पन्चरात्रम् -स्थापना

विकिपुस्तकानि तः
Jump to navigation Jump to search

महाकविश्रीभासप्रणीतम्

पन्चरात्रम्[सम्पाद्यताम्]

नान्द्यन्ते ततः प्रविशति सूत्रधारः।

सूत्रधारः-

श्लॉकम्- द्रोणपृथिव्यर्जुनभीमदूतो य्ः कर्णधारः शकुनीश्वरस्य। दुर्यॉधनो भीष्मयुधिष्ठिरः सः पायात् विराडुत्तरगोऽभिमन्युः ॥१
अन्वयः -पृथिव्यर्जुनभीमदूतो य्ः शकुनीश्वरस्य कर्णधारः दुर्यॉधनो भीष्मयुधिष्ठिरः विराट् उत्तरगः अभिमन्युः सःद्रोणः पायात्॥
(परिक्रम्य)
एवम् आर्यमिश्रान् विज़ापयामि। अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते। अन्कः! पश्यामि।
(नेपथ्ये)अहो कुरुराजस्य यज्ञसमृद्धिः
सूत्रधारः-भवतु विज्ञातम्।
सर्वैरन्तपुरैः सार्थम् प्रीत्या प्राप्तेषु राजसु।यज्ञो दुर्योधनस्यैष कुरुराजस्य वर्तते॥२
अन्वयःसर्वैः अन्तपुरैः सार्थम् प्रीत्या प्राप्तेषु राजसु कुरुराजस्य दुर्योधनस्य एष यज्ञः वर्तते॥२
(निष्क्रान्तः)
स्थापना (ततः प्रविशति ब्राह्मनाः त्रयः)
सर्वॅ‌- अहो कुरुराजस्य यज्ञसमृद्धिः
प्रथमः- इह हि।
द्विजोच्छिष्टैरन्नैःप्रकुसुमितकाशा इव दिशो हविर्धूमैः सर्वे हृतकुसुमगन्धास्तरुगणाः।३
मृगैस्तुल्या व्यघ्राः वधनिभृतसिम्हाश्चगिरयो नृपे दीक्षाम् प्राप्ते जगदपि समम् दीक्षितमिव॥४

द्वितीयः- सम्यग् भवानाह।
तृप्तोग्निर्हविषामरोत्तममुखम् तृप्ता द्विजेन्द्राः धनैः तृप्ताः पक्षिगणाश्च गोगणयुताः ते ते नराः सर्वशः ।
हृष्टम् सम्प्रति सर्वतो जगदिदम् गर्जन्नृपे सत्गुणैः एवम् लोकमुदारुरोह सकलम् देवालयम् तद् गुणैः॥५
अन्वयः-अमरोत्तममुखम् अग्निः हविषा तृप्तः। द्विजेन्द्राः धनैः।तृप्ता। गोगणयुताः पक्षिगणाः ते ते नराः च सर्वशः तृप्ताः । एवम् सम्प्रति नृपे सत्गुणैः गर्जत् जगदिदम् हृष्टम् । सकलम् लोकम् सर्वतो देवालयम् तद् गुणैः उदारुरोह॥

तृतीयः- इमेऽत्रभवन्तो दिव्जादयः श्लॉकः- राज्ञाम् वेष्टनपट्टधृष्टचरणाः श्लाख्यप्रभूतश्रवाः वार्धक्येऽप्यभिवर्तमाननियमाः स्वाध्यायशूरैर्मुखैः।
विप्राः यान्ति वयःप्रकर्षशिथिलाः यष्टित्रिपादक्रमाः शिष्यस्कन्धनिवेशिताञ्चितकरा जीर्णा गजेन्द्राः इव॥६ अन्वयम्- राज्ञाम् वेष्टनपत्तधृष्टचरणाः श्लाख्यप्रभूतश्रवाः वार्धक्ये अपि स्वाध्यायशूरैर्मुखैः अभिवर्तमाननियमाः वयःप्रकर्षशिथिलाः यष्टित्रिपादक्रमाः शिष्यस्कन्धनिवेशिताञ्चितकरा विप्राः जीर्णा गजेन्द्राः इव यान्ति॥
सर्वे: भो भो माणवकाः! भो भो माणवकाः! अनवसितेऽवभृतस्नाने न खलु तावदग्निरुत्सृष्टव्यो भवत्भिः।

प्रथमः- हा धिक्, दर्शितमेव तावत् वटुचापलम्।
एषा भो! दीप्तयूपा कनकमयभुजेवाभाति वसुधा चैत्याग्निर्लौकिकाग्निम् द्विज इव वृषळम् पार्श्वे न सहते।
नात्यर्थम् प्लुष्टपृष्ठा हरितकुशतया वेदी परिवृता प्राग्वम्शम् चैष धूमो गज इव नळिनीम् फुल्लम् प्रविशति॥७
अन्वयम्:- भो!एषा दीप्तयूपा वसुधा कनकमयभुजा इव आभाति। चैत्याग्निः लौकिकाग्निम् द्विज इव वृषळम् पार्श्वे न सहते। परिवृता हरितकुशतया वेदी नात्यर्थम् प्लुष्टपृष्ठा। एष धूमः च फुल्लम् नळिनीम् गज इव प्राग्वम्शम् प्रविशति॥

द्वितीयः-एवमेतत्
अग्निरग्निभयादेव भीतैर्निर्वास्यते द्विजैः। कुले व्युत्क्रान्त चारित्रे ज्ञातिर्ज्ञातिभयादिव॥८
(अन्वयः- अग्निः अग्निभयात् एव् भीतैः द्विजैः व्युत्क्रान्तचारित्रे कुले ज्ञातिः ज्ञातिभयात् इव निर्वास्यते॥)
तृतीय:- इदमपरम् दृश्येताम् भवन्तौ
शकटीच घृतापूर्णा सिच्यमानापि वारिणा। नारीवोपरतापत्या बालस्नेहेन दह्यते
(अन्वयः- घृतापूर्णा शकटीच वारिणा सिच्यमानापि उपरतापत्या नारी बालस्नेहेन इव दह्यते।)

प्रथमः- सम्यग् भवानाह,
एताम् चक्रधरस्य धर्मशकटीम् दग्धुम् समभ्युद्यतो दर्भे शुष्यति नीलशाद्वलतया वह्नि शनैर्वामनः।
वातेनाकुलित शिखापरिगतश्चक्रम् क्रमेणागतो नेमीमण्डलमण्डलीकृतवपुः सूर्यायते पावकः॥
(अन्वयः- चक्रधरस्य एताम् धर्मशकटीम् दग्धुम् समभ्युद्यतो पावकः नीलशाद्वलतया दर्भे शनैः वामनः शुष्यति। वह्नि वातेनाकुलित शिखापरिगतःक्रमेण चक्रम् आगतो नेमीमण्डलमण्डलीकृतवपुः सूर्यायते ॥)

द्वितीयः इदमपरम् पशेताम् भवन्तौ,
वल्मीकमूलात् दहनेन भीतास्तत्कोटरै पन्चसमम् भुजङ्गाः।समम् विपन्नस्य नरस्य देहात् विनिसृताः पन्च यथेन्द्रियाणि।
(अन्वयम्- वल्मीकमूलात् दहनेन भीताः तत्कोटरै पन्चसमम् भुजङ्गाः समम् विपन्नस्य नरस्य देहात् पन्च इन्द्रियाणि यथा,विनिसृताः )॥

तृतीयः- इदमपरम् पश्येताम् भवन्तौ।
दह्यमानस्य वृक्षस्य सानिलेन मखाग्निना। कोटरान्तरदेहस्थाः खगाः प्राणाः इवोद्गताः ॥
(अन्वयः- मखाग्निना सानिलेन दह्यमानस्य वृक्षस्य कोटरान्तरदेहस्थाः खगाः प्राणाः इव उद्गताः ॥)

प्रथमः-एवमेतत्,
शुष्केणैकेन वृक्षेण वनम् पुष्पितपादपम्। कुलम् चारित्र्यहीनेन पुरुषेनेव दह्यते॥
(अन्वयः- एकेन शुष्केण वृक्षेण पुष्पितपादपम् वनम्, चारित्र्यहीनेन पुरुषेन कुलम् इव दह्यते॥)

द्वितीयः एते वातोद्धता वम्शाः दह्यमाना मखाग्निना।भाग्यानीव मनुष्याणाम् उन्नमन्ति नमन्ति च॥
(अन्वयः- एते वातोद्धता मखाग्निना दह्यमाना वम्शाः मनुष्याणाम् भाग्यानि इव उन्नमन्ति नमन्ति च॥)

तृतीयः- सम्यग् भवानाह,
लतया सक्तया स्कन्धे शुष्कया वेष्टितस्तरुः। निविष्टो दुष्कुले साधुःस्त्रीदोषेणैव दह्यते॥
(अन्वयः-शुष्कया लतया सक्तया स्कन्धे वेष्टितः तरुः दुष्कुले निविष्टो साधुः स्त्रीदोषेण इव दह्यते॥

प्रथमः -इदमपरम् पश्येताम् भवन्तौ,
वनम् सवृक्षक्षुपगुल्ममेतत् प्रकाममाहारमिवोपभुज्य। कुशानुसारेण हुताशनोसौ नदीमुपस्पृष्टुमिवावतीर्णः॥
(अन्वयः-सवृक्षक्षुपगुल्मम् एतत् वनम् प्रकाममाहारम् इव उपभुज्य कुशानुसारेण असौ हुताशनः उपस्पृष्टुम् इव नदीम् अवतीर्णः॥

द्वितीयः- एष एष,
गतो वृक्षात् वृक्षम् वितत कुशचीरेण दहनः कदळ्या विप्लुष्टम् पतति परिणामादिव फलम्। असौ चाग्रे तालो मधुपटल चक्रेण महता चिरम् मूले दग्धः परशुरिव रुद्रस्य पतति॥
(अन्वयः- विततकुशचीरेण वृक्षात् वृक्षम् गतो दहनः कदळ्या विप्लुष्टम् फलम् परिणामात् इव पतति। अग्रे च असौ तालः महता मधुपटलचक्रेण चिरम् मूले दग्धः रुद्रस्य परशुः इव पतति॥

तृतीयः- हन्त! सत्पुरुषरोष इव प्रशान्तो भगवान् हुताशनः
एतदग्नेर्बलम् नष्टम् इन्धनानम् परिक्षयात्। दानशक्तिरिवार्यस्य विभवानाम् परीक्षयात्॥
(अन्वयः- विभवानाम् परीक्षयात् आर्यस्य दानशक्तिः इव एतत् इन्धनानम् परिक्षयात् अग्नेः बलम् नष्टम्॥)

प्रथमः- स्रुग्भाण्डमरणिम् दर्भानुपभुङ्ते हुताशनः। व्यसनित्वात् नरः क्षीणः परिच्छदमिवात्मनः
(अन्वयः- व्यसनित्वात् नरः क्षीणः,आत्मनः परिच्छदम् इव हुताशनः स्रुग्भाण्डमरणिम् दर्भान् उपभुङ्ते)

द्वितीयः- अवनतविटपो नदीपलाशः पवनवशाच्चलितैकपर्णहस्तः। दवदहनविपन्नजीवितानाम् उदकमिवैषकरोति पादपानाम्॥
(अन्वयः- अवनतविटपो एष नदीपलाशः पवनवशात् चलितैकपर्णहस्तः दवदहनविपन्नजीवितानाम् पादपानाम् उदकम् करोति इव ॥

तृतीयः- तदाहम्यताम्। वयमपि तावदुपश्पूशामः।
उभौ- बाढम्।
(सर्वे उपस्पृश्य)
प्रथमः अये अयमत्रभवता कुरुराजो दुर्योधनः भीष्मद्रॉणपुरस्सरः सर्वराजमण्डलेन अनुगम्यमान्ः इत एव अभिवर्तते। इमे हि,
यज्ञेन भोजयमहिम् जय विक्रमेण रोषम् परित्यज भव स्वजने दयावान्।इत्त्येवमागतकथामधुरम् ब्रुवन्तः कुर्वन्ति पाण्डवपरिग्रहमेव पौराः॥
(अन्वयः-यज्ञेन महिम् भोजय। विक्रमेण जय। रोषम् परित्यज। स्वजने दयावान् भव। इत्त्येवम् आगतकथामधुरम् ब्रुवन्तः कुर्वन्ति पाण्डवपरिग्रहम् एव पौराः॥
तदागम्यताम् वयमपि तावत् कुरुराजम् सम्भावयामः
उभौ - बाठम्
सर्वे - जयतु भवान् जयतु
( निष्क्रान्ताः सर्वॅ)

विष्कम्भकः[सम्पाद्यताम्]

"https://sa.wikibooks.org/w/index.php?title=पन्चरात्रम्_-स्थापना&oldid=6798" इत्यस्माद् प्रतिप्राप्तम्