पदार्थ:
लक्षणम्-
[सम्पाद्यताम्]पदार्थः नाम पदस्य पदयोः पदानां वा अर्थः ।तत्र द्रव्यम् इति पदेन खादयश्चेतनाषष्ठा उच्यन्ते।पदयो: अर्थो नाम यथा आयुषो वेदः इति पदयोः आयुर्बोधकं तन्त्रम् इत्यर्थः।एवं पदानामपि अर्थः उदाहार्यः। - च.सं सिद्धिस्थाने १२.४१ चक्रपाणिः।
उदाहरणम्-
[सम्पाद्यताम्]अस्य एतद् उदाहरणम् –
अर्धशक्त्या निषेव्यस्तु बलिभि: स्निग्धभोजिभि:।अ.ह्र.सू २-११,१२
‘अर्धशक्त्या व्यायाम:’ इत्युक्ते कियान् व्यायामः अर्धशक्ति: इत्येतस्य पदस्य तथा अर्थ: अस्मिन् तन्त्रे क्रियते- यदा श्रमश्वास: आरभ्यते तद् अर्धशक्ते: लक्षणम् इति। अत: श्रमात् पूर्वं व्यायाम: विरन्तव्य:। अर्धशक्त्या इत्येतस्य पदस्य एष: अर्थ:।
सन्देहः तथा समाधानम्-
[सम्पाद्यताम्]अनया तन्त्रयुक्त्या सूत्रस्थपदानां आयुर्वेदतन्त्राभिमतः अर्थ गृह्यते इति मन्तव्यं वा ?
न । सान्दर्भिकः अर्थः गृह्यते इति मन्तव्यम् । यतो हि क्वचित् सूत्रस्थपदानाम् आयुर्वेदप्रसिध्दाः अर्थाः त्यज्यन्ते ;सामान्याः अर्थाः गृह्यते । अत्र इदम् उदाहरणम् –
क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः ।अ. हृ. सू. ८
दोषशब्दस्य आयुर्वेदप्रसिध्दः अर्थः वातपित्तकफाः । सः अर्थः अत्र न ग्राह्यः ।’ अपथ्यसेवनजन्या हानिः’ इति अर्थः अत्र ग्राह्यः ।
गुणशब्दस्य आयुर्वेदप्रसिध्दः अर्थः गुर्वादयः । सः अर्थः अत्र न ग्राह्यः । ’ पथ्यसेवनजन्यः लाभः ’ इति अर्थः अत्र ग्राह्यः ।
अतः पदार्थतन्त्रयुक्त्या सदैव आयुर्वेदप्रसिध्दाः अर्थाः प्रतिपाद्यन्ते इति न । क्वचित् तान् त्यक्त्वा सामान्याः अर्थाः अपि प्रतिपाद्यन्ते ।