सामग्री पर जाएँ

परमाणुजगदकारणत्वाधिकरणम्

विकिपुस्तकानि तः

उभयथापि न कर्मातस्तदभाव:।२.२.१२
वे.- परमाणुकारणवादे परमाणूनां संयोगात् सर्ग: जायते।संयोगनाशाच्च प्रलयो जायते।परमाणूनां संयोगार्थं कर्म आवश्यकम्।संयोगनाशाय विभाग आवश्यक:।विभागोऽपि कर्मज: एव।एवमुभयथा परमाणुषु कर्म आवश्यकम्।तच्च न सम्भवतीत्यत: परमाणो: जगत्कारणत्वाभाव:।
पू.- परमाणूनां संयोगार्थम् आवश्यकं कर्म न सम्भवतीत्यत: परमाणो: जगत्कारणत्वाभाव:।
पू.- परमाणूनां संयोगार्थमावश्यकं कर्म न सम्भवतीति अत्र किं प्रमाणम्?
वे. – परमाणुषु कर्म भवतीति मन्यामहे चेत्तस्य कारणं किमपि आवश्यकम्।यतो हि कर्म कार्यरूपं भवति।तत् कारणमेव सम्भवति।
पू.- कथं न सम्भवति? यथा व्यवहारे प्रयत्न: कर्मण: कारणं भवति, तथैव अत्रापि भवतु।
वे.- किन्निष्ठ: प्रयत्न: कर्मण: कारणम्?
पू.- आत्मगुण: प्रयत्न: अत: आत्मनिष्ठ: एव स:।
वे.- न शक्यते।शरीरप्रतिष्ठे मनसि आत्मन: संयोगे सति आत्मगुण: प्रयत्नो जायते इति भवद्भि: प्रतिपाद्यते। सर्गात्पूर्वं तर्हि शरीरस्याभावात् प्रयत्नो न सम्भवति।
पू.- तर्हि आद्यकर्मण: निमित्तम् ‘अदृष्टम्’ इति मन्यामहे।
वे.- निमित्तमिदं किन्निष्ठम्?
पू.- परमाणुसमवेतम्।
वे.- अचेतनं चेतनानधिष्ठितं सत् न स्वयं प्रवर्तते, न वा अन्यं प्रवर्तयते इति पूर्वमस्माभि: साधितम्।
पू.- तर्हि अदृष्टाख्यं निमित्तम् आत्मसमवायीति वदाम:।
वे.- तथा सति आत्मसमवेतमदृष्टं परमाणुषु क्रियाया: निमित्तं भवितुं नार्हति, असम्बन्धात्।
पू.- अदृष्टवता पुरुषेण सह परमाणूनां सम्बनध: अस्ति।
वे.- तथा सति सम्बन्धसातत्यात् प्रवृत्तिसातत्यं स्यात्, नियामककारणान्तराभावात्।अत: नियतस्य कर्मनिमित्तस्य अभावात् परमाणुषु आदिकर्म नोपपद्यते।कर्माभावात् तज्जन्य: संयोगो न स्यात्।संयोगाभावात् त्र्यणुकादि कार्यजातं न स्यात्। अत: उभयथा (आदिकर्मण: कारणं स्वीक्रियते चेत् , न स्वीक्रियते चेत्) परमाणुभ्यो जगतो रचनाया अभाव:।

समवायाभ्युपगमाच्च साम्यादनवस्थिते:।२.२.१३
वे.- समवायाभ्युपगमाच्च साम्यादनवस्थिते: तदभाव: इति सम्बध्यते।
वैशेषिकमते द्वाभ्याम् अणुभ्यां द्व्यणुकं जायते।कार्यकारणयो: समवाय: इति नियमात् द्व्यणुकम् अण्वो: समवैति।यदि अणुभ्याम् अत्यन्तभिन्नं द्व्यणुकमणुभ्यां समवायसम्बन्धेन सम्बध्यते, तर्हि स: उभयो: समवाय: सम्बन्ध: अणुभ्यां केन सम्बन्धेन सम्बध्यते? इति मन्तव्यम्।तत: पुनरयं समवाय: समवायिना सह अपरेण समवायेन सम्बद्ध्यते, अत्यन्तभेदरूपसाम्यात्, इति मन्तव्यम्।एवमनवस्थिति: प्राप्ता।
पू.- समवाय: स्वयं सम्बन्धरूप:।अत: सम्बन्धान्तरं नापेक्षते।
वे.- भवत्पक्षे संयोगोऽपि सम्बन्ध: एव।स: द्रव्ये समवायेन तिष्ठति इति भवद्भि: अभ्युपपद्यते।अत: सम्बन्धत्वात् सम्बन्धान्तरानपेक्षत्वं न सिद्ध्यति।
पू.- संयोगो गुण:।अत: स: सम्बन्धान्तरमपेक्षते।समवायो न गुण:, स: पृथगेव पदार्थ: अत: तस्य सम्बन्धान्तरापेक्षा नास्ति।
वे.- नैतदुचितम्।
१ अपेक्षाकारणस्य तुल्यत्वात् संयोगेऽपि समवायोऽपि आश्रयिद्रव्याद् भिन्नश्चेद् अपेक्षताम् एव सम्बन्धम्।
२ गुणोऽस्तीति संयोग: सम्बन्धान्तरमपेक्षत इत्यपि वचनम् अतन्त्रम्।यतो हि कर्मापि गुणभिन्नं सत् सम्बन्धम् अपेक्षते आश्रयिणा सह अत: अनवस्थितिदोष: सुस्थ:।तेन समवायासिद्धि: ततश्च द्वाभ्याम् अणुभ्यां द्व्यणुकं नैव उत्पद्येत।तस्मादनुपपन्न: परमाणुकारणवाद:।

नित्यमेव च भावात्।२.२.१४
वे.- परमाणव:-
१ प्रवृत्तिस्वभावा: वा?
२ निवृत्तिस्वभावा: वा?
३ उभयस्वभावा: वा?
४ उभयस्वभावा: वा?
सर्वेऽपि पक्षा: अनुपपन्ना:।
१ यदि परमाणव: प्रवृत्तिस्वभावा:, तर्हि नित्यमेव प्रवृत्तेर्भाव: स्यात्।
२ यदि परमाणव: निवृत्तिस्वभावा:, तर्हि नित्यमेव सर्गाभावप्रसङ्ग:।
३ उभयस्वभावत्वं चासमञ्जसम्।
४ यदि अनुभयस्वभावा: तर्हि निमित्तवशात् प्रवृत्ति: मन्तव्या।तदर्थम् अदृष्टाख्यं किमपि निमित्तमङ्गीकृतं चेत्, तस्य निमित्तस्य नित्यसन्निधानात् नित्यमेव प्रवृत्ति: स्यात्।तादृशं किमपि निमित्तं नाङ्गीकृतं चेत् नित्यमेव निवृत्तिप्रसङ्ग:।अत: अनुपपन्न: परमाणुकारणवाद:।

रूपादिमत्वाच्च विपर्ययो दर्शनात्।२.२.१५
वे.- परमाणुकारणवादे रूपादिमन्त: परमाणव: नित्या: इत्यभ्युपगम्यते।परं रूपादिमत्त्वात् अभिप्रेतस्य नित्यत्वस्य विपर्यय: एव सिद्ध्यति।यतो हि लोके तथा दृश्यते।यद् यद् रूपादिमत्, तत् तत् सकारणम्, तन्तुवत्।अत: रूपादिमन्त: परमाणव: अपि सकारणा:।
‘सदकारणवन्नित्यम्’ (वै. सू. १.१) इति वैशेषिकमतेन यद् अकारणं तद् नित्यम्।परमाणवस्तु अकारणा:, अत: अनित्या:।अत: अनुपपन्न: परमाणुकारणवाद:।

उभयथा च दोषात्।२.२.१६
वे.- पृथिव्यां गुणचतुष्टयं स्थूलत्वं च।
अप्सु गुणत्रितयं सूक्ष्मत्वं च।
तेजसि गुणद्वयं सूक्ष्मतरत्वं च।
वायौ स्पर्शगुण: सूक्ष्मतमत्वं च।
एवं यदि भूतानि उपचितापचितगुणानि सन्ति, तर्हि तथा तथा तेषां परमाणवोऽ पि उपचितापचितगुण: सन्ति वा: न वा?
पू.-सन्ति
वे.- तर्हि गुणोपचये मूर्त्युपचय:।मूर्त्युपचये परमाणुत्वहानिप्रसङ्ग:।
पू.- मूर्त्युपचयं विना गुणोपचय: स्यात्।
वे.- नैतच्छक्यम्।यत्र गुणोपचय: तत्र मूर्त्यूपचय:, यथा जलपृथिव्यो:।
पू.- तर्हि गुणानामुपचयापचयौ न भवत: इति अभ्युपगच्छाम:।
वे.- गुणानामपचयापचयौ न भवत: चेत् सर्वे परमाणव: एकैकगुणा: अथवा सर्वे चतुर्गुणा:? पू.- सर्वे परमाणव: एकैकगुणा:
वे.- तथा सति तेजसि स्पर्शोपलब्धि: न स्यात्।अप्सु रूपस्पर्शयो:
पू.- सर्वे परमाणव: चतुर्गुणा:।
वे.- तथा सति अप्सु गन्धोपलब्धि: स्यात्, तेजसि गन्धरसयो: उपलब्धि: स्यात् , वायौ गन्धरूपरसाणां च उपलब्धि: स्यात्।न चैवं दृश्यते।अत: अनुपपन्न: परमाणुकारणवाद:।

अपरिग्रहाच्चात्यन्तमनपेक्षा।२.२.१७
वे.- परमाणुकारणवाद: मन्वादिशिष्टै: अपरिगृहीत:।एवमपरिग्रहादत्यन्तमपेक्षाभाव: तस्य।


ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् द्वितीयाध्याये द्वितीय: पाद: