सामग्री पर जाएँ

पन्चरात्रम् -प्रथमोऽङ्कः

विकिपुस्तकानि तः

(ततः प्रविशतो भीष्मद्रोणौ)

द्रोणः-धर्ममालम्बमानेन दुर्योधनेन् अहम् अनुगृहीतो नम। कुतः

अतीत्यबन्धूनवलम्घ्य मित्राण्याचार्यमागच्छति शिष्यदोषः। बालम्ह्यपत्यम् गुरवे प्रदातुर्नैवापरधोऽस्ति नपितुर्नमातुः॥

(अन्वयः -अतीत्य बन्धून् अवलम्घ्य मित्राणि आचार्यम् आगच्छति शिष्यदोषः। हि अपत्यम् बालम् गुरवे प्रदातुः न पितुः न मातुः न एव अपरधोऽस्ति॥

भीष्मः-एष दुर्योधनः अवाप्य रूपग्रहणात् समुच्छ्रयम् रणप्रियत्वादयशो निपीतवान्। निवेष्य धर्मम् सुकृतस्य भाजनम् स एव रूपेण चिरस्य शोभते॥

(अन्वयः- एष दुर्योधनः अवाप्य रूपग्रहणात् समुच्छ्रयम् रणप्रियत्वादयशो निपीतवान्। निवेष्य धर्मम् सुकृतस्य भाजनम् स एव रूपेण चिरस्य शोभते॥

(ततः प्रविशति दुर्योधनः कर्णः शकुनिश्च।)

दुर्योधनः-कृतश्रद्धो ह्यात्मा वहति परितोषम् गुरुजनो जगत् विश्वस्तम् मे निवसति गुणो नष्टमयशः। मृतैः प्राप्यः स्वर्गो यदिह कथयत्यनृतम् परोक्षो नस्वर्गो बहुगुणमिहैवेष फ़लति

(अन्वयम्-कृतश्रद्धो ह्यात्मा।गुरुजनः परितोषम् वहति। जगत् विश्वस्तम् मे निवसति गुणो नष्टमयशः।स्वर्गः मृतैः प्राप्यः(इति) यदिह कथयति अनृतम्। स्वर्गः न परोक्षः बहुगुणम् एष इह एव फ़लति

कर्णः- गान्धारीमात! न्यायेनागतमर्थम् अतिसृजता न्याय्यमेव भवता कृतम्। कुतः

बाणाधीना क्षत्रियाणाम् समृद्धिः पुत्रापेक्षी वञ्च्यते सन्निधाता। विप्रोत्सङ्गे वित्तमावर्ज्य सर्वम् राज्ञा देयम् चापमात्रम् सुतेभ्यः॥

(अन्वयः- क्षत्रियाणाम् समृद्धिः बाणाधीना (भवति), पुत्रापेक्षी सन्निधाता वञ्च्यते। विप्रोत्सङ्गे वित्तम् सर्वम् आवर्ज्य राज्ञा सुतेभ्यः चापमात्रम् देयम् भवति॥

शकुनिः- सम्यगाह गङ्गोपस्पर्शनात् धौतकल्मषाङ्गोऽग्गराजः।

कर्णः- इक्ष्वाकु शय्याति,ययातिराममान्धातृनाभागनृगम्बरीषाः । एते सकोशाः पुरुषाः सराष्ट्राः नष्टाः शरीरैः क्रतुभिर्धरन्ते॥

सर्वे- गान्धारीमात! यज्ञसमाप्त्या दिष्ट्या भवान् वर्धते।

दुर्यॉधनः- अनुगृहीतोस्मि। आचार्य! अभिवादये

द्रोणः - एह्येहि पुत्र। अयमक्रमः ।

दुर्यॉधनः- अथ कः क्रमः

द्रोणः- किम् न पश्यति भवान् ।

दैवतम् मानुषीभूतम् एष तागन्नमस्यताम्। अहम् नाचरणम् मन्ये भीष्ममुत्क्रम्य वन्दितुम्॥

भीष्मः-मा मा भवानेवम्। बहुभिः कारणैः अपकृष्टोहम् भवतः ।कुतः

अहम् हि मात्रा जनितः भवान् स्वयम् ममायुधम् वृत्तिरपह्नवस्तव। द्विजो भवान् क्षत्रियवम्शजा वयम् गुरुर्भवान् शिष्यमहत्तरा वयम्॥

अहम् हि मात्रा जनितः। भवान् स्वयम्। ममायुधम् वृत्तिः अपह्नवस्तव।भवान् द्विजो ।वयम् क्षत्रियवम्शजा । गुरुर्भवान् शिष्यमहत्तरा वयम्॥

द्रोणः- नोत्सहन्ते महात्मानो ह्यात्मानमपस्तोतुम्। एहि पुत्र अभिवादयस्व माम्।

दुर्यॉधनः-आचार्य! अभिवादये

द्रोणः- एह्येहि पुत्र!एवमेव अवभृथस्वानेषु खेदमवाप्नुहि।

दुर्यॉधनः-अनुगृहीतोस्मि। पितामह! अभिवादये

भीष्मः-एह्येहि पौत्र! एवम् हि ते बुद्धिप्रशमनम् भवतु

दुर्यॉधनः-अनुगृहीतोस्मि।मातुल! अभिवादये

शकुनिः- वत्स!

एवमेव क्रतून् सर्वान् समानीयात्मदक्षिणान्।राजसूये नृपान् जित्वा जरासन्ध इवानय॥

एवमेव क्रतून् सर्वान् समानीयात्मदक्षिणान्। राजसूये नृपान् जित्वा जरासन्ध इवानय॥

द्रोणः- अहॉ अशीर्वचनोपि शकुनिरुद्योगम् जनयति । अहो प्रियविरोध खल्वयम् क्षत्रियकुमारः ।

दुर्यॉधनः- वयस्य! कर्ण!गुरुजनप्रणामावसाने प्राप्तक्रममुपभुज्यताम् वयस्य विस्रम्भः ।

कर्णः- गान्धारीमातः !

क्रतुव्रतैस्ते तनुगात्रमेतत् सॉठुम् बलम् शक्ष्यसि पीडयानि। अन्तस्वनामन्त्र्य न धर्षयामि राजर्षिधीरात् वचनात् भयम् मे॥

अन्वयम्:- क्रतुव्रतैस्ते तनुगात्रमेतत् सॉठुम् बलम् शक्ष्यसि पीडयानि। अन्तस्वनामन्त्र्य न धर्षयामि राजर्षिधीरात् वचनात् मेभयम् ॥

दुर्यॉधनः-एवमेव ते बुद्धिरस्तु।

द्रोणः-पुत्र! दुर्योधन!एष महेन्द्रप्रियसखो भीष्मको नाम भवन्तम् सभाजयति

दुर्यॉधनः-स्वागतम् आर्याय। अभिवादये

भीष्मः-पौत्र दुर्यॉदहन! एष दक्षिणापथपरिखभूतो भूरिश्रवा नाम भवन्तम् सभाजयिष्तति

दुर्यॉधनः-स्वागतम् आर्याय।

द्रोणः-पुत्र! दुर्योधन!भवतो यज्ञम् सभाजयता वसुभद्रेण प्रेषितोऽभिमन्युः भवन्तम् सभाजयति

शकुनिः-वत्स! दुर्योधन!एष जरासन्धपुत्रो सहदेवो भवन्तम् अभिवादयति

दुर्यॉधनः-एह्येहि वत्स।पितृसदृशपराक्रमो भव

सर्वे- एतत् समस्तराजमण्डलम् भवन्तम् सभाजयति

दुर्यॉधनः-अनुगृहीतोस्मि।भोः किन्नुखलु समागते सर्वराजमण्डले विराटो नागच्छति

शकुनिः- प्रेषितोऽस्य मया दूतः ।शङ्के पथि वर्तत इति।

दुर्यॉधनः- भॉ आचार्य!धर्मे धनुषि चाचार्य! प्रतिगृह्यताम् दक्षिणा

द्रोणः-दक्षिणेति भवतु भवतु।व्यपाश्रयिष्ये तावद् भवन्तम्।

दुर्यॉधनः- कथम् आचार्योऽपि व्यपाश्रयिष्यते ।

भीष्मः- किन्नुखलु प्रयोजनम्, यदा-
कुतः सोमो बाल्यदत्तो नियोगाच्छत्रच्छाया सेव्यते ख्यातिरस्ति।
किम् तत् द्रव्यम् किम् फ़लम् को विशेषः क्षत्राचार्यो यत्र विप्रो दरिद्रः॥

अन्वयः -कुतः सोमो बाल्यदत्तो नियोगाच्छत्रच्छाया सेव्यते ख्यातिरस्ति किम् तत् द्रव्यम् किम् फ़लम् को विशेषः क्षत्राचार्यो यत्र विप्रो दरिद्रः॥

दुर्यॉधनः-आज्ञापयतु भवान्। किमिच्छति किमनुतिष्ठामि।

द्रोणः-पुत्र! दुर्योधन! कथयामि।

दुर्यॉधनः-किमिदानीम् भवता विचार्यते
प्राणाधिकोऽस्मि भवता च कृतोपदेश शूरेषु यामि गणनाम् कृतसाहसोऽस्मि।
स्वच्छन्दतो वद किमिच्छसि किम् ददानि हस्ते स्थिता मम गदा भवतश्च सर्वम्॥

अन्वयः -प्राणाधिकोऽस्मि। भवता च कृतोपदेश। शूरेषु यामि गणनाम्। कृतसाहसोऽस्मि। स्वच्छन्दतो वद किमिच्छसि किम् ददानि। हस्ते स्थिता मम गदा। भवतश्च सर्वम्॥

द्रोणः-पुत्र!ब्रवीमि खलु तावत्। बाष्पवेगस्तु माम् बाधते।

सर्वे- कथम् आचार्योपि बाष्पमुत्सृजति।

भीष्मः-पौत्र दुर्यॉदहन!अफ़लस्ते परिश्रमः।

दुर्यॉधनः-कोऽत्र।

(प्रविश्य) भटः- जयतु महाराजः

दुर्यॉधनः-आपस्तावत्।

भटः- यदाज्ञापयति महाराजः। (निष्क्रम्य प्रविश्य)जयतु महाराजः, इमाः आपः

दुर्यॉधनः- आनय (कलशम् गृहीत्वा) भो आचार्य! अश्रुपातोच्छिष्टस्य मुखस्य क्रियताम् शौचम्।

द्रोणः- भवतु भवतु। मम कार्यक्रियैव मुखोदकमस्तु

दुर्यॉधनः-हा धिक्।
यदि विमृशसि पूर्वजिह्यताम् मे यदि च समर्थयसे न दास्यतीति। शरशतकठिनम् प्रयच्छ हस्तम् सलिलमिदम् करणम् प्रतिग्रहाणाम्
यदि विमृशसि पूर्वजिह्यताम् मे यदि च समर्थयसे न दास्यतीति। शरशतकठिनम् प्रयच्छ हस्तम् सलिलमिदम् करणम् प्रतिग्रहाणाम्

द्रोणः-हन्त लब्धो मे हृदयविश्वासः । पुत्र! श्रूयताम्,
यॅषाम् गति क्वापि निराश्रयाणाम् सम्वत्सरैर्द्वादशभिर्न दृष्टाः ।त्वम् पाण्डवानाम् कुरु सम्विभागमेषा च भिक्षा मम दक्षिणा च॥
(अन्वयः- येषाम् गति क्वापि निराश्रयाणाम् द्वादशभिः सम्वत्सरैः न दृष्टाः ।त्वम् पाण्डवानाम् सम्विभागम् कुरु। एषा च भिक्षा मम दक्षिणा च॥

शकुनिः- (सोद्वेगम्) मा तावत् भो।
उपन्यस्तस्य शिष्यस्य विश्वस्तस्य च गौरवे।यज्ञप्रस्तुतम् उत्पाद्य युक्तेयम् धर्मवन्चना॥
उपन्यस्तस्य शिष्यस्य विश्वस्तस्य च गौरवे। यज्ञप्रस्तुतम् उत्पाद्य इयम् धर्मवन्चना युक्ता॥

द्रोणः-कथम् धर्मवन्चनेति। मा तावत् भो गान्धारीविषयविस्मित! शकुने! त्वदनार्यभावात् सर्वलोकम् अनार्यमिति मन्यसे। हन्त भोः!

भ्रातॄणाम् पैतृकम् राज्यम् दीयतामिति वञ्जना ।किम् परम् याचितैर्दत्तम् बलात्कारेण तैर्हृतम्
भ्रातॄणाम् पैतृकम् राज्यम् दीयतामिति वञ्जना किम् परम् याचितैर्दत्तम् बलात्कारेण तैर्हृतम्

सर्वे:- कथम् बलात्कारेण नाम

भीष्मः-पौत्र दुर्यॉदहन!अवभृतस्नानमात्रमेव खलु तावत्। मित्रमुखस्य शत्रोः शकुनेः वचनम् न श्रॉतव्यम्। पश्य पौत्र!
यत् पाण्डवाः द्रुपदराजसुतासहायाः कान्ताररेणुपरुषा पृथिवीम् भ्रमन्ति। यत् त्वम् च तेषु विमुखज़्स्त्वयि ते च वामस्तत् सर्व्रमेव शकुनेः परुषावलेपः॥
यत् द्रुपदराजसुतासहायाः पाण्डवाः कान्ताररेणुपरुषा पृथिवीम् भ्रमन्ति। यत् त्वम् च तेषु विमुखः। त्वयि ते च वामाः। तत् सर्व्रमेव शकुनेः परुषावलेपः (भवति) ॥

दुर्योधनः-भवतु। एवम् तावदाचार्य! पृच्छामि

द्रोणः-पुत्र!कथय।

दुर्योधनः-यत् पुरा ते सभामध्ये राज्ये माने चधर्षिताः । बलात्कारसमर्थैस्तै किम् रोषो धारितस्तदा॥
यत् पुरा ते सभामध्ये राज्ये माने चधर्षिताः बलात्कारसमर्थैस्तै किम् रोषो धारितस्तदा॥

द्रोणः-अत्रेदानीम् धर्मच्छलेन वन्चितो द्यूताश्रयवृत्तिः युधिष्ठिरः प्रष्टव्यः,
येन भीमः सभास्तम्भम् तुलयन्नेव वारितः । यद्येकस्मिन् विमुक्तः स्यात् नास्माञ्छकुनिराक्षिपेत्॥
अन्वयः -येन भीमः सभास्तम्भम् तुलयन् एव वारितः । यदि एकस्मिन् विमुक्तः स्यात् न अस्मान् शकुनिः आक्षिपेत्॥

भीष्मः- अन्यत् प्रस्तुतमन्यदापतितम् (प्रस्तुतम् अन्यत् आपतितम्)। भो आचार्य! कार्यमात्रगुरुतरम्, न कलहः ।

द्रोणः- मा अत्र कर्दनम् कर्यम्। कलह एव भवतु

भीष्मः-प्रसीदत्वाचार्य! पश्य पौत्र!
ये दुर्बलाश्च कृपणाश्च निराश्रयाश्च त्वत्तश्च साम मृगयन्ति न गर्वयन्ति। ज्येष्ठो भवान् प्रणयिनस्वयि ते कुटुम्बे तान् धारयिष्यसि मृगै सह वर्तयन्तु॥
ये दुर्बलाश्च कृपणाश्च निराश्रयाश्च त्वत्तश्च साम मृगयन्ति न गर्वयन्ति। ज्येष्ठो भवान् प्रणयिनः त्वयि ते कुटुम्बे तान् धारयिष्यसि मृगै सह वर्तयन्तु॥

शकुनिः -वर्तयन्तु वर्तयन्तु।

कर्णः - भोः आचार्य! अलममर्षेण। दुर्योधनो नाम ,
हितमपि परुषार्थम् रुष्यति श्राव्यमाणो वरपुरुषविशेषम् नेच्छति स्तूयमानम् ।
गतमिदमवसानम् रक्ष्यताम् शिष्यकार्यम् गज इव बहुदोषो मार्दवेनैव वाह्यः॥
हितमपि श्राव्यमाणो परुषार्थम् रुष्यति।स्तूयमानम् वरपुरुषविशेषम् नेच्छति । गतमिदमवसानम् शिष्यकार्यम् रक्ष्यताम्। बहुदोषो गज इव मार्दवेन एव वाह्यः॥

द्रोणः- वत्स कर्ण! तेजस्वि ब्रह्मण्यम्। काले सम्बोधितोस्मि। एषोहम् भवच्छन्दमनुवर्तेः। पुत्र! दुर्योधन! अहम् तव प्रभावि ननु।

भीष्मः -एष इदानीम् मार्गेण आरम्भः । सन्त्वम् हि नाम दुर्विनीतानाम् औषधम्।

दुर्योधनः - न ममैव । कुलस्यापि मे भवान् प्रभुः ।

द्रोणः -एतत् तवैव युक्तम्। तत् पुत्र,
त्वम् वञ्च्यसे यदि मया न तवात्र दोषस्त्वाम् पीडयामि यदिवास्तु तवैष लाभः। भेदाः परस्परगता हि महाकुलानाम् धर्माधिकारवचनेषु शमीभवन्ति॥
(अन्वयः - त्वम् वञ्च्यसे यदि मया न तवात्र दोषः त्वम्। पीडयामि यदिवास्तु तवैष लाभः। भेदाः परस्परगता हि महाकुलानाम्। धर्माधिकारवचनेषु शमीभवन्ति॥)

दुर्योधनः -तेन हि समर्थयितुमिच्छामि।

द्रोणः -पुत्र! केन समर्थयितुमिच्छसि?

भीष्मेण,कर्णॅन कृपेण, केन किम् सिन्धुराजेन जयद्रधेन।किम् द्रौणिनाहो विदुरेण सार्थम् पित्रा स्वमात्रा वद पुत्र! केन?

दुर्योधनः- नहि मातुलेन।

द्रोणः -किम् शकुनिना। विपन्नम् कार्यम्

दुर्योधनः -मातुल! इतस्तावत्, वयस्य! कर्ण! इतस्तावत्।

द्रोणः -(आत्मगतम्)भवतु एवम् तावत् करिष्ये (प्रकाशम्) वत्स गान्धारराज इतस्तावत्।

शकुनिः- अयमस्मि

द्रोणः- वत्स! क्रोधप्रयम् वयः जीर्णम् क्षन्तव्यम् वटुचापलम्। अस्य रूक्षस्य वयसः परिष्वङ शमीक्रिया॥
अन्वयः - वत्स! क्रोधप्रयम् वयः जीर्णम् वटुचापलम् क्षन्तव्यम् (अस्ति)। अस्य रूक्षस्य वयसः परिष्वङग शमीक्रिया (भवति)

भीष्मः- (आत्मगतम्) एष शिष्यस्य वात्सल्यात् शकुनेः याचते गुरुः।एवम् सान्त्वीकृतोप्येष नैव मुह्यति जिह्यताम्॥

शकुनिः- (आत्मगतम्)अहो शठः खल्वाचार्यः, स्वकार्यलोभात्मा सन्त्वयति।

(सर्वे परिक्रम्य उपविशति)

दुर्योधनः-मातुल! पाण्डवानाम् राज्यार्थम् प्रति को निश्चयः।

शकुनिः- न दातव्यमिति मे निश्चयः।

दुर्योधनः-दातव्यमिति वक्तुमर्हति मातुलः।

शकुनिः-यदि दातव्ये राज्ये किमस्माभिःसह मन्त्रयसे। ननु सर्वमेव प्रदीयताम्।

दुर्योधनः-वयस्य! अङगराज! भवानिदानीम् न किन्चिदाह।

कर्णः- इदानीम् किमभिधास्यामि।
रामेणभुक्ताम् परिपालिताम् च सुभ्रातृताम् न प्रतिषेधयामि। क्षमाक्षमत्वे तु भवान् प्रमाणम् सङ्रामकालेषु वयम् सहायाः॥
(अन्वयः -रामेणभुक्ताम् परिपालिताम् च सुभ्रातृताम् न प्रतिषेधयामि। क्षमाक्षमत्वे तु भवान् प्रमाणम् सङ्रामकालेषु वयम् सहायाः॥)

दुर्योधनः-मातुल! बलवत्प्रत्यमित्रोऽनुपजीव्यश्च कश्चित् कुदेशश्चिन्त्यताम्। तत्र वसेयुः पाण्डवाः।
(पदच्छॅदः- ब्लवत् प्रति अमित्रो अनुपजीव्यः च कश्चित् कुदेशः चिन्त्र्यताम्)

शकुनिः-हन्त भो ।शून्यमित्यभिधास्यामि कः पार्थात् बलवत्तरः । ऊषरेष्वपि सस्य स्यात् यत्र राजा युधिष्ठिरः ॥

दुर्योधनः-अथेदानीम्।

गुरुकरतलमद्ध्ये तोयमावर्जितम् मे श्रुतमिह कुलवृद्ध्यैर्यत् प्रमाणम् पृथिव्याम्।
तदिदमविनयो व वञ्चना वा यथा वा वदतु नृप! जलम् तत् सत्यमिच्छामि कर्तुम्॥

शकुनिः-अमृतवचनात् मोचयितव्यो भवान् ननु।

दुर्योधनः-अथ किम्।

शकुनिः-तेन हि इतस्तावत् (उपसृत्य) भो आचार्य! इहात्रभावान् कुरुराजो भवन्तम् विज्ञापयति।

द्रोणः-वत्स! गान्धारराज अभिधीयताम्।

शकुनिः-यदि पन्चरात्रेण पाण्डवानाम् प्रवृत्तिरुपनेतव्या, राज्यस्यार्थम् प्रदास्यति किल। समानयतु भवानिदानीम्।

द्रोणः-मा तावद् भो।
ये कर्तुकामैः च्छलनम् भवत्भिः सम्वत्सरैर्द्वादशभिर्न दृष्टाः। ते पन्चरात्रेण मयोपनेया वरम् ह्यदत्तम् विशदाक्षरेण॥
अन्वयः- च्छलनम् कर्तुकामैः भवत्भिः द्वादशभिः सम्वत्सरैः ये न दृष्टाः ते पन्चरात्रेण मया उपनेया। वरम् हि विशदाक्षरेण अदत्तम्॥

भीष्मः-पौत्र! दुर्योधन! अच्छलो धर्म। वयमपि तावदस्मिन्नर्थे प्रीताः स्म। पश्य पौत्र,

वर्षेण वा वर्षशतेन तेषाम् त्वम् पाण्डवानाम् कुरु सम्विभागम्। तस्मात् प्रतिज्ञाम् कुरु वीर! सत्याम् सत्या प्रतिज्ञा हि सदा कुरूणाम् ॥

दुर्योधनः-एष एव मे निश्चयः ।

द्रोणः- (आत्मगतम्) अद्य मे कार्यलोभेन हनूमत्वम् गता स्पृहा। लङ्घयित्वार्णवम् येन नष्टा सीता निवेदिता॥

अद्य मे स्पृहा कार्यलोभेन हनूमत्वम् गता ।येन अर्णवम् लङ्घयित्वा नष्टा सीता निवेदिता

तत् कुतोऽनु खलु पाण्डवानाम् प्रवृत्तिरुपनेतव्या।

(प्रविश्य)

भटः- जयतु महाराज। विराटनगरात् दूतः प्राप्तः।

सर्वे:- शीघ्रम् प्रवेश्यताम्।

भटः -यदाज्ञापयथ। (निष्क्रान्तः)

(प्रविश्य)

दूतः- जयतु महाराजः

सर्वे:-किमागतो विराटेश्वरः

दूतः- विषादेनावृतो नोपगच्छति

सर्वे:-कस्तस्य विषादः

दूतः- श्रोतुमर्हति महाराजः।यत् तत्सम्बन्धि सन्निकृष्टम् कीचकानाम् भ्रातृशतम्,
रात्रौ च्छन्नेन केनापि बाहुभ्यामेव हिम्सितम् दृश्यतेहि शरीराणाम् अशस्त्रजनितो वधः॥
यत् तत्सम्बन्धि सन्निकृष्टम् कीचकानाम् भ्रातृशतम्,रात्रौ च्छन्नेन केनापि बाहुभ्याम् एव हिम्सितम्। शरीराणाम् अशस्त्रजनितो वधः दृश्यतेहि॥

सर्वे:-कथम् अशस्त्रजनितो वध इति।

भीष्मः- कथम् अशस्त्रेणेति।(अपवार्य) भो आचार्य! अभ्युपगम्यताम् पञ्चरात्रम्।

द्रोणः- (अपवार्य) किमर्थम्।

भीष्मः-भीमसेनस्य लीलैषा सुव्यक्तम् बाहुशालिनः।योऽस्मिन् भ्रातृशते रोषः स तस्मिन् फलितः शते॥
एषा बाहुशालिनः भीमसेनस्य लीला- सुव्यक्तम् ।योऽस्मिन् भ्रातृशते रोषः स तस्मिन् फलितः शते।

द्रोणः- कथम् भवान् जाजाति।

भीष्मः-कथम् पण्डित! कूलेषु भ्रान्तानाम् बालचापलम्।नाभिजानन्ति वत्सानाम् शृङगस्थानानि गोवृषा।
कूलेषु भ्रान्तानाम् बालचापलम्।नाभिजानन्ति वत्सानाम् शृङगस्थानानि गोवृषा

द्रोणः-गोवृष इति । हन्त सिद्धम् कार्यम्। (प्रकाशम्) पुत्र दुर्यॉधन अस्तु पन्चरात्रम्।

दुर्योधनः-अथ किम् अस्तु पन्चरात्रम्

द्रोणः-भो भो यज्ञमनुभवितुमागताः राजानः! श्रुण्वन्तु श्रुण्वन्तु भवन्तः इह अत्रभवान् कुरुराजो दुर्यॉधनः, न न न मातुलसहितः यदि पाण्डवानाम् प्रवृत्तिरुपनेतव्या राज्यस्यार्थम् प्रदास्यति किल। ननु पुत्र!

दुर्योधनः-अथ किम्।

द्रोणः- एतत् द्विस्त्री सम्प्रधार्यताम्। काले ज्ञास्यामि।

द्रोणः-ननु गाङ्गेयः! ।

भीष्मः -(आत्मगतम्)

आचार्यस्य यदा हर्षः धैर्यमुत्क्रम्य सूचितः शन्के दुर्योधनेनैष वञ्च्यमानेन वञ्चितः॥

(अन्वयः- आचार्यस्य यदा हर्षः धैर्यमुत्क्रम्य सूचितः शन्के दुर्योधनेनैष वञ्च्यमानेन वञ्चितः)॥

(प्रकाशम्) पौत्र दुर्योधन! अस्ति मम विराटेनप्रकाशम् वैरम्। अथ भवतो यज्ञमनुभवितुमनागत इति। तस्मात् क्रियताम् तस्य गोग्रहणम्।

द्रोणः-भो गाङ्गेय! प्रियशिष्य खलु मे तत्र भवान् विराटेश्वरः । किमर्थम् तस्य गोग्रहणम्।

भीष्मः- (अपवार्य) ब्राह्मणार्जवबुद्धे!

धर्षिता रथशब्देन रोषमेष्यन्ति पाण्डवाः अस्ति तेषाम् कृतज्ञत्वम् इष्टम् गोग्रहणे स्थितम्॥
धर्षिता रथशब्देन रोषमेष्यन्ति पाण्डवाः अस्ति तेषाम् कृतज्ञत्वम् इष्टम् गोग्रहणे स्थितम्॥

(प्रविश्य)

भटः- जयतु महाराजः ।सज्जा खलु रथाः नगरप्रवेशाभिमुखाय ।

दुर्योधनः- एभिरेव रथैश्शीध्रम् क्रियताम् तस्य गोग्रहः।गदा यज्ञप्रशान्ता च पुनर्मे करमेष्यति।
एभिः रथैः एवशीघ्रम् तस्य गोग्रहः क्रियताम्। यज्ञप्रशान्ता मे गदा च पुनः करमेष्यति।

द्रोणः-तस्मान् मे रथमानयन्तु पुरुषाः ।

शकुनी- हस्ती ममानीयताम्।

कर्णः- भारार्थम् भृशमुद्यतैरिह हयैर्युक्तो रथ स्थाप्यताम्।

भीष्मः -बुद्धिर्मे त्वरते विराटनगरम् गन्तुम् धनुस्स्वर्यताम्।

सर्वे- मुक्त्वा चापमिहैव तिष्ठतु भवान् आज्ञाविधेया वयम्॥

द्रोणः-पुत्र दुर्योधन! आवाम् तव युद्दे पराक्रम द्रष्टुम् इच्छावः।

दुर्योधनः यदभिरुचितम् भवते।

द्रोणः वत्स! गान्धारराज!अस्मिन् गोग्रहणे तव खलु प्रथमरथः।

शकुनिः- बाढं प्रथम कल्प।

(निष्क्रान्ताः सर्वे)

प्रथमोऽङ्कः

[सम्पाद्यताम्]