पन्चरात्रम् -द्वितीयोऽङ्कः

विकिपुस्तकानि तः
Jump to navigation Jump to search

द्वितीयोऽङ्कः[सम्पाद्यताम्]

वृद्धगोपालकः गावो मेऽहीनवत्साः भवन्तु।अविधवाश्च गोपयुवतयो भवन्तु। अस्माकम् राजा विराटः एकछत्रपृथिवीपतिः भवतु।महाराजस्य विराटस्य वर्षवर्द्धनगोप्रदाननिमित्तम् अस्याम् नगरोपवनवीथ्यामागन्तुम् गोधनम् सर्वे चकृतमङ्गलामोदा गोपदारका दारिकाश्च तावत्। एषु जैष्ठ्यम् गत्वा अनुभविष्यामि। किन्नुखल्वेष वायसः शुष्कवृक्षमारुह्य शुष्कशाखानिघट्टिततुण्डम् आदित्याभिमुखम् विस्वरम् विलपति। शान्तिर्भवतु, शान्तिर्भवतु अस्माकम् गोधनस्य च। यावदेषु जैष्ठ्यम् गत्वा गोपदारकाणाम् दारिकाणाम् व्याहरामि। अरे गोमित्रक! गोमित्रक!।

(ततः प्रविशति सर्वे) गोमित्रकः -मातुल वन्दे

वृद्धगोपालकः-शान्तिर्भवतु, शान्तिर्भवतु अस्माकम् गोधनस्य च। अरे गोमित्रक! महाराजस्य् विराटस्य वर्षवर्धनगोप्रदाननिमित्तमस्य नगरोपवनवीथ्यामागन्तुम् गोधनम् सर्वे च कृतमङ्गलामोदा गोपदारका दारिकाश्च। अरे गोमित्रक! गोपदारकाणाम् दारिकाणाम् व्याहर।

गोमित्रकः -यन्मातुल आज्ञापयति। गोरक्षिणिके! घृतपिण्ड! स्वामिनि! वृषभदत्त! कुम्भदत्त! महिषदत्त! आगच्छत आगच्छत शीघ्रम्।

सर्वे-मातुल! वन्दामहे।

वृद्धगोपालकः-शान्तिर्भवतु, शान्तिर्भवतु अस्माकम् गोधनस्य गोपदारकाणाम् दारिकाणाम् च । महाराजस्य् विराटस्य वर्षवर्धनगोप्रदाननिमित्तमस्य नगरोपवनवीथ्यामागन्तुम् गोधनम्।तावतिम् वेलाम् नृत्यन्ति गायन्ति भवामः।

सर्वे -यन्मातुल आज्ञापयति।

वृद्धगोपालकः-हीहि सुष्टु नर्तितम्, सुष्टु गीतम् । यावत् अहमपि नृत्यामि।

सर्वे-हा हा मातुल! अतिमहान् रेणुरुत्पतितः

वृद्धगोपालकः-न खलु रेणुरेव।शङ्घदुन्दुभिघोष उत्पतित।

सर्वे-हा हा मातुल। दिवाचन्द्रप्रभापाण्डुरजोवगुष्ठितमण्डलः सूर्योस्ति न चास्ति च।

गोमित्रकः-हा हा मातुल!एते केऽपि मनुष्याः दधिपिण्ड पाण्डरैः छत्रैः धोटकशाकटिकाम् आरुह्य सर्वे धोषम् विद्रवन्ति चोराः ।

वृद्धगोपालकः -ही ही शरसम्पाताः उत्थिताः। दारकाः! दारिकाः!शीघ्रम् पत्तणम् प्रविशत।

सर्वे -यन्मातुल आज्ञापयति।

वृद्धगोपालकः -हा हा तिष्ठत। तिष्ठत। प्रहरत प्रहरत। गृह्णीत गृह्णीत।इमम् वृत्तान्तम् महाराजस्य विराटस्य निवेदयिष्यामः।

(निष्क्रान्ताः)

प्रवेशकः

(ततः प्रविशति भटः)

भटः-भोः भोः निवेद्यताम् निवेद्यताम् महाराजाय विराटेश्वराय। एताः हि दस्युकर्मप्रच्छन्नविक्रमैः धार्तराष्ट्रैः हर्यन्ते गावः इति। तत्र हि।
द्रुतैः च वत्सैः व्यथितैः च गोगणैः निरीक्षणत्रस्तमुखैः च गोवृषैः।
कृतार्तनादाकुलितम् समन्ततो गवाम् कुलम् शोच्यमिहाकुलाकुलम्॥ इति।

(नेपथ्ये )

किम् धार्तराष्ट्रैः इति

भटः- आर्य! अथ किम्

प्रविश्य

काञ्चुकीयः - सदृशमेतत् भ्रातृजनेष्वपि द्रोहिणाम्। एते हि
सज्जैः चापैः बद्धगोधाङ्गुलित्रा वर्मच्छन्नाः कल्पितस्यन्दनस्थाः ।
वीर्योत्सिक्ताः युद्धसज्जाः कृतास्त्राः राज्ञः वैरम् गोषु निर्यातयन्ति॥
जयसेन! जन्मनक्षत्रक्रियाव्यापृतस्य महाराजस्य तावत् अकालनिवेदनम् मन्युमुत्पादयति।तस्मात् पुन्याहावसाने निवेययिष्ये।

भटः- अतिपाति कार्यमिदम्। शीघ्रम् निवेद्यताम्।

काञ्चुकीयः - इदम् निवेद्यते

(ततः प्रविशति राजा)

राजा- मा तावत् व्यथितविकीर्ण बालवत्सा गावो मे रथरवशङ्कया ह्रीयन्ते।
पीनाम्सः चलवलयः स चन्दनार्द्रो निर्लज्जो मम च करः कराणि भुङ्ते॥
जयसेन! जयसेन!

अव्वयम्- मा तावत् व्यथितविकीर्ण बालवत्सा गावो मे रथरवशङ्कया ह्रीयन्ते।
पीनाम्सः चलवलयः स चन्दनार्द्रो निर्लज्जो मम च करः कराणि भुङ्ते॥

(प्रविश्य)

भटः-जयतु जयतु महारजः

राजा-अलम् महाराजशब्देन अवधूतम् मे क्षत्रियत्वम्। उच्यताम् रणायस्तरः ।

भटः-महाराज, न विस्तरार्हाणि विप्रियाणि। एष समासः
एकवर्णेषु गात्रेषु गवाम् स्यन्दनरेणुना। कशापातेषु दृश्यन्ते नाना वर्णविभक्तयः॥

राजा- तेन हि

धनुरुपनय शीघ्रम् कल्प्यताम् स्यन्दनो मे ममगतिमनुयातुः छ्न्दतो यस्य भक्तिः।
रणशिरसि गवार्थे नास्ति मोषः प्रयत्नो निधनमपि यशस्यात् मोक्षयित्वा तु धर्मः॥

अन्वयः- धनुः शीघ्रम् उपनय। मे स्यन्दनः कल्प्यताम्। ममगतिमनुयातुः छन्दतो यस्य भक्तिः।
रणशिरसि गवार्थे प्रयत्नः मोषः नास्ति। निधनमपि यशस्यात्। मोक्षयित्वा तु धर्मः॥

भटः यदाज्ञापयति महाराज। ( निष्क्रान्तः )

राजा- भोः! किन्नुखलु दुर्योधनस्य ममान्तरेण वैरम्। आ यज्ञमनुभवितुम् अनागत इति।कथमनुभवामि। कीचकानाम् विनाशेन वयम् उन्नीतसन्तापाः सम्वृत्ताः। अथवा परोक्षमपि पाण्डवानाम् स्निग्धः इति। सर्वधा योद्धव्यम्।हस्तिनपुरनिवासात् शीलज्ञः दुर्योधनस्य। अथवा

कामम् दुर्योधनस्यैष न दोषमभिधास्यति। अर्थित्वादपरिश्रान्तः पृच्छत्येव हि कार्यवान्॥
अन्वयम्:- दुर्योधनस्य एष दोषम् कामम् न अभिधास्यति। कार्यवान् अर्थित्वात् अपरिश्रान्तः पृच्छति एव हि॥

कोऽत्र।

(प्रविश्य)

भटः- जयतु महाराजः।

राजा-भगवान् तावदाहूयताम्।

भटः- यदाज्ञापयति महाराजः। (निष्क्रान्तः)

(ततः प्रविशति भगवान्)

भगवान्- (सर्वतो विलोक्य) । भोः किन्नुखलु इदम्।

गजेन्द्राः कल्प्यन्ते तुरगपतयो वर्मरचिता रथा सानूकर्षाः कृतपरिकरा घोषपुरुषाः ॥
समुद्योगम् दृष्ट्वा भयमननुपूर्वम् स्पृशति माम् न खल्वात्मन्यस्तम् कृतमतिरहम् ते तु चपलाः ॥

अन्वयम्:- गजेन्द्राः कल्प्यन्ते। तुरगपतयो वर्मरचिता। रथा सानूकर्षाः। कृतपरिकरा घोषपुरुषाः ॥
समुद्योगम् दृष्ट्वा अननुपूर्वम् भयम् माम् स्पृशति। न खल्वात्मन्यस्तम् कृतमतिरहम्। ते तु चपलाः॥

(उपगम्य) जयतु भवान् जयतु।

राजा-विराटो भगवन्। अभिवादये।

भगवन्- स्वस्ति।

राजा- अनुगृहीतोऽस्मि ।भगवन् एतदासनम् ।आस्यताम्।

भगवन्-बाढम् (उपविश्य) भो राजन्।

उद्योगः प्रस्तुतः कस्माच्छीर्न सन्तोषमिच्छति ।पीडयिष्यति सोत्सेकान् पीडितान् मोक्षयिष्यति।
अन्वयः -उद्योगः प्रस्तुतः कस्मात्। श्रीः न सन्तोषमिच्छति । सोत्सेकान् पीडयिष्यति। पीडितान् मोक्षयिष्यति।

राजा- भगवान्! गोग्रहणात् अवमानितोऽस्मि।

भगवान्- केन कारणेन।

राजा -धार्तराष्ट्रैः।

भगवान्-धार्तराष्ट्रैरिति। (आत्मगतम्) कष्टम्।

एकोदकत्त्वम् खलु नाम लोके मनस्विनाम् कम्पयते मनाम्सि। वैरप्रियैस्तैर्हि कृतेऽपरधे यत्सत्यमस्माभिरिवापराद्धम्॥
अन्वयः एकोदकत्त्वम् लोके मनस्विनाम् मनाम्सि कम्पयते खलु नाम। यत्त् वैरप्रियैः तैः अपरधे कृते अस्माभिः हि अपराद्धम् इव सत्यम्॥

राजा-भगवन्! किमिदानिम् विचार्यते।

भगवान्- न खलु किञ्चित्। तेषामुत्सुकः।

राजा- अद्यप्रभृति निभृता भविष्यन्ति। यदि शक्तोऽपि युधिष्ठिरो मर्षयति, अहम् न मर्षयामि।

भगवान्- एवमेतत् (आत्मगतम्) ।
अथेदानीम् पर्णशय्या च भूमौ, राज्यभ्रम्शो द्रौपदीधर्षणम् च । वेषान्यत्वम् सम्श्रितानाम् निवासः सर्वम् श्लाघ्यम् यत् क्षमा ज्ञायते मे॥
अन्वयः अथेदानीम् पर्णशय्या च भूमौ, राज्यभ्रम्शो द्रौपदीधर्षणम् च वेषान्यत्वम् सम्श्रितानाम् निवासः सर्वम् श्लाघ्यम् यत् क्षमा ज्ञायते मे॥

(प्रविश्य) भटः जयतु महाराजः।

राजा- अथ किम् चेष्टते दुर्योधनः।

भटः -न खलु दुर्योधन एव, पृथिव्याम् राजानः सर्वे प्राप्ताः।

द्रोणश्च भीष्मश्च जयद्रथश्च शल्योऽङराजः शकुनिः कृपश्च। तेषाम् रथोत्कम्पचलत्पताकैर्भग्नाः ध्वजैरेव वयम् न बाणैः ॥
अन्वयः द्रोणश्च भीष्मश्च जयद्रथश्च शल्यः अङ्गराजः शकुनिः कृपश्च। तेषाम् रथोत्कम्पचलत्पताकैः ध्वजैः एव, वयम् भग्नाः न बाणैः॥

राजा- (उत्थाय कृताञ्जलिः) कथम् तत्र भवान् गाङ्गेयोऽपि प्राप्तः ।

भगवान्- (आत्मगतम्) साधु। घर्षितेनापि न समतिक्रान्तः समुदाचारः

किमर्थम् खलु सम्प्राप्तः कुरूनाम् गुरुसत्तमः । शन्के तीर्णम् प्रतिज्ञेति स्मारणम् क्रियते मम॥

अन्वयः कुरूनाम् गुरुसत्तमः किमर्थम् सम्प्राप्तः खलु । तीर्णम् प्रतिज्ञा इति स्मारणम् मम क्रियते शन्के॥

राजा- कोऽत्र

भटः (प्रविश्य) जयतु महाराजः

राजा- सूतस्तावदाहूयताम्

भटः -यदाज्ञापयति महाराजः (निष्क्रान्तः)

सूतः (प्रविश्य) जयत्वायुष्मान्।

राजा- रथमानय शीघ्रम् मे श्लाख्य प्राप्तो रणातिथिः। तोषयिष्ये शरैर्भीष्मम् जेष्यामीत्यमनोरथः॥
अन्वयः - शीघ्रम् मे रथम् आनय। श्लाख्य रणातिथिः प्राप्तो। शरैः भीष्मम् तोषयिष्ये। जेष्यामि इति अमनोरथः॥

सूतः यदाज्ञापयत्यायुष्मान्! आयुष्मन्!

रिपूनाम् सैन्यभेदेषु यस्ते परिचितो रथः । रथचर्याम् बहिष्कर्तुम् तमास्थाय उत्तरो गतः ॥

राजा- कथम् निर्यातो कुमारः

भगवान्- भो राजन्! सम्वार्यताम् सम्वार्यताम् कुमारः

अगणितगुणदोषो युद्धतीक्ष्णश्च बाल्यान्नच दहति न कश्चित सन्निकृष्टो रणाग्निः ।अथच परिहरन्ते धार्तराष्ट्रा न किञ्चिन्न खलु परिभयात्ते युद्धदोषान् ब्रवीमि॥
अन्वयः -अगणितगुणदोषो युद्धतीक्ष्णश्च बाल्यात् न च दहति न कश्चित सन्निकृष्टो रणाग्निः ।अथच धार्तराष्ट्रा किञ्चित् न परिहरन्ते। न खलु परिभयात् ते युद्धदोषान् ब्रवीमि॥

राजा- तेन हि शीघ्रमन्यो रथः कल्प्यताम्।

सूतः -यदाज्ञापयत्यायुष्मान्।

राजा- अथवा एहि तावत्

सूतः- आयुष्मन् । अयमस्मि।

राजा- त्वमिदानीम् कुमारस्य किम् न वाहितवान् रथम्। अनुज्ञातः असि कि तेन न राज्ञाम् सारथिः भवान्॥
अन्वयःइदानीम् त्वम् कुमारस्य रथम् किम् न वाहितवान् । राज्ञाम् सारथिः भवान् तेन अनुज्ञातः कि न असि ॥

सूतः-प्रसीदत्वायुष्मान्। रथम् सम्कल्पयित्वा तु सूतसमुदाचारेण उपस्थितः खलु अहम्। कुमारेण,

किन्नु तत् परिहासार्थम् किन्नु तत्रास्तिके मामतिक्रम्य सारथ्ये विनियुक्ता बृहन्नळा॥

राजा- कथम् बृहन्नलेति।

भगवान्- अलमलम् सम्भ्रमेण।

यदि स्वचक्रोत्थितरेणुदुर्दिनम् रथम् समास्थाय गता बृहन्नळा। परान् क्षणात् नेमिरवात् निवारयन् विनापि बाणान् रथ एव जेष्यति॥

राजा-तेन हि शीघ्रमन्यः रथः कल्प्यताम्।

सूतः यदाज्ञपयत्यायुष्मान्। (निष्क्रान्तः)

भटः (प्रविश्य) भग्न खलु कुमारस्य रथः ।

राजा- कथम् भग्नो नाम।

भगवान्- कथमिदानीम् भग्नो नाम।

भटः -श्रोतुमर्हति महाराजः

बहुभिः समराभिज्ञैः अच्छिन्नश्वपथः परैः भग्नो गहनलोभेन श्मशानाभिमुखो रथः ॥
अन्वयः- समराभिज्ञैः अच्छिन्नश्वपथः बहुभिः परैः गहनलोभेन श्मशानाभिमुखो रथः भग्नः ॥

भगवान्- (आत्मगतम्) आ तत्र खलु गाण्डीवम्। (प्रकाशम्) भो राजन्!

निमित्तम् किञ्चित् उत्पन्नम् श्मशानाभिमुखो रथे ।धार्तराष्ट्रा स्थिताः यत्र श्मशानम् तत् भविष्यति॥

राजा- भगवन्! अकाले स्वस्थवाक्यम् मन्युरुत्पादयति।

भगवान्- अलम् मन्युना। कदाचिदनृतम् नोक्तपूर्वम्।

राजा- अस्त्येतत्। गच्छ भूयो ज्ञायताम् वृत्तान्तः।

भटः - यदाज्ञापयति महाराजः (निष्क्रान्तः)

राजा- कोनुखल्वेष सहसा कम्पयन्निव मेदिनीम् ।नदीस्रोत इवाविद्ध क्षणात् सम्वर्तते ध्वनिः॥
अन्वयः- सहसा मेदिनीम् कम्पयन् इव एष कः नु खलु नदीस्रोत इव आविद्ध क्षणात् सम्वर्तते ध्वनिः॥

ज्ञायताम् शब्दः
भटः- (प्रविश्य)जयतु महाराजः।श्मशानात् मुहूर्तविश्रान्तेन तुरगेण कुमारेण तु,
भगवान्- एषमाम् अनृतवादिनम् न कुर्यात्।

राजा- किम् कृतम् कुमारेण।

भटः- कृता नीला नागाः शरशतनिपातेन कपिला हयो वा योधो वा न वहति नकिञ्चित् शरशतम्।
शरैः स्तम्भीभूता शरपरिकराः स्यन्दनवराः शरैः च्छन्ना मार्गाः स्रवति धनुरुग्राम् शरनदीम्॥
अन्वयः नीला नागाः शरशतनिपातेन कपिला कृता। हयो वा योधो वा न वहति नकिञ्चित् शरशतम्। शरपरिकराः स्यन्दनवराः शरैः स्तम्भीभूता। शरैः च्छन्ना मार्गाः। धनुरुग्राम् शरनदीम् स्रवति॥

भगवान्-(आत्मगतम्)-एतदक्षयतूणित्वम् येन् शक्रस्य खाण्डवे।यावत्य पतिता धारा तावन्तः प्रेषिताः शराः॥

अन्वयः शक्रस्य एतदक्षयतूणित्वम् येन खाण्डवे यावत्य पतिता धारा तावन्तः प्रोषिता शराः॥

राजा- अथ परिष्विदानीम् को वृत्तान्तः ।

भटः- अप्रत्यक्षम् हि तत्र मे। प्रकृति पुरुषा कथयन्ति॥

धनुर्धोषम् द्रोणस्तदिदमिति बुद्धवा प्रतिगतो ध्वजे बाणम् दृष्ट्वा कृतमिति न भीष्मः प्रहरति।
शरैः भग्नः कर्णः किमिदमिति चान्ये नृपतयो भयेऽप्येको बाल्यात् नभयमभिमन्युः गणयति॥
अन्वयः-द्रोणः धनुर्धोषम् तदिदमिति बुद्धवा प्रतिगतो। ध्वजे बाणम् दृष्ट्वा कृतमिति न भीष्मः प्रहरति।
शरैः भग्नः कर्णः किमिदमिति। चान्ये नृपतयो भये अपि एको अभिमन्युः बाल्यात् नभयम् गणयति॥

भगवान्- कथम् अभिमन्यु प्राप्तः ।भो राजन् ।

युद्ध्यते यदि सौभद्रस्तेजोग्निर्वशयो द्वयोः।सारथिः प्रेष्यतमन्यो विक्लवात्र बृहन्नळा॥
अन्वयः सौभद्रःद्वयोः तेजोग्निर्वशयो यदि युद्ध्यते अन्यः सारथिः प्रेष्यताम् अत्र बृहन्नळा विक्लवा॥

राजा-मा मा भवानेवम्।

भीष्मम् रामशरैरभिन्नकवचम् द्रोणम् च मन्त्रायुधम् कृत्वा कर्णजयद्रथौ च विमुखौ शेषाम्श्च ताम्स्तान् नृपान्।
सौभद्रम् न स्वशरैर्न धर्षयति किम् भीतः पितुः प्रत्ययात् सम्सृष्टोऽपि वयस्यभावसदृशम् तुल्यम् वयो रक्षति॥

रामशरैः अभिन्नकवचम् भीष्मम्, मन्त्रायुधम् द्रोणम् च कर्णजयद्रथौ च विमुखौ कृत्वा शेषाम्श्च ताम्स्तान् नृपान्।

सौभद्रम् स्वशरैः न धर्षयति किम् भीतः पितुः प्रत्ययात् सम्सृष्टोऽपि वयस्यभावसदृशम् तुल्यम् वयो रक्षति॥

भटः- एषः खलु कुमारस्य रथः।

आलम्बितो भ्रमति धावति तेन मुक्तो नप्राप्य धर्षयति नेच्छति विप्रकर्तुम् ।
आसन्नभूमि चपलः परिवर्तमानो योग्योपदेशमिव तस्य रथः करोति॥
अन्वयः आलम्बितो भ्रमति धावति तेन मुक्तो नप्राप्य धर्षयति नेच्छति विप्रकर्तुम् आसन्नभूमि चपलः परिवर्तमानो योग्योपदेशमिव तस्य रथः करोति॥

भगवान्-गच्छ। भूयो ज्ञायताम् वृत्तान्तः ।

भटः-यदाज्ञापयति महाराजः। (निष्क्रम्य प्रविश्य) जयतु महाराजः। जयतु विराटेश्वरः । प्रियम् निवेदये महाराजाय। अवजितम् गोग्रहणम्। अवयाताः धार्तराष्ट्राः। भगवान्-दिष्ट्या भवान् वर्द्धते।

राजा- न न भगवतो वृद्धिरेषा। अथ कुमारः इदानीम् क्व।

भटः-दृष्टपरिस्पन्दानाम् योधपुरुषाणाम् कर्मणि पुस्तकम् आरोपयति कुमारः।

राजा- अहो श्लाघनीयव्यापारः खल्वयम् कुमारः ।

ताडितस्य हि योधस्य श्लाघनीयेन कर्मणा । अकालान्तरिता पूजा नाशयत्येव वेदनाम्॥
ताडितस्य हि योधस्य श्लाघनीयेन कर्मणा । अकालान्तरिता पूजा नाशयत्येव वेदनाम्॥

अथ बृहन्नळेदानीम् क्वः ।

भटः- प्रियनिवेदनार्थम् अभ्यन्तरम् प्रविष्टा ।

राजा- बृहन्नळा तावदाहूयताम्।

भटः - यदाज्ञापयति महाराजः। (निष्क्रान्तः‌-)
(ततः प्रविशति बृहन्नळा)

बृहन्नळा (निरूप्य सविमर्शम्‌)

गाण्डीवेन मुहूर्तमाततगुणेनासीत् प्रतिस्पर्थितम् ।बाणानाम् परिवर्तनेष्वविशदा मूर्तिन ते सम्हता।
गोधास्थानगता न चास्ति पटुता स्थाने हृतम् सौष्टवम् स्त्रीभावात् शिथिलीकृतः परिचयादात्मा तु पश्चात् स्मृतः ॥
प्रतिस्पर्थितम् मुहूर्तमाततगुणेन गाण्डीवेन आसीत्। बाणानाम् परिवर्तनेषु ते अविशदा मूर्तिन सम्हता। गोधास्थानगता पटुता न चास्ति। स्थानेसौष्टवम् हृतम् स्त्रीभावात् शिथिलीकृतः परिचयादात्मा तु पश्चात् स्मृतः ॥

मया हि।
अनेन वेषेण नरेन्द्रमध्ये लज्जायमानेन धनुर्विकृष्टम्। यात्रा तु तावत् शरदुर्दिनेषु शिघ्रम् निमग्नः कलुषश्च रेणुः॥

भो! जित्वा पि गाम् विजयमप्युपलभ्य राज्ञोः नैवास्ति मे जयगतो मनसि प्रहर्षः ।
दुश्शासनम् समरमूर्धनि सन्निगृह्य बध्वा यदद्य न विराटपुरम् प्रविष्टः ॥

अन्वयः- जित्वा पि गाम् राज्ञोः विजयमपि उपलभ्य मे जयगतो मनसि प्रहर्षः नैवास्ति, यत् दुश्शासनम् समरमूर्धनि सन्निगृह्य बध्वा अद्य न विराटपुरम् प्रविष्टः ॥

उत्तरा प्रतिदत्तालङ्कारेण अलङ्कृतो व्रीलित इवास्मि राजानम् दृष्टुम् । तस्मात् विराटेश्वरम् पश्यामि। (परिक्रम्य अवलोक्य) अये अयमार्यो युधिष्टिरः।
सयौवनः ज्येष्ठतपोवने रतो नरेश्वरो ब्राह्मणवेषमाश्रितः । विमुक्तराज्यः अपि अभिवर्धित श्रिया त्रिदण्डधारी न च दण्डधारकः॥

(उपगम्य)भगवन् वन्दे।

भगवान्-स्वस्ति।

बृहन्नळा- जयतु भर्ता।

राजा- अकारणम् रूपम् अकारणम् कुलम् महत्सु नीचेषु च कर्म शोभते। इदम् हि रूपम् परिभूत पूर्वकम् तदेव भूयो बहुमानमागतम्॥

बृहन्नळे! परिश्रान्तामपि भवतीम् भूयः परिश्रमयिष्ये। उच्य्ताम् रणविस्तरः।

बृहन्नळा- श्रुणोतु भर्ता

राजा- ऊर्जितम् कर्म। सम्स्कृतम् अभिधीयताम्।

बृहन्नळा-श्रोतुमर्हति महाराजः।

भटः (प्रविश्य) जयतु महाराजः।

राजा- अपूर्व इव ते हर्ष ब्रूहि केनासि विस्मितः।

भटः अश्रद्धेयम् प्रियम् प्राप्तम् सौभद्रो ग्रहणम् गतः।

बृहन्नळा- कथम् गृहीतः (आत्मगतम्)
तुलित वलमिदम् ममाद्य सैन्यम् परिगणितम् च रणेऽद्य मे स दृष्टः । सदृश इह तु नास्ति तेन किञ्चित् क इह भवेन्निहतेषु कीचकेषु॥
तुलित वलमिदम् मम अद्य सैन्यम् परिगणितम् च रणे अद्य मे स दृष्टः । सदृश इह तु नास्ति तेन किञ्चित् क इह भवेत् निहतेषु कीचकेषु॥

भगवान्- बृहन्नळे किमेतत्।

बृहन्नळा-भगवन्!

न जाने तस्य जेतारम् बलवान् शिक्षितस्तु सः। पितृणाम् भाग्यदोषेण प्राप्नुयादपि धर्षणम्॥

राजा- कथमिदानीम् गृहीतः।

भटः- रथमासाद्य निश्शङ्कम् बाहुभ्याम् अवतारितः।

राजा- केन।

भटः -यः किलैव नरेन्द्रेण विनियुक्तो महानसे।

बृहन्नळा-(अपवार्य) एवम्। आर्य भीमेन परिष्वक्तः, न गृहीतः ।

दूरस्था दर्शनादेव वयम् सन्तोषमागताः । पुत्रस्नेहस्तु निर्विष्टो येन सुव्यक्तकारिणा॥
अन्वयः दूरस्था दर्शनादेव वयम् सन्तोषमागताः । पुत्रस्नेहस्तु निर्विष्टो येन सुव्यक्तकारिणा॥

राजा- तेन हि सत्कृत्य आनीयताम् अभिमन्युः।

भगवान्- भो राजन्! वृष्णिपाण्डवनाथस्य अभिमन्योः पूजाम् भयादिति लोको ज्ञास्यति। तदववीरणम् अस्य न्याय्यम्।

राजा- नावधीरणमर्हति यादवी पुत्रः। कुतः,

पुत्रोह्येष युधिष्ठिरस्य तु वयस्तुल्यम् हि नो सूनुना।सम्बन्धो द्रुपदेन नः कुलगतो नप्ताहि तस्मात् भवेत् ।
जामातृत्वमदूरतोऽपिच भवेत् कन्यापितृत्वम् हि नः पूजार्होऽप्यतिथिर्भवेत् स्वविभवैरिष्टा हि न पाण्डवाः ॥
अन्वयः - पुत्रोह्येष युधिष्ठिरस्य तु वयस्तुल्यम् हि नो सूनुना। सम्बन्धो द्रुपदेन नः कुलगतो नप्ताहि तस्मात् भवेत् ।
जामातृत्वमदूरतोऽपिच भवेत् कन्यापितृत्वम् हि नः पूजार्होऽप्यतिथिः र्भवेत् स्वविभवैरिष्टा हि न पाण्डवाः ॥

भगवान्-एवमेतत्। वक्तव्यम् परिहर्तव्यम् च ।

राजा- अथ केनायम् प्रवेशयितव्यः।

भगवान्- बृहन्नळया प्रवेशयितव्यः।

राजा-बृहन्नळे! प्रवेश्यताम् अभिमन्युः।

बृहन्नळा- यदाज्ञापयति महाराजः। (आत्मगतम्) चिरस्य खलु आकाङ्क्षितः अयम् नियोगो लब्धः। (निष्क्रान्ता)

भगवान्-(आत्मगतम्)

अद्येदानिम् यातु सन्दर्शनम् वा शून्यम् दृष्टवा गाढम् आलिङ्गनम् वा।
स्वैरम् तावत् यातु मुद्धाप्यताम् वा मत्प्रत्यक्षम् लभ्यते ह्येष पुत्रः ॥
अन्वयः -अद्य एषः (अर्जुनः) पुत्रम् इदानिम् यातु सन्दर्शनम् वा, शून्यम् दृष्ट्वा गाढम् आलिङ्गनम् वा,स्वैरम् तावत् यातु मुद्धाप्यताम् वा, मत्प्रत्यक्षम् हि लज्जते ॥

राजा- पश्यतु भवान् कुमारस्य कर्म।

नृपाः भीष्मादयो भग्नाः सौभद्रो ग्रहणम् गतः । उत्तरेणाद्य सम्क्षेपात् अर्थतः पृथिवी जिता॥
अन्वयः -नृपाः भीष्मादयो भग्नाः। सौभद्रो ग्रहणम् गतः। सम्क्षेपात् अर्थतः उत्तरेण अद्य पृथिवी जिता॥

(ततः प्रविशति भीमसेनः)

भीमसेनः- आदीपिते जातुगृहे स्वभुजावस्क्ताःमत्भ्रातरश्च जननीम् च मयोपनीताः ।
सौभद्रमेकमवतार्य रथात्तु बालम् तम् च श्ऱमम् प्रथममद्य समम् हि मन्ये॥
अन्वयः-आदीपिते जातुगृहे स्वभुजावस्क्ताः मत्भ्रातरश्च जननीम् च मयोपनीताः। रथात्त् बालम् सौभद्रम् एकम् अवतार्य तु तम् प्रथम्श्रमम् च अद्य समम् हि मन्ये॥

इत इत कुमार!

(ततः प्रविशति अभिमन्युः बृहन्नळा च)

अभिमन्युः- भोः कोनु खल्वेषः।
विशालवक्षास्तनिमार्जितोदरः स्थिरोनाताम्सोरु महान् कटीकृशः। इहाहृतो येन भुजैकयन्त्रितो बलाधिकेनापि नचास्मि पीडितः॥
अन्वयः -विशालवक्षाः तनिमार्जितोदरः स्थिरोन्नताम्स ऊरु महान् कटीकृशः। इहाहृतो येन भुजैकयन्त्रितो बलाधिकेनापि नचास्मि पीडितः॥

बृहन्नळा- इत इत कुमार!

अभिमन्यु- अये अयमपरः कः।

आयुज्यमानैः प्रमदा विभूषणैः करेणुशोभाभिरिवार्पितो गजः । लघुश्च वेषेण महानिवौजसा विभात्युमावेषमिवाश्रितो हरः॥
अन्वयः आयुज्यमानैः प्रमदा विभूषणैः (अयम्) करेणुशोभाभिः अर्पितो गजः इव । वेषेण लघुः औजसा महान् च (अयम्) हरः उमावेषम् आश्रितो इव विभाति॥

बृहन्नळा- (अपवार्य) इममिह आनयता किम् इदानीम् आर्येण कृतम्।

अवजित इति तावत् दूषितः पूर्वयुद्धे दयितसुतवियुक्ता शोचनीया सुभद्रा। जित इति पुनरेनम् दुष्यते वासुभद्रम् भवतु बहु किमुक्त्वा दूषितो हस्त सारः॥

अन्वयः -अवजित इति तावत् दूषितः पूर्वयुद्धे दयितसुतवियुक्ता शोचनीया सुभद्रा। जित इति पुनरेनम् दुष्यते वासुभद्रः भवतु बहु किमुक्त्वा दूषितो हस्त सारः॥

भीमसेनः-अर्जुनः ।

बृहन्नळा- अथ किम् अथ किम् अर्जुनपुत्रोऽयम्।

भीमसेनः -(अपवार्य) जानाम्येतान् निग्रहादस्यदोषान् को वा पुत्रम् मर्षयेत् शत्रु हस्ते।इष्टापत्या किन्तु दुःखे हि मग्ना पश्यत्वेनम् द्रौपदीत्याहृतोयम्॥
अन्वयः- अस्य निग्रहात् एतान् दोषान् जानामि. को वा पुत्रम् शत्रु हस्ते मर्षयेत्। किन्तु दुःखे हि मग्ना द्रौपदी इष्टापत्या एनम् पश्यतु इति अयम् आहृतः ॥

बृहन्नळा-(अपवार्य) आर्य अभिभाषणकौतूहलम् मे महत्। वाचालयत्वेनमार्यम्।

भीमसेनः-(अपवार्य) बाढम्। अभिमन्योः।

अभिमन्युः-अभिमन्युर्नाम।

भीमसेनः-रुष्यतेष मया। त्वमेवैनमभिभाषय ।

बृहन्नळा- अभिमन्यो!

अभिमन्युः कथम् कथम्। अभिमन्युर्नामाहम् भोः।

नीचैरप्यभिभाष्यन्ते नामभिः क्षत्रियान्वयाः । इहायम् समुदाचारो ग्रहणम् परिभूयते॥
नीचैः अपि क्षत्रियान्वयाः नामभिः अभिभाष्यन्ते। इहायम् समुदाचारो ग्रहणम् परिभूयते॥

बृहन्नळा-अभिमन्यो! सुखमास्ते ते जननी।

अभिमन्युः- अथ कथम् जननी नाम।

किम् भवान् धर्मराजो मे भीमसेनो धनञ्जयो। यन्माम् पितृवदाक्रम्य स्त्रीगताम् पृच्छसे कथाम्।
अन्वयः किम् भवान् मे धर्मराजो भीमसेनो धनञ्जयो। यन्माम् पितृवत् आक्रम्य स्त्रीगताम् कथाम् पृच्छसे।

बृहन्नळा- अभिमन्यो! अपि कुशली देवकीपुत्रो केशवः ।

अभिमन्युः- कथम् तत्रभवन्तम् अपि नाम्ना। अथ किम् अथ किम्। कुशली भवतः सम्सृष्टः ।

(उभौ परस्परमवलोकयत।)

अभिमन्युः- कथमिदानीम् सावज्ञमिम माम् हस्यते।

बृहन्नळा- न खलु किञ्चित्।

पार्थम् पितरमुद्दिश्य मातुलम् च जनार्द्दनम्। तरुणस्य कृतास्त्रस्य युक्तो युद्धपराजयः॥

अभिमन्युः- अलम् स्वच्छन्दप्रलापेन।

अलमात्मस्तवम् कर्तुम् नास्माकमुचितम् कुले। हतेषु हि शरान् पश्य नाम नान्यत् भविष्यति॥
अन्वयः -अलम् आत्मस्तवम् कर्तुम् अस्माकम् कुले न उचितम्। हतेषु हि शरान् पश्य नाम नान्यत् भविष्यति॥

बृहन्नळा- सम्यगाह कुमारः ।

सरथतुरगदृप्तनागयोधे शरनिपुणेन न कश्चिदप्यविद्धः ।अहमपिच परिक्षतो भवेयम् यदि न मया परिवर्तितो रथस्यात्।
सरथतुरगदृप्तनागयोधे शरनिपुणेन न कश्चिदप्यविद्धः ।अहमपिच परिक्षतो भवेयम् यदि न मया परिवर्तितो रथस्यात्।

(प्रकाशम्) एवम् वाक्यशौण्डीर्यम् किमर्थम् तेन पदातिना गृहीतः।

अभिमन्युः- अशस्त्रो मामभिगतस्ततोस्मि ग्रहणम् गतः। न्यस्तशस्त्रम् हि को हन्यात् अर्जुनम् पितरम् स्मरन्॥
अन्वयः - अशस्त्रो माम् अभिगतः ततः ग्रहणम् गतः अस्मि। न्यस्तशस्त्रम् हि को हन्यात् अर्जुनम् पितरम् स्मरन्॥

भीमसेनः (आत्मगतम्) धन्यः खल्वर्जुनो येन प्रत्यक्षमुभयम् श्रुतम्। पुत्रस्य च पितुश्लाख्यम् सम्ग्रामेषु पराक्रमः॥
अन्वयः - धन्यः खल्वर्जुनो येन प्रत्यक्षमुभयम् श्रुतम्। पुत्रस्य च पितुश्लाख्यम् सम्ग्रामेषु पराक्रमः॥

राजा- त्वर्यताम् त्वर्यताम् अभिमन्युः।

बृहन्नळा- इत इत कुमार!।एष महाराज। उपसर्पतु कुमर!

अभिमन्युः- आ! कस्य महाराजः ।

बृहन्नळा- न न न । ब्रह्मणेन सहास्ते।

अभिमन्युः- ब्राह्मणेनेति (उपगम्य) भगवन्! अभिवादये।

भगवान्- एह्येहि वत्स!

शौण्डिर्यम् धृति विनयम् दयाम् स्वपक्षे माधुर्यम् धनुषि जय पराक्रमश्च । एकस्मिन् पितरि गुणानवाप्नुहि त्वम् शेषाणाम् यदपि च रोचते चतुर्णाम्॥
अन्वयः शौण्डिर्यम् धृति विनयम् दयाम् स्वपक्षे माधुर्यम् धनुषि जय पराक्रमश्च । शेषाणाम् चतुर्णाम् गुणान् एकस्मिन् पितरि यदपि च रोचते त्वम् अवाप्नुहि॥

अभिमन्युः- अनुगृहीतोऽस्मि।

राजा-एह्येहि पुत्र!कथम् न माम् अभिवादयसि। अहो उत्सिक्त खल्वयम् क्षत्रियकुमारः। अहमस्य् दर्पप्रशमनम् करोमि।अथ केनायम् गृहीतः।

भीमसेनः- महाराज! मया।

अभिमन्युः- अशस्त्रेणेत्यभिधीयताम्।

भीमसेनः-शान्तम् शान्तम् पापम्।

सहजौ मे प्रहरणम् भुजौ पीनाम्सकोमलौ। तावाश्रित्य प्रयुध्येयम् दुर्बलैर्गृह्यते धनुः॥
अन्वयः पीनाम्सकोमलौ भुजौ मे सहजौ प्रहरणम्। तावाश्रित्य प्रयुध्येयम्। धनुः दुर्बलैः गृह्यते॥

अभिमन्युः- मा तावत् भो!

बाहुरक्षौहिणी यस्य निर्व्याजो यस्य विक्रमः। किम् भवान् मध्यमस्तातः तस्यैतत् सदृशम् वचः॥
अन्वयः बाहुरक्षौहिणी यस्य निर्व्याजो यस्य विक्रमः। किम् भवान् मध्यमस्तातः एतत् वचः तस्य सदृशम्॥

भगवान्- पुत्र! कोयम् मध्यमो नाम।

अभिमन्युः- श्रूयताम्।अथवा, नन्वनुत्तरा वयम् ब्रह्मणेषु।साध्वन्यो ब्रूयात्।

राजा- भवतु भवतु मद्वचनात्। पुत्र! कोयम् मध्यमो नाम।

अभिमन्युः- श्रूयताम्। येन
योक्त्रयित्वा जरासन्धम् कण्ठाश्लिष्टेन बाहुना। असह्यकर्म तत् कृत्वा नीतः कृष्णोऽतदर्हताम्॥
अन्वयः कण्ठाश्लिष्टेन बाहुना जरासन्धम् योक्त्रयित्वा, तत् असह्यकर्म कृत्वा कृष्णः अतदर्हताम् नीतः॥

राजा- न ते क्षेपेण रुष्यामि रुष्यता भवता रमे। किमुक्त्व्रा नापरद्धोऽहम् कथम् तिष्ठति यात्विति॥
अव्वयः -न ते क्षेपेण रुष्यामि। रुष्यता भवता रमे। कथम् तिष्ठति, यातु इति उक्त्व्रा किम् अहम् नापरद्धः॥

अभिमन्युः- यद्यहमनुग्राह्यः। पादयोः समुदाचारः क्रियताम् निग्रहोचितः । बाहुभ्याम् आहृतो भीमः बाहुभ्यामेव नेष्यति॥ अन्वयः -पादयोः निग्रहोचितः समुदाचारः क्रियताम्। बाहुभ्याम् आहृतो (माम्) भीमः बाहुभ्यामेव नेष्यति॥ (ततः प्रविशत्युत्तरः)

उत्तरः-मिथ्याप्रशम्सा खलु नाम कष्टा येषाम् तु मिथ्या वचनेषु भक्तिः। अहम् हि युद्धाश्रयमुच्यमानो वाचानुवर्ती हृदयेन लज्जे॥
अन्वयः-मिथ्याप्रशम्सा खलु नाम कष्टा येषाम् तु मिथ्यावचनेषु भक्तिः। युद्धाश्रयमुच्यमानो अहम् हि वाचानुवर्ती हृदयेन लज्जे॥.

(उपसृत्य) भगवन् अभिवादये।

भगवान्- स्वस्ति।

उत्तरः- तात! अभिवादये।

राजा- एह्येहि पुत्र! आयुष्मान् भव। पुत्र! पूजिता कृतकर्मणो योधपुरुषाः?

उत्तरः- पूजिता। पूज्यतमस्य क्रियता पूजा।

राजा- पुत्र! कस्मै ?

उत्तरः- इह अत्रभवते धनञ्जयाय।

राजा- कथम् धनञ्जयायेति?

उत्तरः- अथ किम् अत्रभवता,

श्मशानात् धनुरादाय तूणीचाक्षयसायके। नृपाः भीष्मादयो भग्नाः वयम् च परिरक्षिताः ॥
अन्वयः-श्मशानात् धनुः अक्षयसायके तूणी च आदाय भीष्मादयो नृपाः भग्नाः । वयम् च परिरक्षिताः ॥

राजा - एवमेतत्?

बृहन्नळा- प्रसीदतु प्रसीदतु महाराज!

अयम् बाल्यात्तु सम्भ्रान्तो न वेत्ति प्रहरन्नपि। कृत्स्नम् कर्म स्वयम् कृत्वा परस्येत्यवगच्छति॥
अन्वयः- अयम् बाल्यात्तु सम्भ्रान्तो प्रहरन्नपि न वेत्ति । कृत्स्नम् कर्म स्वयम् कृत्वा परस्य इति अवगच्छति॥

उत्तरः- व्यपनयतु भवच्छङ्काम् (भवत् शान्काम्)।इदम् आख्यास्यते।

प्रकोष्ठान्तर सङ्गूढम् गाण्डीव व्याहृतम् किणम्। यत्तत् द्वादशवर्षान्ते नैव याति सवर्णताम्॥

अन्वयः- प्रकोष्ठान्तर सङ्गूढम् गाण्डीव व्याहृतम् किणम्। यत्तत् द्वादशवर्षान्ते नैव याति सवर्णताम्॥

बृहन्नळा- एतन्मे पारिहार्याणाम् व्यावर्तनकृतम् किणम्। सन्निरोधविवर्णत्त्वात् गोधास्थानमिहागतम् ॥
अन्वयः-एतत् मे पारिहार्याणाम् व्यावर्तनकृतम् किणम्। सन्निरोधविवर्णत्त्वात् गोधास्थानमिहागतम् ॥

राजा- पश्यामस्तावत्।

बृहन्नळा- रुद्रबाणावलीढाङ्गो यद्यहम् भारतोऽर्जुनः। सुब्यक्तम् भीमसेनोऽयम् अयम् राजा युधिष्ठिरः ॥
अन्वयः- यदि अहम् रुद्रबाणावलीढाङ्गो भारतोऽर्जुनः (तर्हि) अयम् भीमसेनः । अयम् राजा युधिष्ठिरः इति सुब्यक्तम् ॥

राजा- भो धर्मराज! वृकोदर! धनञ्जय! कथम् न माम् विश्वसिथ। भवतु भवतु प्राप्तकाले। बृहन्नळे प्रविश त्वम् अभ्यन्तरम्।

बृहन्नळा- यदाज्ञापयति महाराजः।

भगवान्- अर्जुन! न खलु नखलु प्रवेष्टव्यम्। तीर्णप्रतिज्ञा वयम्।

बृहन्नळा- यदाज्ञापयत्यार्यः।

राजा- शूराणाम् सत्यसन्धानाम् प्रतिज्ञाम् परिरक्षताम्। पाण्डवानाम् निवासेन कुलम् मे नष्टकल्मषम्॥
अन्वयः-शूराणाम् सत्यसन्धानाम् प्रतिज्ञाम् परिरक्षताम् पाण्डवानाम् निवासेन मे कुलम् नष्टकल्मषम् (जातम्)॥

अभिमन्युः- इहात्रभवन्तो मे पितरः।तेन खलु,

न रुष्यन्ति मयाक्षिप्ता हसन्तश्च क्षिपन्ति माम्।दिष्ट्या गोग्रहणम् स्वन्तम् पितरो येन दर्शिताः ॥
अन्वयः-न रुष्यन्ति मयाक्षिप्ता हसन्तश्च क्षिपन्ति माम्।दिष्ट्या गोग्रहणम् स्वन्तम् पितरो येन दर्शिताः ॥

(भीमसेनमुद्दिश्य) भोस्तात! अज्ञानात्तु मया पूर्वे यद् भवान् नाभिवादितः।तस्य पुत्रापराथस्य प्रसादम् कर्तुमर्हति ॥

अज्ञानात्तु मय पूर्वे यद् भवान् नाभिवादितः।तस्य पुत्रापराथस्य प्रसादम् कर्तुमर्हति ॥ (इति प्रणमति)

भीमसेनः- एह्येहि पुत्र! पितृसदृशपराक्रमो भव।

अभिमन्युः- अनुगृहीतोस्मि।

भीमसेनः- पुत्र! अभिवादयस्व पितरम् ।

अभिमन्युः- भोस्तात अभिवादये

अर्जुनः- एह्येहि वत्स! (आलिङ्ग्य)

अयम् स हृदयाह्लादी पुत्रगात्रसमागमः।यस्त्रयोदशवर्षान्ते प्रोषितः पुनरागतः॥
अन्वयः-अयम् स हृदयाह्लादी पुत्रगात्रसमागमः।यस्त्रयोदशवर्षान्ते प्रोषितः पुनरागतः॥

पुत्र! अभिवादयताम् विराटेश्वरः।

अभिमन्युः- अभिवादये।

राजा- एह्येहि वत्स!

यौधिष्ठिरम् धैर्यमवाप्नुहि त्वम् भैमम् बलम् नैपुणमर्जुनस्य। माद्रीजयोः कान्तिमथाभिरूप्यम् कीर्तिम् च कृष्णस्य जगत्प्रियस्य॥

अन्वयः-त्वम् यौधिष्ठिरम् धैर्यम्, भैमम् बलम्, नैपुणमर्जुनस्य, माद्रीजयोः कान्तिम् अथ अभिरूप्यम्, जगत्प्रियस्य कृष्णस्य कीर्तिम् च अवाप्नुहि॥ (आत्मगतम्) उत्तरा सन्निकर्षस्तु मा बाधते। किमिदानीम् करिष्ये (

)। भवतु। दृढम् कोऽत्र। भटः- (प्रविश्य) - जयतु महाराजः।
राजा- आपस्तावत्।

भटः- यदाज्ञापयति महाराजः।(निष्क्रम्य प्रविश्य) इमा आपः।

राजा- (प्रतिगृह्य) अर्जुन! गोग्रहणविजयशुल्कार्थम् प्रतिगृह्यताम् उत्तरा।

युधिष्ठिरः- एतदवनतम् शिरः।

अर्जुनः- (आत्मगतम्) कथम् चारित्रम् मे तुलयति।(प्रकाशम्) भो राजन्!

इष्टमन्तप्पुरम् सर्वम् मातृवत् पूजितम् मया। उत्तरैषा त्वया दत्ता पुत्रार्थम् प्रतिगृह्यते॥
अन्वयः-इष्टमन्तप्पुरम् सर्वम् मातृवत् पूजितम् मया। उत्तरैषा त्वया दत्ता पुत्रार्थम् प्रतिगृह्यते॥

युधिष्ठिरः- एतदुन्नतम् शिरः।

राजा- इदानीम् युद्धशूराणाम् चारित्रेषु व्यवस्थितः। अन्तपुरनिवासस्य सादृशीम् क्रियताम् क्रियाम्॥
इदानीम् युद्धशूराणाम् चारित्रेषु व्यवस्थितः। अन्तपुरनिवासस्य सादृशीम् क्रियताम् क्रियाम्॥

अद्यैव खलु गुणवन्नक्षत्रम् अद्यैव विवाहोऽस्य प्रवर्तताम्।

अभिमन्युः- अनुगृहीतोस्मि। अनुगृहीतोस्मि।

युधिष्ठिरः-भवतु भवतु। पितामहसकाशम् उत्तरम् प्रेषयामः।

राजा- यदभिरुचित भवत्भ्यः । धर्मराज-वृकोदर-धनञ्जयः इत इतो भवन्तः । अनेनैव प्रहर्षॅण आभ्यन्तर प्रविशामः

""द्वितीयोऽङ्कः ""