परायत्ताधिकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

परात्तु तच्छ्रुते:।२.३.४१
पू.- अविद्यावस्थायाम् उपाधिनिमित्तं जीवस्य कर्तृत्वम् उक्तम्।एतत्कर्तृत्वम् ईश्वरापेक्षं वा स्वतन्त्रं वेति विचारणे एतत् कर्तृत्वम् ईश्वरानपेक्षम् इति ब्रूम:। अपेक्षाप्रयोजनाभावात्। रागद्वेषादियुक्त: जीव: सामग्रीसम्पन्न: सन् कर्ता भवितुम् अर्हति।न तत्र ईश्वरस्य अपेक्षा विद्यते।लोकेऽपि कृष्यादिकार्येषु जीव एव कर्ता अनुभूयते।क्लेशात्मकेन कर्तृत्वेन ईश्वर: यदि जन्तून् संयोजयति, तर्हि ईश्वरस्य नैर्घृण्यदोष: आपद्यते।एषां कर्मणां विषमफलं विदधातीति वैषम्यदोष: आपद्यते।
वे.- सापेक्षत्वाद् ईश्वरस्य वैषम्य-नैर्घृण्यदोषौ न सम्भवत: इति पूर्वमुक्तम्।
पू.- सत्यमुक्तमिति।तथापि -
ईश्वऱ: फलदानाय जीवस्य धर्माधर्मौ अपेक्षते, जीवस्य धर्माधर्मौ जीवस्य कर्तृत्वमपेक्षते जीवस्य कर्तृत्वं पुन: ईश्वरम् अपेक्षते इति सापेक्षतावचनं व्यर्थम्।
पुन: यदि जीवस्य कर्तृत्वम् ईश्वरापेक्षं मन्यामहे, तर्हि अकृताभ्यागम: दोष: प्रसक्त:।
अत: जीवस्य स्वत: एव कर्तृत्वं, न ईश्वरापेक्षम्।
वे.- तु-शब्द: पूर्वपक्षव्यावृत्त्यर्थम्।परस्माद् आत्मन: कर्तृत्वं तच्छ्रुते:।
पू. – का श्रुति:?
वे.-
१ एष ह्येव साधु कर्म कारयति, तं यमेभ्य: लोकेभ्य: उन्निनीषते।(कौषी. ३.८)
२ य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति।
अत: यद्यपि दोषप्रयुक्त: सामग्रीसम्पन्न: तथापि श्रुतिवचनात् तस्य ईश्वरापेक्षत्वम् अभ्युपगम्यते।यद्यपि कृष्यादिकार्येषु नेश्वरकारणत्वं प्रसिद्धं तथापि श्रुतिवचनादभ्युपगम्यते।

कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैय्यर्थ्यादिभ्य:।२.३.४२
पू.- ईश्वर: कर्ता अभ्युपगम्यते चेत्, स: वैषम्यनैर्घृण्यदोषग्रस्त: स्यात्।जीवस्य च अकृताभ्यागम: स्यात्।
वे.- तुशब्द: प्रस्तुतदोषव्यावर्तनार्थ:।जीवस्य य: कृत: प्रयत्न:, स: कृतप्रयत्न:।स च धर्माधर्मस्वरूप:।तदपेक्ष: एव ईश्वर: कारयिता।तेन एते दोषा: न सम्भवन्ति।जीवानां धर्माधर्मौ अपेक्ष्य एव ईश्वर: फलं वितरति।तेन तस्य वैषम्यनैर्घृण्यदोषौ न भवत:।यथा नानाविधानां बीजानां प्ररोहणाय निमित्तं भवति पर्जन्य:, तथैव नानाविधानां जीवानां कर्मफलभोगाय निमित्तं भवतीश्वर:।
पू.- यदि ईश्वर: कारयिता, तर्हि जीवस्य कृतप्रयत्नापेक्षत्वं नोपपद्यते।
वे.- नायं दोष:।यद्यपि जीवस्य कर्तृत्वं परायत्तं तथापि करोति एव जीव:।कुर्वन्तं तं कारयति ईश्वर:।
पू.- ईश्वर: जीवस्य कर्मानुसारं फलं विदधाति (कृतप्रयत्नापेक्ष:) इत्यत्र किं प्रमाणम्?
वे.- विहितप्रतिषिद्धावैय्यर्थ्यादिभ्य:।श्रुतौ ‘स्वर्गकामो यजेत’ इति किञ्चित् कर्म विहितम्। ‘ब्राह्मणो न हन्तव्य:’ इति किञ्चित्कर्म प्रतिषिद्धम्।यदि ईश्वर: कृतप्रयत्नापेक्ष: न स्यात्. तर्हि एतादृशां विधिनिषेधशास्त्राणां वैय्यर्थ्यम् आपद्येत।ईश्वर: जीवकृतप्रयत्नमपेक्षते इति अङ्गीकृतं चेदेव एतानि विहितानि प्रतिषिद्धानि च कर्माणि अव्यर्थानि भवन्ति।आदिग्रहणेन वेदाप्रामाण्यप्रसङ्ग:, लौकिकपुरुषकारवैय्यर्थ्यप्रसङ्ग:, देशकालनिमित्तवैय्यर्थ्यप्रसङ्ग: इत्येते दोषा: ग्राह्या:।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्  द्वितीयाध्याये तृतीय: पाद:
"https://sa.wikibooks.org/w/index.php?title=परायत्ताधिकरणम्&oldid=5640" इत्यस्माद् प्रतिप्राप्तम्