पन्चरात्रम् -तृतीयोऽङ्कः

विकिपुस्तकानि तः
Jump to navigation Jump to search

तृतीयोऽङ्कः

(ततः प्रविशति सूतः)

सूतः- भो भो निवेद्यताम् निवेद्यताम् सर्वक्षत्राचार्यपुरोगाणाम् क्षत्रियाणाम् एष हि,।
अपास्य नारायणचक्रजम् भयम् चिरप्रनष्टान् परिभूय पाण्डवान् ।धनुस्सहायै कुरुभिर्न रक्षितो हृतोऽभिमन्युः क्रियताम् व्यपत्रपा॥
अन्वयः- नारायणचक्रजम् भयम् अपास्य, चिरप्रनष्टान् पाण्डवान् परिभूय धनुस्सहायै कुरुभिः न रक्षितः अभिमन्युः हृतः(अस्ति)। व्यपत्रपा क्रियताम्॥ इति

(ततः प्रविशतौ भीष्मद्रोणौ)

द्रोणः- सूत ! कथय कथय।
रणपटुरपनीतः केनमे शिष्यपुत्रः कः इह मम शरैस्तैर्देवतैर्योद्धुकामः। कथय पुरुषसारम् यावदस्त्रम् बलम् वा बलवत इषुदूताम्स्तत्र सम्प्रेषयामि॥
अन्वयः- मे रणपटुः शिष्यपुत्रः केन अपनीतः(अस्ति)। कः इह मम तैः दैवतै शरैः योद्धुकामः(अस्ति)। यावत् पुरुषसारम् अस्त्रम् बलम् वा कथय। (अहम्) बलवत इषुदूतान् तत्र सम्प्रेषयामि॥

भीष्मः- सूत! कथय कथय।
भग्नापयानेष्वनभिज्ञदोषस्तारुन्यभावेन विलम्बमानः।केनैष् हस्तिग्रहणोद्यतेन यूथेपयाते कलभो गृहीतः॥
अन्वयः-हस्तिग्रहणोद्यतेन केन भग्नापयानेषु अनभिज्ञदोषः तारुन्यभावेन विलम्बमानः एष कलभः यूथेपयाते गृहीतः॥

(ततः प्रविशति दुर्योधनःकर्णः शकुनिश्च)

दुर्योधनः- सूत! कथय कथय।केनापनीतोऽभिमन्युः ।अहमेवैनम् मोक्षयामि। कुतः,
ममहि पितृभिरस्य प्रस्तुतो ज्ञातिभेदस्तदिह मयितु दोषो वक्तृभिःपातनीयः। अथ च मम स पुत्रः पाण्डवानाम् तु पश्चात् सति च कुलविरोधे नापराध्यन्ति बालाः॥
अन्वयः-मम हि अस्य पितृभिः ज्ञातिभेदः प्रस्तुतः। तद इह मयि तु वक्तृभिः दोषो पातनीयः। अथ स च मम पुत्रः। पाण्डवानाम् तु पश्चात्। कुलविरोधे सति बालाः नापराध्यन्ति च॥

कर्णः- अतिस्निग्धमनुरूपम् चाभिहितम् भवता। गान्धारीमात!
मा तावत् स्वजनभयात् तु बालभावात् व्यापन्नः समरमुखे तव प्रियार्थम्। अस्माभिर्न च परिरक्षितोऽभिमन्युः गृह्यन्ताम् धनुरपनीय वत्कलानि॥
अन्वयः-मा तावत् स्वजनभयात् तु बालभावात्। समरमुखे तव प्रियार्थम् व्यापन्नः।अस्माभिः अभिमन्युः न परिरक्षितः च। धनुरपनीय वत्कलानि गृह्यन्ताम्॥

शकुनिः बहुनाथः खलु सौभद्रः।मुक्त एवेति सम्प्रधार्यतम्। कुतः,
मुञ्चेदर्जुनपुत्र इत्यवगतो राजा विराटः स्वयम् स्मृत्वा चाद्य रणाजिरादवजितम् मुञ्चेत् स दामोदरम् ।
क्रोधोद्धूतहलात् प्रलम्बमधनात् भीतेन मुञ्चेत वा भीमस्त्वेनमिहानयेत् बलमहान् हत्बा बलानूर्जितान्॥
अन्वयः- अर्जुनपुत्र इति अवगतः राजा विराटः स्वयम् मुञ्चेत्। दामोदरम् स्मृत्वा च अद्य रणाजिरादवजितम् स मुञ्चेत्। क्रोधोद्धूतहलात् प्रलम्बमधनात् भीतेन मुञ्चेत्। वा बलमहान् भीमः ऊर्जितान् बलान् हत्वा तु एनम् इह आनयेत्॥

द्रोणः- सूत ! कथय कथय। कथमिदानीम् गृहीतः

पर्यस्तोऽस्य रथो हया नु चपलाञ्चक्राक्षमा मेदिनी तूणीक्षीणशरे त्वमस्य विगुणो ज्याच्छेदवध्यम् धनुः।
एता दैवकृता भवन्ति रथिनो युद्धाश्रया व्यापदो बाणैरप्यवकृष्यते खलु परैः स्वाधीनशिक्षस्तु सः॥
अन्वयः-अस्य रथो पर्यस्तः। हया नु चपलाः? चक्राक्षमा मेदिनी? तूणी क्षीणशरा? त्वमस्य विगुणः? ज्याच्छेदवध्यम् धनुः? एता रथिनः दैवकृता युद्धाश्रया व्यापदः भवन्ति? परैः बाणैः अपि अवकृष्यते खलु?सः तु स्वाधीनशिक्षः ॥

सूतः- आयुष्मन्! पुरुषमयो धनुर्वेदः ।किमायुष्मता न ज्ञायते।
न् चापि दोषा भवताभिभाषिता स चापि बाणौघमयो महारथः। अलातचक्रप्रतिमस्तु मे रथो गृहीत एवापतता पदातिना॥
अन्वयः-भवता च अभिभाषिता दोषाः अपि न । स चापि बाणौघमयो महारथः। मे रथः तु अलातचक्रप्रतिमः। आपतता पदातिना एव गृहीतः॥

सर्वे -कथम् पदातिनेति

द्रोणः- कीदृशः पदातिः

सूतः- किमभिधास्यामि रूप वा पराक्रम वा।

भीष्मः- रूपेण स्त्रियः कथ्यन्ते। पराक्रमेण पुरुषः। तत् पराक्रमोऽस्याभीधीयताम् ।

सूतः- आयुष्मन्,

दुर्योधनः- किमर्थम् स्तूयते कोऽपि भवता गर्विताक्षरैः ।कथ्यताम् यदि एष जवे पवनो, मे त्रासो नास्ति॥

सूतः- स्तोतुमर्हति महाराजः । तेन खलु,
लङ्घयित्वा जवेनाश्वान् न्यस्तश्चापकरे करः। प्रसारित हयग्रीवो निष्कम्पश्च रथस्थितः।
अन्वयः-जवेन अश्वान् लङ्घयित्वा अपकरे करः न्यस्तः च प्रसारितहयग्रीवः रथः निष्कम्पः स्थितः च।

भीष्मः- तेनहि न्यस्यन्तामायुधानि।

सर्वे-किमर्थम्।
भीष्मः- हतप्रवेगो यदि बाहुना रथो वृकोदरस्यङ्गगतः स चिन्त्यताम्। पुरा हि तेन द्रुपदात्मजाम् हरन् पदातिनेवोपजितो जयद्रथः॥
अन्वयः-यदि बाहुना रथः हतप्रवेगः स वृकोदरस्यङ्गगतः (इति) चिन्त्यताम्। द्रुपदात्मजाम् हरन् पुरा हि तेन पदातिना एव जयद्रथः उपजितः॥

द्र्णः- सम्यगाह गाङ्गेय! बाल्योपदेशात् प्रभृत्यहम् तस्य जवमवगच्छामि। इष्वस्त्रशालायाम् हि,
कर्णायते तेन शरे विमुक्ते विकम्पितम् तस्य शिरो मयोक्तम् ।गत्वा तदा तेन च बाणतुल्यमप्राप्तलक्षः स शरो गृहीतः॥
अन्वयः-तेन कर्णायते शरे विमुक्ते मयोक्तम् तस्य शिरः विकम्पितम्, तदा तेन च बाणतुल्यम् गत्वा स शरः अप्राप्तलक्षः गृहीतः॥

शकुनिः- अहो! हास्यमभिधानम् । भो! पृच्छामि तावत् भवन्तम्।
नास्त्यन्यो बलवान् लोके सर्वमिष्टेषु कथ्यते। जहद्व्याप्तान् भवन्तः किम् सर्वे पश्यन्ति पाण्डवान्॥
अन्वयः- लोके अन्यः बलवान् नास्ति? इष्टेषु सर्वम् कथ्यते। भवन्तः सर्वे किम् पाण्डवान् जहद्व्याप्तान् पश्यन्ति॥

भीष्मः-जान्धारराज! सर्वमनुमानात् कथ्यते।

वयम् व्यपाश्रित्य रणम् प्रयामः शस्त्राणि चापानि रथाथिरूढाः। द्वावेव दोर्भ्यौ समरे प्रयातौ हलायुधश्चैव वृकोदरश्च॥
अन्वयः-वयम् शस्त्राणि चापानिव्यपाश्रित्य रथाथिरूढाः रणम् प्रयामः। हलायुधश्च वृकोदरश्च एव द्वावेव दोर्भ्यौ समरे प्रयातौ॥

शकुनिः- एकेनैव वयम् भग्नाः सहसा साहसप्रियाः ।उत्तरम् च तमप्येके कथयिष्यन्ति फ़ल्गुनम् ॥
अन्वयः-साहसप्रियाः वयम् एकेनैव सहसा भग्नाः, च तम् उत्तरम् अपि एके फ़ल्गुनम् कथयिष्यन्ति ॥

द्रोणः-भो! गान्धारराज! अत्रापि तावत् भवतः सन्देहः।

किमुत्तरेणापि रणे विकृष्यते निसृष्टशुष्काशनिगर्जितम् धनुः। किमुत्तरस्यापि शरैर्हृतातपः कृतो मुहूर्तास्तमितो दिवाकरः॥
अन्वयः-किमुत्तरेणापि रणे निसृष्टशुष्काशनिगर्जितम् धनुः विकृष्यते। किमुत्तरस्यापि शरैः र्हृतातपः दिवाकरः मुहूर्तास्तमितः कृतः॥

भीष्मः- गान्धारीमात!विस्पष्टम् खलु कथ्यते । ननु जानीते भवान्।

बाणपुङ्खाक्षरैवाक्यै ज्याजिह्वा परिवर्तिभिः। विकृष्टम् खलु पार्थेन न च श्रोत्रम् प्रयच्छति।
अन्वयः-बाणपुङ्खाक्षरैवाक्यै ज्याजिह्वा परिवर्तिभिः। विकृष्टम् खलु पार्थेन न च श्रोत्रम् प्रयच्छति।

सूतः-(प्रविश्य)जयत्वायुष्मान्। शान्तिकर्मानुष्ठीययाम्।

भीष्मः-किमर्थम्।
सूतः- उचितम् ते पुरा कर्तुम् ध्वजे बाणप्रधर्षिते।अयम् हि बाण कस्यापि पुङ्खे नामाभिधेएयते।
भीष्मः- आनय।
(सूत उपनयति)
भीष्मः -(गृहीत्वा निरीक्ष्य) वत्स! गाव्धारराज! जरा शिथिलम् मे चक्षुः । वाच्यतामयम् शरः।
शकुनिः (गृहीत्वा अनुवाच्य च)अर्जुनस्य (इति क्षिपति। द्रोणस्य पादयोः पतति)

द्रोणः- (शरः गृहीत्वा) एह्येहि वत्स!
एष शिष्येण मे क्षिप्त गाङ्गेयम् वन्दितुम् शरःपादयोः पतितौ भूमौ माम् क्रमेणाभिवन्दितुम्॥
अन्वयः-एष शिष्येण मे क्षिप्त गाङ्गेयम् वन्दितुम् शरःपादयोः पतितौ भूमौ माम् क्रमेणाभिवन्दितुम्॥

शकुनिः- मा तावत् भो! शरप्रत्ययः इदानीम् श्रद्धातव्यम्।
यौधस्यादर्जुनो नाम तेनायम् चोज्झितः शरः। लिखितम् चोत्तरेणापि प्रकाशमुपनीयताम्॥
अन्वयः-यौधस्यादर्जुनो नाम तेनायम् चोज्झितः शरः। लिखितम् चोत्तरेणापि प्रकाशमुपनीयताम्॥
दुर्योधनः- तेषाम् राज्यप्रदानार्थमनृतम् कथ्यते यदि। राज्यस्यार्धम् प्रदास्यामि यावद् दृष्टे युधिष्ठिरे॥
अन्वयः-तेषाम् राज्यप्रदानार्थमनृतम् कथ्यते यदि। राज्यस्यार्धम् प्रदास्यामि यावद् दृष्टे युधिष्ठिरे॥
भटः- (प्रविश्य)जयतु महाराज! विराटनगराद् दूत प्राप्तः।
दुर्योधनः-प्रवेश्यताम्।
भटः- यदाज्ञापयति महाराज! (निष्क्रान्तः)
(ततः प्रविशत्युत्तरः)
उत्तरः-अद्ध्वानमल्पमतिमुक्तजवैस्तरङ्गैरागच्छता पथि रथेन विलम्बितम् मे। कौन्तेयबाणनिहतैर्द्विरदैः समन्तात् दुखेन यान्ति द्विरदा विषमा हि भूमिः
अन्वयः-अद्ध्वानमल्पमतिमुक्तजवैस्तरङ्गैरागच्छता पथि रथेन विलम्बितम् मे। कौन्तेयबाणनिहतैर्द्विरदैः समन्तात् दुखेन यान्ति द्विरदा विषमा हि भूमिः

(प्रविश्य कृताञ्जलिः) भो! भो! आचार्यपितामह पुरोगम् सर्वराजम् अभिवादये।
सर्वे -आयुष्मान् भव।
द्रोणः- किमाह तत्रभवान् विराटेश्वरः।
उत्तरः- नाहम् तत्रभवता प्रेषितः।
द्रोणः-अथ केन त्वम् प्रेषितः।
उत्तरः- तत्रभवता युधिष्ठिरेण।
द्रोणः-किमाह धर्मराजः।
उत्तरः- श्रूयताम्,
उत्तरा मे स्नुषा लब्धा प्रतीक्षे राजमण्डलम् । तत्रैव किमिहैवास्तु विवाहः क्क प्रवर्तताम्॥
अन्वयः-उत्तरा मे स्नुषा लब्धा प्रतीक्षे राजमण्डलम् । तत्रैव किमिहैवास्तु विवाहः क्क प्रवर्तताम्॥

शकुनिः - तत्रैव तत्रैव।
द्रोणः-इत्यर्थम् वयमानीताः पञ्चरात्रोऽपि वर्तते। धर्मेणावर्जिता भिक्षा धर्मेणैव प्रदीयताम्॥
अन्वयः-इत्यर्थम् वयमानीताः पञ्चरात्रोऽपि वर्तते। धर्मेणावर्जिता भिक्षा धर्मेणैव प्रदीयताम्॥

दुर्योधनः- बाढम् दत्तम् मया राज्यम् पाण्डवेभ्यो यथापुरम् ।मृतेऽपि हि नराः सर्वे सत्ये तिष्ठन्ति तिष्ठति॥
अन्वयः-बाढम् दत्तम् मया राज्यम् पाण्डवेभ्यो यथापुरम् ।मृतेऽपि हि नराः सर्वे सत्ये तिष्ठन्ति तिष्ठति॥

द्रोणः-हन्त सर्वे प्रसन्नाः स्म प्रवृद्धकुलसम्ग्रहाः । इमामपि महीम् कृत्स्नाम् राजसिम्हः प्रशास्तु नः॥
अन्वयः-हन्त सर्वे प्रसन्नाः स्म प्रवृद्धकुलसम्ग्रहाः । इमामपि महीम् कृत्स्नाम् राजसिम्हः प्रशास्तु नः॥

(निष्क्रान्ताः सर्वे)

इति तृतीयोऽङ्कः