्ञासोर् आचार्यम् उपसङ्गम्योत्पन्नषट्पदार्थतत्त्वज्ञानस्याज्ञाननिवृत्तौ विरक्तस्य रागद्वेषाद्यभावात् तज्जयोर् धर्माधर्मयोर् अनुत्पत्तौ पूर्वसङ्चितयोश् चोपभोगान् निरोधे सन्तोषसुखम् शरीरपरिच्छेदम् चोत्पद्य रागादिनिवृत्तौ निवृत्तिलक्षणः केवलो धर्मः परमार्थदर्शनजम् सुखम् कृत्वा निवर्तते । तदा निरोधात् निर्बीजस्यात् मनः शरीरादिनिवृत्तिः पुनः शरीराद्यनुत्पत्तौ दग्धेन्धनानलवदुपशमो मोक्ष इति । ।


८.२.(२.७.१.) शब्दो ऽम्बरगुणः श्रोत्रग्राह्यः क्षणिकः कार्यकारणोभयविरोधी सम्योगविभागशब्दजः प्रदेशवृत्तिः समानासमानजातीयकारणः । स द्विविधो वर्णलक्षणो ध्वनिलक्षणश् च । तत्र अकारादिर्वर्णलक्षणः शङ्खादिनिमित्तो ध्वनिलक्षणश् च । तत्र वर्णलक्षणस्योत्पत्तिर् आत्ममनसोः सम्योगात् स्मृत्यपेक्षाद् वर्णोच्चारणेच्छा तदनन्तरम् प्रयत्नस् तम् अपेक्षमाणाद् आत्मवायुसम्योगाद् वायौ कर्म जायते स चोर्ध्वम् गच्छन् कण्ठादीन् अभिहन्ति ततः स्थानवायुसम्योगापेक्षमाणात् स्थानाकाशसम्योगात् वर्णोत्पत्तिः ।

८.२.(२.८.२. अवर्णलक्षणो ऽपि भेरीदण्डसम्योगापेक्षाद् भेर्याकाशसम्योगाद् उत्पद्यते । वेणुपर्वविभागाद् वेण्वाकाशविभागाच् च शब्दाच् च सम्योगविभागनिष्पन्नाद्वीचीसन्तानवच् छब्दसन्तान इत्य् एवम्ण् सन्तानेन श्रोत्रप्रदेशम् आगतस्य ग्रहणम् श्रोत्रशब्दयोर् गमनागमनाभावाद् अप्राप्तस्य ग्रहणम् नास्ति प्ररिशेषात् सन्तानसिद्धिर् इति । ।


८.०.२.८.९. इति प्रशस्तपादभाष्ये गुणपदार्थः समाप्तः । ।

कर्मपदार्थनिरूपणम्

[सम्पाद्यताम्]

९.०.२.०.१. अथ कर्मपदार्थनिरूपणम् ।

९.१.२.०.२. उत्क्षेपणादीनाम् पञ्चानाम् अपि कर्मत्वसम्बन्धः । एकद्रव्यवत्त्वम् क्षणिकत्वम् मूर्तद्रव्यवृत्तित्वम् अगुणवत्त्वम् गुरुत्वद्रवत्वप्रयत्नसम्योगजत्वम् स्वकार्यसम्योगविरोधित्वम् सम्योगविभागनिरपेक्षकारणत्वम् असमवायिकारणत्वम् स्वपराश्रयसमवेतकार्यारम्भकत्वम् समानजातीयानारम्भकत्वम् द्रव्यानारम्भकत्वम् च प्रतिनियतजातियोगित्वम् । दिग्विशिष्टकार्यारम्भकत्वम् च विशेषः । ।


९.२.१.२.१.१.) तत्रोत्क्षेपणम् शरीरावयवेषु तत् सम्बद्धेषु च यद् ऊर्ध्वभागिभिः प्रदेशैः सम्योगकारणम् अधोभाग्भिश् च प्रदेशैः विभागकारणम् कर्मोत्पद्यते गुरुत्वप्रयत्नसम्योगेभ्यस् तद् उत्क्षेपणम् । ।

९.२.१.२.१.१.) तद् विपरीतसम्योगविभागकारणम् कर्मापक्षेपणम् । ।

९.२.२.२.१.२.) ऋजुनो द्रव्यस्याग्रावय्वानाम् तद् देशैर् विभागः सम्योगश् च मूलप्रदेशैर् येन कर्मणावयवी कुटिलः संजायते तद् आकुञ्चनम् । ।

९.२.२.२.२.३. तद्विप्रययेण सम्योगविभागोत्पत्तौ येन कर्मणावयवी ऋजुः सम्पद्यते तत् प्रसारणम् । ।

९.२.३.२.२.६. यद् अनियतदिक्प्रदेशसम्योगविभागकारणम् तद् गमनम् इति । ।

९.३.२.२.८. एतत् पञ्चविधम् अपि कर्म शरीरावयवेषु तत् सम्बद्धेषु च सत् प्रत्ययम् असत् प्रत्ययम् च यद् अन्यत् तद् अप्रत्ययम् एव तेष्व् अन्येषु च तद् गमनम् इति । कर्मणाम् जातिपञ्चकत्वम् अयुक्तंगमनाविशेषात् । सर्वम् हि क्षणिकम् कर्म गमनमात्रम् उत्पन्नम् स्वाश्रयस्योर्ध्वम् अधिस् तिर्यग् वाप्य् अणुमात्रैः प्रदेशैः सम्योगविभागात्न् करोति सर्वत्र गमनप्रत्ययो ऽवुसिष्टस् तस्माद् गमनम् एव सर्वम् इति । न वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् इहोत्क्षेपणम् परत्रापक्षेपणम् इत्य् एवम् आदि सर्वत्र वर्गशः प्रत्ययानुवृत्तिव्यावृत्ती दृष्टे तद् धेतुः सामान्यविशेषभेदो ऽवगम्यते । तेषाम् उदाद्युपसर्गविशेषात् प्रतिनियतदिग्विशिष्टकार्यारम्भत्वाद् उपलक्षणभेदो ऽपि सिद्धः । एवम् अपि पञ्चैवेत्य् अवधारणानुपपत्तिः । निष्क्रामणप्रवेशनादिष्व् अपि वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् । यद्य् उत्क्षेपणादिषु सर्वत्र वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनाज् जातिभेद इष्यते एवम् च निष्क्रमणप्रवेशनादिष्व् अपि । कार्यभेदात् तेषु प्रत्ययानुवृत्तिव्यावृत्ती इति चेत् न उत्क्षेपणादिष्व् अपि कार्यभेदाद् एव प्रत्ययानुवृत्तिव्यावृत्तिप्रसङ्गः । अथ समाने वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिसद्भावे उत्क्षेपणादीनाम् एव जातिभेदो न निष्क्रमणादीनाम् इत्य् अत्र विशेषहेतुर् अस्तीति न जातिसङ्करप्रसङ्गात् । निष्क्रमणादीनाम् जातिभेदात् प्रत्ययानुवृत्तिव्यावृत्तौ जातिसङ्करः प्रसज्यते । कथम् द्वयोर् द्रष्ट्रोर् एकस्माद् अपवरकादपवरकान्तरम् गच्छतो युगपन् निष्क्रमणप्रवेशनप्रत्ययौ दृष्टौ तथा द्वारप्रदेशे प्रविशति निष्क्रामतीति च । यदा तु प्रतिसीराद्यपनीतम् भवति तदा न प्रवेशनप्रत्ययो नापि निष्क्रमणप्रत्ययः किन् तु गमनप्रत्यय एव भवति । तथा नालिकायाम् वंशपत्त्रादौ पतति बहूनाम् द्रष्ट्क़्णाम् युगपद्भ्रमणपतनप्रवेशनप्रत्यया दृष्टा इति जातिसङ्करप्रसङ्गः । न चैवम् उत्क्षेपणादिषु प्रत्ययसङ्करो दृष्टः तस्माद् उत्क्षेपणादीनाम् एव जातिभेदात् प्रत्ययानुवृत्तिव्यावृत्ती निष्क्रमणादीनाम् तु कार्यभेदाद् इति । कथम् युगपत् प्रययभेद इति चेत् । अथ मतम् यथा जातिसङ्करो नासित् एवम् अनेककर्मसमावेशो ऽपि नास्तीत्य् एकस्मिन् कर्मणि युगपद् द्रष्ट्क़्णाम् भ्रमणपतनप्रवेशनप्रत्ययाः कथम् भवन्तीति । अत्र ब्रूमः न अवयवावयविनोर् दिग्विशिष्टसम्योगविभागानाम् भेदात् ।

९.३.२.४.१. यो हि द्रष्टा अवयवानाम् पार्श्वतः पर्यायेण दिक्प्रदेशैः सम्योगविभागान् पश्यति तस्य भ्रमणप्रत्ययो भव्ति यो ह्य् अवयविनि ऊर्ध्वप्रदेशैर् विभागम् अधः सम्योगम् चावेक्षते तस्य पतनप्रत्ययो भवति । यः पुनर् नालिकान्तर् देशे सम्योगम् बहिर् देशे च विभागम् पश्यति तस्य प्रवेशनप्रत्ययो भवतीति सिद्धः कार्यभेदान् निष्क्रमणादीनाम् प्रत्ययभेद इति । भवतूत्क्षेपणादीनाम् जातिभेदात् प्रत्ययभेदः निष्क्रमणादीनाम् तु कार्यभेदाद् इति । ।


९.३.२.६.१. अथ गमनत्वम् किम् कर्मत्वपर्यायः आहोस्विद् अपरम् सामान्यम् इति । कुतस् ते संशयः । समस् तेषूत्क्षेपणादिषु कर्मप्रत्ययवद् गमनप्रत्ययाविशेषात् कर्मत्वपर्याय इति गम्यते । यतस् तूत्क्षेपणादिवद् विशेषसंज्ञयाभिहितम् तस्माद् अपरम् सामान्यम् स्याद् इति । न । कर्मत्वपर्यायत्वात् । आत्मत्वपुरुषत्ववत् कर्मत्वपर्याय एव गमनत्वम् इति । अथ विशेषसंज्ञया किम् अर्थम् गमनग्रहणम् कृतम् इति न भ्रमणाद्यवरोधार्थत्वात् । उत्क्षेपणादिशब्दैर् अनवरुद्धानाम् भ्रमणपतनस्पन्दनादीनाम् अवरोधार्थम् गमनग्रहणम् कृतम् इति । अन्यथा हि यान्य् एव चत्वारि विशेषसंज्ञयोक्तानि तान्य् एव सामान्यविशेषसंज्ञाविषयाणि प्रसज्येरन्न् इति । अथवा अस्त्व् अपरम् सामान्यम् गमनत्वम् अनियतदिग्देशसम्योगविभागकारणेषु भ्रमणादिष्व् एव वर्तते गमनशब्दश् चोत्क्षेपणादिषु भाक्तो द्रष्टव्यः स्वाश्रयसम्योगविभागकर्तृत्वसामान्याद् इति । ।


९.४.२.७.१.) सत् प्रत्ययकर्मविधिः । कथम् चिकीर्षितेषु यज्ञाध्ययनदानकृष्यादिषु यदा हस्तम् उत्क्षेप्तुम् इच्छत्य् अपक्षेप्तुम् वा तदा हस्तवत्य् आत्मप्रदेशे प्रयत्नः संजायते तम् प्रयत्नम् गुरुत्वा चोपेक्षमाणाद् आत्महस्तसम्योगाद् धस्ते कर्म भवति हस्तवत् सर्वशरीरावयवेषु पादादिषु शरीरे चेति । तत् सम्बद्धेष्व् अपि कथम् यदा हस्तेन मुसलम् गृहीत्वेच्छाम् करोति उत्क्षिपामि हस्तेन मुसलम् इति तदनन्तरम् प्रयत्नस् तम् अपेक्षमणाद् आत्महस्तसम्योगाद् यस्मिन्न् एव काले हस्ते उत्क्षेपणकर्मोत्पद्यते तस्मिन्न् एव काले तम् एव प्रयत्नम् अपेक्षमाणाद् धस्तमुसलसम्योगात् मुसलए ऽपि कर्मेति ।

९.४.२.८.४. ततो दूरम् उत्क्षिप्ते मुसले तदर्थेच्छा निवर्तते पुनर् अप्य् अपक्षेपणेच्छोत्पद्यते तदनतरम् प्रयत्नस् तम् अपेक्षमाणाद् यथोक्तात् सम्योगाद् धस्तमुसलयोर् युगपद् अपक्षेपणकर्मणी भवतः ततो ऽन्त्येन मुसलकर्मणोलूखलमुसलयोर् अभिघाताख्यः सम्योगः क्रियते स सम्योगोमुसलगतवेगम् अपेक्षमाणो ऽप्रत्ययम् मुसले उत्पतनकर्म करोति । तत् कर्माभिघातापेक्षम् मुसले संस्कारम् आरभते तम् अपेक्ष्य मुसलहस्तसम्योगो ऽप्रययम् हते ऽप्य् उत्पतनकर्म करोति । यद्य् अपि प्राक्तनः संस्कारो विनष्टः तथापि मुसलोलूखलयोः सम्योगः पटुकर्मोत्पादकः सम्योगविशेषभावात् तस्य संस्कारारम्भे साचिव्यसमर्थो भवति । अथवा प्राक्तन एव पटुः संस्कारो ऽभिघाताद् अविनश्यन्न् अवस्थित इति । अतः संस्कारवति पुनः संस्कारारम्भो नास्त्य् अतो यस्मिन् काले संस्कारापेक्षाद् अभिघाताद् अप्रययम् मुसले उत्पतनकर्म तस्मिन्न् एव काले तम् एव संस्कारम् अपेक्षमाणात् मुसलहस्तसम्योगाद् अप्रत्ययम् हस्ते ऽप्य् उत्पतनकर्मेति । ।


९.४.३.०.१.) पणिम् उक्तेषु गमनविधिः । कथम् यदा तोमरम् हस्तेन गृहीत्वोत्क्षेप्तुम् इच्छोत्पद्यते तदनन्तरम् प्रयत्नः तम् अपेक्षमाणाद् यथोक्तात् सम्योगद्वयात् तोमरहस्तयोर् युगपद् आकर्षणकर्मणी भवतः । प्रसारिते च हस्ते तदाकर्षणार्थः प्रयत्नो निवर्तते तदनन्तरम् तिर्यग् ऊर्ध्व दूरम् आसन्नम् वा क्षिपामीतीच्छा संजायते तदनन्तरम् तद्नुरूपः प्रयत्नस् तम् अपेक्षमाणस् तोमरहस्तसम्योगो नोदनाख्यः तस्मात् तोमरे करंतोपन्नम् नोदनापेक्षम् तस्मिन् संस्कारम् आरभते ततः संस्कारनोदनाभ्याम् तावत् कर्माणि भवन्ति यावद् धस्ततोमरविभाग इति ततो विभागान् नोदने निवृत्ते संस्काराद् ऊर्ध्वम् तिर्यग् दूरम् आसन्नम् वा प्रयत्नानुरूपाणि कर्माणि भवन्त्य् आपतनाद् इति । ।


९.४.३.१.१.) तथा यन्त्रम् उक्तेषु गमन्विधिः । कथम् यो बलवान् कृतव्यायामो वामेन करेण धनुर् विष्टभ्य दक्षिणेन शरम् सन्धाय सशराम् ज्याम् मुष्टिना गृहीत्वा आकर्षणेच्छाम् करोति सज्येष्व् आकर्षयाम्य् एतद् धनुर् इति । तदनन्तरम् प्रयत्नस् तम् अपेक्षमाणाद् आत्महस्तसम्योगाद् आकर्षणकर्म हस्ते यदैवोत्पद्यते तदैव तम् एव प्रयत्नम् अपेक्षमाणाद् धस्तज्याशरसम्योगाद् ज्यायाम् शरे च कर्म प्रयत्नविशिष्टहस्तज्याशरसम्योगम् अपेक्षमाणाभ्याम् ज्याकोटिसम्योगाभ्याम् कर्मणी भवतो धनुष्कोट्योर् इत्य् एतत् सर्वम् युगपत् । एवम् आकर्णाद् आकृष्टे धनुषि नातः परम् अनेन गन्तव्यम् इति यज् ज्ञानम् ततस् तद् आकर्शणार्थस्य प्रयत्नस्य विनाशस् ततः पुनर् मोक्षणेच्छा संजायते तदनन्तरम् प्रयत्नस् तम् अपेक्षमाणाद् आत्माङ्गुलिसम्योगाद् अङ्गुलिकर्म तस्माज् ज्याङ्गुलिविभागः ततो विभागात् सम्योगविनाशः तस्मिन् विनष्टे प्रतिबन्धकाभावाद् यदा धणुषि वर्तमानः स्थितिस्थापकः संस्कारो मण्डलीभूतम् धनुर् यथावस्थितम् स्थापयति तदा तम् एव संस्कारम् अपेक्षमाणाद् धनुर् ज्यासम्योगाज् ज्यायाम् शरे च कर्मोत्पद्यते तत्स्व् अकारणापेक्षम् ज्यायाम् संस्कारम् करोति तम् अपेक्षमाण इषुज्यासम्योगो नोदनम् तस्माद् इषावाद्यम् कर्म नोदनापेक्षम् इषौ संस्कारम् आरभते ।

९.४.३.२.८. तस्मात् संस्कारान् नोदनसहायात् तावत् कर्माणि भवन्ति यावद् इषुज्याविभागो विभागान् निवृत्ते नोदने कर्माण्य् उत्तरोत्तरानीषुसंस्काराद् एवापतनाद् इति । बहूनि कर्माणि क्रमशः कस्मात् सम्योगबहुत्वात् एकस् तु संस्कारो ऽन्तराले कर्मणो ऽपेक्षाकारणाभावाद् इति । ।


९.४.३.३.२.) एवम् आत्माधिष्ठितेषु सत्प्रत्ययम् असत्प्रययम् च कर्मोक्तम् ।

९.५.३.३.२.) अनधिष्ठितेषु बाह्येषु चतुर्षु महाभूतेष्व् अप्रत्ययम् कर्म गमनम् एव नोदनादिभ्यो भवति । तत्र नोदनम् गुरुत्वद्रवत्ववेगप्रयत्नान् समस्तव्यस् तान् अपेक्षमाणो यः सम्योगविशेषो नोदनम् अविभागहेतोर् एकस्य कर्मणः कारणम् तस्माच् चतुर्ष्व् अपि महाभूतेषु कर्म भवति । ।


९.५.३.४.७. यथा पङ्काख्यायाम् पृथिव्याम् । वेगापेक्षो यः सम्योगविशेषा विभागहेतोर् एकस्य कर्मणः कारणम् सो ऽभिघातः । तस्माद् अपि चतुर्षु महाभूतेषु कर्म भवति यथा पाषाणादिषु निष्ठुरे वस्तुन्य् अभिपतितेषु तथा पादादिभिर् नुद्यमानायाम् अभिहन्यमानायाम् वा पङ्काख्यायाम् पृथिव्याम् यः सम्योगो नोदनाभिघातयोर् अन्यतरापेक्ष उभयापेक्षो वा स सम्युक्तसम्योगः तस्माद् अपि पृथिव्यादिषु कर्म भवति । ये च प्रदेशा न नुद्यन्ते नाप्य् अभिहन्यन्ते तेष्व् अपि कर्म जायते । पृथिव्युदकयोर् गुरुत्वविधारकसम्योगप्रयत्नवेगाभावे सति गुरुत्वाद् यद् अधोगमनम् तत् पतनम् । यथा मुसलशरीरादिषूक्तम् । तत्राद्यम् गुरुत्वाद् द्वितीयादीनि तु गुरुत्वसंस्काराभ्याम् । ।


९.५.३.५.२.) स्रोतोभूतानाम् अपाम् स्थलान्निम्नाभिसर्पणम् यत् तद् द्रवत्वात् स्यन्दनम् । कथम् समन्ताद् रोधह्सम्योगेनावयविद्रवत्वम् प्रतिबद्धम् अवयवद्रवत्वम् अप्य् एकार्थसमवेतम् तेनैव प्रतिबद्धम् उत्तरोत्तरावयवद्रवत्वानि सम्युक्तसम्योगैः प्रतिबद्धानि । यदा तु मात्रया सेतुभेदः कृतो भवति तदा समन्तात् प्रतिबद्धत्वाद् अवयविद्रवत्वस्य कार्यारम्भो नास्ति सेतुसमीपस्थस्यावयवद्रवत्वस्योत्तरोत्तरेषाम् अवयवद्रवत्वानाम् प्रतिबन्धकाभावाद् वृत्तिलाभः । ततः क्रमशः सम्युक्तानाम् एवाभिसर्पणम् ततः पूर्वद्रव्यविनाशे सति प्रबन्धेनावस्थितैर् अवयविर् दीर्घम् द्रव्यम् आरभ्यते तत्र च कारणगुणपूर्वक्रमेण द्रवत्वम् उत्पद्यते तत्र च कारणानाम् सम्युक्तानाम् प्रबन्धेन गमने यद् अवयविनि कर्मोत्पद्यते तत् स्यन्दनाख्यम् इति । ।


९.५.३.७.१.) संस्कारात् कर्म् ऐष्वादिषूक्तम् । तथा चक्रादिष्व् अवयवानाम् पार्श्वतः प्रतिनियतदिग्देशसम्योगविभागोत्पत्तौ यद् अवयविनः संस्काराद् अनियतदिग्देशसम्योगविभागनिमित्तम् कर्म तद् भ्रमणम् इति । एवम् आदयो गमनविशेषाः । ।


९.५.३.८.१. प्राणाख्ये तु वायौ कर्म आत्मवायुसम्योगादिच्छाद्वेषपूर्वकप्रयत्नापेक्षाज् जाग्रत इच्छानुविधानदर्शनात् सुप्तस्य तु जीवनपूर्वकप्रयत्नापेक्षात् । आकाशकालदिगात्मनाम् सत्य् अपि द्रव्यभावे निष्क्रियत्वम् सामान्यादिवद् अमूर्तत्वात् । मूर्तिर् असर्वगतद्रव्यपरिमाणम् तद् अनुविधायिनी च क्रिया सा चाकाशादिषु नास्ति तस्मान् न तेषाम् क्रियासम्बन्धो ऽस्तीति । ।


९.५.३.८.१.) सविग्रहे मनसीन्द्रियान्तरसम्बन्धार्थम् जाग्रतः कर्म आत्ममनह्सम्योगाद् इच्छाद्वेषपूर्वकप्रयत्नापेक्षात् अन्वभिप्रायम् इन्द्रियान्तरेण विषयान्तरोपलब्धिदर्शनात् । सुप्तस्य प्रबोधकाले जीवनपूर्वकप्रयत्नापेक्षात् । अपसर्पणकर्मोत्पसर्पणकर्म चात्ममनह्सम्योगाद् अदृष्टापेक्षात् । कथम् यदा जीवनसहकारिनोर् धर्माधर्मयोर् उपभोगात् प्रक्षयो ऽन्योन्याभिभवो वा तदा जीवनसहाययोर् वैकल्यात् तत्पूर्वकप्रयत्नवैकल्यात् प्राणनिरोधे सत्य् अन्याभ्याम् लब्धवृत्तिभ्याम् धर्माधर्माभ्याम् आत्ममनह्सम्योगसहायाभ्याम् मृतशरीराद् विभागकारणम् अपसर्पणकर्मोत्पद्यते ।

९.५.३.९.४. ततः शरीराद् वहिर् अपगतम् ताभ्याम् एव धर्माधर्माभ्याम् समुत्पनेनातिवाहिकशरीरेण सम्बन्ध्यते तत्सङ्क्रान्तम् च स्वर्गम् नरकम् वागत्वा आशयानुरूपेण शरीरेण सम्बध्यते तत्सम्योगार्थम् कर्मोपसर्पणम् इति । योगिनाम् च बहिर् उद्रेचितस्य मनसो ऽभिप्रेतदेशगमनम् प्रत्यागमनम् च । तथा सर्गकाले प्रत्यग्रेण शरीरेण सम्बन्धार्थम् कर्मादृष्टकारितम् । एवम् अन्यद् अपि महाभूतेषु यत् प्रत्यक्षानुमानाभ्याम् अनुपलभ्यमानकारणम् उपकारापकारसमर्थम् च भवति तद् अप्य् अदृष्टकारितम् । यथा सर्गादाव् अणुकर्म अग्निवाय्वोर् ऊर्ध्वतिर्यग् गमने महाभूतानाम् प्रक्षेभणम् । अभिषिक्तानाम् मणीनाम् तस्करम् प्रति गमनम् । अयसो ऽयस्कान्ताभिसर्पणम् चेति । ।

९.०.३.९. इति प्रशस्तपादभाष्ये कर्मपदार्थः समाप्तः । ।

सामान्यपदार्थनिरूपणम्

[सम्पाद्यताम्]

१. ०.३.१.१.) अथ सामान्यपदार्थनिरूपणम् ।

१.(३.१.१.) सामान्यम् द्विविधम् परम् अपरम् च । स्वविषयसर्वगतम् अभिन्नात्मकम् अनेकवृत्ति एकद्विबहुष्व् आत्मस्वरूपानुगमप्रत्ययकारि स्वरूपाभेदेनाधारेषु प्रबन्धेन वर्तमानम् अनुवृत्तिप्रत्ययकारणम् । कथम् प्रतिपिण्डम् सामान्यापेक्षम् प्रबन्धेन ज्ञानोत्पत्ताव् अभ्यासप्रत्ययजनिताच् च संस्काराद् अतीतज्ञानप्रबन्धप्रत्यवेक्षणाद् यद् अनुगतम् अस्ति तत् सामान्यम् इति । तत्र सत्तासा{म् मा}न्यम् परम् अनुवृत्तिप्रत्ययकारणम् एव । यथा परस्परविशिष्टेषु चर्मवस्त्रकम्बलादिष्व् एकस्मानिलद्रव्याभिसम्बन्धात् नीलम् निलम् इति प्रत्ययानुवृत्तिः तथा परस्परविशिष्टेषु द्रव्यगुणकर्मस्व् अविशिष्टा सत् सद् इति प्रत्ययानुवृत्तिः सा चार्थान्तराद् भवितुम् अर्हतीति यत् तद् अर्थानतर्म् सा सत्तेति सिद्धा ।

१.(३.२.३. सत्तानुसम्बन्धात् सत् सद् इति प्रत्ययानुवृत्तिः तस्मात् सा सामान्यम् एव । अपरम् द्रव्यत्वगुणत्वकर्मत्वादि अनुवृत्तिव्यावृत्तिहेतुत्वात् सामान्यम् विशेषश् च भवति । तत्र द्रव्यत्वम् परस्परविशिष्टेषु पृथिव्यादिष्व् अनुवृत्तिहेतुत्वात् सामान्यम् गुणकर्मभ्यो व्यावृत्तिहेतुत्वात् विशेषः । तथा गुणत्वम् परस्परविशिष्टेषु रूपादिष्व् अनुवृत्तिहेतुत्वात् सामान्यम् द्रव्यकर्मभ्यो व्यावृत्तिहेतुत्वात् विशेषः । तथा कर्मत्वम् परस्परविशिष्तेषूत्क्षेपणादिष्व् अनुवृत्तिप्रत्ययहेतुत्वात् सामान्यम् द्रव्यगुणेभ्यो व्यावृत्तिहेतुत्वाद् विशेषः एवम् पृथिवीत्वरूपत्वोत्क्षेपणत्वगोत्वघटत्वपटत्वादीनाम् अपि प्राण्यप्राणिगतानाम् अनुवृत्तिव्यावृत्तिहेतुत्वात् सामान्यविशेषभावः सिद्धः । एतानि तु द्रव्यत्वादीनि प्रभूतविषयत्वात् प्राधान्येन सामान्यानि स्वाश्रयविशेषकत्वाद् भक्त्या विशेषाख्यानीति । ।


१.(३.४.१.) लक्षणभेदाद् एषाम् द्रव्यगुणकर्मभ्यः पदार्थान्तरत्वम् सिद्धम् । अत एव च नित्यत्वम् । द्रव्यादिषु वृत्तिनियमात् प्रत्ययभेदाच् च परस्परतश् चान्यत्वम् । प्रत्येकम् स्वाश्रयेषु लक्षणाविशेषाद् विशेषलक्षणाभावाच् चैकत्वम् । यद्य् अप्य् अपरिच्छिन्नदेशानि सामान्यानि भवन्ति तथाप्य् उपलक्षणनियमात् कारणसामग्रीनियमाच् च स्वविषयसर्वगतानि । अन्तराले च सम्योगसमवायवृत्त्यभावाद् अव्यपदेश्यानीति । ।

१. ०.३.४.२.) इति प्रशस्तपादभाष्ये सामान्यपदार्थः समाप्तः । ।

विशेषपदार्थनिरूपणम्

[सम्पाद्यताम्]

१. ०.३.१.१.) अथ विशेषपदार्थनिरूपणम् ।

१.(३.१.१.) अन्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वाद् विशेषाः । विनाशारम्भरहितेषु नित्यद्रव्येष्व् अण्वाकाशकालदिगात्ममनस्सु प्रतिद्रव्यम् एकैकशो वर्तमानाः अत्यन्तव्यावृत्तिबुद्धिहेतवः । यथास्मदीनाम् गवादिष्व् अश्वादिभ्यस् तुल्याकृतिगुणक्रियावयवसम्योगनिमित्ता प्रत्ययव्यावृत्तिर् दृष्टा गौः शुक्लः शीघ्रगतिः पीनककुद्मान् महाघण्ट इति । तथास्मद्विशिष्टानाम् योगिनाम् नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्सु च अन्यनिमित्तासम्भवाद् येभ्यो निमित्तेभ्यः प्रत्याधारम् विलक्षणो ऽयम् विलक्षणो ऽयम् इति प्रत्ययव्यावृत्तिः देशकालविप्रकर्षे च परमाणौ स एवायम् इति प्रत्यभिज्ञानम् च भवति ते ऽन्त्या विशेषाः ।

१.(३.२.२. यदि पुनर् अन्त्यविशेषम् अन्तरेण योगिनाम् योगजाद् धर्मात् प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानम् च स्यात् ततः किम् स्यान् नैवम् भवति । यथा न योगजाद् धर्माद् अशुक्ले शुक्लप्रत्ययः संजायते अत्यन्तादृष्टे च प्रत्यभिज्ञानम् । यदि स्यान् मिथ्या भवेत् तथेहाप्य् अन्त्यविशेषम् अन्तरेण योगिनाम् न योगजाद् धर्मात् प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानम् वा भवितुम् अर्हति । अथान्त्यविशेषेष्व् इव परमाणुषु कस्मान् न स्वतः प्रत्ययव्यावृत्तिः कल्प्यते इति चेन् न तादात्म्यात् । इहातदात्मकेष्व् अन्यनिमित्तः प्रत्ययो भवति यथा घटादिषु प्रदीपात् न तु प्रदीपे प्रदीपान्तरात् । यथा गवाश्वमांसादीनाम् स्वत एवाशुचित्वम् तद्योगाद् अन्येषाम् तथेहापि तादात्म्याद् अन्त्यविशेषेषु स्वत एव प्रत्ययव्यावृत्तिः तद्योगात् परमाण्वादिष्व् इति । ।

१. ०.३.२.१.) इति प्रशस्तपादभाष्ये विशेषपदार्थः समाप्तः । ।

समवायपदार्थनिरूपणम्

[सम्पाद्यताम्]

१. ०.३.४.१.) अथ समवायपदार्थनिरूपणम् ।

१.(३.४.१.) अयुतसिद्धानाम् आधार्याधारभूतानाम् यः सम्बन्ध इहप्रत्ययहेतुः स समवायः । द्रव्यगुणकर्मसामान्यविशेषाणाम् कार्यकारणभूतानाम् अकार्यकारणभूतानाम् वायुतसिद्धानाम् आधार्याधारभावेनावस्थितानाम् इहेदम् इतिबुद्धिर् यतो भवति यतश् चासर्वगतानाम् अधिगतान्यत्वानाम् अविष्वग्भावः स समवायाख्यः सम्बन्धः । कथम् यथेह कुण्डे दधीतिप्रत्ययः सम्बन्धे सति दृष्टस् तथेह तन्तुषु पटः इह वीरणेषु कटः इह द्रव्ये गुणकंरणी इह द्रव्यगुणकर्मसु सत्ता इह द्रव्ये द्रव्यत्वम् इह गुणे गुणत्वम् इह कर्मणि कर्मत्वम् इह नित्यद्रव्ये ऽन्त्या विशेषा इतिप्रत्ययदर्शनाद् अस्त्य् एषाम् सम्बन्ध इति ज्ञायते । ।


१.(३.६.१. न चासौ सम्योगः सम् बन्धिनाम् अयुतसिद्धत्वात् अन्यतरकर्मादिनिमित्तासम्भवात् विभागान्तत्वादर्शनाद् अधिकरणाधिकर्तव्ययोर् एव भावाद् इति । ।

१.(३.६.१.) स च द्रव्यादिभ्यः पदार्थान्तरम् भाववल् लक्षणभेदात् । यथा भावस्य द्रव्यत्वादीनाम् स्वाधारेषु आत्मानुरूपप्रत्ययकर्तृत्वात् स्वाश्रयादिभ्यः परस्परतश् चार्थान्तरभावः तथा समवायस्यापि पञ्चसु पदार्थेष्व् इहेतिप्रत्ययदर्शनात् तेभ्यः पदार्थान्तरत्वम् इति । न च सम्योगवन् नानात्वम् भाववल् लिङ्गाविशेषात् विशेषलिङ्गाभावाच् च तस्माद् भाववत् सर्वत्रैकः समवाय इति । ।


१.(३.७.९. ननु यद्य् एकः समवायो द्रव्यगुणकर्मणाम् द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सह सम्बन्धैकत्वात् पदार्थसङ्करप्रसङ्ग इति न आधाराधेयनियमात् । यद्य् अप्य् एकः समवायः सर्वत्र स्वतन्त्रः तथाप्य् आधाराधेयनियमो ऽस्ति । कथम् द्रव्येष्व् एव द्रव्यत्वम् गुणेष्व् एव गुणत्वम् कर्मस्व् एव कर्मत्वम् इति । एवम् आदि कस्माद् अन्वयव्यतिरेकदर्शनात् । इहेतिसमवायनिमित्तस्य ज्ञानस्यान्वयदर्शनात् सर्वत्रैकः समवाय इति गम्यते । द्रव्यत्वादिनिमित्तानाम् व्यतिरेकदर्शनात् प्रतिनियमो ज्ञायते । यथा कुण्डदध्नोः सम्योगैकत्वे भवत्य् आश्रयाश्रयिभावनियमः । तथा द्रव्यत्वादीनाम् अपि समवायैकत्वे ऽपि व्यङ्ग्यव्यंजकशक्तिभेदाद् आधाराधेयनियम इति । ।

१.(३.८.१.) सम्बन्धनित्यत्वे ऽपि न सम्योगवद् अनित्यत्वम् भाववद् अकारणत्वात् । यथा प्रमाणतः कारणानुपलब्धेर् नित्यो भाव इत्य् उक्तम् तथा समवायो ऽपीति । न ह्य् अस्य किञ्चित् कारणम् प्रमाणत उपलभ्यते इति । कया पुनर् वृत्त्या द्रव्यादिषु समवायो वर्तते । न सम्योगः सम्भवति तस्य गुणत्वेन द्रव्याश्रितत्वात् । नापि समवायस् तस्यैकत्वात् न चान्या वृत्तिर् अस्तीति ।

न । तादात्म्यात् ।

यथा द्रव्यगुणकर्मणाम् सदात्मकस्य भावस्य नान्यः सत्तायोगो ऽस्ति । एवम् अविभागिनो वृत्त्यात्मकस्य समवायस्य नान्या वृत्तिर् अस्ति तस्मात् स्वात्मवृत्तिः ।

१.(३.६.२. अत एवातीन्द्रियः सत्तादीनाम् इव प्रत्यक्षेषु वृत्त्यभावात् स्वात्मगतसंवेदनाभावाच् च । तस्माद् इहबुद्ध्यनुमेयः समवाय इति । ।

१. ०.३.६.५. इति प्रशस्तपादभाष्ये समवायपदार्थः समाप्तः । ।

०.०.३.६.७. योगाचारविभूत्या यस् तोषयित्वा महेश्वरम् । चक्रे वैशेषिकम् शास्त्रम् तस्मै कणभुजे नमः । ।

०.०.३.६.९. इति प्रशस्तपादविरचितम् द्रव्यादिषट्पदार्थभाष्यम् समाप्तम् । ।

वाह्यसूत्राणि

[सम्पाद्यताम्]
"https://sa.wikibooks.org/w/index.php?title=पदार्थधर्मसंग्रहः&oldid=4768" इत्यस्माद् प्रतिप्राप्तम्